भारतीयज्ञानपरम्परायाः समृद्धिं, प्रासङ्गिकतां, चिरन्तनसांस्कृतिकमहत्त्वं च प्रकाशयति सप्तदिवसीयः संस्कृत-महोत्सवः
केन्द्रीयसंस्कृतविश्वविद्या
भारतीयज्ञानपरम्परायाः समृद्धिं, प्रासङ्गिकतां, चिरन्तनसांस्कृतिकमहत्त्वं च प्रकाशयति सप्तदिवसीयः संस्कृत-महोत्सवः
केन्द्रीयसंस्कृतविश्वविद्या
भारतीयप्रौद्योगिकीसंस्थानस्य (IIT) रुड़की-स्थितस्य व्यवस्थापन-अध्ययन-विभागेन (DOMS), संस्कृतक्लब् रुड़की संस्कृतभारती-जनपद-रुड़की- संस्थभिः च संयुक्तरूपेण सोमवासरे द्विदश-दिवसीया शिक्षक-प्रशिक्षण-कार्यशाला आरब्धा। अस्याः कार्यशालायाः विषयः अस्ति – “राष्ट्रीय-पुनर्जागरणाय एकः सार्थकः प्रयासः”।
ऐ ऐ टी-रुड़की-निदेशकः डॉ॰ कमलकिशोरः पन्तः उत्तराखण्डस्य संस्कृत-शिक्षा-निदेशकः डॉ॰ आनन्दभारद्वाजः अन्ये च संरक्षक-रूपेण च अस्मिन् प्रशिक्षण-कार्यक्रमे वर्तन्ते।
कारागारवासभयेनैव अध्यापकाः स्ववृत्तिं कुर्वन्तीति उच्चन्यायालयः।
कोच्ची> दण्ड्यप्रकरणैः कारागृहवासं भवेदिति भयेन कक्ष्याचालनं कुर्वन्तः सन्ति इदानींतनाः अध्यापकाः इति गौरवपूर्णम् आशङ्कां प्रकाशयति केरलस्य उच्चन्यायालयः। कक्ष्यायां व्यवस्थाहीने व्यवहारे परिपृष्टे असभ्यवक्तारं सप्तमीकक्ष्याछात्रं दण्डनं कृतवतीम् अध्यापिकां विरुध्य पञ्जीकृतं प्रकरणं निरस्य न्यायाधिपस्य ए बदरुदीन् वर्यस्य आदेशे आसीदिदं निरीक्षणम्।
छात्राणां हिताय शिक्षकैः स्वीक्रियमाणाः दण्डप्रक्रमाः अपराधव्यवहारवत् चित्रीकुर्वन्ति। एतत्तु विद्यालयप्रवर्तनानि पराङ्गमयन्ति। यदीयमवस्था अनुवर्तते चेत् अनुशासिता नूतनपरम्परा कथं जायते इत्याशङ्का वर्तते इति च न्यायाधिपेनोक्तम्। छात्रः अनाहतः अपि बालनीतिनियमानुसारं शिक्षिकायाः उपरि तृश्शूर् वाडानप्पल्लि आरक्षकैः प्रकरणं पञ्जीकृतमासीत्।
सूर्यस्य आयुषः अर्धः अपि समाप्तम्।
४५७ कोटिसंवत्सरात् पूर्वं लब्धजन्मनः पीतनक्षत्रं भवति सूर्यः। अधुना सूर्यः तस्य आयुषः मध्यकालं प्राप्नवान् अस्ति। भूमौ ऊर्जस्य स्रोतः भवति सूर्यः। तापयुक्तः जाज्वल्यमानः हैड्रजन् - हीलियं इत्येतयोः संयुक्तवातकगोलं भवति सूर्यः इति वक्तुं शक्यते। अन्यनक्षत्राणि इव सूर्यः अपि एकस्मिन् दिने ऊर्जशोषणेन निर्जीवो भविष्यति इति उचितैः प्रमाणैः दृढीकृतमस्ति। वैज्ञानिकानां मतानुसारं सूर्यः तस्य मध्यवयः प्राप्तवान् अस्ति। मा किं ५०० कोटि संवत्सरपर्यन्तं यावत् सूर्यः अत्र स्थास्यति इति वैज्ञानिकाः अभिप्रयन्ति।
उच्चशिक्षायाः कृते नवीनशिक्षानीतौ समाविष्टानां तकनीकी-नैतिकमूल्यानां निरन्तरप्रशिक्षणम् आवश्यकम् - प्रो. इन्दुपाण्डेयखण्डूरी
वार्ताहर:- कुलदीपमैन्दोला।श्रीनगरम्।
विश्वविद्यालयानुदनायोगान्तर्गतं- मालवीयमिशनशिक्षक- प्रशिक्षणकेन्द्रे सेवारतशिक्षकाणां प्रशिक्षणार्थं 'एन-आई-टी' इत्यनेन कार्यक्रमः समायोजित: आसीत् । 21 अगस्तत: 19 सितम्बर 2024 दिनांकं यावत्, अन्तर्जालमाध्यमेन गुरुदक्षता-संकायप्रेरण आसीत् कार्यक्रमः।
उत्तराखण्डं, उत्तरप्रदेश:, दिल्ली, बिहारं, उड़ीसा, राजस्थानं तथा झारखण्ड: इत्यादीनाम् राज्यानां शिक्षकप्रतिभागिनः प्रशिक्षणं प्राप्तवन्तः
मालवीयकेन्द्रद्वारा आयोजितेस्मिन् गुरुदक्षता कार्यक्रमस्य समापनसत्रस्य मुख्यातिथि: प्रो. एन. एस. पंवार: विश्वविद्यालयकुलसचिव: कौशलयुक्तान्, कुशलप्रबन्धनान् च संस्थानां कृते सम्पत्तिरूपेण मन्यते स्म। सः अवदत्
बधिरायाः तनयायाः कृते हस्तसञ्चालनभाषां विना विद्यालयः, सम्प्रति सा कन्या तत्रत्याः प्रधानाचार्या अस्ति।
श्रवणशक्तिहीनायाः तनयायाः, आयुः पूर्णतया हस्तसञ्चालनभाषाम् अधिष्ठ्य जीवितुम् अपेक्ष्यते इति ज्ञात्वा, पितरौ भाषणप्रणाल्या शिक्षां प्रदातुम् एकं विद्यालयं संस्थापितवन्तौ। इदानीं केरलराज्ये भाषणप्रणालीम् अनुसृत्य शिक्षां प्रदातुं समारब्धः प्रथमः विद्यालयः भवति अयम्। वाक्-श्रवण-परिमितिं याः प्राप्नुवन्ति तान् वाक्प्रयोगेण एव शिक्षयति अस्मिन् विद्यालये। अद्य तस्मिन्नेव विद्यालये मुख्याध्यापिका अस्ति सा कन्या। केरलराज्यस्य पालक्काट् जनपदस्य याक्करग्रामे स्थितस्य श्रवण-संवाद-महाविद्यालयस्य संस्थापकं कष़िम्ब्रं गोपिं तस्य तनयां दीप्तिं च सम्बद्ध्य एव कथ्यते अत्र। स्वस्य जातायाः दीप्त्याः श्रवणशक्तिः नास्ति इति गोपिः तस्य पत्नी शान्ताकुमार्या सह अवगच्छति। दुःखेन व्यथितोऽपि तस्यां सर्वप्रकारेण साहाय्यं प्रदातुं तौ पितरौ आस्ताम्। बधिरकन्यायाः कृते विद्यालयः तदा तस्मिन् प्रदेशे न आसीत्। अन्येषु केरलराज्यस्य विद्यालयेषु बधिरतां-मूकतां प्राप्नुवतां बालानां हस्तसञ्चालनभाषा एव प्रयुक्ता आसीत् शिक्षणाय। एवं गोपिः निनिश्चयम् अकरोत् यत् तस्याः तनयायाः जीवने हस्तसञ्चालनभाषायाः आधारः न स्यात्।
१९८१ तमे वर्षे यदा गोपिः विद्यालयं आरब्धवान्, तदानीं पुत्री दीप्तिः सार्धद्विवयस्का आसीत्। अद्य दीप्तिः एम.ए., पि एच् डि., बी.एड् इत्येतान् उपाधीन् संपाद्य तस्मिन्नेव विद्यालये मुख्याध्यापिका अभवत्। भारतस्य एतादृशविद्यालयेषु यः विद्यालयः त्रिषु भाषासु शिक्षां प्रददाति सः याकरग्रामस्य श्रवणसंवादमहाविद्यालयः एव इति गोपिः वदति। तत्रत्याः छात्राः हस्तसञ्चालनभाषाम् कदापि नोपयुज्यन्ते। अधुना विद्यालयेऽस्मिन् प्राथमिकश्रेणीतः उच्चमाध्यमिकश्रेणीपर्यन्तं १०६ छात्राः शिक्षां प्राप्नुवन्ति। इदानीं ११ शिक्षकाः सन्ति। छात्राणां कृते छात्रालयसुविधा अपि अस्मिन् सर्वकार-संरक्षितविद्यालये अस्ति।
६० संख्याकाः भाषाः अनया पठिष्यन्ते।
केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि
नवदिल्ली> संस्कृतं चैनीस् इत्यारभ्य ६० संख्याकाः भाषाः उच्चैः पठितुं शक्यते 'कीबो' इति नामिकायाः निर्मितबुद्धियुक्तायाः सङ्गणकसुविधायैः। दृश्यान्धानां साहाय्यार्थं निर्मिता भवति इयं सुविधा। विभिन्नभाषायां विरचितानि पुस्तकानि स्वस्य इष्टतमभाषायां श्रोतुमसरः अनया सिध्यते अन्धेभ्यः।
लोकसभायाः संसद् पुस्तकालयः, कोलकत्त राजभवनं, ऐ ऐ टि दिल्ली, केरल - कर्णाटक - गुजरात् - बेरहांपूर -त्रिपुर विश्वविद्यालयेषु च सज्जिताः सन्ति। इदानीं इदं प्रथमथया केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि सुविधेयं सज्जिताः सन्ति। हस्तेन लिखितं टिप्पणी-पुस्तकमपि पठितुं 'कीबो' सक्षमा भवति। अतः नयनान्धतया पीडितानां पिपठिषूणं हृदयेषु ज्ञन- विज्ञानकमलानां विकासाय एषा 'कीबो' उपकरोति।
केरलकलारूपाणां पञ्चदिवसीया राष्ट्रियकार्यशाला समारब्धा

केरल-राज्ये त्रिशूर-जनपदे पावरट्टी-स्थले 'केरलकलारूपाणां' पञ्चदिवसीया राष्ट्रियकार्यशाला गतदिने (१२-०२-२४) आरब्धा। केन्द्रीय-संस्कृतविश्वविद्यालयस्य गुरुवायूरपरिसरेण आयोजितायाम् अस्यां कार्यशालायां केरल-कलानां प्राचीनानि आधुनिकानि च विविधरूपाणि विषयविशेषज्ञैः शोधार्थिभिश्च विशदीक्रियन्ते। अस्याः कार्यशालायाः उद्घाटनं संस्कृत-वार्तप्रवाचकेन डा. बलदेवानन्दसागरेण कृतम्।
जगदीशचन्द्रबोसस्य जन्मदिवसोपलक्ष्ये
विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनम्॥
-वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारम्।
महावैज्ञानिकस्य जगदीशचन्द्रबोसस्य जन्मदिवसावसरे रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे कण्वनगरीकोटद्वारे अन्तर्विद्यालये विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनं सञ्जातम्। कार्यक्रमस्य उद्घाटने विद्यालयस्य उपप्राचार्य: अनिलकोटनाला निर्णायक: एवं विशेषातिथि:, राजकीय-स्नातकोत्तर-महाविद्यालयस्य भौतिकीसहायक: प्राध्यापक: डॉ.डी.एस.चौहान:, रसायनविज्ञानस्य सहायक: प्राध्यापक: डॉ० सुरेशकुमार:, जीवविज्ञानस्य प्रवक्ता मनीषमधवाल: च दीपं प्रज्ज्वाल्य सरस्वतीमातुः पुरतः पुष्पार्पणं कृतवन्त:।
विद्यालयस्य विज्ञान-प्रौद्योगिकीविभागस्य अध्यक्षः राहुलभाटिया इत्यनेन उक्तं यत् कार्यक्रमस्य आयोजनं कनिष्ठ-वरिष्ठयोः वर्ग: कृतम् आसीत्, प्रत्येकस्मिन् खण्डे छात्रै: कार्यरतपरियोजना अकार्यशीलपरियोजना च प्रदर्शिता। सः अवदत् यत् अस्मिन् अन्तर्विद्यालयविज्ञानप्रदर्शनस्पर्धायां नगरस्य १५ विद्यालयाः भागं गृहीतवन्तः। प्रत्येकं सहभागी छात्रः नवीनतायाः नूतनप्रौद्योगिक्याः च आधारेण नवीनविज्ञानप्रतिमानं परियोजना च प्रदर्शितवान्।
वरिष्ठवर्गस्य कार्यशील-आदर्श-परियोजना-प्रतियोगितायां यथाक्रमं -> ज्ञानभारती- जनता-विद्यालय:, आर्य-कन्या-इण्टर-कॉलेज् , श्री सिद्धबली-पब्लिक-स्कूल् च प्रथम द्वितीय तृतीयस्थानानि प्राप्तवन्तः। कनिष्ठवर्गे कार्यशीलादर्श-परियोजना-प्रतियोगितायां ज्ञानभारती -पब्लिक-स्कूल् प्रथमस्थानं, श्रीसिद्धबलीपब्लिकस्कूल् द्वितीयस्थानं तथा ज्ञानभारती-पब्लिक-स्कूल् तृतीयस्थानं च प्राप्तवन्त: ।
कार्यपरियोजनाया: प्रदर्शनीप्रतियोगितायां श्री गुरुरामरायपब्लिकस्कूल् इति दलं कनिष्ठवर्गे प्रथम: च द्वितीय: एवं डी-ए-वी-पब्लिक्-स्कूल् दलमिति तृतीय: च आसन् । वरिष्ठवर्गस्य कार्यप्रारूपे एवं प्रदर्शनीप्रतियोगितायां ज्ञानभारतीपब्लिकस्कूल इति प्रथम:, श्री गुरुरामराय: द्वितीय: तथा डी-ए-वी-पब्लिक-स्कूल् इति तृतीय: आसन् । एतदतिरिक्तं सर्वेभ्यः विजेतृभ्यः सहभागिभ्यः च छात्रेभ्यः प्रमाणपत्राणि पुरस्काराणि च प्रदत्तानि। अवसरेस्मिन् रोहितबलोदी, संगीता रावत:, राजनकुमारशर्मा, गौरव: ब्रोकोटी, भूपेन्द्रसिंह:, राकेशचमोली, अनिलभटनागर:, श्रुतिमैन्दोला, संगीता कुकशाल:, सरोजनेगी, मोहनसिंह:, शिवरामबडोला, मधुबाला नौटियाल: आदय: उपस्थिता: आसन् ।
बाह्याकाशे संवर्धितस्य पुष्पस्य चित्रं नासया प्रसारितम्।
-जगदीश्वरी एम् आर्
बाह्याकाशे रोपितस्य सस्यस्य प्रफुल्लकुसुमस्य च चित्रं नासया प्रकाशितम्। इन्स्टाग्राम् इति सामाजिक-माध्यमद्वारा आसीत् नासा-संस्थायाः चित्रप्रकाशनम्। अन्तराष्टिये बह्याकाशनिलये 'वेज्जि' नाम सुविधायाः भागतया संवर्धितस्य पुष्पितस्य स़िन्निय (Zinnia) सस्यस्य मनोहरं चित्रमेव प्रकाशितम्। पुष्पस्य वर्णयुक्तदलानि सस्यस्य हरितवर्णपत्राणि च दृश्यन्ते। अपि च पृष्ठतः आकाशस्य श्यामवर्णः भूमेः विदूरदृश्यं च द्रष्टुं शक्यते। अतिन्यून-गुरुत्वाकर्षणावस्थायां सस्यानां वृद्धिः कथं भविष्यति ? तादृश्यानां भूसस्यानाम् उत्पादनं कथं करणीयम् इत्यादयः ज्ञातुम् साहाय्यं करिष्यति इदम् अनुसन्धानम्। चन्द्र-मङ्गलग्रहयोः दीर्घकालीन-योजनायाः कृते भक्ष्यादीनां बहुमूल्यं स्रोतः प्रदातुं शक्यते अनेन अनुसन्धानेन इति नासया उक्तम्।
१४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः।
न्यूयोर्क्> स्पेस् एक्स् संस्थायाम् इलोण् मस्केन १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः। सान्ता क्लारा विश्वविद्यालयस्य छात्रः कैरण् क्वासि नामकः भवत्येषः। विश्वविद्यालयस्य १७२ संवत्सरस्य चरिते एतादृशः अन्यः बुद्धिशाली लघुवयस्कः छात्रः नासीत्।
कैरणः बाल्यकालात् एव वैज्ञानिकविषयेषु तथा प्रौद्योगिकविषयेषु च रुचिं प्रदर्शितवान्। द्वितीये वयसि सः स्पष्टतया वक्तुं समर्थः अभवत्। बालवाटीकक्ष्यायाः अध्ययनकाले रेडियोद्वारा यत् श्रुतवान् तत् बालकानां कृते पुनः कथयितुम् अपि कुशलः आसीत्। नववर्षीयः सन् सः कैलिफोर्निया-देशस्य लास-पोसिटास्-सामुदायिकमहाविद्यालये अध्ययनार्थम् आगतवान्। २०१९ तमे वर्षे सांता क्लारा विश्वविद्यालये ए आइ रिसर्च फेलोस् योजनायाम् 'इन्टण्षिप्' रूपेण सः सम्मिलितवान्। २०२२ तमे वर्षे सांताक्लारा विश्वविद्यालये पूणकालिकछात्ररूपेण मिलितवान् सः वर्षद्वयानन्तरं स्वस्य १४ वयसि सङ्गणकविज्ञाने अभियांत्रिकीशास्त्रे च स्नातकपदवीं प्राप्तवान्।
एषः कैरणः विश्वस्मिन् आयोजितेषु बुहुषु वैज्ञानिकसम्मेलनेषु, प्रमुखः प्रवक्ता आसीत्। अपि च युव-वैज्ञानिकत्वेन बहवः लेखाः लिखितवान्। स्पेस् एक्स् इत्यत्र लब्धावसरेण उत्साहभरितः अस्ति इति कैरणः लिङ्क्डइन् इत्यत्र लिखितवान्।
अध्ययनार्थं विदेशं गन्तुम् उत्सुकानां छात्राणां कृते नोर्कस्य सहायकेन्द्रम् आरभते।
कोच्चि> अध्ययनार्थं विदेशं गन्तुं उत्सुकानां छात्राणां कृते नोर्कस्य सहाय्यकेन्द्रम् आरभते। विदेशविश्वविद्यालयानां अङ्गीकारं तेषां प्रामाणिकतां च दृढीकर्तुं सहाय्यकेन्द्रं सक्षमं भविष्यति। भाविनिकाले नोर्कस्य अधीशत्वे सविशेषसंस्थारूपेण सहाय्यकेन्द्रमिदं परिवर्तयितुं उद्देशः अपि अस्ति। 'र्नार्क रूट्स्' इत्यस्य उपाध्यक्षेण पि श्रीरामकृष्णेनैव विषयमिदम् निवेदितम्।
विश्वधरोहरदिवसविशेषः
ग्राम्यनिक्षेपं (धरोहरं) रक्षितुं पाणिनिसंस्कृतविश्वविद्यालयस्य अभिनवप्रयास: "चलत मिलाम: ग्राम्य देहाल्याम्"
ग्रामा: अस्माकं संस्कृत्या आत्मा वर्त्तते यतोहि अस्माकं सांस्कृतिकं मूलं ग्रामेषु एव विद्यते। इदानीं ग्राम्यगृहं तत्रत्यं वातावरणं, पर्वाणि अनेकविधानि ग्राम्य धरोहराणि ग्रामेषु सन्ति यानि अस्माभि:विस्मृतानि। विस्मृयते च । उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य ज्योतिष - ज्योतिर्विज्ञानविभागेन ग्राम्यवास्तुप्रेक्षणपरियोजना आरभते अस्यां परियोजनायां छात्रा:शिक्षकाश्च यथासमये विभिन्नेषु ग्रामेषु गत्वा ग्राम्यजनैः सह चर्चां कृत्वा तत्रत्या वास्तुविद्याम्, संस्कृतिं च अवलोक्य रेखाङ्कनं करिष्यन्ति । ग्रामवास्तव्यवृद्धजनानां साक्षात्कार: लघुचलचित्रम् (वीडियो ) छायाचित्रम्,वृत्तचित्राणां निर्माणं पुस्तकसंकलनमित्यादि कार्याणि भविष्यन्ति।
"चल मिले गांव की चौखट पे इति" शीर्षकान्वितायां परियोजनायां विभागस्य पूर्व-वर्तमान छात्रा: भागं ग्रहीतुं शक्नुवन्ति। संप्रति पञ्जीयनम् , ग्रामचयनस्य कार्यं च प्रचलति। ग्रामेभ्य:प्राप्तविवरणानुसारं छात्रा: शिक्षकाणां मार्गदर्शने सामग्रीं सम्पादिष्ययन्तिति ।एवञ्च पुनः ग्रामं गत्वा संस्कृतशब्दावलीम्, वास्तुशास्त्रस्य प्रामाणिकज्ञानेन सह ग्राम्यजनान् परिचितं कारयित्वा भारतीयज्ञानपरम्पराया: प्रचारः प्रसारश्च् करिष्यन्ति। विश्वकर्माज्यन्त्यावसरे प्रतिवर्षम् उत्कृष्टं छात्रदलं विभागपक्षतः पुरस्कार: अपि प्रदास्यते।
अन्तर्विद्यालयीया श्लोकोच्चारण-प्रतियोगिता।
क्वला-लम्बूरम्> संस्कृतभाषायाः सुप्रचाराय क्वला-लम्बूरस्थेन इन्ट्यन् इन्टर् नाषणल् विद्यालयेन अन्तर्विद्यालयीया श्लोकोच्चारण-प्रतियोगिता सामायोक्ष्यते। अन्तर्जालमाध्यमेन भवति प्रतियोगिता। २०२३ फेब्रुवरी मासस्य ९ दिनाङ्के भवति स्पर्धा। समयः - अपराह्ने १२:३० वादने (मलेष्यस्य समयः) भविष्यति (भारतस्य समयानुसारं प्रातः १०:०० वादने)
६,७ कक्ष्यातः एकः छात्रः। ८,९ कक्ष्यातः एकः छात्रः इति प्रकारेण एकस्मात् विद्यालयात् भागं स्वीकर्तुं शक्यते।
पञ्जीकरणाय अस्मिन् नुदतु - https://forms.gle/GtdQXjchnBybmnAaA
नियमावलिः अधः -
