रेल्वे-परिसरस्य मालिन्यकरणे १,००० रूप्यकाणां दण्डः; नूतनः नियमः प्रवृत्तः।
नवदिल्ली > रेल्वे-स्थानकेषु रेलयानेषु च मालिन्यं कुर्वद्भ्यः जनेभ्यः इतः परं तीव्रदण्डः वोढव्यः भविष्यति। पूर्वं विद्यमानः ५०० रूप्यकाणां दण्डः १,००० रूप्यकाणि यावत् वर्धयित्वा रेल्वे-नियमे संशोधनं कृतम्। सोमवासरात् आरभ्य नूतना व्यवस्था प्रवृत्ता। दण्डदाने अस्वीकारे कृते अभियुक्तः न्यायालये उपस्थापयिष्यते। अपराधे सिद्धे सति न्यायालयः २,००० रूप्यकाणि यावत् दण्डं विधातुं शक्नोति। स्टेशन्-मास्टर्, स्टेशन्-मानेजर्, टिकट्-कलेक्टर् इत्येतेषां समानस्य वा तेभ्यः उच्चपदस्थस्य वा अधिकारिणः दण्डारोपणस्य अधिकारः अस्ति।
रेलयानेषु रेल्वे-परिसरेषु वा अवकरप्रक्षेपः, निष्ठीवनं (spit), मलमूत्रविसर्जनम्, पशुपक्षिभ्यः भोजनप्रदानम्, अननुमतस्थानेषु पाककरणम् इत्यादयः क्रियाः अपि इतः परं दण्डनीयाः भविष्यन्ति। रेल्वे-परिसरे वस्त्राणां प्रक्षालनम्, वाहनानां प्रक्षालनम् वा अपि दण्डार्हाः अपराधाः सन्ति। एतदतिरिच्य रेल्वे-सम्पत्तेः नाशं कुर्वभ्योऽपि दण्डं दास्यन्ति। रेल्वे-स्थानकस्य परिसरेषु अनधिकृतं भित्तिलेखनं विज्ञापनानां लेपनं च दण्ड्यं भवति। English news👇




