OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi
Showing posts with label संस्कृतिः. Show all posts
Showing posts with label संस्कृतिः. Show all posts

Saturday, August 22, 2026

भारतीयज्ञानपरम्परायाः समृद्धिं, प्रासङ्गिकतां, चिरन्तनसांस्कृतिकमहत्त्वं  च प्रकाशयति सप्तदिवसीयः संस्कृत-महोत्सवः


     केन्द्रीयसंस्कृतविश्वविद्यालयस्य एकलव्यपरिसरेण, लेम्बुचेरा-त्रिपुरायां, आयोजितः सप्तदिवसीयः संस्कृत-महोत्सवः २०२६ अगस्तमासस्य २१ दिनाङ्के परिसरस्य बहुप्रयोजनसभागारे भव्यतया उद्घाटितः। अयं महोत्सवः अगस्तमासस्य २१ दिनाङ्कतः २८ दिनाङ्कपर्यन्तं प्रचलिष्यति। संस्कृतभाषायाः, साहित्यस्य, भारतीयज्ञानपरम्परायाः च समृद्धिं, प्रासङ्गिकतां, चिरन्तनसांस्कृतिकमहत्त्वं च प्रकाशयितुम् अस्य महोत्सवस्य आयोजनं क्रियते। अस्य कार्यक्रमस्य मार्गदर्शकः प्रो. गुरूचरणसिंहनेगी आसीत्।

    उद्घाटनसमारोहः प्रातः सार्धदशवादने मङ्गलदीपप्रज्वलनेन प्रारब्धः। ततः राष्ट्रगीतं, विश्वविद्यालयस्य कुलगीतं, वैदिकमङ्गलाचरणं च सम्पन्नम्। वैदिकमङ्गलाचरणं वेदविभागस्य संयोजकेन डॉ. आशीषमिश्रेण प्रस्तुतम्। तदनन्तरं परिसरस्य छात्रैः उपस्थितानां सर्वेषां विशिष्टातिथीनां सम्मानार्थं संस्कृतस्वागतगीतम् प्रस्तुतम्।


एकलव्यपरिसरस्य सहनिदेशकः प्रो. सुशान्तकुमारराजः स्वागताभिभाषणं तथा कार्यक्रमस्य परिचयात्मकं वक्तव्यं च प्रस्तुतवान्। कार्यक्रमे सर्वेषां विशिष्टातिथीनां सम्माननमपि सम्पन्नम्। लेफुङ्गा-खण्डसमित्याः अध्यक्षः श्री दीपकदेववर्मा विशिष्टातिथिरूपेण स्वकीयम् अभिभाषणं प्रस्तुतवान्। मुख्यातिथिः श्री शान्तनुबिकाशदासः, टी.सी.एस्. ग्रेड्–I, मोहानपुरस्य उपमण्डलाधिकारी, सभां सम्बोधयन् भारतस्य भाषिक-साहित्यिक-सांस्कृतिकवैभवस्य संरक्षणस्य संवर्धनस्य च महत्त्वं प्रतिपादितवान्। विश्वविद्यालयेन संस्कृतशास्त्राणां प्रचार-प्रसाराय क्रियमाणस्य प्रयासस्य प्रशंसां कृत्वा सः सर्वान् विद्यार्थिनः कक्षासु समयपालनपूर्वकं उपस्थितान् भवितुं, अध्ययनशीलाः भवितुं, अधिगतज्ञानस्य समाजहिताय समुचितरूपेण प्रयोगं कर्तुं च प्रेरितवान्।

      उद्घाटनसमारोहस्य अध्यक्षतां प्रो. बुलुसु पद्ममित्रश्रीनिवासः, कार्यवाहकनिदेशकः,

Monday, December 9, 2024

प्रयागराजे महाकुम्भमेलामहोत्सवे ४५ कोटि तीर्थयात्रिकाणां सहभागः भविष्यति - मन्त्री सूर्यप्रतापः शाहिः।

    प्रयागराजे महाकुम्भमेलामहोत्सवे ४५ कोटि तीर्थयात्रिकाणां सहभागः भविष्यति इति उत्तरप्रदेशस्य मन्त्री सूर्यप्रतापः शाहिः उक्तवान्।

     कार्यक्रमस्य अनुबन्धतया प्रयागराजे त्रिलक्षाधिकाः वृक्षाः रोपिताः। महोत्सवस्य समाप्तेः परम् अपि तेषां संरक्षणं सुनिश्चितं करणीयमिति सर्वकारेण सङ्कल्पितम् अस्ति इति मन्त्री अवदत्।

   ४५ कोटिभ्यः अधिकानां तीर्थयात्रिकाणाम्, संन्यासिनाम्, पर्यटकानां च स्वागताय अयं महोत्सवः सज्जः इति तेन उक्तम्। १२ संवत्सराणाम् अन्तराले युनेस्को-सांस्कृतिक- पैतृकत्वेन मानितः अयं महाकुम्भमहोत्सवः पुनः प्रयागस्य पवित्रभूमौ सम्पन्नः भविष्यति इत्यपि महोदयेन उक्तम्।

Sunday, November 10, 2024

 कारागारवासभयेनैव अध्यापकाः स्ववृत्तिं कुर्वन्तीति उच्चन्यायालयः। 

      कोच्ची> दण्ड्यप्रकरणैः कारागृहवासं भवेदिति भयेन  कक्ष्याचालनं कुर्वन्तः सन्ति इदानींतनाः अध्यापकाः इति गौरवपूर्णम् आशङ्कां प्रकाशयति केरलस्य उच्चन्यायालयः। कक्ष्यायां व्यवस्थाहीने व्यवहारे परिपृष्टे असभ्यवक्तारं सप्तमीकक्ष्याछात्रं दण्डनं कृतवतीम्  अध्यापिकां विरुध्य पञ्जीकृतं प्रकरणं निरस्य न्यायाधिपस्य ए बदरुदीन् वर्यस्य  आदेशे आसीदिदं निरीक्षणम्। 

   छात्राणां हिताय शिक्षकैः स्वीक्रियमाणाः  दण्डप्रक्रमाः  अपराधव्यवहारवत् चित्रीकुर्वन्ति। एतत्तु विद्यालयप्रवर्तनानि पराङ्गमयन्ति। यदीयमवस्था अनुवर्तते चेत् अनुशासिता नूतनपरम्परा कथं जायते इत्याशङ्का वर्तते इति च न्यायाधिपेनोक्तम्।  छात्रः अनाहत‌ः अपि बालनीतिनियमानुसारं शिक्षिकायाः उपरि तृश्शूर् वाडानप्पल्लि आरक्षकैः  प्रकरणं पञ्जीकृतमासीत्।

Monday, August 26, 2024

 ग्रामग्रामान्तरेषु जन्माष्टमी महोत्सवः।

  आलुवा> आभारतम् अद्य श्रीकृष्ण-जन्माष्टमी-महोत्सवः सम्पन्नः। केरळेषु ग्रामग्रामान्तरेषु अपि शोभायात्रा सम्पना। श्रीकृष्ण-गोपिकादीनां वेषान् धृत्वा बालक-बालिकाः शोभायात्रायां भागं स्वीकृतवन्तः। 

 बालगोकुलम् इति प्रसिद्धस्य बालानां सांस्कृतिकदलस्य नेतृत्वे असीत् शोभायात्रायाः परिक्रमः। स्त्रीपुरुषाः वृद्धजनाः च भक्त्यादरपुरःसरम् उत्सवेऽस्मिन् भागं कुर्वन्तः सन्ति। अस्मिन् दिने अयोध्या मथुरा आदि देवालयेषु अपि विशेषता अस्ति।




Wednesday, July 5, 2023

 भारतीयकला - सांस्कृतिकमूल्यानां सारांशः तथा आधारः च भवति गुरुशिष्यपैतृकमिति निता अम्बानि।

     भारतस्य सांस्कृतिकपरम्परायाः सारांशः आत्मा च गुरुशिष्यपारम्पर्यमेवेति टिलयन्स् फौन्डेषन्स् संस्थायाः अध्यक्षया निता मुकेष् अम्बान्या निगदितम्। अस्माकं राष्ट्रस्य सुसम्पन्नस्य पैतृकस्य आधारः च भवति इदम्। भारतस्य भूत - भविष्य- वर्तमानकालस्य च परस्परानुबन्धनम् अस्माभिः अनुवर्तमानानां मूल्यानां पारम्पर्यं भवति इदं इति निता अम्बान्या प्रोक्तम्। गुरुशिष्यबन्धस्य कालातीतस्य पैतृकस्य समादरणाय समारब्धायाः ' गुरुपूर्णिमा स्पेष्यल् नाम परम्परायाः कार्यक्रमे भागं स्वीकृतान् भक्तान् अभिसंबुद्ध्य भाषमाणा आसीत् इयम्। कार्यक्रमे 'अस्मिन् भागं स्वीकर्तुं भारतीय - शास्त्रीयसङ्गीतमण्डलेषु प्रसिद्धाः कलाकाराः, तस्याः प्रगल्भाः शिष्याः च नितेष् अम्बानि सांस्कृतिककेन्द्रे सम्मिलिताः। भारतस्य उत्तमं पारम्पर्यं विश्वसमक्षं प्रदर्शनीयम् इति स्वप्नस्य साक्षात्कारार्थमेव - गुरुशिष्यबन्धस्य समादरणार्थं कार्यक्रमोऽयं समायोजितः।

Saturday, May 13, 2023

 केरलेषु अपि सर्वकारस्य दायित्वे संकृतअक्कादमी संस्थापनीया - डा. बलदेवानन्दसागरः।

         गुरुपवनपुरी (केरळम्)> अन्येषु राज्येषु यथा, तथा  केरलेषु अपि सर्वकारस्य दायित्वे काचित् संकृतअक्कादमी नाम संस्था संस्थापनीया इति सुज्ञातः वार्ताप्रवाचकः तथा च  संस्कृतपत्रकारसमित्यध्यक्षः  डा. बलदेवानन्दसागरः अवदत्।  गुरुवायूर् संस्कृतअक्कादम्याः प्रथमे संस्कृतसेवारत्न-पुरस्कारदान-कार्यक्रमे भाषमाणः आसीत् सः। दिल्ली राजस्थान् बीहार् राज्येषु वर्तामानाः अक्कादम्यः तत्तत् राज्यानां संस्कृतभाषा-संबन्धयोजनाः आयोजयन्ति। एवं चेत् संस्कृतस्य सुप्रचारः तथा अनुसन्धानयोजनायाः आयोजनम्  इत्यादीनि सम्यग्रीत्या सञ्चालयितुं शक्यते इत्यपि महोदयेन अभिप्रेतम्।

    गुरुवायूर् संकृताक्कादम्याः प्रथम-संस्कृतसेवारत्नपुरकार-प्रदानाय  समागतः आसीत् महोदयः। पुरस्कारः संस्कृताध्यापकाय सनलचन्द्रन् सि पि वर्याय अयच्छत्।  केरळ संस्कृताध्यापक फेडरेषनस्य सर्वकार्यदर्शी  इति पदेन सनलचन्द्रेण   संस्कृतभाषाशिक्षाक्षेत्रे कृतं योगदानं पुरस्कृत्य आसीत् सम्माननम्। कार्यक्रमे अध्यापकेन डा. विवेक् एम् वी वर्येण विरचितं ज्ञान-सोपानमञ्जरी नामकं प्रश्नोत्तरपुस्तकम् अपि प्रकाशितम्।

     गुरुपवनपुर-देवस्थानायोगस्य अध्यक्षः डा. वि के विजयः कार्यक्रमस्य उद्घाटनं निरवहत्। डा. पि के श्रीनिवासः कार्यक्रमस्य अध्यक्षः आसीत्। डा. के के षैन्, डा. राधिका, अधिवक्ता रवि चङ्कत्तः च भाषितवन्तः। यू नालिका गायिका निरञ्जना पद्मनाभः प्रार्थनागीतम् आलपितवती। गुरुवायूर् अक्कादम्याः अध्यक्षः  पि. पद्मनाभः स्वागतं,  डा. जस्टिन् जोर्जः धन्यवादं च अर्पितवन्तौ।

Tuesday, April 25, 2023

चतुर्धाम-तीर्थाटनम् समारब्धम्। १७ लक्षं भक्ताः भागं स्वीकरिष्यन्ति। 

   चतुर्धाम-तीर्थाटनं समारब्धम्। उत्तराखण्डे उत्तरकाशी जनपदे गङ्गोत्री, यमुनोत्री मन्दिरे देवदर्शनार्थम् उद्घाटिते। मुख्यमन्त्री पुष्करसिंहधामी गङ्गोत्रीमन्दिरमागत्य विशेषपूजाम् अर्पितवान्। तीर्थाटकानां कृते सर्वसौविध्यानि समायोजितानि इति मुख्यमन्त्रिणा पुष्करसिंहधामिना उक्तम्।