जाति जनगणनायां केन्द्रसर्वकारः वशीभवति।
सामाजिकजनगणनेन सह विधातुं मन्त्रिमण्डलस्य निर्णयः।
नवदिल्ली> कोण्ग्रसदलादिभिः विपक्षीयदलैः चिरकालं यावदपेक्षिता जात्याधारितां जनगणनां कर्तुं केन्द्रसर्वकारस्य निर्णयः अभवत्। आगामिन्या सामाजिकजनगणनया सह सम्पूर्णं जाति जनणनमपि विधातुं गतदिने सम्पन्ने केन्द्रमन्त्रिमण्डलस्य उपवेशने निर्णीतम्। किन्तु आगामिनी सामाजिकजनगणना कदा भविष्यतीति सर्वकारेण न स्पष्टीकृतम्।
अन्तिमा जनसंख्यागणना २०११ तमे वर्षे सम्पन्ना। दशसु वर्षेषु क्रियमाणा जनगणना २०२१ तमे वर्षे कोविड्महामारेः व्यापनेन न विधत्ता।