OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, October 30, 2025

 इस्रयेलस्य आक्रमणेन गासायां १०४ मरणानि। 

गासायां गतदिने इस्रयेलेन कृतं व्योमाक्रमणम्।

गासानगरं> हमासेन युद्धविरामसन्धिः उल्लङ्घितः इत्यारोप्य पुनरपि गासायाम् इस्रयेलस्य गणहत्या। प्रधानमन्त्रिणः बञ्चमिन् नेतन्याहोः आदेशानुसारं कुजवासरनिशायां गासायां सर्वत्र इस्रयेलसैन्येन कृते आक्रमणे ४६ बालकान् अभिव्याप्य १०४ जनाः मृत्युमुपगताः इति गासास्थात् स्वास्थ्यमन्त्रालयात् निगदितम्। २५३ जनाः व्रणिताः। तेषु २० बालसहितानां ४५ जनानामवस्था तीव्रतरा अस्ति। 

  उत्तरगासायां गासानगरं, मध्यगासायां बुरैज्, नुसैरत्, दक्षिणगासायां खान् यूनिस् इत्येतेषु स्थानेषु इस्रयेलः अतिशक्तं व्योमाक्रमणम् अकरोत्। अत्रत्यानि भवनानि वाससमुच्चयानि विद्यालयाश्च आक्रमणविधेयानि अभवन्। 

  परन्तु हमासस्य बहूनि सैनिकशिबिराणि विनाशितानि ३० सेनानेतारः हताश्च इति एतदधिकृत्य इस्रयेलस्य भाष्यम्।

 एस् एस् एल् सि परीक्षा मार्च् ५ तमतः। 

+२ षष्ठदिनाङ्कतः। 

अनन्तपुरी> अस्मिन्नध्ययनसंवत्सरे एस् एस् एल् सि परीक्षा [दशमकक्ष्याः सामान्यपरीक्षा] मार्च् पञ्चमदिनाङ्कतः ३० तमदिनाङ्कपर्यन्तं सम्पत्स्यति इति शिक्षामन्त्री वि शिवन्कुट्टिः वार्ताहरसम्मेलने निगदितवान्। प्रभाते सार्धनववादने परीक्षाः आरप्स्यन्ते। परिणामः मेय् अष्टमे दिनाङ्के उद्घोषयिष्यते। 

  उच्चतरछात्राणां सामान्य परीक्षा [+२] मार्च् षष्ठदिनाङ्कतः २८ तम दिनाङ्कपर्यन्तं भविष्यति। परिणामोद्घोषणं मेय् २२ तमे दिनाङ्के स्यात्।

Wednesday, October 29, 2025

 रेवतीपट्टत्तानं–२०२५ पुरस्काराः घोषिताः।

कृष्णगीति–पुरस्कारः — कावालं शशिकुमाराय।
मनोरमा–तम्बुराट्टि–पुरस्कारः — डॉ. ई. एन्. ईश्वराय।
श्रेष्ठ–कृष्णनाट्ट–कलाकार–पुरस्कारः — के. सुकुमाराय।

 श्रेष्ठ–काव्यसङ्ग्रहाय, तळी महाक्षेत्रस्य सामूतिरिराजस्य नेतृत्वेन रेवतीपट्टत्तानसमित्या दशकान्तराणि यावत् प्रदीयमानः “कृष्णगीति–पुरस्कारः” प्रसिद्ध–माध्यमकार्यकर्त्रे कवये कावालं–शशिकुमाराय लप्स्यन्ते।“नगरवृक्षस्थे  कोकिलः” इति नामकः कैरल्यां विरचितः काव्यसङ्ग्रहः तं पुरस्काराय योग्यताम् अकरोत्।

कृष्णनाटस्य मूलकाव्यं यत् “कृष्णगीति” नाम, तस्य कर्ता सामूतिरिमानवेदन्–राजा (१५९५–१६५८) भवति। तस्य महोदयस्य स्मरणार्थं सः “कृष्णगीति–पुरस्कारः” संस्थापितः।

त्रयः अपि पुरस्काराः  कांस्यधातुना निर्मितं कृष्णशिल्पं, प्रशस्तिपत्रं  पञ्चदशसहस्ररूप्यक–राशिश्च इत्येतैः सहिताः भवन्ति। पुरस्काराः नवम्बरमासस्य चतुर्थे दिनाङ्के रेवतीपट्टतानसदसि प्रदास्यन्ते।


 दिल्यां वायूप्रदूणं नियन्त्रयितुम् कृत्रिमवर्षापातनश्रमः विफलो जातः ।

    नवदिल्ली> .प्रतिदिनं वायूप्रदूषणेन खिन्नानां दिल्लीनिवासिनाम् आश्वासाय कृत्रिमवर्षापातः कल्पितः । किन्तु वर्षापातनाय कृतसंकल्प मेघोत्तेजनं  ( cloud seeding ) पराजितम् अभवत्। ह्यः मध्याह्ने उत्तेजनं कृतम्। किन्तु मेघजालेषु जलांशः २०% इत्यस्मात् न्यूनम् आसीत् इत्यनेन वृष्टिः न अभवत् इति  काणपुरस्य ऐ ऐ टी संस्थया उक्तम्। अद्य कर्तुं निश्चितं मेघोत्तेजनं अनुकूवातावरणस्य अभावेन न कृतम्। एकवारं मेघोत्तेजनाय ६४ लक्षं रूप्यकाणां व्ययः अस्ति। अद्य दिल्यां वायूप्रदूषणसूचिका ३०० इत्यस्मात् उपरि अस्ति।

 केरलस्य राज्यस्तरीयं विद्यालयकायिक ओलिम्पिक्स् समाप्तम्।

तिरुवनन्तपुरं जनपदं सुवर्णचषकं सम्प्राप। 

सुवर्णचषकेन सह अन्तपुरं गणः आह्लादे।

अनन्तपुरी> ओलिम्पिक्स् महामहस्य आदर्शे संघटिता केरलस्य  विद्यालयछात्राणां राज्यस्तरीयकायिकमेला अनन्तपुर्यां समाप्ता। प्रथमतया उपकल्पितः 'Chief Minister's Cup' नामकः ११७. ५ पवन् मितस्य  सुवर्णचषकः तिरुवनन्तपुरं जनपदेन सम्प्राप्तः। राज्यपालः आर् वि आर्लेकरः चषकं सम्मानितवान्। 

  २०३ सुवर्णानि, १४७ रजतानि, १७१ कांस्यानि चोपलभ्य अनन्तपुरं प्रथमस्थानमवाप। आहत्य १,८२५ अङ्काः। ८९२ अङ्कान् सम्प्राप्य तृशूरजनपदं द्वितीयस्थानं सम्प्राप। कण्णूरः ८५९ अङ्कैः तृतीयं स्थानं प्राप्तवान्।

 महिला क्रिकट् विश्वचषकः 

प्रथमा पूर्वान्त्यस्पर्धा अद्य। 

गुहावती> महिलानां विश्वचषकक्रिकट् वीरता परम्परायाः प्रथमे पूर्वान्त्यप्रतिद्वन्द्वे  अद्य इङ्लाणटः दक्षिणाफ्रिकाम् अभिमुखीकरोति। अपराह्ने ३. ३० वादने स्पर्धा सम्पद्यते।

 इस्रयेलानुकूलपरामर्शः

पाकिस्थानीयमाध्यमप्रवर्तकः तीव्रवादिभिः हतः। 

कराची> दूरदर्शनप्रणालीकार्यक्रमे इस्रयेलम् अनूकूल्य परामृष्टवान् इत्यारोप्य पाकिस्थानीयमाध्यमप्रवर्तकं अवतारकं च इम्तियास् मिर् नामकं मततीव्रवादिनः भुषुण्डिप्रयोगेण जघ्नुः। सेप्टम्बरमासे २१ तमे दिनाङ्के आसीदियं घटना। 

  तद्दिनवृत्तिं समाप्य गृहं प्रति गमनवेलायामासीत् आक्रमणम्। चत्वारः अपराधिनः निगृहीताः। निरुद्धधार्मिकतीव्रवादसंघटनस्य 'सैनबीयौन् ब्रिगेड्' इत्यस्य अंशेन प्रवर्तमानाः एते इति आरक्षकाधिकारिभिः उक्तम्।

 अष्टमः वेतनपरिष्करणायोगः

केन्द्रप्रशासनेन उद्घोषितः। 

नवदिल्ली> केन्द्रसर्वकारेण अष्टमः वेतनपरिष्करणायोगः प्रख्यापितः। एककोट्यधिकानां केन्द्रसर्वकारीयसेवकानां सेवानिवृत्तानां च प्रयोजनाय भविष्यति। सर्वोच्च न्यायालयात् निवृत्ता न्यायाधिपा रञ्जना प्रकाश देशायी अध्यक्षा आयोगस्य अस्ति। प्रोफ. पुलक घोषः आयोगे सदस्यः, पङ्कज जयिनः कार्यदर्शी च स्तः। 

  आयोगः १८ मासाभ्यन्तरे निर्देशान् समर्पयिष्यति, ते २०२६ जनवरी प्रथमदिनाङ्कतः प्राक्कालीयप्राबल्येन प्रवृत्तिपथमागमिष्यन्तीति च मन्त्रिमण्डलस्य निर्णयान् विशदीकुर्वता मन्त्रिणा अश्विनी वैष्णवेन निगदितम्।

Tuesday, October 28, 2025

 बीजिङे ठक्कुरवर्यस्य अर्धकायप्रतिमा। 


बीजिङ्> चीनराष्ट्रस्य राजधान्यां चीनीयशिल्पिना युवान् षिकुन् इत्यनेन विनिर्मिता रवीन्द्र नाथ ठक्कुरस्य अर्धकायप्रतिमा भारतस्य स्थानपतिकार्यालये अनाच्छादिता। भारतीय तत्त्वचिन्तापारम्पर्यस्य प्रचारणं लक्ष्यीकृत्य स्थानपतिकार्यालयेन समाकारितस्य कार्यक्रमस्य अंशतया अस्ति प्रतिमास्थापनम्। 

  शतवर्षेभ्यः पूर्वं ठक्कुरमहाशयेन कृतं चीनसन्दर्शनं चीन-भारतसम्बन्धस्य सुवर्णकाल आसीदिति चीने भारतस्थानपतिः प्रदीप रावतः प्रावोचत्। २००९ तमे वर्षे चीनस्य ६० तमवार्षिकोत्सवस्य अंशतया विधत्ते मताभीक्षणे  आधुनिकचीनराष्ट्रस्य विकासाय योगदानं कृतवत्सु ५० विदेशव्यक्तित्वेषु भारतात् जवहर्लाल नेहरु , रवीन्द्रनाथ ठक्कुरः च अन्तर्भूतौ आस्ताम्।

 एस् ऐ आर् अभियानस्य प्रथमसोपानम् आरब्धम्। 

प्रथमसोपाने नव राज्याणि; त्रयः केन्द्रप्रशासनप्रदेशाश्च।

निर्वाचनायोगमुख्यः ग्यानेष कुमारः।

नवदिल्ली> केन्द्र निर्वाचन आयोगेन आविष्कृतं समग्र मतदायकावलीपरिष्करणं [एस् ऐ आर् अभियानं] सोमवासरस्य अर्धरात्रौ औद्योगिकतया समारब्धम्। 

  जनप्रातिनिध्यनियमस्य २१ तमं विभागमनुसृत्य एव भारते मतदानिनाम् आवलिः सज्जीक्रियते परिष्क्रियते च। संसद्-विधानसभयोः निर्वाचनात् पूर्वं मतदानिनाम् आवलिः समग्रतया परिष्क्रियते इत्यस्ति एस् ऐ आर् अभियोजना। केन्द्रनिर्वाचनायोगस्य अस्ति अस्य पूर्णाधिकारः। 

   एस् ऐ आर् अभियोजना प्रचाल्यमानेषु राज्येषु आहत्य ५०. ९९ कोटि मतदानिनः वर्तन्ते इति मुख्यनिर्वाचनायोगः ग्यानेष कुमारः वार्ताहरसम्मेलने निगदितम्। यत्र परिष्करणं प्रचाल्यते तत्रत्यः मतदानावलिः जडीकृतः इति तेनोक्तम्।

  अन्तमान् निकोबार् द्वीपसमूहः, छत्तीसगढः, गोवा, गुजरातः, केरलं, लक्षद्वीपः, मध्यप्रदेशः, पुतुच्चेरी, राजस्थानं, तमिलनाट्, उत्तरप्रदेशः, पश्चिमवंगः इत्येषु राज्येषु केन्द्रप्रशासनस्थानेषु च प्रथमसोपाने  एस् ऐ आर् प्रचलिष्यति।

 स्वस्यानुगामिरूपेण न्यायमूर्तिः सूर्यकान्तः न्यायमूर्तिना गवायवर्येण निर्दिष्टः। 

नवदिल्ली> आगामिमासे २३ तमे दिनाङ्के सेवानिवृत्तमानः सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः बी आर् गवाय् वर्यः स्वस्यानुगामिरूपेण न्यायमूर्तिनः सूर्यकान्तस्य नाम केन्द्रप्रशासनं प्रति निर्दिष्टवान्। वर्तमानीनेषु सर्वोच्चन्यायालयन्यायाधिपेषु वरिष्ठतमः भवति सूर्यकान्तः।

 अयोध्यायां मन्दिरनिर्माणं सम्पूर्णमिति न्याससमितिः।

अयोध्यायां राममन्दिरम्। 

अयोध्या> अयोध्यायां रामलल्लायाः प्रधानमन्दिरम्  अभिव्याप्य सर्वाणि निर्माणप्रवर्तनानि पूर्तीकृतानीति श्रीराम जन्मभूमि तीर्थमन्दिरन्याससमित्या निगदितम्। प्रमुखं राममन्दिरं, परिसरीयाणि षट् मन्दिराणि च सम्पूर्णानि। महादेवः, गणेशः, हनुमान्, सूर्यदेवः, भगवती, अन्नपूर्णा इत्येतेषां मन्दिराणि एव पूर्तीकृतानि।

Monday, October 27, 2025

 'मोन्ता' चक्रवातः - तीव्रवृष्टेः सम्भावना।

अनन्तपुरी> बंगालस्य अन्तरालसमुद्रे रूपीकृतः न्यूनमर्दः अद्य चक्रवातरूपेण परिवर्तयिष्यति। मङ्गलवासरे सायं आन्ध्रप्रदेशस्य काक्किनटतटे स्थलं स्पृक्ष्यति। अस्य प्रभावेण सोमवासरे कोष़िक्कोट्, कण्णूर्, कासरगोड जनपदेषु ओरञ्च् जागरूकता उद्घोषिता। एषु स्थानेषु अतितीव्रवृष्टेः सम्भावना अस्ति।

 छत्तीसगढे २१ मावोवादिनः आत्मसमर्पिताः। 

काङ्करं> काङ्करं जनपदे २१ मावोवादिनः आत्मसमर्पणं कृतवन्तः। बस्तर् आरक्षकसेनायाः पुरनधिवासयोजनानुसारमेव तेषाम् आत्मसमर्पणम्। १३ महिलाः सन्ति। 

  ओक्टोबर् १७ तमे दिनाङ्के मावोवादिनां वरिष्ठनेता रूपेष् इत्यस्य नेतृत्वे २१० मावोवादिनः आत्मसमर्पिताः आसन्।

Sunday, October 26, 2025

 लाटिन् अमेरिका युद्धभीषायाम्। 

यू एस् युद्धमहानौकाः करीबियसमुद्रं प्रति;  उन्मादकवस्तुनां कपटसन्तरणं निरोद्धुमिति यू एस्।

प्रत्याघातः भविष्यतीति वेनस्वेलयाः राष्ट्रपतिः।

वाषिङ्टणः> लाटिन् अमेरिकीयराष्ट्रैः सह संघर्षस्य वीर्यं विधाय करीबियसमुद्रे युद्धमहानौकाव्यूहं विन्यस्तुं 'पेन्टगणस्य' [यू एस् सैनिकास्थानं] आदेशः। लाटिनमेरिकाराष्ट्रेषु विद्यमानान् उन्मादकवस्तूनां कपटसन्तरणसंघान् निरोद्धुमिति अस्य नीतीकरणम्।

   किन्तु यू एस् राष्ट्रेण युद्धं निर्मीयते इति वेनस्वेलाराष्ट्रपतिः निकोलास् मडुरो आरोपितवान्। मडुरो इत्येनं राष्ट्रपतिपदात् निष्कासयितुमेव अमेरिकायाः आत्यन्तिकलक्ष्यमिति  वेनस्वेलेन भीयते। 

  लाटिनमेरिकायाः अधोलोकसंघाः नौकासु उन्मादकवस्तूनि आनयन्ति इत्यारोप्य सेप्टम्बरमासादारभ्य यू एस् प्रशासनं करीबियने आक्रमणं करोति। १० नौकाः विनाशिताः। ४३ जनाः हताश्च। बुधवासरे रात्रावपि नौकाक्रमणेन ६ जनाः मृताः। वेनस्वेलस्य निगूढसंघेन उन्मादकसन्तरणमासीत् इति अमेरिकायाः आरोपः। कोलम्बिया, ब्रसीलः इत्यादीनि राष्ट्रण्यपि यू एस् विरुद्धपक्षे वर्तन्ते।

 


श्वासोच्छवाउच्छ्वासेन वैद्युतिः उद्पाद्यते।

जैवप्रौद्योगिकमण्डलेषु ऊर्जोत्पादन-मण्डलेषु च भविष्यकाले विस्फोटनात्मका प्रगतिः भविष्यति। नूतनस्य अनुसन्धानस्य फलं बहिरागतम् । श्वसनप्रक्रियया वैद्युतोर्जं निर्मीयमाणा सूक्ष्माणुः वैज्ञानिकैः संदृष्टा। रैस् विश्वविद्यालयस्य गवेषकाः एव नूतनानुसन्धानस्य दृष्टारः। प्राणवायुं विना इयम् अणुः वर्धते। मलिनीकरण निरीक्षणं, शुन्याकाश-आवेक्षणम् इत्यदि सन्दर्भेषु बहु उप कारकं भविष्यति इदम् अनुसन्धानम्। जीवशास्त्रस्य आधारेण सुस्थिरः प्रौद्योगिकविद्यायाः सृजने अनेन अनुसधानेन शक्यते इति अनुसन्धानस्य अध्यक्षा फ्रोफ . करोलिन् अजो उक्तवती ॥ 

 चलच्चित्राभिनेता सतीश् षा दिवंगतः। 


मुम्बई> ४० संवत्सराधिकं दीर्घितेन अभिनयजीवनेन सहृदयानां मनसि अविस्मरीयं स्थानमवाप्तः विख्यातनटः सतीश् षा दिवंगतः। समीपकाले वृक्कपरिवर्तनशस्त्रक्रियानन्तरं परिचर्यायामासीत्। 

  १९८३ तमे वर्षे बहिरागते 'जाने भी दो यारो' इत्यस्मिन् चलच्चित्रे कृताभिनयेन सः तारपदमवाप्तवान्। तदनन्तरं 'शक्ती, हम सात सात है, मैं हूं ना, कल हो ना हो, फना' इत्यादिभिः चलनचित्रैः जनमनसि सविशेषं स्थानं प्राप्तवान्।

 नारायणगुरुसन्देशः मानवसंघर्षाणां परिहारः - राष्ट्रपतिः। 

वर्कला> 'एकत्वं, समत्वं, परस्परबहुमानम्' इत्येवं श्रीनारायणगुरुदेवस्य सन्देशः सर्वेष्वपि कालेषु मानवसमाजेन अभिमुखीक्रिमाणानां समेषां  संघर्षाणां शाश्वतपरिहार इति राष्ट्रपतिः द्रौपदी मुर्मू अवोचत्। वर्कलायां शिवगिरौ गुरोः महासमाधेः शताब्दिसम्मेलनम् उद्घाटनं कुर्वन्ती भाषमाणा आसीत् मुर्मूवर्या। 

  भारतस्य आत्मीय-सामाजिकमण्डलं वशीकृतवान् महर्षिश्रेष्ठः तत्त्वचिन्तकश्चासीत् श्रीनारायणगुरुः। वर्तमानीनकाले गुरुदर्शनं अधिकं प्रसक्तं भवतीति राष्ट्रपतिः प्रस्तुतवती। 

  बहूनां मन्दिराणां विद्यालयानां सामाजिकसंस्थानां च संस्थापनेन अधःस्थितानां पार्श्ववत्कृतानां च शैक्षिक-स्वयंपर्याप्त- धार्मिकविषयेषु अभ्युन्नतये नारायणगुरुः प्रायतत इति च  मुर्मूवर्या प्रोवाच। 

  ओडियाभाषया अनूदितं 'दैवदशक'मिति ग्रन्थः सम्मानरूपेण राष्ट्रपतये दत्तः। कार्यक्रमे राज्यपालः राजेन्द्र आर्लेकरः,  श्रीनारायण धर्मसंघस्य कार्यकर्तारः सन्यासिवर्याः संसदीयसदस्याः च भागं गृहीतवन्तः।