OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, November 7, 2025

 अन्ताराष्ट्रबहिराकाशनिलयस्य प्रवर्तनानि समापयितुं नासया उद्यम्यते। 

अन्ताराष्ट्रियबहिराकाशनिलयः।

  दशकद्वयाधिकवर्षाणि यावत् मानवराशेः अधिवासगृहरूपेण प्रवर्तमानस्य अन्ताराष्ट्रबहिराकाशनिलयस्य [International Space Station] प्रवर्तनानि समापयितुं नासा संस्था तथा अन्ताराष्ट्रियभागभागिनः च निर्णयमकुर्वन्। २०३० तमे वर्षे शान्तसमुद्रस्थे जनवासरहिते 'पोयन्ट् नेमो' - Point Nemo - इत्यत्र नियन्त्रितरीत्या निपातयितुमेव उद्दिश्यते। 

  Space X deorbit vehicle इति वाहनमुपयुज्य भवति ISS इत्यस्य बहिरानयनम्। जनानां किमपि दोषकारणमभूत्वा पूर्णरीत्या नाशनमेव लक्ष्यम्। १९९८ तमे वर्षे निर्मितम् अन्ताराष्ट्रबहिराकाशनिलयः २००० तमवर्षतः मनुष्यस्य वासस्थानमस्ति।

Thursday, November 6, 2025

 बिहारविधानसभानिर्वाचनम्।

प्रथमचरणम् अद्य। 

पट्ना> बिहारराज्यस्य विधानसभां प्रति निर्वाचनस्य प्रथमचरणम् अद्य गुरुवासरे आरभ्यते। १८ जनपदेषु १२१ मण्डलेषु अस्ति अद्यतनं निर्वाचनम्। 

  ३.७५ कोटि मतदानिनः प्रथमचरणस्य निर्वाचने मतदानं करिष्यन्ति। १३१४ स्थानाशिनः प्रथमचरणे स्पर्धन्ते।

 वीथीश्वानकप्रकरणे श्वः सर्वोच्चन्यायालयस्य आदेशो भविष्यति। 


नवदिल्ली> वीथिषु अटनं कुर्वतां अनाथशुनकानां विषये सर्वोच्चन्यायालयः नवम्बर मासस्य सप्तमे दिने अन्तिमादेशं विधास्यति। सर्वकारान् अभिव्याप्य इतरसंस्थाभिश्च अयं विषयः कथं व्यवहर्तव्यः इति मार्गनिर्देशाः आदेशे भविष्यन्ति। न्यायाधीशस्य विक्रमनाथस्य अध्यक्षतायां वर्तमानेन पीठेनैव आदेशः करिष्यते। 

  दिल्लीनगरस्थानां वीथीशुनकानां प्रकरणे पत्रिकावृत्तान्तस्य आधारे पञ्जीकृतं प्रकरणमस्ति  सर्वोच्चन्यायालयस्य परिगणनायाम्। आगस्ट् ११ तमे दिनाङ्के आदिष्टं यत् नगरस्थान् वीथीशुनकान् गृहीत्वा ते अभयकेन्द्रेषु उषितव्याः। अस्मिन्नादेशे प्रतिषेधे जाते प्रकरणं विक्रमनाथस्य पीठं प्रति परिवर्तितम्। तस्य सुव्यक्तः आदेश एव श्वः प्रतीक्षते।

 नवसु राज्येषु मतदायकावलीपरिष्करणम् आरब्धम्। 

नवदिल्ली> भारते नवसु राज्येषु त्रिषु केन्द्रप्रशासनप्रदेशेषु च समग्रं मतदायकावलीपरिष्करणम् [एस् ऐ आर्] मङ्गलवासरे समारब्धम्। मतदानकेन्द्रस्तरीयाधिकारिणः [Booth Level Officers - BLO] प्रतिगृहं गत्वा परिगणनापत्रं  [enumeration form]  पूरयिष्यन्ति। परिगणनाप्रक्रिया डिसम्बर् चतुर्थदिनाङ्कपर्यन्तम् अनुवर्तिष्यते। संक्षिप्तमतदायकावलिः नवमदिनाङ्के प्रकाशयिष्यते।

  केरलं, तमिलनाड्, उत्तरप्रदेशः, राजस्थानं, मध्यप्रदेशः, गुजरात्, छत्तीसगढ, गोवा इत्येतेषु राज्येषु पुतुच्चेरी, आन्टमान-निकोबारद्वीपसमूहः, लक्षद्वीपः इत्येषु केन्द्रशासनप्रदेशेषु च एस् ऐ आर् प्रचलिष्यति।

Wednesday, November 5, 2025

 अफ्गानिस्थाने भूकम्पः - २० मरणानि। 

काबूल्> अफ्गानिस्थाने खुलूमनगरस्य २२ २२ कि मी पश्चिमप्रदेशे सोमवासरे प्रत्युषसि दुरापन्ने भूकम्पे २० जनाः मृत्युमुपगताः। ५०० अधिके जनाः आहताः। मृत्युसंख्या इतोSप्यधिका भविष्यतीति सूच्यते। 

  भूकम्पमापिन्यां ६. ३ अङ्कितस्य भूकम्पस्य प्रभवः २८ कि मी मितम् अधः इति यू एस् 'जियोलजिकल् सर्वे' इत्यनेन सूचितम्। बल्ख् समन्खन् प्रान्तेषु अस्ति अधिकः विनाशः। ८००तः अधिकानि भवनानि विशीर्णानि। राजनगरे काबूले अपि भूकम्पस्य प्रकम्पनं जातम्।

 भारतीयविद्यार्थिनाम् अपेक्षाः कानडया निरस्ताः। 

टोरन्टो> कानडाराष्ट्रे बिरुदाध्ययनाय ऐषमवर्षे आगस्टमासे भारतात् समर्पितासु अपेक्षासु ७४% अधिकृतैः निरस्तम्। २०२३ तमे वर्षे केवलं ३३% अपेक्षाः एव निरस्ताः इति वार्ताप्रतिनिधिः रोयिटेर्स् इत्यनेन वृत्तान्तीकृतम्। विदेशछात्राणां संख्यां न्यूनीकर्तुं कानडायाः उद्यमः अस्ति।

Tuesday, November 4, 2025

 फिडे चतुरङ्गवीरता। 

एस् एल् नारायणः द्वितीयचरणे।

पनजी> फिडे चतुरङ्गविश्ववीरतास्पर्धायां केरलीयः ग्रान्ड् मास्टर् पदीयः एस् एल् नारायणः द्वितीयचक्रं प्राविशत्। गतदिने पेरु राष्ट्रस्य स्टीवन् रोजासं पराजितवान्।

 बिहारनिर्वाचनं शान्तिपूर्णं भविष्यतीति ग्यानेष् कुमारः। 

कान्पुरं [यू पि]> बिहारराज्ये विधानसभानिर्वाचनं शान्तिसंयुतं सुतार्यं च भविष्यतीति मुख्यनिर्वाचनायोगः ग्यानेष् कुमारः निगदितवान्। 

  निर्वाचनाभ्यन्तरे उद्भाव्यमानानि अक्रमाणि येनकेनापि कारणेन सहिष्णुतां नार्हन्ति। सर्वेषां मतदानिनां लोकतन्त्रस्य उत्सवमामानयितुम् अवसरो लप्स्यते - मुख्यायोगेन प्रोक्तम्। नवम्बर् षष्ठे , ११तमे दिनाङ्के च चरणद्वयमालम्ब्य एव राज्ये निर्वाचनम्।

 राजस्थाने वाहनदुर्घटना - १५ मरणानि। 

जोधपुरं> राजस्थाने फलोडि इत्यत्र तीर्थाटकानां यात्रायानं  स्थगितं ट्रक् यानम् प्रति संघट्य १५ जनाः मृताः। त्रयः आहताः। रविवासरे सायं भारत माला एक्स्प्रेस मार्गे आसीत् दुर्घटना।

Monday, November 3, 2025

 तृतीये टि - २० प्रतिद्वंद्वे भारतस्य विजयः। 

होबर्ट्> आस्ट्रेलियां विरुध्य तृतीये विंशति - विंशति क्रिकट् प्रतिद्वन्द्वे भारतस्य पञ्च द्वारकाणां विजयः। प्राप्ताङ्कसूचिका - आस्ट्रेलिया - २० क्षेपणचक्रेषु १८६/६ ; भारतं - १८. ५ क्षेपणचक्रेषु १८८/५। अनेन विजयेन पञ्चकोपेतायां परम्परायां उभे राष्ट्रे १ - १ इति समस्थितौ वर्तेते। आगामिक्रीडा गुरुवासरे सम्पत्स्यते।

 बिहारविधानसभानिर्वाचनं

प्रचारः अत्युच्चस्तरे। प्रथमसोपानस्य घोषप्रचारः श्वः समाप्यते। 

पट्ना> बिहारराज्ये विधानसभानिर्वाचनस्य प्रचरणम् अत्युच्चस्तरे प्रचाल्यते। एन् डि ए सख्यस्य महासख्यपक्षस्य राष्ट्रियनेतारः वरिष्ठनेतारश्च ऊर्जस्वलेन प्रचारस्य नेतृत्वमावहन्ति। 

  प्रधानमन्त्री नरेन्द्रमोदी गतदिने भोजपुरजनपदे बहुषु प्रदेशेषु पथसञ्चलनम् अभिसम्बुध्य भाषितवान्। पट्नानगरे वीथीप्रदर्शनकार्यक्रमे अपि मोदिवर्यः भागं गृहीतवान्। 

  कोण्ग्रस् नेता राहुलगान्धिः बगुसाराय्,खगारिया  जनपदस्थयोः विविधेषु प्रदेशेषु आयोजितेषु सम्मेलनेषु जनान् अभिमुखीकृत्य महासख्यस्थानाशिनां कृते प्रचरणं कृतवान्। निर्वाचनस्य प्रथमचरणं षष्ठे दिनाङ्के सम्पत्स्यते। सघोषप्रचारणं श्वः समाप्स्यति।

 महिला क्रिकट् विश्वचषकं भारतं सम्प्राप। 

प्रथमा किरीटसम्प्राप्तिः।

दीप्ती शर्मा  विजयशिल्पी।अर्धशतकं,५ द्वारकाणि च।

प्राप्तकिरीटस्य भारतगणस्य विजयाह्लादः। 

मुम्बई> महिलानाम् एकदिनक्रिकट् विश्वचषकस्य अन्तिमप्रतिद्वन्दः भारताय चरित्रमुहूर्तं सम्मानितवान्। इदंप्रथमतया महिलानाम् एकदिनक्रिकट् विश्वचषकः भारतगणेन सम्प्राप्तः। दक्षिणाफ्रिका आसीत्  अन्तिमेे प्रतिद्वन्द्वे भारतस्य प्रतियोगी। उत्साहोज्वले प्रतिद्वन्द्वे ५२ धावनाङ्कैः आसीत् सुवर्णविजयः। 

  दीप्ती शर्मा, षेफाली वर्मा इत्येतयोः सर्वमण्डलप्रकटनं [All-round] भारतस्य विजये निर्णायकमभवत्। षेफाली वर्मा ८७ धावनाङ्कान् सम्पादितवती। दीप्ती शर्मणः क्रीडायां ५८ धावनाङ्काः, ५ द्वारकाणि च भारताय उपलब्धानि। प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु सप्त ताडकानां विनष्टे २९८। दक्षिणाफ्रिका ४५. ३ क्षेपणचक्रेषु २४६ धावनाङ्कैः सर्वे बहिर्नीताः।

Sunday, November 2, 2025

 केरलं भारते प्रथमम् अतिदारिद्र्यमुक्तं राज्यम्। 

+ २०२१ तमे आरब्धस्य  अतिदारिद्र्यमोचनयज्ञस्य गुणभोक्तारः ५९,२८३ परिवाराः। 

+ केरलप्रसूतिदिने मुख्यमन्त्रिणा उद्घोषणं कृतम्। 

अतिदारिद्र्यमुक्तराज्योद्घोषणकार्यक्रमे मुख्यमन्त्रिणा सह मम्मूट्टिवर्यः इतरे मन्त्रिणश्च। 

अनन्तपुरी> केरलराज्यस्य ६९ तमे जन्मदिने [नवम्बर् १] राज्यम् अतिश्रेष्ठां कामपि उपलब्धिं सम्प्राप। ५९,२८३ परिवारीयाः उपद्विलक्षं जनाः अतिदारिद्र्यात् मुक्ताः जाताः। 

  सर्वकारस्य निर्णयमनुसृत्य २०२१ तमे वर्षे केरले विविधमण्डलेषु अतिदारिद्र्यम् अनुभूयमानान् जनानधिगन्तुं  विविध प्रशासनविभागान् क्रोडीकृत्य समग्रेक्षणमारब्धम्। भोजन--वास-स्वास्थ्य-प्रत्यभिज्ञानपत्र-वृत्ति-औषधचिकित्सादिषु विषयेषु अतिनिस्वताम् अनुभूयमानाः  ६४,००६ परिवाराः सन्तीति अधिगतम्। नियतलक्ष्यं विना अटनं कुर्वतः २३१ परिवारान्, नैकेषु प्रादेशिकप्रशासनेषु अन्तर्भूतान् परिवारान् च अभिव्याप्य ४७२३ परिवाराः  अल्पकालिकेन आवलीतः निष्कास्य अवशिष्टानां ५९,२८३ कुटुम्बानां निस्वतामपाकर्तुं विविधायोजनाः सर्वकारेण कृताः। अनेन संयुक्तराष्ट्रसभायाः प्रथमं द्वितीयं च सुस्थिरविकासलक्षद्वयं [दारिद्र्यनिर्माजनं बुभुक्षामोचनं च] पूर्णतया उपलभ्यमानं भारतस्य प्रथमं राज्यमिति स्थानं केरलाय अर्हते इति सर्वकारेण अभिमानीक्रियते। 

  गतदिने - शनिवासरे - आकारिते  सविशेषे विधानसभासम्मेलने अनुशासनं ३०० अनुसृत्य मुख्यमन्त्री पिणरायि विजयः अतिनिस्वतानिर्मार्जितराज्यमधिकृत्य उद्घोषणं कृतवान्।  ततः सायं राजधानीनगरे सम्पन्ने वर्णाभे प्रौढे च उत्सवोपेते कार्यक्रमे जनकीयमुद्घोषणं मुख्यमन्त्रिणा कृतम्। कैरल्याः श्रेष्ठाभिनेता मम्मूट्टिः विशिष्टातिथिः आसीत्।

 चतुरङ्ग विश्वचषकः 

नारायणस्य समस्थितिः, दिव्यायाः पराजयः। 

पनजी [गोवा]> फिडे चतुरङ्ग विश्वचषकस्य प्रथमदिने भारतस्य क्रीडकौ समस्थितिं प्राप्तवन्तौ। महिलाविभागे वीरा दिव्या देशमुखस्य प्रथमक्रीडायां पराजयः। 

  प्रथमचक्रस्य प्रथमक्रीडायां दक्षिणाफ्रिकायाः डानियल् बारिषः भारतस्य रोणक् सद्वाणिं समस्थितिं बबन्ध। केरलीयः ग्रान्ड् मास्टर् पदीयः एस् एल् नारायणः पेरु राष्ट्रस्य सलस् रोजासु इत्येनं प्रति समस्थितिमभजत। 

  महिलाविभागे महिलाविश्वचषकविजेत्री दिव्या देशमुखः ग्रीक् तारं स्टामिटास् कोर् कौलोस् नामिकां प्रति पराजयं स्वीकृतवती।

 महिलाक्रिकट् विश्वचषके अन्तिमप्रतिद्वन्द्वः अद्य।

चषकसमीपं भारतस्य नायिका हर्मन् प्रीत कौर् दक्षिणाफ्रिनायिका लोरा वोल्वर्त् च। 

मुम्बई>  क्रिकट् विश्वचषकम् अभिलषन्त्यः भारतीयमहिलाः अद्य दक्षिणाफ्रिकां प्रति स्पर्धते। मुम्बय्याम् अपराह्ने त्रिवादने स्पर्धा आरप्स्यते। पूर्वं द्विवारं  भारते अन्तिमप्रतिद्वन्द्वे क्रीडितवत्यपि विजयप्राप्तिः नालभत। २००५ तमे वर्षे आस्ट्रेलियां, २०१७ तमे वर्षे इङ्गलण्टं प्रति च पराजयमन्वभूत्।  दक्षिणाफ्रकायाः प्रथमः अन्तिमप्रतिद्वन्द्वः भवत्येषः।

Saturday, November 1, 2025

 केरलपुरस्काराः 

 पञ्चानां केरलश्रीः।

अनन्तपुरी> केरलप्रसूतिदिनम् आलक्ष्य उद्घोषितेषु केरलपुरस्कारेषु भिन्नभिन्नमण्डलेषु स्वप्रतिभां प्रकाशितवन्तः पञ्च कुशलाः केरलश्रीपुरस्कारेण समाद्रियन्ते। 'Asian School of Journalism'  इत्यस्यस्थापकः शशिकुमारः , टि के एम् इति शैक्षिकस्थापनस्य अध्यक्षः षहाल् हसन् मुसलियार्, Manhole Robot इति यन्त्रमनुष्यं साक्षात्कृतवान् एम् के विमल गोविन्दः, कटवातनौकया भूप्रदक्षिणं कृतवान् नौसेनायाः निवृत्तः लफ्टनन्ट् कमान्डर् अभिलाष् टोमी, हस्तद्वयरहिता अपि वाहनं चालयित्वा चालनप्रमाणपत्रं [Driving License] सम्पादितवती तोटुपुष़ा निवासिनी जिलुमोल् मारियट् इत्येते केरलश्रीपुरस्कारान् लब्धवन्तः।

 केरलपुरस्काराः प्रख्यापिताः।

डो एम् आर् राघववार्यरस्य केरलज्योतिः। 

अम् आर् राघववार्यरि। 

द्वयोः केरलप्रभा। 

अनन्तपुरी> प्रमुखः चरित्रपण्डितः अध्यापकश्च डो एम् आर् राघववार्यर् महोदयः केरलसर्वकारस्य 'केरलज्योति'पुरस्कारेण समाद्रियते। शैक्षिकमण्डलाय दत्तं समग्रयोगदानमधिकृत्य अस्ति पुरस्कारः। कोष़कोट् प्रदेशीयः राघववार्यरः कोष़क्कोट् विश्वविद्यालये चरित्रविभागे प्रोफेसर पदीयः अध्यापकः अध्यक्षश्चासीत्। 

  कार्षिकक्षेत्रे कृताय योगदानाय पि बी अनीषः , कलाक्षेत्रे योगदानाय राजश्री वार्यरः च केरलप्रभापुरस्काराय चितौ। कण्णूरजनपदीयः अनीषः राज्यसर्वकारस्य कर्षकोत्तमपुरस्कारलब्धः युवकृषकः अस्ति। शास्त्रीयनृत्तमण्डले विख्याता राजश्री वार्यरः कैरल्याः पूर्वकालीया दूरदर्शनावतारिका च अस्ति।

 मुहम्मद असरुदीनः तेलङ्कानस्य मन्त्री। 

हैदराबादः> भारतस्य भूतपूर्वः क्रिकट्गणनायकः कोण्ग्रसनेता च मुहम्मद असरुदीनः तेलङ्कानस्य रेवन्त रेड्डी मन्त्रिमण्डले केबिनट् मन्त्रिरूपेण शपथवाचनं कृतवान्। जूमिलि हिल्स् मण्डले नवम्बर् ११ तमे दिनाङ्के उपनिर्वाचने सम्पद्यमाने   अयं प्रक्रमः आदर्शव्यवहारनियमस्य विरुद्ध इत्यारोप्य भा ज पा दलेन मुख्यनिर्वाचनाधिकारिणं प्रति निवेदनं समर्पितम्।