OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, July 9, 2025

 भारतेन सह व्यापारसन्धिम् उपगच्छतीति ट्रम्पः। 

न्यूयोर्क्> भारतेन सह प्रचाल्यमानं व्यापार-वाणिज्यकरविषयकसन्धिः विज्ञप्तिप्रायमस्तीति यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः अवदत्। गतदिने १४ राष्ट्राणां विभिन्नमानेन आयातकरं विधाय अनन्तरमासीत् ट्रम्पस्य प्रस्तावः। 

  बङ्गलादेशः, बोस्निया, कम्बोडिया, इन्डोनेष्या, जपानं, मलेष्या, दक्षिणाफ्रिका इत्यादिनां १४ राष्ट्राणामुपरि २५% तः ४०% पर्यन्तं प्रतिराष्ट्रं विभिन्नस्तरेषु अस्ति आयातकरविधानम्।

 इस्रयेलेन सह युद्धे १०६० जनाः हताः इति इरानः। 

दुबाय्> इस्रयेलेन सह प्रवृत्ते युद्धे १०६० इरानीयाः हता इति इरानसर्वकारेण निगदितम्। सर्वकारस्य वयोजनकल्याणविभागस्याधिकारी सयीद् ओहादी इत्यनेन इरानस्य राष्ट्रियदूरदर्शनप्रणालिकायै दत्ता अभिमुखे एवमुक्तम्। मृत्युसंख्या ११०० यावत् प्राप्स्येत इति च तेनोक्तम्। 

  जूण् १३ दिनाङ्के आरभ्य १२ दिनानि यावत् दीर्घिते युद्धे इराने जातस्य विनाशः कियदिति सर्वकारेण इतःपर्यन्तं न प्रकाशितमासीत्। सेनाविनाशः कियदिति एतावदपि  न स्पष्टीकृतम्।

Tuesday, July 8, 2025

 अन्ताराष्ट्रिय बहिराकाश-निलयात् नूतनानि चित्राणि प्रकाशितवन्तः। 

  आक्सियम्-चत्वारि (४) अभियानेन गताः शुभांशुशुक्ल प्रभृतयाः अन्तरिक्षयात्रिकाः अन्ताराष्ट्रिय बहिराकाशनिलये (ISS) स्थित्वा नूतनचित्राणि चित्राणि प्रकाशितवन्तः। पृथिव्याः बहिः दृश्येषु विभिन्नकालेषु गृहीतानि रूपाणि ते छायाग्राहकैः ग्रहीतवन्तः। एषः दलः अन्तरिक्षनिलयम् प्राप्य दश दिनानि अतीतानि। तत्रैव विभिन्नपरिक्षणानि, अवलोकनानि च सततं क्रियन्ते।

 हिमाचलप्रदेशे अतिवृष्टिदुष्प्रभावेण ८२ मरणानि। 

षिंला> हिमाचलप्रदेशे अतिवृष्टिरनुवर्तते। राज्ये बहुत्र मेघविस्फोटनानि आकस्मिकप्रलयाश्च दुरापन्नानि। जूणमासस्य विंशदिनाङ्कात् जूलाय् षष्ठदिनपर्यन्तं ८२ जनाः मृत्युमुपगताः इति सर्वकारेण निगदितम्। 

  १९ मेघविस्फोटनानि, २३ आकस्मिकप्रलयाश्च जातानीति सूच्यते। अतिवृष्टिदुष्प्रभावेण २७९ मार्गाः विनाशमुपगताः। जनजीवनं क्लेशपूर्णं दुस्सहं च वर्तते। बुधवासरं यावत् अतिजागरूकता निर्दिष्टा।

 केरलस्य 'निधिः' परं झार्खण्डस्य निधिः! 

केरले त्यक्ता झार्खण्डीयदम्पत्योः शिशुः तद्राज्ये एव वर्धिष्यते।

निध्या सह के वि सिनि वर्यायाः नेतृत्वे शिशुक्षेमसमितिसंघः रेल् निस्थाने।

कोच्ची> षण्मासेभ्यः पूर्वं केरले झार्खण्डीययुवत्या जन्मलब्धः शिशुः पितृभ्यः परित्यक्तः सन्, केरलस्य शिशुसंरक्षणसमित्या [CWC - Child Welfare Committee] परिपालितः, इदानीं झार्खण्डस्य शिशुसंरक्षणसमितेः परिपालनाय समर्पितः अस्ति। यदि झार्खण्डीयदम्पती 'निधिः' इति कृतनामधेयं  शिशुं परिपालयितुं सन्नद्धौ भविष्यतः तर्हि निर्णयः झार्खण्डीयशिशुसंरक्षणसमित्याः अधिकाराधीनः भवति। 

  गते जनुवरिमासे  केरले वृत्यर्थमागतवती झार्खण्डीया युवती एरणाकुलं सर्वकारीयातुरालये बालिकाशिशवे जन्म अदात्। शिशोः स्वास्थ्यस्थितौ तीव्रे जाते परिचरणं निजीयातुराये विहिता। किन्तु दम्पती शिशुं परित्यज्य स्वराज्यं गतवन्तौ।  आरक्षकैः दम्पतीः विरुध्य प्रकरणं पञ्जीकृतम्। शिशोः  संरक्षण परिचर्यादिकं  केरलस्य CWC संस्थया स्वीकृतम्। तं बालिकापोतं निधिरिति नाम कृत्वा निधिवत् समवर्धत च।

  एप्रिल् मासे पितरौ झार्खण्डतः केरलं प्रत्यागत्य  तौ निर्धनौ इत्यतः शिशुं परिपालयितुमशक्यौ , अत एव त्यक्तवन्तौ इति उक्तवन्तौ। अनन्तरं आरक्षकैः CWC अधिकृतैः च विधत्ते अन्वेषणे प्रमाणसमाहरणे च तयोरुक्तिः सत्यमित्यवबुध्य तौ विमोचितौ। 

  ततः गतमासे शिशोः उपसंक्रमणमधिकृत्य झार्खण्डीय CWC संस्थां प्रति चर्चा संवृत्ता। शिशोः अभिवर्धनं तस्याः राज्ये, स्वकीयभाषायां संस्कृत्यां स्वजनानां परिरक्षणे एव भवितव्यमिति निर्णयस्याधारे झार्खण्डीय CWC संस्थायै उपसंक्रमितुं निर्णयोSभवत्। 

  तदनुसृत्य सोमवासरे प्रभाते एरणाकुलं रेल् निस्थानात् जनपदीय शिशुक्षेमसमित्यधिकारिणी के एस् सिनि इत्यस्याः नेतृत्वे कश्चन संघः बालनिध्या सह प्रस्थितः। षण्मासं यावत् परिचर्यायाः अन्ते पूर्णारोग्यवती भवति निधिः। मृत्युवक्त्रात् केरलेन परिरक्षिता निधिः झार्खण्डस्य निधिरूपेण अभिवर्धतामिति प्रत्याशा।

 महाराष्ट्रे गुज्राते च कठिना वृष्टिः। 

मुम्बई> महाराष्ट्र गुजरातयोः समुद्रोपान्तप्रदेशेषु कठिना वृृष्टिः आरब्धा। तटप्रदेशेषु जागरूकता विज्ञापिता। पूर्णा कावेरी नद्यौ जलाप्लाविते प्रवहत्यौ। जनैः  जाग्रत्ता पालनीया इति तत्तत्प्रशसनेन विज्ञापितम्।

  दिल्ल्यामपि दिनद्वयं यावत् महती वृष्टिरस्ति। व्योम-स्थलयातायातसुविधा क्लेशतरा वर्तते।

Monday, July 7, 2025

 माषिचीकाष्ठैः प्रतिकृतिं जीवयन् उत्तराखण्डस्य लालः पवनसुन्दरियाल: 

2021 वर्षत: 2022  वर्षपर्यन्तं निरन्तरं द्विःवारं "इण्डिया बुक ओफ् रेकोर्ड् इत्यतु नामाङ्कनं प्राप्तवान्

 वार्ताहर:- कुलदीपमैन्दोला। उत्तराखण्डं।

   उत्तराखण्डस्य पुण्यभूमौ समये समये अद्भुतानि व्यक्तित्वानि जातानि यैः मानवजातिः विस्मयचकितं भूत्वा करद्वयं मुखे स्थापयति। तादृश: एव कश्चन् प्रतिभावान् पुरुषः अद्य अस्माकं समक्षं परिचयाय उपस्थाप्यते। यः माषिचीकाष्ठैः  निर्मिताभिः प्रतिकृतिभिः सर्वेषां मनांसि मोहयति। एषः प्रतिभावान् पुरुषः पंकजसुन्दरियाल: इति प्रसिद्धः अस्ति।

पंकजसुन्दरियालमहोदयस्य जन्म

 द्वितीये निकषप्रतिद्वन्द्वे भारतस्य ऐतिहासिकविजयः। 

+ 'एड्ज् बास्टणे' भारतस्य प्रथमविजयः।

+शुभ मान गिलस्य नायकत्वे प्रथमविजयः। 

+ आकाशदीपस्य १० द्वारकाणामुपलब्धिः।

बर्मिङ्हामः> 'एड्ज् बास्टण्' क्रीडाङ्कणस्य आकाशम् अस्मिन् वारे भारताय प्रकाशितम्। अत्र आहत्य क्रीडितेषु अष्टसु क्रीडासु एकस्यामपि  विजयमधुरं भारतेन न सम्प्राप्तमासीत्। सप्तसु पराजयः, एकस्मिन् समस्थितिः इत्यपमानात्  स्वगणस्य साहाय्येन    शुभ मान गिलः भारतम् अत्युज्वलविजयेन  अभिमानतीरमानयत्। 

  भारत-इङ्लण्टयोः द्वितीयनिकषस्पर्धायां भारतस्य विजयः ३३६ धावनाङ्कानामसीत्। द्वितीयचरणे ९९ धावनाङ्कान् प्रदाय ६ कन्दुकताडकान् क्रीडाक्षेत्रात् बहिः नीयमानः गेन्दकः [Bowler]  आकाश दीपः एव भारतस्य विजयदीपं प्रज्वालितवान्। प्रथमचरणे सः चत्वारि द्वारकाणि सम्पादितवान्। प्रथमचरणे शतकद्वयं द्वितीयचरणे शतकं च सम्प्राप्तवान् दलनायकः शुभमानगिलः एव श्रेष्ठक्रीडकः। 

  ६०८ धावनाङ्काः विजयलक्ष्यं प्रापणीयः इङ्लण्टदलः २७१ धावनाङ्कान् सम्पाद्य बहिर्गताः। पञ्चसंख्याकनिकषपरम्परायाम् इदानीं भारतं १ - १ इति समस्थितिं पर्यपालयत्। तृतीयनिकषः जूलाय् १० दिनाङ्कतः लोर्ड् क्रीडाङ्कणे सम्पत्स्यते।

 अमेरिकायाम् इलोण मस्कस्य नेतृत्वे तृतीयं राजनैतिकदलम् -

'दि अमेरिका पार्टी'। 

मस्कः ट्रम्पश्च। 

न्यूयोर्क्> अमेरिकायाः जनाधिपत्यव्यवस्थायां द्विपक्षसम्प्रदायस्य  दमनमुद्घोषयन् नूतनं राजनैतिकदलं रूपीकुर्वन् टेस्ला-स्पेय्स् एक्स् इत्यस्य अधिपः, यू एस् राष्ट्रस्य कार्यक्षमताविभागस्य (डोज्)  भूतपूर्वाधिकारी, उद्योगप्रमुखश्च इलोण मस्कः।  'दि अमेरिका पार्टी' इति नाम्ना नूतनदलं रूपीकृतमिति शनिवासरे 'एक्स्' समाजमाध्यमेन सः उद्घोषितवान्। 

  अमेरिकीयजनसमुदायाय तेषां स्वातन्त्र्यं प्रतिदातुमेव नूतनदलस्य रूपीकरणमिति सः एक्स्' मध्ये लिखितवान्। यदि यू एन् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य 'Big beautiful' नामकम् आयव्ययपत्रविधेयकं सभायाम् अनुमोदयिष्येत् तर्हि आत्मना स्वकीयं नूतनं राजनैतिकदलं रूपीकरिष्यते इति मस्केन विज्ञप्तमासीत्। पूर्वम् आत्ममित्रे मस्कः ट्रम्पश्च परं बद्धवैरिणौ जातौ।

 उपराष्ट्रपतिः केरलं सम्प्राप्तवान्। 

पत्न्या साकं कोच्चीं प्राप्तवन्तं जगदीप धन्करं राज्यपालः आर् वि आर्लेकरः स्वीकरोति। समीपे राज्यमन्त्री पि राजीवः 

कोच्ची> भारतस्य उपराष्ट्रपतिः जगदीप धन्करः दिनद्वयसन्दर्शनार्थं पत्नीसमेतः केरलं सम्प्राप्तवान्। रविवासरे पत्न्या डो सुदेष् धन्करेण सह  कोच्चि अन्ताराष्ट्रविमाननिलयं प्राप्तवते  उपराष्ट्रपतये राज्यपालस्य राजेन्द्र विश्वनाथ आर्लेकरस्य नेतृत्वे हृद्यं स्वीकरणं विधत्तम्।राज्यमन्त्री पि राजीवः, राज्यकार्यदर्शिप्रमुखः डो ए जयतिलकः, आरक्षकदलस्य राज्याधिकारी रवाडा चन्द्रशेखरः इत्यादयश्च स्वीकरणवेलायां सन्निहिताः आसन्। 

  ह्यः कोच्ची बोल्गाट्टीस्थे आडम्बरभवने उषितवान् उपराष्ट्रपतिः अद्य प्रभाते गुरुवायूर् श्रीकृष्णमन्दिरे पत्नीसमेतः सन् दर्शनं विधास्यति। तदनन्दरं कोच्चीं प्रतिनिवृत्तमाणः सः १०. ५५ वादने 'नुवाल्स्' इति National University of Advanced Legal Studies संस्थायां छात्रैः शिक्षकैश्च संवादं करिष्यति। मध्याह्नानन्तरं दिल्लीं प्रतिगमिष्यति च।

 उत्तरभारते अतिवृष्टिः।

हिमाचले ७५ मरणानि; ओडीशायां १२ ग्रामेषु जलोपप्लवः।

उत्तरभारते विभिन्नस्थानेषु अतिवृष्टिदुष्प्रभावस्य दृश्यम्। 

दिल्ली> उत्तरभारते व्यापकतया अतिवृष्टिः। बहुत्र महान् विनाशः जातः। नवमदिनाङ्कपर्यन्तम् अतिवृष्टिः भविष्यति। 

  हिमाचलप्रदेशे अतिवृष्टिदुष्प्रभावेण ७५ जनाः मृत्युमुपगताः। विंशत्यधिकाः जनाः अप्रत्यक्षाः अभवन्। हिमाचले पञ्चाबे च रक्तजाग्रत्ता उद्घोषिता। 

 ओडीशायां द्वित्राणि दिनानि यावत् अनुवर्तमानया तीव्रवृष्ट्या १० ग्रामाः जलनिमग्नाः जाताः। मध्यप्रदेश्, दिल्ली, हरियानम् इत्यादिषु राज्येषु महती वृष्टिरारब्धा। २५० अधिके मार्गाः जलनिमग्नाः अभवन्। यात्रासुविधा बहुत्र निश्चला जाता।

Sunday, July 6, 2025

 नरेन्द्रमोदी अर्जन्टीनां प्राप्तवान्। 


ब्यूणस् ऐरिस्> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे सायं [प्रादेशिकसमयः] अर्जन्टीनां सम्प्राप्तवान्। पञ्चराष्ट्रपर्यटनस्य अंशतया राजनगरीं ब्यूणस् ऐरिस् प्राप्तवन्तं मोदिनं कलाकार्यक्रमैः तत्रत्यः भारतीयसमाजः स्वीकृतवान्। अर्जन्टीनायाः राष्ट्रपतिः हावियर् मिले इत्यनेन सह तस्य मेलनं सम्पत्स्यते।

 गासा शान्तिमधिगच्छति!

गासा सिटी> गासायां ६० दिनात्मकस्य भुषुण्डिप्रयोगविराम इति यू एस् राष्ट्रस्य निर्देशं प्रति हमासस्य अनुकूलं प्रतिस्पन्दनम्। क्रियात्मकं प्रतिवचनं मध्यस्थेभ्यः समर्पितमिति हमासेन निगदितम्। युद्धविरामं प्रवृत्तिपथमानेतुं प्रक्रमानधिकृत्य चर्चाः अचिरेण भविष्यन्तीति च प्रोक्तम्। 

  युद्धस्थगनसन्धेः प्राग्रूपः इस्रयेलेन अङ्गीकृतः आसीत्। आगामि सप्ताहे युद्धविरामः भविष्यतीति अमेरिकाराष्ट्रपतिः डोनाल्ड ट्रम्पश्च प्रोक्तवान्।

 केरलमुख्यमन्त्री चिकित्सार्थम् अमेरिकामगच्छत्।


अनन्तपुरी> केरलस्य मुख्यमन्त्री पिणरायि विजयः चिकित्सार्थम् अमेरिकादेशं गतवान्। गतदिने दुबाय् देशं प्राप्य ततः एव अमेरिकां प्रस्थितवान्। दशदिनेभ्यः परमेव तस्य प्रतिनिवर्तनम्।

 दलैलामावर्यस्य नवतिः समाचरिता।


धर्मशाला> टिबट् राष्ट्रस्य आत्मीयाचार्यस्य दलैलामावर्यस्य नवतितमं जन्मदिनं रविवासरे हिमाचलप्रदेशस्थे धर्मशाला इत्यत्र समाचरितम्।

   शनिवासरे दलैलामावर्यस्य दीर्घायुषे  समायोजिते प्रार्थनासमारोहे सान्निध्यं कृत्वा परं त्रिंशत्-चत्वारिंशत् वर्षाणि यावत् आत्मनः आयुः प्रतीक्षते इति तेन प्रोक्तम्। अतः गुरुपरम्परायाः अनन्तरगामिनम् अधिकृत्य चर्चायाः विरामः अभवत्।

 तरुणानाम् एकदिनक्रिकट् परम्परा भारतेन स्वायत्तीकृता। 

वैभव सूर्यवंशी। 

लण्टनं> इङ्गलाण्टं विरुध्य ऊनैकोनविंशतिवयस्कानां [Under 19] एकदिनक्रिकट् परम्परायाः पञ्चसु प्रतिद्वन्द्वेषु संख्यात्रयं विजित्य भारतेन परम्परा स्वायत्तीकृता। गतदिने सम्पन्नः चतुर्थः प्रतिद्वन्द्वः भारतेन विजितः।  इङ्गलाण्टं पञ्चपञ्चाशत् धावनाङ्कैः भारतं पराजयत। 

  वैभव सूर्यवंशेः उज्वलशतकं [७८ कन्दुकैः १४३ धावनाङ्काः], विहान मल्होत्रस्य शतकं च [१२१ कन्दुकैः १२९ धावनाङ्काः] भारतविजयस्य आधारशिलाद्वयमभवत्। प्रथमं कन्दुकताडनं कृतवता भारतेन नव ताडकानां विनष्टे  ३६३ धावनाङ्काः प्राप्ताः। इङ्गलाण्टे तु ३०८ धावनाङ्केषु सम्पादितेषु सर्वे बहिर्नीताः।

Saturday, July 5, 2025

अमेरिकादेशस्य टेक्सास्-राज्ये आकस्मिक-जलप्रलयः

 चतुर्विंशतिः जनाः मृताः, त्रयोविंशतिः बालिकाः अप्रत्यक्षाः।

अमेरिकादेशस्य टेक्सास्-राज्ये दुरापन्नेन तीव्रेण वर्षेण सह आकस्मिकजलप्रलयः अभवत्। चतुर्विंशतिः जनाः मृत्युमुपगताः। त्रयोविंशतिः बालिकाः अप्रत्यक्षाः च।

   ओल्- गेल्स् क्रिस्ट्यन् समर्- क्याम्प्" नाम्नि आयोज्यमानायाः एकस्याः बालिकामण्डल्याः त्रयोविंशतिः सदस्याः अप्रत्यक्षाः अभवन्। एतासां घटनानां कारणात् टेक्सास्-राज्ये आयोज्यमानाः स्वतंत्रतादिनस्य महोत्सवाः स्थगिताः। केर्-कौण्टी इत्यस्मिन्नेव प्रान्ते शुक्रवासरे सायं अति वृष्टिः आसीत्। तेनैव कारणेन ग्वाडलूप्-नद्याः तीरे आकस्मिकः जलप्रलयः अभवत्। विद्युत्स्फु लिङ्गेन सह जलप्रवाहः जातः, तथा च तस्याः नद्याः कूलप्रदेशे एव आयोजितः आसीत् ओल्- गेल्स् क्रिस्ट्यन् समर्- क्याम्प्" इति ज्ञायते।

   टेक्सास्-राज्यस्य राज्यपालः ग्रेग् अबोट् इत्यनेन प्रतिपादितं यत् रक्षा-कार्यम् अत्यन्तं तीव्रगत्या प्रचलति। दुर्घटनायाः सन्दर्भे सर्वकारेण धनसाहायः घोषितः। राष्ट्रपति डोनाल्ड् ट्रम्पः घटनेऽयं भयकरी इति उक्तवान् सः टेक्सास्-राज्यस्य राज्यपालेन सह सततम् सम्पर्कं कुर्वन् अस्ति इति च उक्तवान्।

 इङ्गलण्ट-भारतनिकषस्पर्धा 

क्रीडासूत्रं भारतस्य हस्ते। प्रथमचरणे भारतस्य १८० धावनाङ्कानामाधिपत्यम्। 

शतकयुगलं प्राप्तवान् शुभमान गिलः। 

बर्बिङामः> भारतेङ्गलण्टयोः द्वितीयायाः क्रिकट् निकषस्पर्धायाः प्रथमचरणे  भारतस्य आधिपत्यम्। इङ्गलण्टस्य कन्दुकताडनं ४०७ धावनाङ्कप्राप्तौ समाप्तम्। पूर्वं भारतेन शुभमान् गिलस्य शतकयुगलस्य [२६९] प्रभावेण  ५८७ धावनाङ्कानि सम्प्राप्तानि। अतः १८०  धावनाङ्कानामाधिपत्यं भारतेन प्राप्तम्। 

  द्वितीयचरणे कन्दुकताडनम् आरब्धवता भारतदलेन, तृतीयदिनक्रीडायां समाप्तायां ताडकैकस्य विनष्टे ६४ धावनाङ्कानि प्राप्तानि। इदानीं भारतस्य २४४ धावनाङ्कानाम् आधिपत्यमस्ति।

 वान्हाय् पण्यमहानौकायां पुनरपि अग्निकाण्डः। 


कोच्ची> आरबसमुद्रे अग्निबाधया विशीर्णप्राया वान्हाय् पण्यमहानौका पुनरपि अग्निग्रस्ता जाता। तत्र अग्निनिर्व्यापनाय महान्तमुद्यमम् अनुवर्तमानमानमासीत्। अग्निं पूर्णतया निर्व्याप्य महानौकां  श्रीलङ्कायां हम्पन् टोटा नौकाश्रयं नेतुं परिश्रमः सन्दिग्धतां प्राप। 

  इतः पर्यन्तं १२,००० लिटर् मितं रासमिश्रितं अग्निनिर्व्यापनाय उपयुक्तम्। ३००० लिटर् मितं रासमिश्रितं अवशिष्यते च।

 नरेन्द्रमोदी 'ट्रिनिडाड् आन्ड् टोबैगो' राष्ट्रे।

पोर्ट् आफ् स्पेयिन्>  विदेशराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी गतदिने 'ट्रिनिडाड् आन्ड् टोबैगो' नामके करीबियाद्वीपराष्ट्रं सम्प्राप्तवान्। ट्रिनिडाडस्य प्रधानमन्त्री कमला पेर्साद् इत्यस्याः नेतृत्वे उज्वलं स्वीकरणं मोदिने दत्तम्। 

  ततःपरं पोर्ट् आफ् स्पेयिन् इति राजधानीनगरे नरेन्द्रमोदी भारतीयजनसमाजम् अभिसम्बुध्यते स्म। तद्राष्टस्य  प्रधानमन्त्रिणः कमला पेर्सादस्य पूर्विकाः  भारते बिहारस्थाः आसन् इत्यतः बिहारस्य राजनैतिक-सांस्कृतिकविषयेषु औन्नत्यं मोदिना प्रशंसितम्।

Friday, July 4, 2025

गर्भस्थशिशोः मस्तिष्कपर्यन्तं सूक्ष्मप्लास्टिकद्रव्याणि  नवीनम् अनुसन्धान फलम् ।


    गर्भिण्याः शरीरात् गर्भस्थशिशुं प्रति सूक्ष्मप्लास्टिकद्रव्याणि सञ्चरन्ति, तानि तस्य मस्तिष्कं, हृदयम्,  श्वासकोशम् इत्यादीनि महत्त्वपूर्णाङ्गान् अपि बाधन्ते इति अध्ययनस्य निष्कर्षः।

   न्यू-जर्सी-प्रदेशे रट्गर्स्-नाम्नी अमेरिकायाः विश्वविद्यालये सम्पन्ने अनुसन्धाने एव एषा विस्मयजनका 

 भीतिप्रदा च सूचना लब्धा। माइक्रोप्लास्टिक् इति सूक्ष्मप्लास्टिकशेषद्रव्याणि मातुः गर्भाशयं,   प्लासेण्टम् च अतिक्रम्य, गर्भस्थशिशोः मस्तिष्कं, हृदयम्, यकृत्, वृक्का, श्वासकशः इत्यादिषु भागेषु व्याप्नुवन्ति इति प्रतिपादितम्।

विशेषतया पोलिमाइड्-१२ (PA-12) इति सूक्ष्मप्लास्टिकद्रव्येण परेक्षणे संपर्कं  दत्तः  गर्भिण्यः मूषिकायाः गर्भस्थशिशोः समस्ताङ्गेषु उक्तद्रव्यस्य उपस्थितिः दृष्टा।

एते माइक्रोप्लास्टिकद्रव्याणि पंचमिलिमिटरतः अपि लघूनि सन्ति। वायौ, जले, आहारद्रव्येषु च तेषां उपस्थितिः सम्भविता अस्ति। श्वसनमार्गेण, पाचनमार्गेण च शरीरं प्रविशन्ति। ततः कोशझिल्लिकाः अतिक्रम्य रक्तधारया सह गत्वा अत्यावश्यकानि आन्तराङ्गानि बाधयन्ति।

विशेषतः बालानां शरीरविकासकालदशायां एते द्रव्याणि कोशविकासं, अंगक्रियाम्, सम्यग्वृद्धिं च प्रतिकूलतया प्रभावितुम् अर्हन्ति।


निष्कर्षः — प्लास्टिकस्य अतीव सूक्ष्मद्रव्याणां शरीरे प्रवेशः बालशरीरविकासाय घातकः अस्ति। अतः लोकः स्वस्य पर्यावरणे सूक्ष्मप्लास्टिकद्रव्यवर्जनाय सजगः स्यात्।

यदि त्वम् इच्छसि, तर्हि अयं लेखः लघुपत्रिकायाम् (bulletin), वाचिकप्रस्तावनायाम् वा उपयोगाय अनुकूलतया परिवर्तयitum शक्यते।

 केरले वैद्यककलालयस्य भवनं भग्नं - एका महिला मृता।

दुर्घटनायां मृतीभूता बिन्दू, दुर्घटनाधीनं भवनं च। 

कोट्टयं> केरले कोट्टयं नगरे विद्यमानस्य वैद्यककलालयस्य [Medical College] ६८ वर्षाणां पुरातनत्वं कल्प्यमानस्य भवनसमुच्चयस्य कञ्चन अंशं भग्नीभूय एका महिला मृता। वैद्यककलालये चिकित्सार्थं प्रविष्टमानायाः युवत्याः माता तलयोलप्परम्प निवासिनी बिन्दू [५४] अस्ति एषा  दुर्योगाधीना। 

  ह्यः प्रभाते १०. ५० वादने आसीदियं दुर्घटना। प्रस्तुतभवनम् उपयोगरहितमासीत् इति कथ्यतेSपि अत्रत्याः  शौचालयाः रोगिभिः तेषां  परिचारकैश्च उपयुज्यमानाः आसन्। भवने भग्ने बिन्दू तत्रत्ये  शौचालये लग्ना अभवत्।  समीपस्थाः द्वित्राः अल्पव्रणिताः सन्तः रक्षिताः। 

  दुर्घटनावृत्तान्तं ज्ञात्वा स्वास्थ्यमन्त्री वीणा जोर्जः, सांस्कृतिकमन्त्री वि एन् वासवश्च दुर्घटनास्थानं प्राप्तवन्तौ। किन्तु उपयोगरहितं भवनमित्यतः  जनापायः न घटितः इति आतुरालयाधिकारिणां सूचनामवलम्ब्य मन्त्रिभ्यां प्रस्तुतं च। किन्तु स्वस्य माता  तत्र शौचार्थं गतवतीति आतुरालयं प्रविष्टायाः नवमीत्यस्याः युवत्याः परिदेवने श्रुते रक्षाप्रवर्तनं समारब्धम्। तावता होराद्वयस्य विलम्बः जातः आसीत्। नवम्याः मातुः मृतदेह एव समधिगतः।

 नरेन्द्रमोदिने घानाराष्ट्रस्य परमोच्चबहुमतिः। 

घानाराष्ट्रस्य परमोन्नतपुरस्कारः मोदिवर्याय दीयते। 

अक्र> पश्चिमाफ्रिक्कीयराष्ट्रस्य घानस्य परमोच्चबहुमतिः 'The Officer of the Order of the Star of Ghana' नामिका भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने सम्मानिता। बुधवासरे सम्पन्ने कार्यक्रमे घानस्य राष्ट्रपतिः जोण् द्रमाणि महामः पुरस्कारं समदात्। 

  आगोलस्तरे नरेन्द्रमोदिनः प्रभावं, विशिष्टां राष्ट्रतन्त्रज्ञतां च पुरस्कृत्य एवायं पुरस्कार इति राष्ट्रपतिना उक्तम्। भारतस्य १४० कोटिमितेभ्यः जनेभ्यः पुरस्कारः स्वीक्रियते इति मोदिवर्यः अवोचत्।

Thursday, July 3, 2025

 प्रधानमन्त्री घानाराष्ट्रं सम्प्राप्तवान्।

ब्रिक्स् उच्चशिखरे भागं करिष्यति। 


अक्र> दिनद्वयात्मकसन्दर्शनाय भारत प्रधानमन्त्री नरेन्द्रमोदी घाना इति आफ्रिकाराष्ट्रं सम्प्राप्तवान्। घानाराष्ट्रपतेः जोण् द्रमनि महाम इत्यस्य आमन्त्रणं स्वीकृत्य आसीत् मोदिवर्यस्य घानासन्दर्शनम्। 

  उभयोरपि राष्ट्रयोः सौहार्दं सम्पुष्टीकर्तुं चर्चाः भविष्यन्ति। जूलाय् ६, ७ दिनीङ्कयोः ब्रसीलस्थे रियो डि जनैरो इत्यत्र सम्पद्यमाने ब्रिक्स् राष्ट्राणाम् उच्चशिखरसम्मेलने प्रधानमन्त्री भागं वक्ष्यति।

 आत्मनः अनन्तरगामी भविष्यतीति दलैलामः। 

धर्मशाला (हिमाचलप्रदेशः) >   विश्वासिनां दीर्घकालीयाशङ्कां परिहृत्य, आत्मनः अनन्तरगामी भविष्यतीति टिबटस्य आत्मीयाचार्येण दलैलामवर्येण उद्घोषितम्। दलैलामा गुरुपरम्परा  अनुवर्तिष्यते, २०११ तमे वर्षे धर्मशालायां रूपीकृतः  'गाडन् फ्रोद्राङ्' नामकः प्रवासि सर्वकारः एव दलैलामानिर्वाचनस्य अधिकारीति गतदिने दलैलामावर्येण निगदितम्। दलैलामानिर्वाचने व्यवधातुं चीनप्रशासनस्य उद्यमस्य प्रत्युत्तररूपेणैव तेन एतत् सबलं स्पष्टीकृतम्। 

  १४ तम दलैलामस्य ९०तमं जन्मदिनं आगामि रविवासरे अस्ति। तद्दिने नूतनः दलैलामः उद्घोषयिष्यते इति प्रतीक्षा वर्तते।

 शुभांशुः मित्रैः सह 'मैक्रो आल्गे' परीक्षणेषु व्यापृतः वर्तते। 

बङ्गलुरु> अन्ताराष्ट्र बहिराकाशनिलये शुभांशु शुक्लः सहप्रवर्तकाश्च अतिमुख्यानि परीक्षणानि आरभन्त। इस्रो संस्थया नियुक्तानि परीक्षणानि च शुभांशोः कार्यभारे अन्तर्भवन्ति। 

  मैक्रो आल्गे नामकान् सूक्ष्मजीविनाम् अधिकृत्य परीक्षणानि शुभांशुना आरब्धानि। दीर्घकालं यावत् बहिराकाशदौत्यार्थं गच्छद्भ्यः सुस्थिरं पोषकसमृद्धं च भोज्यं परिकल्पयितुमस्ति मैक्रो आल्गे परीक्षणानि। 

  जलभल्लूकः [Water beer] नामकः जलसूक्षजीवी मैक्रो ग्राविटी इत्यवस्थायां कथं प्रतिस्पन्दते, सयनोबाक्टीरिया इति प्रकाशसंश्लेषणशेषीयुक्तस्य जलजीविनः प्रवर्तनं, षट्वर्गीयाणां बीजानां वृद्धिः, तेषां पत्राणां विकासः, बीजानाम् अङ्कुरणम् इत्यादयः इस्रो संस्थायैः शुभांशोः परीक्षणानि सन्ति।

Wednesday, July 2, 2025

 हिमाचले जलप्रलयः - २३ मरणानि। 

षिम्ला> दिनत्रयं यावत् अनुवर्तमानया अतिवृष्ट्या हिमाचलप्रदेशे जलप्रलयः। सोमवासरे मेघविस्फोटनं दुरापन्नमिति सूच्यते। प्रलयदुष्प्रभावेन २३ जनाः मृत्युमुपगताः इति सर्वकारेण निगदितम्।

  भवनानि विशीर्णानि। माण्डिप्रदेशे भवति अधिकाधिकं विनाशः।

 तेलङ्काने औषधनिर्माणशालायां स्फोटनम्

३६ मरणानि। 

औषधनिर्माण शालायां दुरापन्ने स्फोटने विधत्तं रक्षाप्रवर्तनम्। 

हैदराबादः> तेलङ्कानराज्ये पषामैलारम् इत्यत्र औषधनिर्माणशालायां सोमवासरे  दुरापन्ने स्फोटने मृतानां संख्या ३६ अभवत्। मरणसंख्या वर्धिष्यते इति सूच्यते। 

  ' सिगाच्ची फार्मा कम्पनी' संस्थायाः  रियाक्टर् मध्ये आसीत् स्फोटनम्। मृतेषु अधिके ओडीषा- पश्चिमवंग- बिहारराज्यीयाः भवन्ति। मृतानां प्रत्यभिज्ञानं दुष्करमित्यतः डि एन् ए [D N A] परिशोधनेन प्रत्यभिज्ञातुं प्रक्रमाः आरब्धाः। अद्यावधि नव मृतशरीराणि प्रत्यभिज्ञातानि।

 दक्षिणभारतस्फोटनानि 

द्वौ निष्ठुरभीकरवादिनौ निगृहीतौ। 

चेन्नई> केरलं, तमिलनाड् इत्यादिषु दक्षिणभारतराज्येषु विधत्तानां स्फोटनानां सूत्रधारौ, विंशतिवर्षाधिकं यावत् निलीय वर्तमानौ, द्वौ निष्ठुरौ भीकरौ तमिलनाड् आरक्षकसेनायाः भीकरविरुद्धसेनया 'क्यू ब्राञ्च्' इत्यनया आन्ध्रप्रदेशतः निगृहीतौ।

  तमिलनाडस्थे नागूर् प्रदेशीयः अबूबकर् सिद्दिखः, तिरुनेलवेली प्रदेशीयः मुहम्मद अलिः इत्येतौ केरलं, तमिलनाड् राज्ययोः आरक्षकस्थानानि, भूतपूर्वः उपप्रधानमन्त्री एल् के अड्वाणिवर्येण विधत्ता रथयात्रा, चेन्नैयां हिन्दुसभाकार्यालयम् इत्यादीनि लक्ष्यीकृत्य जातानां स्फोटनानां सूत्रधारौ आस्तामेतौ।

Tuesday, July 1, 2025

 रवाडा चन्द्रशेखरः केरलस्य आरक्षकसेनायाः सर्वाधिकारी। 


अनन्तपुरी> डि जि पि पदीयः रवाडा आसाद्  चन्द्रशेखरः केरलराज्यस्य आरक्षकसेनायाः सर्वाधिकारिरूपेण नियुक्तः। केन्द्रप्रशासने सेवामनुष्ठीयमानः सः ततः विमोचितः सन् अद्य केरले कार्यभारं स्वीकरिष्यति। 

  आन्ध्रप्रदेशीयः रवाडा इदानीं सि ऐ बी संस्थायां सविशेष निदेशकरूपेण  [Special Director] सेवां कुर्वन्नस्ति। वर्तमानीनः डि जि पि पदीयः डो षेय्ख् दर्वेश साहिबः सेवानिवृत्तः इत्यनेनैव रवाडा चन्द्रशेखरस्य स्थानलब्धिः।

 वर्धापितं रेल् यानयात्रावेतनम् अद्य आरभ्य। 

चेन्नई> रेल् यानयात्रायाः वर्धापितं वेतनमानम् अद्य प्रवृत्तिपथमायाति इति रेल् मन्त्रालयेन निगदितम्। पञ्चवर्षेभ्यः परमेव यात्रामूल्यं वर्धते। मेयिल्, एक्स्प्रेस् वातानुकूलरहितचीटिकानां एककिलोमीटर् दूराय पैसैकस्य वर्धनमस्ति। वातानुकूलितचीटिकाभ्यः पैसाद्वयं किलोमीटर्दूराय वर्धते। सामान्यस्तररेल् यानेषु प्रथम ५०० कि मी दूराय वर्धनं नास्ति। ततःपरं किलोमीटर्दूराय पैसार्धस्य वर्धनमस्ति।

 भारत-इङ्गलाण्ट क्रिकट् 

द्वितीया निकषस्पर्धा श्वः आरभ्य।

भारतदलम्।

बिर्मिङामः> भारत-इङ्गलाण्टयोर्मध्ये द्वितीया क्रिकट् निकषस्पर्धा बुधवासरे 'एड्ज् बास्टण्' क्रीडाङ्कणे आरप्स्यते। प्रथमस्पर्धायां भारतं पराजितमासीत्। 

  यदि 'एड्ज् बास्टण्' क्रीडाङ्कणे भारतं विजयते तर्हि तत् चरित्रपरमिति मन्यते। यतः तस्मिन् क्रीडाङ्कणे भारतम् इतःपर्यन्तं न विजयीभूतम्। तत्र क्रीडितेषु अष्ट क्रीडासु सप्तसु पराजयमन्वभवत्। एकस्मिन् प्रतिद्वन्द्वे समस्थितिरासीत्। अतः एतां स्पर्धां भारतीयाः क्रिकट्प्रेमिणः आकाङ्क्षापूर्वं प्रतीक्षन्ते।

 जनसंख्यागणना - गृहगणना एप्रिल् मासे आरप्स्यते। 

नवदिल्ली> भारतीयजनसंख्यागणनाप्रवर्तनस्य प्रथमसोपानरूपेण गृहाणां सम्पत्तीनां च गणना एप्रिल् मासस्य प्रथमदिनाङ्कतः आरप्स्यते इति भारतस्य रजिस्ट्रार् जनरल् पदीयः गणनायोजनायाः आयोजिता च मृत्युञ्जय कुमार नारायणः  निगदितवान्। 

  जनसंख्यगणनाप्रवृत्तेः सोपानद्वयमस्ति। प्रथमसोपाने वासगृहाणां संख्या, प्रत्येकं गृहस्य अवस्थाः, धनविभवाः, सुविधाश्च समाकरिष्यन्ति। द्वितीयसोपाने प्रतिगृहं प्राप्य वैयक्तिक सामाजिक सांस्कृतिक आर्थिक शैक्षितस्तराणां वृत्तान्ताः सङ्गृहीष्यन्ते। अनेन सह जातिवृत्तान्तमपि समाहरिष्यन्ति।

Monday, June 30, 2025

 अहम्मदाबादे आकाशदुरन्तः। 

प्रतिलोमसंभाव्यता परिशुध्यते। 

अहम्मदाबादः> अहम्मदाबादे जूण् १२ तमे दिनाङ्के दुरापन्नायां  विमानदुर्घटनायां प्रतिलोमसम्भाव्यता अपि परिशुध्यते इति केन्द्रव्योमयानसहमन्त्रिणा मुरलीधरमोहेलवर्येण प्रोक्तम्। दुर्घटनास्थानात् सङ्कलितानि सि सि टि वि दृश्यानि अपि अन्वेषणसंस्थाभिः परिशुध्यन्ते। 

 ए ए ऐ बि संस्थायाः [Aircraft Accident Investigation Bureau]  नेतृत्वे अस्ति मुख्यतया अन्वेषणम्। दुर्घटनायां २४१ यात्रिकान् अभिव्याप्य २७५ जनाः मृत्युमुपगताः।

 भारतस्य 'डिजिटल् जनाधिपत्य'पदक्षेपः।

राष्ट्रे इदंप्रथमतया 'मोबैल् ई मतदानं' कृत्वा बिहारीयाः।

पाट्ना>  जङ्गमदूरवाण्यधिष्ठिततन्त्रांशद्वारा [Mobile E App] मतदानं कुर्वत्  प्रथमराष्ट्रं भवति भरतम्। शनिवासरे सम्पन्ने प्रादेशिकनिर्वाचने जनाः ईदृशरीत्या स्वमतदानमकुर्वन्। 

पूर्वीयचम्पारन् जनपदे पक्रि दयाल् इत्यत्र बीबा कुमारी भवति प्रथमतया  जङ्गमदूरवाण्यधिष्ठिततन्त्रांशद्वारा मतदानं कृतवतीति राज्यनिर्वाचनायोगेन निगदितम्। 

  षट् नगरसभाः ग्रामसभाः च प्रति सम्पन्ने निर्वाचने आहत्य ६२. ४१% जनाः मतदानं कृतवन्तः। मतदानकेन्द्राणि प्राप्तुं ये क्लेशमनुभवन्ति तेषां कृते आसीत् ई - मतदानानुमतिः दत्ता।

Sunday, June 29, 2025

 उत्तरखण्डे आकस्मिकप्रलयः - नव कर्मकराः अप्रत्यक्षाः। 

कुलु> उत्तरखण्डस्थे उत्तरकाशिप्रदेशे रविवासरस्य प्रत्युषसि दुरापन्ने आकस्मिकप्रलये भवनसमुच्चयनिर्माणे व्यापृताः नव श्रमिकाः अप्रत्यक्षाः जाताः। कतिपयदिनानि यावत् तत्र अतिवृष्टिः अनुवर्तिता भवति। अद्य रक्तजाग्रताता उद्घोषिता।

 शुभाशु - प्रधानमन्त्रिणोः संवादः सम्पन्नः। 

"वसुधैव कुटुम्बकम् ; आत्यन्तिके मानवाः अद्वितीयाः इव" - शुभांशुः। 


नवदिल्ली>  इदं प्रथमतया  अन्ताराष्ट्रबहिराकाशनिलयं प्राप्तवान् भारतीयः शुभांशु शुक्लः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह सम्भाषितवान्। शुभांशवे सुहृद्भ्यश्च शुभकामनाः आशंसितवान् मोदिवर्यः। 

मोदिनः कुशलप्रश्नाय 'अहमत्र सुरक्षितः, परीक्षणादिकर्मसु व्यापृतः वर्ते' इति प्रत्युत्तरम् उक्तवान्। 

  बहिरन्तरिक्षात् भवता किं प्रथमं दृष्टमिति प्रधानमन्त्रिणः प्रश्नस्य शुभांशोः प्रतिवचनमित्थमासीत् - " राष्ट्रसीमारहितां केवला पृथ्विरेका  एव दृश्यते। आत्यन्तिकतया मानवानाम् एकत्वमेव प्रतीयते। भूमिः एक एव परिवारः इति भाति" 

  अष्टादश मिनिट् मितकालाधिकं तयोः संवादः अवर्तत। निलये तस्य व्यवहारनिष्ठाः, भोजनव्यवस्थाः, अनुभवाः इत्यादयः  सम्भाषणविषयाः अभवन्।

 पाकिस्थाने आत्मघात्याक्रमणं - १६ सैनिकाः हताः।

पेषवार्> अफ्गानिस्थानोपान्ते खैबर् पक्तूण ख्व इति पाकिस्थानीयप्रदेशे शनिवासरे जाते आत्मघात्याक्रमणे १६ सैनिकाः हताः। २९ जनाः क्षताः जाताः। आहतेषु  सामान्यजनाः प्रादेशिकप्रशासनाधिकारिणश्च अन्तर्भवन्ति। 

  आक्रमणस्य उत्तरदायित्वं 'पाकिस्थान तालिबान्' इति कथ्यमानस्य 'तेह्रिके तालिबान् पाकिस्थानं' [टि टि पि]  संघटनस्य हाफिस् गुल् बहादूर् इति शाखासंघटनेन स्वीकृतम्। 

  सैन्यस्य वाहनव्यूहेन सह  स्फोटकवस्त्वुपेतं वाहनं आत्मघातिना संघट्टितमासीत्। स्फोटने समीपस्थं भवनद्वयं विशीर्य षट् बालकाः आहताः।

Saturday, June 28, 2025

 अहम्मदाबाद विमानदुर्घटना 

'ब्लाक् बोक्स्' स्वीकृतांशानां पुनर्ग्रहणं सम्पूर्णम्। 

तत्वांशविशकलनं पुरोगम्यते। 

नवदिल्ली> अहम्मदाबादे दुर्घटनाधीनस्य एयर् इन्डिया विमानस्य 'ब्लाक् बोक्स्' इति उपकरणद्वयम् अधिगम्य तयोरन्तभूतान् दत्तांशान् [datas] पुनर्गृहीतुं प्रयत्नः सम्पूर्ण इति व्योमयानमन्त्रालयेन निगदितम्। ताभ्यां दत्तांशानां विशकलनमारब्धमिति च मन्त्रालयेन सूचितम्।


'

 अमरनाथ तीर्थाटनं जुलाई तृतीयदिनाङ्के आरप्स्यते। 


जम्मु> अमरनाथ तीर्थाटनं आगामिसप्ताहे आरप्स्यमाणे प्रयाणक्षेत्रेषु सुरक्षा प्रबलीकृता। सीमायां संघर्षे वर्तमाने जम्मु काश्मीरस्य आरक्षकदलं विना अर्धसेनाविभागस्य १८० कम्पनिमितं सैनिकाः पर्यटकाणां सुरक्षायै नियुक्ताः इति सर्वकारेण निगदितम्।

   तीर्थाटकानां प्रथमसंघः जुलाई तृतीयदिनाङ्के प्रयाणमारप्स्यते। अमरनाथप्रयाणाय द्वौ मार्गौ विद्येते। अनन्तनागजनपदस्थे पहल्गाम मार्गेण ४८ कि मी दूरमस्ति। गन्धर्बाल् जनपदस्थेन बाल्तल् मार्गेण १४ कि मी दूरस्य ऊनमस्ति चेदपि यात्रा कठिना भविष्यति।

 केरले अतिवृष्टिः। 

आकेरलं महानाशः, निम्नप्रदेशेषु जलोपप्लवः, पञ्च मरणानि।

कोच्ची> केरले कतिपयदिनैः अनुवर्तमानया अतिवृष्ट्या बहुत्र महानाशः अभवत्। विविधस्थानेषु वृष्टिदुष्प्रभावेण ५ जनाः मृत्युमुपगताः। द्वौ जलप्रवाहे पतित्वा, त्रयः वंगराज्यीयाः  वासगृहं विशीर्य च मृत्युं प्राप्ताः। 

  केरले सर्वाः जलसम्भरण्यः सम्पूर्णाः विद्यन्ते। तासु बाणासुरसागर (वयनाट्), मलम्पुष़ा (पालक्काट्) इति जलसम्भरणीद्वयस्य जलबहिर्निर्गमनद्वाराणि उद्घाट्य अधिकजलं बहिः प्रवाहयितुमारब्धम्।

Friday, June 27, 2025

 एकोनविंशतितमं विश्व-संस्कृत-सम्मेलनं  काठमाण्डूनगरे समारब्धम्

एकोनविंशतितमं विश्व-संस्कृत-सम्मेलनं गुरुवासरे (2025 जुन् 27) काठमाण्डूनगरे समारब्धम्।  नेपाल-संस्कृत-विश्वविद्यालयेन नेपाल-अकाडमी-सभागारे आयोजिते सस्मिन् पञ्चदिनात्मके सम्मेलने विद्वांसः, संशोधकाः, संस्कृतानुरागिणः च विविधदेशेभ्यः, विशेषतः भारतात्, यूरोपात्, अमेरिका-देशात् च, भागं स्वीकुर्वन्तः सन्ति।


सम्मेलनस्य उद्घाटनसत्रे नेपालस्य राष्ट्रपतिः रामचन्द्रः पौडेलः भाषणं कृतवान्। सः अवदत् 

  "'नेपाल' इति शब्दः वेदेषु अपि दृश्यते। लिच्छवि-मल्लकालादपि संस्कृतस्य प्रचुरं प्रयोगः अस्तीति शिलालेखैः (द्विशताधिकैः) प्रमाणीकृतम्।" राष्ट्रपतिना संस्कृतस्य ह्रासकारणमपि निरूपितम् 

 "स्त्रीणां, नीचवर्णीयानां च जनानां प्रति अध्ययनं विहितं नासीत्, अतः प्रचलने न्यूनता जातम्। परं वर्तमानतः राज्येन तस्य प्रचारः संरक्षणं च क्रियते।"

नेपाल-संस्कृत-विश्वविद्यालयस्य बौद्ध-अध्ययन-विभागाध्यक्षः प्रो. काशीनाथ-नेउपाने उक्तवान् –

"सर्वेषां देशेषु संस्थानात् अत्र आगतान् भागिनः प्रति वयं सादरं स्वागतं कुर्मः।

 "भारतीयः धर्माचार्यः चिन्ण-जीयर्-स्वामिः अपि भाषणं कृत्वा उक्तवान् –

"संस्कृतं देवभाषा। वेदेषु ईश्वरः यथारूपेण प्रकाश्यते। संस्कृतं लोकान् एकत्र आनयति।"

सायं समये भारतीय- सांस्कृतिक-नृत्यानि (कथक्, भरतनाट्यम् इत्यादीनि) समर्प्य सांस्कृतिक-कार्यक्रमः अपि आयोज्यते स्म।

एतत् सम्मेलनं जवाळाखेलप्रदेशे स्थिते DAV सुशील् केडिया विश्व-भारती-विद्यालये जुन् 30 तमे दिनाङ्कं यावत्  भविष्यति।

 शुभप्रवेशः।

बहिराकाशयात्रिकाः सुरक्षिताः अन्ताराष्ट्रनिलयं प्रविष्टवन्तः।

चत्वारः यात्रिकाः बहिराकाशनिलयस्य अन्तः। 

अन्ताराष्ट्रनिलयं प्राप्तवान् प्रथमो भारतीयः शुभांशु शुक्लः। 

फ्लोरिडा> १४० कोटि जनानामभिमानं गतदिने बहिराकाशं प्राप्य वज्रकान्तिं प्राप। शुभांशु शुक्लः नाम उत्तरप्रदेशीयः इदंप्रथमतया अन्ताराष्ट्रबहिराकाशनिलयं प्रविष्टवान् भारतीयः अभवत्। तदा उत्तर अत्लान्टिक् समुद्रस्य उपरि ४२४ कि मी उच्चस्थाने आसीत् ऐ एस् एस् नामकम् अन्ताराष्ट्रबहिराकाशनिलयम्। 

बुधवासरे विक्षिप्तं ड्रागण् इति बहिराकाशपेटकं शुभांशुमभिव्याप्य चतुरः यात्रिकान् ऊढ्वा २८ होराणां प्रयाणानन्तरं गुरुवासरे सायं  सार्धचुर्वादने बहिराकाशनिलयेन सह सम्बद्धम्। 'डोकिंग्' इति एतत्प्रक्रियानन्तरं पेटकनिलययोः अन्तर्मर्दसमीकरणादीन् क्रियाविधीन् समाप्य उपषट्वादने [भारतसमयः] ड्रागणपेटकात् एकैकशः बहिराकाशनिलयं 'प्रवाहावतरणं' कृतवन्तः। 

  प्रथमं दौत्यस्य नेता पेग्गी विट्सण् , द्वितीयः भारतस्य शुभांशु शुक्लः, ततः स्लावोस् उस्लन्स्कि विस्नीस्कि [पोलण्ट्], अनन्तरं टि बोर् कापुः [हंगरी] च निलयं प्रति तत्र वर्तमानीयैः यात्रिकैः प्रेमालिंगनेन  स्वीकृताः।

 इरान-इस्रयेलयोः युद्धे इरानस्य विजय इति अयत्तोल्ला खमीनि। 

अयत्तोल्ला खमीनिः। 
 

टेहरानः> परस्पराक्रमणस्थगनानन्तरं प्रथमप्रतिकरणेन इरानस्य परमोन्नतनेता अयत्तोल्ला अलि खमीनिः। इस्रयेलं विरुध्य युद्धे इरानः विजयीभूतः, अमेरिकाप्रशासनस्य उपरि  मुखप्रहरं कर्तुम् अवसरः लब्धः इति खमीनिना अभिमानितम्। इरानस्य राष्ट्रियदूरदर्शनद्वारा आसीत् खमीनेः प्रस्तावः। 

  इस्रयेलस्य पराजयमासन्नं भवेदिति चिन्तायामासीत् अमेरिकायाः व्यवधानम्। किन्तु अमेरिकायाः खत्तरस्थं सैनिकनिलयमाक्रम्य अमेरिकां प्रति महाप्रहरं विधातुमशक्नोत् इति च खमीनिः उक्तवान्। इरानस्य आणवनिलयं प्रति अमेरिकायाः आक्रमणं व्यर्थं जातमिति अमेरिकया अवबोधितमिति च तेन प्रस्तुतम्।

 हिमाचले आकस्मिकप्रलयः - चत्वारि मरणानि। 

षिंला> हिमाचले कतिपयदिनैः दुरापन्नानां मेघविस्फोटनानाम् अंशतया जाते आकस्मिकजलोपप्लवे मृतानां संख्या चत्वारि अभवत्। कांग्र, कुलु जनपदेषु वसन्तः एव मृताः। गतदिने विंशति जनाः जलप्रपाते अप्रत्यक्षाः इति वृत्तान्तः आगत आसीत्। इतरेभ्यः अन्वेषणमनुवर्तते।

Thursday, June 26, 2025

 ऊस् चतुरङ्गस्पर्थायां प्रज्ञानानन्दः विजयकिरीटं प्राप्तवान् ।

   भारतस्य कुशलाः कुमाराः यथाकालं विजयं प्राप्नुवन्ति। उस्बक्किस्थाने आयोजितायां चतुरङ्गक्रीडायां भारतस्य प्रज्ञानानन्दः प्रथमस्थानं प्राप्तन्। अष्टमश्रेण्याः स्पर्धा पर्यन्तं प्रथमस्थाने विराजितं नोडिर् बेक् अब्दुसत्तो रोव् इत्याख्यं पराजित्य आसीत् अस्य विजयः ।

 शुभांशवे शुभयात्रा। 

शुभांशुः सहयात्रिकाश्च बहिराकाशनिलयं प्राप्तवन्तः।

 ४१ वर्षेभ्यः परं बहिराकाशं प्राप्यमाणः भारतीयः।

फ्लोरिडा> षट्वारं परिवर्तितम् आक्सियं ४ दौत्यं विजयपथम् अवाप। भारतीयः शुभांशु शुक्लस्य चालकत्वेन वर्तमानं   स्पेय्स् एक्स् संस्थायाः ड्रागणपेटकं वहन्ती फाल्कण् - १० इति विक्षेपिणी इतरैः त्रिभिः यात्रिकैः सह बुधवासरे १२ वादने (भारतसमयः) यू एसे फ्लोरिडा केन्नडि बहिराकाशकेन्द्रात् उदगच्छत्। अद्य अपराह्ने  चतुर्वादने नासायाः अन्ताराष्ट्र बहिराकाशनिलयं प्राप्य पेटकं निलयेन सह बद्धम्।

 हिमाचलप्रदेशे मेघविस्फोटनं  - २० जनाः अप्रत्यक्षाः।द्वौ मृतौ। 

षिंला> हिमाचलप्रदेशे मेघविस्फोटनं दुरापन्नम्। तस्य   दुष्प्रभावेण जातायाम्  अतिवृष्ट्यां विंशति जनाः अप्रत्यक्षाः जाताः। तेषु द्वयोः मृतदेहौ अधिगतौ। द्वित्रिभिः दिनैः अनुस्यूतायाम् अतिवृष्ट्यां महान्नाशः। पञ्च जनपदेषु रक्तजाग्रत्ता उद्घोषिता।

 श्रीनारायणगुरुदेवदर्शनं समस्तमानवराशेः  सम्पत्तिः - प्रधानमन्त्री। 

महात्मा गान्धि - नारायणगुरुमेलनस्य शताब्दिः आमानितः। 

नवदिल्ली> अद्वैतवेदान्तस्य प्रायोगिकप्रतिष्ठापकस्य केरलस्य आध्यात्मिक-नवोत्थानाचार्यस्य च श्रीनारायणगुरोः दर्शनमशेषं समस्तमानवकुलस्य प्रगत्यर्थम् अमूल्यसम्पदिति प्रधानमन्त्री नरेन्द्रमोदी प्रस्तुतवान्। सर्वविधपृथक्करणमुक्तं समाज एव नारायणगुरुणा विभावितः, तादृशं सम्पूर्णताभावं स्वीकृत्य पृथक्करणस्य सर्वाः सम्भावनाः निर्मार्जयितुमेव प्रशासनस्यास्य उद्यम इति प्रधानमन्त्री अवोचत्। 

  महात्मागान्धिनः श्रीनारायणगुरोः च मिथः शिवगिरौ  सम्पन्नस्य ऐतिहासिकमेलनस्य शताब्द्युत्सवं दिल्ल्यां विज्ञानभवने उद्घाटनं कुर्वन् भाषमाणः आसीत् नरेन्द्रमोदिवर्यः। श्रीनारायणधर्मसंघं ट्रस्ट् इत्यस्य नेतृत्वे समायोजिते कार्यक्रमे शिवगिरिमठस्य अधिपतयः  सच्चिदानन्दस्वामिनः अध्यक्षपदमलङ्कुर्वन्। 

  राष्ट्रस्य चूषित-पीडित-पार्श्ववत्कृतसमाजेभ्यः यः महत्वपूर्णः निर्णयः यदा यदा स्वीक्रियते तदा तदा श्रीनारायणगुरुः स्मृतिपथमागच्छतीति उद्घाटनभाषणे प्रधानमन्त्री उक्तवान्। प्रशासनस्य "सब का साथ, सब का विकास" [सर्वैः सह, सर्वेषाम् अभिवृद्धिः] इत्याशयस्य प्रचोदना गुरुदेवदर्शनमिति तेनोक्तम्। गुरुदेवस्य 'आत्मोपदेशशतकम्' 'निवृत्तिपञ्चकम्' इत्यादयः कृतयः तेन परामृष्टाः। 

  कैरल्या सदः अभिसम्बुध्य हिन्दीभाषया प्रभाषणमारब्धवान् प्रधानमन्त्री गुरोः बहूनि आप्तवाक्यानि कैरल्यामेव उक्तवान् इत्येतत् कौतुकस्य विषयोSभवत्।

 इङ्गलाण्ट - भारतनिकषस्पर्धा 

इङ्गलाण्टः विजयीभूतः। 

लीड्स्> प्रतिद्वन्दिनः क्रीडाङ्कणे क्रीडायाः चरणद्वयेन पञ्च शतकानि ८३५ धावनाङ्कान् च सम्प्राप्तान्यपि भारताय विजयद्वारं नोद्घाटितम्। आद्यन्तम् उद्वेगभरितायां प्रथमनिकषस्पर्धायाम् इङ्गलाण्टस्य पञ्च ताडकानां विजयः। 

  ३७१ धावनाङ्कानां विजयलक्ष्येण कन्दुकताडनमारब्धवते इङ्गलाण्टाय साक् क्रोली [६४] बन् डकट् [१४९] इत्येतौ भद्रमाधारं कृतवन्तौ।  ततः चतुरान् क्रीडकान् बहिर्नीत्वा क्रीडानियन्त्रणं भारतेन स्वीकृतमपि जो रूट् [५३*], जामि स्मितः [४४*] इत्येतौ इङ्गलाण्टं विजयतीरं नीतवन्तौ।

Wednesday, June 25, 2025

 ट्रम्पस्य व्यवधानम्! 

युद्धस्थगनम्। 

वाषिङ्टणः> इरान-इस्रयेलयोर्मध्ये  साप्ताहिकद्वयं दीर्घितं युद्धं कुजवासरे स्थगितमिति डोनाल्ड ट्रम्पेन निगदितम्। किन्तु तदनन्तरं टेहरानस्य उत्तरपश्चिमदिशि स्फोटनशब्दः श्रुत इति इरानीयवार्तामाध्यमैः आवेदितम्। 

  इरानः इस्रयेलश्च परस्पराक्रमणं समापयितुं सम्मतिं प्राकटयतामिति मङ्गलवासरे प्रत्युषसि १. ३० वादने [भारतीयसमयः] ट्रम्पः  'ट्रूत् सोष्यल्'द्वारा निगदितवान्। शान्तिसंस्थापनाय राष्ट्रद्वयमपि आत्मानम् अभ्यर्थयत इति च ट्रम्पेन सूचितम्। मङ्गलवासरे प्रभाते १०. ३० वादने आक्रमणस्थगनं प्रवृत्तिपथमागमिष्यतीति च तेन प्रस्तुतमासीत्। 

  किन्तु सायं पञ्चवादने एव युद्धस्थगनं सार्थकमभवदिति ट्रम्पेन उद्घोषितम्। एतदाभ्यन्तरे इरानः इस्रयेलश्च ट्रम्पस्य अधिक्षेपस्य अर्हौ जातौ।

 इतिहासप्रसूतिः। 

१३० कि मी डयित्वा प्रथमं विद्युत् यात्राविमानम्!

अलिया सि एक्स् ३०० इति विद्युत् विमानम्। 

वाषिङ्टणः> यात्रिकान् वहत् विश्वस्मिन् प्रथमं विद्युता प्रवर्तमानं यात्राविमानं विजयपूर्णं डयितम्। यू एस् राष्ट्रस्य 'ईस्ट् हाम्टण्' विमाननिलयात् 'जोण् एफ् केन्नडि' विमाननिलयं प्रति चतुरान् यात्रिकान् ऊढ्वा आसीत् विमानस्य डयनम्। 

  ३० मिनिट् मितसमयेन १३० कि मी मितदूरडयनाय इन्धनव्ययः केवलं अष्ट डोलर् [६९४ रूप्यकाणि] आसीत्। एतद्दूरं उदग्रयाने अटितुं १६० डोलर् [१३८८५ रूप्यकाणि] आवश्यकानि। 

  'बीटा टेक्नोलजीस्' संस्थया निर्मितम् 'अलिया सि एक्स् ३००' इति विमानमेव व्योमयात्राचरित्रे नूतनमध्यायं विरचितवत्। राष्ट्रे लघु यात्रेभ्यः एतदुपकारकमिति निर्माणसंस्थया निगदितम्। आगामिवर्षे सेवां समारब्धुं शक्यते इति तैरभिमानितम्।

 चीनस्य विदेशकार्यमन्त्रिणा सह अजित डोवलस्य मेलनम्। 

बीजिंग्> चीनराष्ट्रस्य  विदेशकार्यमन्त्री वाङ् युयि इत्यनेन सह भारतस्य सुरक्षोपदेष्टा अजित डोवलः मेलनं कृतवान्। एस् सि ओ इत्यस्य सुरक्षासमित्याः कार्यदर्शिनां विंशे सम्मेलने भागं कर्तुं चीनं प्राप्तवानासीत् डोवलः। 

 भारत-चीनयोः सौहार्दशक्तीकरणं, भीकरतां निर्मार्ज्य शान्तिसंस्थापनम् इत्यादिविषयाः उभयोः चर्चायाम् उन्नीताः इति सूच्यते।

Tuesday, June 24, 2025

 वि एस् अच्युतानन्दः आतुरालयं प्रवेशितः।


अनन्तपुरी> शारीरिकास्वास्थ्यात् केरलस्य भूतपूर्वः मुख्यमन्त्री तथा वरिष्ठः साम्यवादीदलस्य नेता च वि एस् अच्युतानन्दः आतुरालयं प्रवेशितः। हृदयसम्बन्धेन अस्वास्थ्येन अनन्तपुर्यां एस् यु टि आतुरालयस्य अत्याहितविभागे परिचर्यायामस्ति सः। तस्य स्वास्थ्यस्थितिः तृप्तिकरः इति आतुरालयाधिकृतैः सूचितम्।

 भारत-इङ्गलान्ट् क्रिकट् निकषस्पर्धा उज्वलपराकाष्ठायाम्। 

ऋषभ पन्तस्य अनुस्यूतं द्वितीयशतकम् [११८]

के एल् राहुलस्यापि शतकम्। [१३७]

इङ्गलान्टं विरुध्य शतकं प्राप्तवान् के एल् राहुलः। 

लीड्स्> इङ्गलान्टस्थे लीड्स् क्रीडाङ्कण् सम्पद्यमाना भारत-इङ्गलान्ट्दलयोः प्रथमनिकषस्पर्धा अन्तिमे दिने उज्वलपराकाष्ठायां सम्प्राप्ता। प्रथमचरणे (innings) षट् धावनाङ्कानाम् आधिपत्येन भारतम् इङ्गलण्टाय ३७९ धावनाङ्कानां विजयलक्ष्यम् अदात्। 

  द्वितीयचरणे भारतस्य ऋषभ पन्तः को एल् राहुलश्च शतकं प्राप्तवन्तौ। तदा परिणामः भारतायानुकूलः भविष्यतीति भासते स्म। किन्तु अन्तिमेषु कन्दुकताडकेषु  अनुस्यूततया बहिर्गतेषु भारतस्य धावनाङ्कसम्प्राप्तिः ३६४ इत्यस्मिन् समाप्ता। अनेन इङ्गलण्टस्य विजयलक्ष्यं ३७१ अभवत्। ह्यः क्रीडासमाप्तौ इङ्गलण्टः २१/० इत्यस्ति। 

अङ्कप्राप्तिसूचिका - भारतं  ४७१, ३६४। इङ्गलण्टः ४६५,२१/०।

 ओपरेषन् सिन्धुः।

इस्रयेलात् प्रथमसंघः भारतं सम्प्राप्तः।

नवदिल्ली> ओपरेषन् सिन्धुरिति भारतीयानाम् अपनयनाभियोजनायाः अंशतया इस्रयेलदेशात्  प्रथमसंघं वहत् विमानं गतरात्रौ दिल्लीं सम्प्राप्तम्। इस्रयेलात् स्थलमार्गेण जोर्दानं प्राप्तवन्तः १६१ भारतीयाः सविशेषविमाने एव स्वदेशं प्राप्तवन्तः। 

  इरानतः अपि एकं विमानं दिल्लीं सम्प्राप्तम्। इतःपर्यन्तं १७१३ भारतीयाः इरानात् अपनीताः। बिहारं, जम्मु-काश्मीरं, दिल्ली, उत्तरप्रदेशः, राजस्थानं, गुजरात्, महाराष्ट्रम् इत्येतानि राज्यस्थाः भवन्ति प्रत्यागतवत्सु अधिके।

Monday, June 23, 2025

 संघर्षः लघूकरणीय इति नरेन्द्रमोदी इरानं प्रति। 

इरानराष्ट्रपति-भारतप्रधानमन्त्रिसम्भाषणं सम्पन्नम्। 

नवदिल्ली> इरान-इस्रयेलयुद्धे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी आशङ्कां प्राकटयत्। चर्चाभिः नयतन्त्रसम्भाषणैः इस्रयेलं प्रति संघर्ष लघूकरणीयः इति नरेन्द्रमोदी इरानस्य राष्ट्रपतिं मसूद पेसष्कियानं निरदिशत्। इराने अमेरिकायायाः बम्बाक्रमणस्य अनन्तरमासीत् मोदिनः मसूदेन सह दुरवाणीद्वारा सम्भाषणम्।

 युद्धे अमेरिका अपि। 

इरानस्य त्रिषु आणवनिलयेषु  बोम्बवर्षणं कृतम्। 

इस्रयेलं प्रति इरानस्य प्रत्याक्रमणम्। 


टेह्रान्> इरानस्य आणवाभियोजनानाम् उन्मूलनं कर्तुम् इति उद्घुष्य इस्रयेलेन आरब्धे इरान-इस्रयेलयुद्धे  अमेरिका अपि भागभाक् अभवत्। रविवासरे प्रत्युषसि इरानस्य त्रिषु आणवनिलयेषु अमेरिक्कायाः 'बि-२' नामकानि बोम्बवर्षणविमानानि बोम्बवर्षणमकुर्वन्। 

 नतान्स्, इस्फहान्, फोर्दो इत्येतानि आणवनिलयानि लक्ष्यीकृत्य 'बङ्कर् बस्टर्' नामकानि तीव्रप्रहरशक्तियुतानि बोम्बस्फोटकानि वर्षितानीति डोनाल्ड ट्रम्पेन सामाजिकमाध्यमेन निगदितम्। आणवनिलयत्रयस्य उन्मूलनाशमकरोदिति अमेरिकया अभिमानितम्। आक्रमणवार्ता इरानेन दृढीकृता;  किन्तु तेषां गौरवाः दोषाः न सम्पन्नाः इति इरानेनापि अभिमानितम्।

  होराणामाभ्यन्तरे इरानः इस्रयेलस्य बहुषु प्रदेशेषु अग्निशस्त्राण्युपयुज्य आक्रमणमकरोत्।

Sunday, June 22, 2025

  कृत्रिमबुद्धिमत्ता मस्तिष्के निष्क्रियत्वम् करोति वा ?  

विषयेऽस्मिन् अनुसन्धानं प्रचलति। यूनाम् अध्ययने वैज्ञानिकप्रवर्तनेषु च चाट् जी टी पी सदृशानम् अनुप्रयोगाणां दुष्प्रभावः आशङ्का जनकः इति वैज्ञानिकाः अभिप्रियन्ति।

  मसाच्युसेट्स् इन्स्टिट्यूट् ओफ् टेक्नोलजी ( MIT ) इत्यस्य परीक्षणशालायां विद्यमानाः वैज्ञानिकाः एव एवम् अभिप्रेन्ति। १८ - ३९ वयस्कान् ५४ यूनः संगृह्य आसीत् गवेषणम्। चाट् जी टी पि, गूगिळ् सेर्च् इत्यादीनि  कृत्रिमबुद्धिमत्ता-संविधानान् उपयुज्य उपन्यासरचनायै यूनां एकः गणः  निर्दिष्टः अन्ये गणः एतासां सुविधानाम् उपयोगं विना लेखनाय निर्दिष्टः। 

निरीक्षणस्य फलम् एवम् आसीत् -

    अन्तर्जाल-अनुप्रयोगादि सुविधायाः उपयोगं विना ये अध्ययनं कृतवन्तः ते, अधिकतया बौधिकप्रगतिं प्राप्तवन्तः। अनन्तरं तेभ्यः अपि अन्तर्जालसुविधायाः उपयोगाय अनुज्ञा दत्ता। तदनन्तरं तेषां बुद्धिमाने अत्यधिका प्रगतिः दृष्टा। अतः प्रथमं स्वतन्त्रचिन्तायै  अवसरं दत्वा तदनन्तरम् आधुनिक अनुप्रयोगसुविधायाः उपयोगः क्रियते चेत् अध्येतॄणां बौद्धिकमण्डलस्य  अतिविशिष्टं वर्धनं भविष्यति इति भवति अनुसन्धानस्य निष्कर्षः।

 योगदिनं समाचरितम्। 

योगः शान्तेः दिशं दिशति - नरेन्द्रमोदी । 


नवदिल्ली> आविश्वे संघर्षेषु वर्धमानेषु योगः शान्तेः दिशं दिशतीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। संघर्षात् सहयोगं प्रति, सम्मर्दात् परिहारं प्रति योगः लोकं नयतीति सः उक्तवान्। आन्ध्रप्रदेशे विशाखपट्टणे अन्ताराष्ट्रीययोगदिने भागं कुर्वन् भाषमाणः आसीत् नरेन्द्रमोदी। 

  त्रिलक्षं जनैः भागं कृतेSस्मिन्  योगदिनाचरणकार्यक्रमे प्रधानमन्त्री नेतृत्वमावहत्। योगानुष्ठानं जीवनशीलं कारयेदिति मोदी अन्ताराष्ट्रसमाजं प्रति अभ्यर्थयत।

Saturday, June 21, 2025

 ओपरेषन् सिन्धुः। 

चतुर्षु विमानेषु सप्तशताधिके भारतीयाः स्वराष्ट्रं प्रापुः। 

नवदिल्ली> इरान-इस्रयेलयोः युद्धेन इराने लग्नाः ७७३ भारतीयछात्राः इतःपर्यन्तं भारतं प्रत्यागतवन्तः। इरानस्थात् मषाद् इत्यस्मादासीत् चतुर्थं विमानं प्रस्थितम्। भारतस्य अर्थनामनुसृत्य इरानस्य व्योममार्गः उद्घाटितः। 

 अग्निबाधिता 'वान् हाय्' महानौकां श्रीलङ्कानौकाश्रयम् अपनेतुम् उद्यमः। 

कोच्ची> कोष़िक्कोट् समीपे आरबसमुद्रे सप्ताहद्वयात्पूर्वम् अग्निबाधिता 'वान् हाय् ५०३' इति पण्यमहानौकां अग्निनिर्मूक्तां कृत्वा श्रीलङ्कस्थां हम्पन् टोट्टा महानौकाश्रयं प्रति नेतुं सौविध्यता विचार्यते। इदानीं केरलतटात् ७२ नोटिकल् मैल् मितं दूरे महानौका वर्तते। ततः समीपस्थः महानौकाश्रयः भवति हम्पन् टोट्टा। ४८० नोटिकल् मैल् मितं दूरमस्ति। 

  चिरकालीनः व्यापारबन्धः अनेन महानौकाश्रयेन सह महानौकासंस्थायाः अस्ति। तदर्थं महानौकाश्रयाधिकृतैः सह चर्चा  प्रारब्धा।

 मेसी भारतं आगमिष्यतीति सूच्यते। 


नवदिल्ली> अर्जन्टीनायाः वरिष्ठः पादकन्दुकक्रीडकः लयणल् मेसी डिसम्बरमासे भारतमागच्छतीति सूच्यते। कोल्कोत्ता, मुम्बई, दिल्ली नगरेषु विविधेषु पादकन्दुककार्यक्रमेषु भागं करिष्यतीति राष्ट्रियवार्तामाध्यमैः आवेद्यते।

Friday, June 20, 2025

 राष्ट्रे कोविड् रोगिणः आकुञ्चन्ति। 


नवदिल्ली> राष्ट्रे कोविड् रोगिणां संख्या आकुञ्चति। वर्तमानीनरोगिणां संख्या ऊनषट्सहस्रमिति केन्द्रप्रशासनेन निगदितम्। 

  अधिकतमं प्रकरणानि केरले सन्ति - १३०९। गुजराते १०४६, वंगे ७४७ इत्येवं भवति इतरराज्येषु कोविड् रोगिणां संख्या।

 'ओपरेषन् सिन्धुः' -  इरानात् प्रथमसंघः भारतं सम्प्राप्तः।

नवदिल्ली> इरान-इस्रयेलयुद्धे तीव्रे द्वाभ्यामपि राष्ट्राभ्यां भारतीयान् अपनेतुं प्रारब्धा योजना - 'ओपरेषन् सिन्धुः' नामिका - केन्द्रप्रशासनेन शीघ्रा कारिता। इरानतः भारतीयानां प्रथमसंघः  गतदिने प्रत्युषसि दिल्लीं सम्प्राप्तः। 

 इरानदेशात् स्थलमार्गेण अर्मेनियां प्रापितान् ११० वैद्यकीयछात्रान् विमानेन दिल्लीम् आनयत्। इस्रयेलात् स्वदेशं प्राप्तुम् अभिलषतः नागरिकानपि आनेतुं निश्चयः कृत इति विदेशकार्यमन्त्रालयेन निगदितम्।

भारत-क्रोयेष्या प्रधानमन्त्रिणोः मेलनं सम्पन्नम्। 

मोदिने संंस्कृतव्याकरणग्रन्थः  पुरस्कारः।

क्रोयेष्यायाः प्रधानमन्त्री आन्द्रे प्लेन् कोविच् वर्यः नरेन्द्रमोदिने संस्कृतव्याकरणग्रन्थं ददाति। 

सग्रेेब्> त्रिराष्ट्रपर्यटनस्य अंशतया क्रोयेष्यां प्राप्तवते नरेन्द्रमोदिने प्रेमोष्मलं स्वीकरणम्। बुधवासरे क्रोयेष्यायाः प्रधानमन्त्री आन्द्रे प्लेन् कोविच् वर्यं  भारतप्रधानमन्त्री नरेन्द्रमोदी अमिलत्। उभयोरपि राष्ट्रयोः व्यापार-वाणिज्य- सांस्कृतिकसहयोगे चर्चा सम्पन्ना। इदंप्रथममेव कस्यचन भारतप्रधानमन्त्रिणः क्रोयेष्यासन्दर्शनम्। 

क्रोयेष्यायां मुद्रितस्य संस्कृतव्याकरणग्रन्थस्य प्रथमसंस्करणस्य एका प्रतिकृतिः आन्द्रे प्लेन् कोविच् वर्यः नरेन्द्रमोदिने सम्मानितवान्। तत्रत्यः शास्त्रज्ञः धर्मप्रचारकश्च फिलिप् वेस्दीन् इत्यनेन लाटिनभाषायां लिखितः संस्कृतव्याकरणग्रन्थः एव सम्मानितः।

 वेस्दीने भारते उषितवति केरलपण्डितेभ्यः हस्तलिखितप्रतिकृतिभ्यश्च समाहृतस्य विज्ञानस्य आधारे रचितो ग्रन्थो भवत्ययम्। अनेनग्रन्थेन सह अन्यत् ग्रन्थद्वयमपि मोदिने दत्तवान् आन्द्रेवर्यः।

Thursday, June 19, 2025

अष्ठवयस्कायाः बालिकायाः पुस्तकं प्राकाशयत्।

  कालटी> वाचनदिने (जूण् १९) अष्ठवयस्कायाः बालिकायाः पुस्तकं प्राकाशयत्। केरले कल्लूर्काटे विद्यमानस्य सरस्वतीमन्दिरस्य तृतीय कक्षायाः छात्रा भवति इषानी षिजू। तया रचितायाः सार्वजनिक-प्रश्नोत्तरपुस्तिकायाः प्रकाशनम् अद्य सम्पन्नम् अभवत्। विद्यालयस्य प्रधान- अध्यापिका उषा रघु: पुस्तिका प्रकाशितवती। पुस्तिकायाः नाम 'इषानि मोष़िकळ्' नाम इषानि वचांसि। एकसंवत्सरपर्यन्तं वार्तापत्रिकासु आगतासु वार्तासु अन्तर्गतासु विषयेषु अधिष्ठितं भवति इयं प्रश्नोत्तरपुस्तिका। 

रचयिता इषानी षिजू



 अहम्मदाबाद आकाशदुरन्तः 

२०८ मृतशरीराणि प्रत्यभिज्ञातानि; १७० प्रत्यर्पितानि।

अहम्मदाबादः> अतीते गुरुवासरे अहम्मदाबादस्थे सर्दार् वल्लभभाय् पटेल् विमाननिलये दुरापन्ने विमानदुरन्ते मृतेषु २०८ जनानां मृतशरीराणि डि एन् ए परिशोधनद्वारा  प्रत्यभिज्ञातानि। एषु १७० मृतशरीराणि बान्धवेभ्यः प्रत्यर्पितानि। 

  विमानस्थाः २४१ जनाः विमानभञ्जनस्थाने स्थिताः २९ जनाश्च मृत्युमुपगताः इति आधिकारिकतया स्थिरीकृतमासीत्।

 वयनाट् भौममार्गः। 

केन्द्रवातावरणमन्त्रालयस्य अनुज्ञा।


नवदिल्ली> केरले वयनाट् प्रदेशं गन्तुं मार्गान्तररूपेण समर्पितायै 'आनक्कांपोयिल् - मेप्पाटि भौममार्ग' योजनायै बहवोपाधिभिः केन्द्र वातावरणमन्त्रालयस्य अनुज्ञा लब्धा। निर्दिष्टे कोष़िक्कोट् - वयनाट् पङ्क्तिचतुष्टयमार्गे अन्तर्भवति अयं सुरङ्गमार्गः। वर्तमानस्य वयनाट् कन्दरमार्गस्य स्थाने भवत्ययं मार्गः।  अनया अनुज्ञया वीथीनिर्माणस्य साङ्केतिकविघ्नाः अपगताः इति PWD अधिकारिभिः निगदितम्। २१३४ कोटिरूप्यकाणां भवतीयम् अभियोजना।

 पञ्चसु विधानसभामण्डलेषु मतदानं प्रारब्धम्। 

नवदिल्ली> भारते चतुर्षु राज्येषु पञ्चसु विधानसभामण्डलेषु उपनिर्वाचनीया मतदानप्रक्रिया अद्य सम्पद्यते। 

 गुजराते काडि, विसवदरम् इति मण्डलद्वये, केरलं, पञ्चाबः, पश्चिमवंगः इत्येतेषु राज्येषु यथाक्रमं निलम्बूरं, लुधियाना, कालिगञ्च् इति  एकैकस्मिन् मण्डले च उपनिर्वाचनं विधत्तम्। मतगणना त्रयोविंशे दिनाङ्के भविष्यति।

ईसरायेलदेशेन सह संघर्षे पराजयं न स्वीकरिष्यते – इराणस्य नेता आयतुल्लाः अली खमेनेई।

     इराणदेशस्य परमोच्चनेता आयतुल्लाः अली खमेनेई महोदयः घोषयामास यत् –ईसरायेलदेशेन सह सङ्घर्षे इराणदेशः कदापि पराजयं न स्वीकरिष्यति। तेन उक्तं यत् यदि अमेरिकादेशस्य सैन्यम् अस्मिन् संघर्षे प्रविशेत्, तर्हि तेन अपरीहार्या हानिः उद्पाद्यते, सा हानिः परिहर्तुम् अशक्या भविष्यति। राष्ट्रिय-दूरदर्शनद्वारा राष्ट्रं प्रति अभिभाषणं कृत्वा स्पष्टम् अकथयत् यत् –"युद्धस्य युद्धेन, बाणस्य बाणेन च प्रत्युत्तरं दास्यामः। यः कश्चन प्रकारेण वा भीषणेन आदेशेन वा अस्मान् प्रति आगच्छति, तस्य सम्मुखे इराणदेशः न कदापि नमिष्यति "।

      तेन पूर्वसूचना प्रदत्ता यत् यदि अमेरिकया ईसरायेलाय सैनिकसाहायं दीयते तर्हि तेन अमेरिका महती अनुत्तरणीया हानिः निष्पद्येत। "इराणं, तस्य जनान्, तेषाम् इतिहासं च यः जानाति सः विवेकी जनः, कदापि भीषणभाषया न भाषते। कारणम्, इराणजनाः पराजयं न स्वीकरिष्यन्ति।"