OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi
Showing posts with label News. Show all posts
Showing posts with label News. Show all posts

Saturday, August 29, 2026

 ईशान्यभारते जगन्नाथसंस्कृतेः अन्वेषणम्

इम्फाल, अगस्त २६। News Avilable in Sanskrit| Hindi | English 

​           “ईशान्यभारते श्रीजगन्नाथसंस्कृतेः ऐतिहासिकान्वेषणम्—विशेषतः मणिपुरस्य सन्दर्भे” इति विषयमधिकृत्य भारतीय-ऐतिहासिक-अनुसन्धान-परिषदः (ICHR) प्रायोजिता द्विदिनात्मिका राष्ट्रियसङ्गोष्ठी अगस्त २५-२६ दिनाङ्कयोः इम्फालनगरे स्थिते Classic Grande इत्यत्र तथा च नम्बोलस्थे राधामाधव-आदर्श-संस्कृत-महाविद्यालये च सम्पन्ना।

​         अस्यां सङ्गोष्ठ्याम् ईशान्यभारते, विशेषतः मणिपुरे, श्रीजगन्नाथपरम्परायाः प्रभावमधिकृत्य गम्भीरः विचारविमर्शः अभवत्। ‘मणिपुरस्य वैष्णवपरम्परायाः कला-साहित्य-वास्तुशास्त्रेषु च जगन्नाथसंस्कृतेः गभीरः प्रभावः दृश्यते; एषा संस्कृतिः प्रादेशिकैकतायाः सुदृढः सेतुः अस्ति’ इति समुपस्थिताः विद्वांसः स्वप्रबन्धेषु प्रतिपादितवन्तः।

​         उद्घाटनसत्रे मुख्यातिथिः भारतस्य पूर्वशिक्षामन्त्री पूर्वविदेशमन्त्री च डॉ. आर. के. रञ्जनः अवदत् यत् — “ईशान्यभारतस्य सांस्कृतिकसमृद्धौ जगन्नाथपरम्परायाः योगदानम् ऐतिहासिकम् अतुलनीयं च अस्ति।” सत्रस्यास्य अध्यक्षतां राधामाधव-आदर्श-संस्कृत-महाविद्यालयस्य प्रशासनिकमण्डलस्य अध्यक्षः डॉ. पी. सनाजाओबा सिंहः अवहत्। मुख्यभाषणे भारतीय-ऐतिहासिक-अनुसन्धान-परिषदः (ICHR, New Delhi) प्रो. हरिहर-पण्डा मणिपुरस्य जगन्नाथसंस्कृतेः प्राचीनताम् ऐतिहासिकप्रमाणैः सह उपस्थापितवान्।

Friday, August 21, 2026

 नेहरू ट्रोफी नौकाकेलिः श्वः मध्याह्ने द्विवादने भविष्यति।

       आलप्पुषा> द्विसप्ततितमस्य नेहरू ट्रोफी नौकाकेल्याः उद्घाटनम् श्वः शनिवासरे मध्याह्ने द्विवादने केरलस्य मुख्यमन्त्री श्री वि डि सतीशः निर्वत्स्यति। उद्घाटनानन्तरं भागं गृह्णतां नौकानां सामूहिकसञ्चलनम् (mass drill) भविष्यति। तदनन्तरं सर्पनौकानाम् (snake boats) प्रारम्भिकस्पर्धाः,  अन्तिमस्पर्धा च भविष्यतः। २२ सर्पनौकाः आहत्य एकसप्तति नौकाः स्पर्धायां भागं स्वीकरिष्यन्ति। प्रातःकाले नववादनादारम्य नगरे गतागतनियन्त्रणमपि आयोजितमस्ति।

Sunday, August 9, 2026

 आत्मनिर्भरभारतं स्वदेशीयनिर्मितायाः 'आन्टी सबमरैन् रोकट्'-प्रणाल्याः परीक्षणम् सफलम् अभवत्।

        नवीदेहली> समुद्ररक्षाक्षमतायाः सुदृढीकरणाय नौसेनया स्वदेशे निर्मितस्य Anti-Submarine Rocket System इत्यस्य परीक्षणं सफलम् अभवत्। नौसेनायाः आधिकारिककथनानुसारम् 'ऐ.एन्.एस्. कवरत्ती' (INS Kavaratti) इत्यस्मात् 'एक्सटेंडेड् रेंज एन्टी-सबमरीन रोकट्' (ERASR) इत्यस्य परीक्षणमेव आसीत्। एतत् रोकेट् शीघ्रमेव नौसेनायां समाविष्टं भविष्यति इति आशास्यते। जूण्-मासस्य २३ तमदिनाङ्कात् जुलाई-मासस्य ७ तमदिनाङ्कपर्यन्तं परीक्षणानि अभवन्।

       ERASR इत्यस्य निर्माणं रक्षाप्रौद्योगिकौ भारतस्य वर्धमानां स्वावलम्बतां दर्शयति। पुणे-नगरस्य 'डिफेन्स् रिसर्च् आन्ट डेवलपमेंट ऑर्गनाइसेषन्' (DRDO) इत्यस्य 'आर्मामेंट रिसर्च आन्ट् डेवलपमेन्ट् एस्टाब्लिष्मेंट्' (ARDE), 'हाई एनर्जी मेटेरियल्स् रिसर्च् लबोरेटरी', तथा च 'नेवल् सैंस् आन्ट् टेक्नोलजिकल् लबोरेटरी' इत्येतासां संस्थानां सहयोगेन ERASR विकसितम् अभवत्।

Wednesday, August 5, 2026

 लोहितसागरे भारतीय-भारवाहि-पोतस्य उपरि आक्रमणम्; पण्यनौका निमग्ना, १३ भारतीयैः सह १४ कर्मकराः सुरक्षिताः

    ​नवदिल्ली > लोहितसागरे (Red Sea) यमन-तटस्य समीपे 'एम्.एस.वी. फैज् नूरे ओलिया' (MSV Faiz Noore Olia) इति नामकेन भारतीय-भारवाहि- नौकायाः  (cargo ship) उपरि प्रक्षेपास्त्र-आक्रमणम् (projectile attack) अभवत्। आक्रमणेन नियन्त्रणहीना सन् सा नौका समुद्रतले विपरीभूत्वा निमग्ना।

​परन्तु, पोते उपस्थिताः १३ भारतीयनागरिकाः, एकः यमन-नागरिकः च  आहत्य १४ कर्मकराः यमन-तटरक्षकैः (Yemen Coast Guard) कुशलेन उद्धृताः। रक्षिताः सर्वे कर्मकराः यमनस्य 'मोखा' इति नौकाश्रयं (Mokha port) नीताः सन्ति, सर्वे च सुरक्षिताः सन्ति इति वार्ता-विवरणानि पुष्टिं कुर्वन्ति।

Monday, August 3, 2026

फेसबुक्-माध्यमात् प्रधानमन्त्रिणः मोदिनः लघुचलच्चित्रस्य स्थगनम्: 

ज़ुकर्बर्गः क्षमां याचेत इति सांसदानां समित्यध्यक्षः।

​        भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः एकं चलच्चित्रं (video) फेसबुक्-माध्यमात् अल्पकालं यावत् स्थगितम् (blocked) आसीत्। अस्मिन् विषये मेटा-संस्थायाः प्रमुखः मार्क्- ज़ुकर्बर्गः क्षमां याचेत इति सञ्चार-विषयक-संसदीकसमित्याः अध्यक्षः, भारतीयजनतापार्टी-दलस्य वरिष्ठनेता च उक्तवान्।

        ​सञ्चार-सूचनाप्रौद्योगिकी-विषयक-संसदीय-स्थायिसमित्याः अध्यक्षः, भाजपा-सांसदः निशिकान्त-दुबे महोदयः अवदत् यत् एताः अल्गोरिदं-प्रणाल्यः "वैदेशिक-शक्तिभिः" सञ्चाल्यन्ते। यदि एतानि सामाजिक-माध्यमतलानि* (social media platforms) देशस्य नियमानुकूलम् कार्यं न कुर्वन्ति, तर्हि तेभ्यः दत्तं 'सुरक्षित-आश्रय-संरक्षणम्' (safe harbour protection) निवर्तनीयम् इति तेन स्पष्टीकृतम्।

Newly used word

सामाजिक-माध्यमतलानि* (social media platforms (*NK)

Saturday, June 20, 2026

 संस्कृतभारती रुडकी-जनपदेन कृतस्य दशदिवसीयस्य सरलसंस्कृतसंभाषणशिबिरस्य शुभारम्भः ।

   रुडकी> संस्कृतभाषायाः प्रचारप्रसाराय तथा जनसामान्येषु संस्कृतसंभाषणप्रवृत्तेः विकासाय संस्कृतभारती रुडकी-जनपदेन आयोजितस्य दशदिवसीयस्य निःशुल्कस्य सरलसंस्कृतसंभाषणशिविरस्य शुभारम्भः योगी मङ्गलनाथ सरस्वती विद्यामन्दिर इण्टर् कोलेज् इत्यत्र सम्पन्नः।

    कार्यक्रमस्य शुभारम्भः जनपदाध्यक्षया डॉ. भारती शर्मणा, जनपदमन्त्रिणा श्रीमत्या श्रद्धा हिन्दुना, कार्यक्रमसंयोजकेन श्री हरीश पन्तेन, विद्यालयसंयोजिकया श्रीमती सवितया, प्रशिक्षकैः आचार्यविष्णुदत्तगौडेन, डॉ. रीताशर्मणा, कुमारी निशु नामदेवेन, डॉ. अनीता कौशिकेन, शोधछात्रया रिक्क्या तथा आचार्यपुरुषोत्तमशर्मणा च मातुः सरस्वत्याः पुरतः दीपप्रज्वलनेन वन्दनया च सह कृतः।

  कार्यक्रमस्य प्रारम्भे प्रशिक्षकः आचार्यविष्णुदत्तगौडः संस्कृतभारत्याः ध्येयगीतस्य सामूहिकगायनं कारितवान् तथा संस्कृतभाषायाः महत्त्वं तस्याः व्यवहारिकोपयोगितां च प्रकाशयामास।

   ततः परं प्रशिक्षणसत्रे आचार्यविष्णुदत्तगौडः उपस्थितान् छात्रान् छात्राश्च सरलया संवादात्मकया पद्धत्या पुंल्लिङ्ग-, स्त्रीलिङ्ग-, नपुंसकलिङ्ग- तथा सर्वनामशब्दानां प्रयोगस्य अभ्यासं कारितवान्। विद्यार्थिनः उत्साहेन

Wednesday, October 29, 2025

 रेवतीपट्टत्तानं–२०२५ पुरस्काराः घोषिताः।

कृष्णगीति–पुरस्कारः — कावालं शशिकुमाराय।
मनोरमा–तम्बुराट्टि–पुरस्कारः — डॉ. ई. एन्. ईश्वराय।
श्रेष्ठ–कृष्णनाट्ट–कलाकार–पुरस्कारः — के. सुकुमाराय।

 श्रेष्ठ–काव्यसङ्ग्रहाय, तळी महाक्षेत्रस्य सामूतिरिराजस्य नेतृत्वेन रेवतीपट्टत्तानसमित्या दशकान्तराणि यावत् प्रदीयमानः “कृष्णगीति–पुरस्कारः” प्रसिद्ध–माध्यमकार्यकर्त्रे कवये कावालं–शशिकुमाराय लप्स्यन्ते।“नगरवृक्षस्थे  कोकिलः” इति नामकः कैरल्यां विरचितः काव्यसङ्ग्रहः तं पुरस्काराय योग्यताम् अकरोत्।

कृष्णनाटस्य मूलकाव्यं यत् “कृष्णगीति” नाम, तस्य कर्ता सामूतिरिमानवेदन्–राजा (१५९५–१६५८) भवति। तस्य महोदयस्य स्मरणार्थं सः “कृष्णगीति–पुरस्कारः” संस्थापितः।

त्रयः अपि पुरस्काराः  कांस्यधातुना निर्मितं कृष्णशिल्पं, प्रशस्तिपत्रं  पञ्चदशसहस्ररूप्यक–राशिश्च इत्येतैः सहिताः भवन्ति। पुरस्काराः नवम्बरमासस्य चतुर्थे दिनाङ्के रेवतीपट्टतानसदसि प्रदास्यन्ते।


Sunday, November 10, 2024

 कारागारवासभयेनैव अध्यापकाः स्ववृत्तिं कुर्वन्तीति उच्चन्यायालयः। 

      कोच्ची> दण्ड्यप्रकरणैः कारागृहवासं भवेदिति भयेन  कक्ष्याचालनं कुर्वन्तः सन्ति इदानींतनाः अध्यापकाः इति गौरवपूर्णम् आशङ्कां प्रकाशयति केरलस्य उच्चन्यायालयः। कक्ष्यायां व्यवस्थाहीने व्यवहारे परिपृष्टे असभ्यवक्तारं सप्तमीकक्ष्याछात्रं दण्डनं कृतवतीम्  अध्यापिकां विरुध्य पञ्जीकृतं प्रकरणं निरस्य न्यायाधिपस्य ए बदरुदीन् वर्यस्य  आदेशे आसीदिदं निरीक्षणम्। 

   छात्राणां हिताय शिक्षकैः स्वीक्रियमाणाः  दण्डप्रक्रमाः  अपराधव्यवहारवत् चित्रीकुर्वन्ति। एतत्तु विद्यालयप्रवर्तनानि पराङ्गमयन्ति। यदीयमवस्था अनुवर्तते चेत् अनुशासिता नूतनपरम्परा कथं जायते इत्याशङ्का वर्तते इति च न्यायाधिपेनोक्तम्।  छात्रः अनाहत‌ः अपि बालनीतिनियमानुसारं शिक्षिकायाः उपरि तृश्शूर् वाडानप्पल्लि आरक्षकैः  प्रकरणं पञ्जीकृतमासीत्।

Monday, June 10, 2024

 केरलाय द्वौ केन्द्रमन्त्रिणौ। 

सुरेष् गोपिः जोर्ज्कुर्यश्च सत्यवाचनमकुरुताम्।

जोर्ज् कुर्यः [वामे] सुरेष् गोपिः [दक्षिणे] च शपथं करोति।

     नवदिल्ली> इदंप्रथमतया लोकसभांप्रति केरलराज्यात् भाजपा सदस्यरूपेण चितः कैरल्याः अतुल्यः चलच्चित्राभिनेता सुरेष् गोपिः समेषां केरलीयानाम् अभिलाषं सार्थकं कृत्वा केन्द्रमन्त्रिरूपेण दैवनाम्नि शपथवाचनमकरोत्। तृश्शूर मण्डलादेव सः भाजपा स्थानाशिरूपेण स्पर्धयित्वा विजितवान्। सहमन्त्रिपदमेव तेन लब्धम्। 

  संसदीयसदस्यत्वं विना नरेन्द्रमोदिनः सर्वकारे अन्तर्भूतस्य जोर्ज् कुर्यस्य मन्त्रिपदप्राप्तिः अप्रतीक्षिता आसीत्। ४४ वर्षाणि यावत् भाजपा दलाय अनुवर्तितस्य अचञ्चलविश्वासस्य श्रद्धायाश्च प्रतिफलं भवति कुर्यवर्यं केन्द्रमन्त्रिपदं नीतम्। भाजपादलस्य केन्द्रनिर्वाहकसमित्यङ्गः, न्यूनपक्षायोगस्य उपाध्यक्षः एवं दलेन नियुक्तानि नैकानि स्थानानि तेनालङ्कृतानि।

Monday, April 8, 2024

 भारत-पेरू-व्यापारोपवेशनसाहमत्यम् 

- युवराज भट्टराई

   भारतस्य पेरू देशस्य च मध्ये व्यापार-साहमत्य-मन्त्रणोपवेशनस्य सप्तम: चरण: नव दिल्ल्यां समारब्ध: अस्ति। उभयो: देशयो: मध्ये व्यापार-निवेश- संवर्धनार्थं द्विपक्षीय-सहयोगस्य विवर्धनम् भवति उपवेशनस्य उद्देश्यम्। एषः पदक्षेप: भारत-पेरू-देशयो: मध्ये आर्थिक-विकासस्य समुन्नयनार्थं, द्वैपाक्षिक-सम्बन्धानां सुदृढीकरणस्य च दिशायां देशयो: प्रतिबद्धताया: प्रमाणमस्ति इति वाणिज्योद्योग-विभागेन एकस्मिन् सामाजिक-सञ्जालीये सन्देशे प्रोक्तम्।

Saturday, October 21, 2023

 अन्ताराष्ट्रनियमाः उल्लङ्घिताः इति कानडायाः अभिमतं भारतेन तृणीकृतम्। 

कानडां प्रति अतिशक्तं प्रत्युत्तरं प्रदत्तम्। 

       भारतेन राष्ट्रान्तरसन्धिनियमाः उल्लङ्घिताः इति कानडायाः विदेशकार्यमन्त्री मिलानि जोली अवदत्। भारतस्य निर्देशानुसारं ४१ नयतन्त्रकर्मचारिणः भारतात् प्रत्याहूताः। भारतस्य गार्हिकविषयेषु हस्तक्षेपं कृतम् इति दृष्ट्वा एव कानडायाः नयतन्त्रोद्योगिनः भारतात् प्रतिनिवर्तनाय निर्दिष्टाः इति भारतेन प्रत्युत्तरं प्रदत्तम्। भारते विद्यमानाः बंगलूरू मुंबै चण्डिगड्  दूतावासकेन्द्रतः वीसापत्रसेवनं स्थगितम्। समस्यापरिहाराय यत्नः क्रियते इति कानडया उक्तम्।

Friday, September 29, 2023

 भारतस्य २३४ संख्याधिकाः जलबन्धाः शताधिकेभ्यः वर्षेभ्यः पुरातनाः। एते सुरक्षिताः वा?

  भारते  शताधिकेभ्यः वर्षेभ्यः पुरातनाः २३४ संख्याकाः जलबन्धाः सन्ति। वातावरणव्यत्ययानि अतिवृष्टिः च अनवसरेषु अपि जायमानेषु एषु कालेषु एते सेतवः सुरक्षिताः न सन्ति इति वैज्ञानिकाः वदन्ति। सामान्यवृष्टिषु पतितासु तेषु कालेषु निर्मिताः भवन्ति  एते सेतवः इत्यतः  जलबहिर्गमनाय पर्याप्ताः कुल्याः न सन्ति। अत एव एते आपदवस्थायां भवन्ति इति सौत् एष्या नेट् वर्क् ऑफ् डाम्स् रिवेर्स् आन्ट् पीप्पिल् इत्यस्य संयोजकः हिमांशुठाकुरः उक्तवान्। ५० वर्षेभ्यः पुरातनाः सेतवः सुरक्षाभीषाम् उद्पादयन्तः सन्ति इत्यपि सः उक्तवान्।

Wednesday, June 28, 2023

 बीहारे निर्मीयमाणः एकः सेतुः भग्नः। एकमासाभ्यन्तरे त्रयः सेतवः भग्नाः।

पट्ना> बीहारे एकस्य सेतोः निर्माणे प्रचाल्यमाने सति तस्यैव निर्मितांशः भग्नः अभवत्। मेखापुरात् वैशालीदेशं संबन्धयितुं उद्दिश्य निर्माणं आरब्धस्य सेतोः निर्मितः एकः भागः भग्नीभूय जले मग्नः। एकमासाभ्यन्तरे जाता तृतीया दुर्घटनेयम् । गङ्गानद्याः उपरि निर्मीयमाणः तत्कालिकसेतुरेव अतिशक्तियुक्तेन वातेन हेतुना भञ्जितः। तत्कालोपयोगाय त्वरिततया निर्मीयमाणस्य अस्य पतनं तथा भारमुद्वहतां स्थाणूनां स्खलनं प्रचण्डवातवशात् अभूत् इति उच्यते।

Sunday, June 25, 2023

 ईजिप्तस्य परमोन्नतादरः 'ओडर् ओफ् द नैल् ' नरेन्द्रमोदिना स्वीकृतः।

      नवदिल्ली> ईजिप्तस्य परमोन्नतादरः "ओडर् ओफ् द नैल्" पुरस्कारः ईजिप्तस्य अध्यक्षेण अब्दुल् फत्ताह् एल् सि सि वर्येण नरेन्द्रमोदिने समर्पितः। मोदिनः ईजिप्त् सन्दर्शनवेलायामेव राष्ट्राध्यक्षेण विशिष्टातिथये आदरः समर्पितः। अब्दुल् फत्ताह् एल् सि सि वर्यस्य विशेष-निमन्त्रणानुसारमासीत् भारतस्य प्रधानमन्त्रिणः ईजिप्त् सन्दर्शनम्। Link to video 

https://twitter.com/AmitShah/status/1672905724425568258?t=b7fMm6MAGqVcog6glRyhnw&s=19

Saturday, June 24, 2023

 विश्वनक्रदिने भारते गण्डकीनद्यां १२५ कुम्भीराः अण्डात् जाताः।

    चम्पारन्> बीहारस्थे चम्पारन् जनपदे गण्डकीनद्यां १२५ कुम्भीराः (मत्स्याशननक्रविशेषः) अण्डात् जाताः। प्रदेशवासिनः वनविभागस्य च साहाय्येन भारतीय वन्यजीविसंस्थायाः निरीक्षणे आसीत् कुम्भीराणां नीडम्।२०१३ संवत्सरादारभ्य परिस्थिति - वन - वातावरणविभागानां सहयोगेन भारतीयवन्यजीविसंस्था गण्डकी नद्यां वंशनाशभीषां अभिमुखीक्रियमाणान् कुम्भारान् संरक्षयन्ती अस्ति।

 भारते पोषकाहारन्यूनता आशङ्कां जनयति। तण्डुल-गोधूमयोः अधिकतया खादनं न पर्याप्तम्।

   नवदिल्ली> भारते पोषकाहारन्यूनता आशङ्काजनकमिति भक्ष्यवैज्ञानिकाः वदन्ति। सूक्ष्मपोषकाणां न्यूनत्वमेव विशेषेण सूचयन्ति। तत्परिहाराय तत्कालीकप्रक्रमाः आवश्यकाः इति अन्तराष्ट्रिय - खाद्य - नीति - अनुसन्धानसंस्थया प्रकाशिते २०२३ तमे संवत्सरीये विश्व - खाद्य - नीति - विवरणपत्रे सूचयति। आविश्वमपि पोषकाहारन्यूनताबाधितानां संख्या वर्धमाना अस्ति। २०१५ तमे संवत्सरे ५७.२ कोटि जनाः पोषकाहारन्यूनता अभिमुखीकृतवन्तः। २०२१ तमे संवत्सरे तत् ७६.८ कोटि जनाः अभवन्।

Thursday, June 22, 2023

 टैटन् जलान्तर्वाहिनी यत्र तिरोभूता तत्रतः शब्दवीचयः। अन्वेषणम् अनुवर्तते।

    वाषिङ्टण्> टैट्टानिक् महानौकायाः अवशिष्टानि द्रष्टुम् अट्लान्टिक्समुद्रस्य अन्तर्भागे सञ्चारिभिः सह प्रस्थास्य अनन्तरम् तिरोभूतस्य टैटन् नाम जलान्तर्वाहिन्याः अन्वेषणम् अनुवर्तते। सन्दर्भेऽस्मिन् जलान्तर्भागे अवलोकनस्य भागतया उपयुक्तेन सोनार् उपकरणेन काचन शब्दवीचयः संगृहीताः इति प्रतिवेदनं बहिरागतम्। टैटन् यत्र अप्रत्यक्षीभूतः तस्मात् मण्डलात् एव शब्दवीचयः संगृहीताः इति बि बि सि वार्तामाध्यमेन आवेदितम्। रक्षाप्रवर्तनस्य भागतया कानडस्य पि३ विमानेन विन्यस्तेन सोनार् द्वारा एव शब्दवीचयः संगृहीताः इति अमेरिक्कस्य तीरसेनया आवेदितम्। एते अमेरिक्कस्य नाविकवैज्ञानिकाः सूक्ष्मविशकलनं कुर्वन्तः सन्ति। अष्टहोरापर्यन्तम् उपयोक्तुमेव प्राणवायुः तस्याम् अवशिष्यते इति सर्वेभ्यः भीतिजनकं भवति।

Monday, June 19, 2023

 नूतनजाति भीमसरटः संदृष्टः। इङ्लण्ट् राष्ट्रस्य तीरप्रदेशे वासः।

    वैज्ञानिकैः नूतनजाति भीमसरटः संदृष्टः। पूर्वकाले इड्लण्ट् राष्ट्रस्य तीरप्रदेशे कृतवासः जीविविभागः भवति अयम्। ऐल् ओफ् वैट्टू नाम द्वीपे आसीत् अस्य वासस्थानम्। ऐल् ओफ् वैट्ट् द्वीपे १४२ संवत्सराभ्यन्तरे आर्मेर्ट् विभागे अन्तर्भूतानां भीमसरटाणां मध्ये प्रथमतया प्रत्यभिज्ञातः भवति अयम्।

Friday, June 16, 2023

 श्वासननालिकायामपि सूक्ष्मपलास्तिकः इति पूर्वसूचनां दत्वा नूतनाध्ययन फलम्।

   सिड्नि> सूक्ष्मपलास्तिकसदृशाः पलास्थिककणिकाः श्वसननालिकायां स्वास्थ्यसमस्याः जनयितुम् प्रभवति  इति अध्ययनफलानि सूचयन्ति। मानवः प्रतिहोरायां १६.२ पलास्तिकशकलानि श्वसिति इति २०२२ तमे संवत्सरे प्रचलिते अध्ययने सूचितमस्ति। पलास्तिकात् विघटिताः लघुपलास्तिकपदार्थाः भवन्ति सूक्ष्मपलास्तिकाः (micro plastic)। 'फिसिक्स् ओफ् फ्लूयिड् ' नाम शोधपत्रिकायां प्रकाशिते अध्ययनप्रतिवेदने सूक्ष्मपलास्तिकाः नासाद्वारे गलस्य (throat) पृष्ठतः च विक्षिप्यन्ते इति सन्दृष्टाः। एवं बृहत् परिमाणेषु सूक्ष्मपलास्तिककणानि अधिकतया श्वसननालिकायामेव सञ्चिताः इति स्वास्थस्य हानिः उद्पाद्यते।

Thursday, June 15, 2023

 १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः।

   न्यूयोर्क्> स्पेस् एक्स् संस्थायाम् इलोण् मस्केन १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः। सान्ता क्लारा विश्वविद्यालयस्य छात्रः कैरण् क्वासि नामकः भवत्येषः। विश्वविद्यालयस्य १७२ संवत्सरस्य चरिते एतादृशः अन्यः बुद्धिशाली लघुवयस्कः छात्रः नासीत्। 

    कैरणः बाल्यकालात् एव वैज्ञानिकविषयेषु तथा प्रौद्योगिकविषयेषु च रुचिं प्रदर्शितवान्। द्वितीये वयसि सः स्पष्टतया वक्तुं समर्थः अभवत्। बालवाटीकक्ष्यायाः अध्ययनकाले रेडियोद्वारा यत् श्रुतवान् तत् बालकानां कृते पुनः कथयितुम् अपि कुशलः आसीत्। नववर्षीयः सन् सः कैलिफोर्निया-देशस्य लास-पोसिटास्-सामुदायिकमहाविद्यालये अध्ययनार्थम् आगतवान्। २०१९ तमे वर्षे सांता क्लारा विश्वविद्यालये ए आइ रिसर्च फेलोस् योजनायाम् 'इन्टण्षिप्' रूपेण सः सम्मिलितवान्। २०२२ तमे वर्षे सांताक्लारा विश्वविद्यालये पूणकालिकछात्ररूपेण मिलितवान् सः वर्षद्वयानन्तरं स्वस्य १४ वयसि सङ्गणकविज्ञाने अभियांत्रिकीशास्त्रे च स्नातकपदवीं प्राप्तवान्। 

    एषः कैरणः विश्वस्मिन् आयोजितेषु बुहुषु वैज्ञानिकसम्मेलनेषु, प्रमुखः प्रवक्ता आसीत्। अपि च युव-वैज्ञानिकत्वेन बहवः लेखाः लिखितवान्। स्पेस् एक्स् इत्यत्र लब्धावसरेण उत्साहभरितः अस्ति इति कैरणः लिङ्क्डइन् इत्यत्र लिखितवान्।