OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, March 27, 2025

 मुण्टक्कै - चूरल्मला पुनरधिवासाभियेजना

मुख्यमन्त्रिणा अद्य शिलान्यासः। 

नूतननगरनिर्माणे वासगृहाणां रूपरेखा 

कल्पट्टा> केरले वयनाट्जनपदे गतवर्षे दुरापन्नेन भूस्खलनेन बन्धुजन-वासस्थानादिकं सर्वं विनष्टानां पुनरधिवासाय प्रशासनेन निर्मीय प्रदीयमानायाः अभियोजनायाः शिलान्यासं अद्य मुख्यमन्त्री पिणरायि विजयः निर्वक्ष्यति। वयनाटस्थे कल्पट्टाप्रदेशे 'एल्सण् एस्टेट्' इत्यत्र ६४ हेक्टर् मिते स्थाने अस्ति नूतनभवनसञ्चयस्य निर्माणम्। 

  पुनरधिवासाभियोजनायां वासगृहाणि, स्वास्थ्यनिलयः, सामाजिकविपणी, आधुनिकी अङ्गनवाटी इत्यादीनि कल्पितानि। दुरन्तातिजीवितेषु प्रतिपरिवाराय सप्त सेन्ट्मिते स्थाने सहस्रचतुरश्रपादमितानां गृहाणां  निर्माणमेव करिष्यति।

Wednesday, March 26, 2025

 उन्मादकं विरुध्य सामान्यजनानां युद्धः 'योद्धाव्' द्वारा। 

एकस्मिन् मासे ३८६५ सन्देशाः; योद्धाद्वारा १४५७; ६३६ संख्याके उन्मादकवस्तूनि गृहीतानि।

'योद्धा' नामकं मोबैल् 'आप्' [योद्धाव् इति कैरल्याम्] आह्वयितुं 9497927797 इति चलनदूरनाणीसंख्या।

अनन्तपुरी> केरले उन्मादकवस्तूनि विरुध्य सामान्यजनानां सहयोगेन प्रशासनस्य युद्धाय प्रोत्साहजनकं फलम्। उन्मादकवस्तुविक्रयिणाम् उपयोक्तॄणां च सूचनाः दातुं केरलारक्षकसेनया आविष्कृतं मोबैल् आप् द्वारा  मासत्रयाभ्यन्तरे १४५७ जनैः सूचनाः प्रदत्ताः। मार्च मासे एव ११५७ सन्देशाः आगताः। ९४९७९२७७९७ इति दूरवाणीसंख्यां प्रति मासैकेन ३८६५ जनाः आह्वानं कृतवन्तः। सूचनाः लब्ध्वा अन्वेषणे ६३६ प्रकरणेषु उन्मादकवस्तूनि गृहीत्वा प्रक्रमाः स्वीकृताश्च। 

  राज्यक्रमस्थितिपालनविभागस्य [Law and Order] ए डि जि पी पदीयस्य मनोज् एब्रहामस्य नेतृत्वे अस्य वर्षस्य प्रारम्भे एव आरब्धः उन्मादकविरुद्धविभागः सामान्यजनस्य सहयोगेन नितरामग्रे गच्छन्नस्ति।

 कृष्णसागरे आक्रमणं परित्यज्यते। 

यू एस् माध्यस्थे रूस-युक्रेनसन्धिः।

वाषिङ्टणः> कृष्णसमुद्रेण यातायातं सुगमं सुरक्षितं च  कर्तुं ऊर्जनिलयान् प्रति आक्रमणं निराकर्तुं च रूसराष्ट्रेण युक्रैनेन च सह पृथक् पृथक् सन्धिराविष्कृत इति यू एस् राष्ट्रेण निगदितम्। अनेन रष्यायाः कार्षिकोत्पन्नानि, ऊर्वरकाणि च सुगमतया भौगोलविपणिं प्राप्तुं शक्यते इति 'वैट् हौस्' वक्तृभिः प्रोक्तम्। वर्षत्रयातीतं युद्धं सम्पूर्णं  समापयितुं प्रयत्नः अनुवर्तिष्यते इति च तैः निगदितम्।

  रूस् युक्रैनराष्ट्रयोर्मिथः सौदी अरेब्यायां रियादे कृतायाः चर्चायाः फलं भवति पूर्वोक्तसन्धिः।

 मार् बसेलियोस् जोसफ् बावा वर्यः 'श्रेष्ठकातोलिका' पदे अभिषिक्तः। 

श्रेष्ठ कातोलिकापदे अभिषिक्तः बसेलियोस् जोसफ् बावावर्यः पदचिह्नैः सह।

बय्रूट्> क्रिस्तीयधर्मस्य याकोबाया सुरियानि ओर्तडोक्स् सभायाः उन्नतपौरोहित्यपीठे 'श्रेष्ठकातोलिका'नामके भारतीयः मार् बसेलियोस् जोसफ् बावा वर्यः अभिषिक्तः। लबननराष्ट्रे बय्रूट् नगरस्थे अट्चाने सेन्ट् मेरीस् देवालये सम्पन्ने स्थानारोहणकार्यक्रमे सुरियानिसभायाः परमाध्यक्षः इग्नातियोस् अप्रें  द्वितीयः पार्त्रियार्कीस् बावावर्यः मुख्यकार्मिकः अभवत्। 

   कुजवासरे सायं पञ्चवादने [भारतीयसमयः रात्रौ ८. ३०] आसन् अभिषेकानुष्ठानानि। पञ्चवर्षदशकैः मेत्रापोलीत्ता, कातोलिकाादि पदमूढ्य सभां नीतवतः दिवंगतस्य  श्रेष्ठकातोलिका बसेलियोस् तोमस् प्रथमबावावर्यस्य अनुगामिरूपेणैव केरलजन्मनः अस्य नूतनं स्थानारोहणम्।

Tuesday, March 25, 2025

 गासा आतुरालये इस्रयेलस्य बोम्बाक्रमणं - आतुराः मृताः।

गासा सिटी> दक्षिणगासायां बृहत्तमे आतुरालये नासर् नामके इस्रयेलेन बोम्बाक्रमणं कृतम्। आतुरालये परिचर्यायां वर्तमानाः नैके जनाः मृताः। तेषु एकः हमाससंघटनस्य मुख्यनेता इस्माइल बर्हूमः इति सूच्यते। शस्त्रक्रियानन्तरं परिचर्यमाणः षोडशवयस्कः अपि प्रत्यभिज्ञातः। अनेके जनाः व्रणिताः अभूवन्। 

 नासर् आतुरालयः हमासेन युद्धे कवचरूपेण उपयुज्यते इति सूचनामनुसृत्यैव आक्रमणं कृतमिति इस्रयेलसैन्येन निगदितम्। १७ मासाधिकं यावदनुवर्तमाने युद्धे बहुवारम् अयमातुरालयः आक्रमणाधीनः अभवत्।

 राजीव चन्द्रशेखरः केरलस्य भाजपा अध्यक्षः। 


अनन्तपुरी> केरलराज्ये भा ज पा दलस्य  अध्यक्षरूपेण भूतपूर्वः केन्द्रसहमन्त्री राजीव चन्द्रशेखरः चितः। ह्यः आयोजिते राज्यसमित्युपवेशने तस्य नाम केन्द्रनेतृत्वेन प्रख्यापितं , समित्या ऐककण्ठ्येनाङ्गीकृतं च। 

 के सुरेन्द्रस्य अनुगामिरूपेण राजीव चन्द्रशेखरेण केरल भाजपा नेतव्या इति पूर्णतया  केन्द्रनेतृत्वस्य निर्णयः अस्ति।  रविवासरे  अनन्तपुर्यां सम्पन्ने राजनैतिकदलस्य निर्वाहकसमित्युपवेशने केरलस्य प्रभारिः प्रकाश जावदेकरः नेतृत्वस्य निश्चये अङ्गीकारं सम्प्राप्य राजीवस्य  पत्रिकासमर्पणादिप्रक्रमाः सम्पन्नाः।  तदनन्तरं सोमवासरे राज्यसमित्यां एषः निर्णयः समर्पितः अङ्गीकृतः च। ततः केन्द्रमन्त्री प्रह्लाद जोषेः इतपेषां नेतृजनानां सान्निध्ये नूतनराज्याध्यक्षरूपेण राजीव चन्द्रशेखरः चितः इति प्रख्यापोSपि विधत्तः।

Monday, March 24, 2025

 छत्तीसगढे शिरोमूल्यप्रख्यापिताः अभिव्याप्य २२ मावोवादिनः आत्मसमर्पणं कृतवन्तः। 

बीजपुरं> छत्तीसगढे बीजपुरजनपदे सर्वकारेण आहत्य ११ लक्षं रूप्यकाणि शिरोमूल्यं प्रख्यापिताः ६  अभिव्याप्य २२ मावोवादिनः गतदिने आरक्षकाणां पुरतः आयुधानि समर्प्य आत्मसमर्पिताः अभवन्। 

  आन्ध्रप्रदेश-ओडीशाविभागस्य अधीने प्रवर्तमानाः निरुद्धसंघटने अन्तर्भूताः,  तेलङ्कानाराज्यसमित्यंगाः च एते आत्मसमर्पिताः। छत्तीसगढ़सर्वकारस्य आत्मसमर्पण-पुनरधिवासयोजनामनुसृत्य एते आनुकूल्यार्हाः भवन्ति।

 मार्पापावर्यः स्वस्थः; विश्वासिजनान् अभिवादनं कृतवान्। 

आतुरालयात् प्रतिनिवृत्तः, सप्ताहद्वयस्य विश्रान्तिः।

मार्पापावर्यः विश्वासिजनान् अभिसम्बोधयति। 

रोमः> श्वासकोशे अणुबाधया रोमस्थं जेमेल्लि आतुरालयं प्रविष्टवान् फ्रान्सिस् मार्पापावर्यः स्वस्थो भूत्वा प्रथमतया ह्यः विश्वासिजनान् अभ्यसंबोधयत्। स्वस्य रोगशान्त्यर्थं प्रार्थनां कृतवद्भ्यः  आविश्वं सर्वेभ्यः तेन कृतज्ञता प्रकाशिता। 

 अणुबाधायाः मुक्तः मार्पापावर्यः वत्तिक्कानस्थं स्वभवनं प्रतिनिवृत्तवान्। किन्तु तेन सप्ताहद्वयं यावत् विश्रान्तिः अनुष्ठितव्या इति तस्य वैद्यवृन्देन निर्दिष्टम्।

Sunday, March 23, 2025

 मण्डलपुनर्निर्णयः शिलीकर्तव्यः - संयुक्तकर्मसमितिः। 

चेन्नई> जनसंख्यानुसारं भारते लोकसभामण्डलानि पुनर्निर्णेतुं केन्द्रप्रशासनेन विधत्तः निर्णयः २५ वर्षाणियावत् शिलीकर्तव्यमिति तमिलनाडु मुख्यमन्त्री एं के स्टालिन् इत्यस्य नेतृत्वे समाकारितेन संयुक्तकर्मसमिति इति संघटनेन अपेक्षितम्। समित्यामस्यां  कन्द्रप्रशासनस्य विपक्षदलानां राज्यस्थानां मुख्यमन्त्रिणः अन्तर्भवन्ति। तमिलनाटं विना केरलं तेलङ्कानं, पञ्चाबः, कर्णाटकं, ओडीशः इत्येतेषां राज्यानां मुख्यमन्त्रिणः नेतारः च ह्यः आयोजिते सम्मेलने भागं गृहीतवन्तः।

 विनोद कुमार् शुक्ला ज्ञानपीठेन पुरस्कृतः। 


नवदिल्ली> ५९ तमः ज्ञानपीठपुरस्कारः हिन्दि साहित्यकाराय  विनोद कुमार् शुक्ला वर्याय लभते। छत्तीसगढात् ज्ञानपीठपुरस्कारं लभमानः प्रथमः साहित्यकारो भवति ८८ वयस्कः शुक्लावर्यः। 

  वर्तमानकालीनहिन्दीसाहित्ये प्रथमगणनीयः भवत्ययम्। हिन्दिसाहित्याय दत्तं समग्रं योगदानं तथा सर्गात्मकं रचनाशिल्पवैभवं च शुक्लवर्यं ज्ञानपीठपुरस्काराय अर्हः चकार इति ज्ञानपीठनिर्णयसमित्या प्रस्तुतम्।

Saturday, March 22, 2025

 लण्टने  'सब् स्टेशन्' स्थाने अग्निप्रकाण्डः। 

हीत्रो विमाननिलयः २४ होराः पिहितः।

पुनरुद्घाटितः; सम्पूर्णसेवा अद्य आरभ्य। 


लण्टनं> लण्टननगरस्थस्य पश्चिमदिशि वर्तमाने विद्युन्निलयस्य 'सब् स्टेशन्' इत्यत्र आपन्नया बृहदग्निबाधया विद्युद्वितरणं  स्थगितमित्यतः हीत्रू विमाननिलयः २४ होराः यावत् पिहितः। हीत्रूं तथा हीत्रूतः च १३५१ विमानसेवाः स्थगिताः। लक्षशः जनानां यात्रा स्थगिता।  एयर् इन्डिया संस्थायाः षट् सेवाः अपि निरुद्धाः। 

  २४ होरानन्तरं विद्युत् वितरणं पुनरारब्धमित्यतः विमाननिलयः उद्घाटितः। शनिवासरादारभ्य  सम्पूर्णतया विमानसेवा आरप्स्यते।

 आधुनिकगुलिकाप्रक्षेपिणीपरिकल्पनाय ७००० कोटि अनुमोदितानि। 

नवदिल्ली> भारतीयस्थलसेनायाः कृते आधुनिकम् अग्निगोलकप्रक्षेपणीपरिकल्पनम् [Artillery Gun system] आयोजयितुं सप्तसहस्रकोटि रूप्यकाणि केन्द्रमन्त्रिसभायाः सुरक्षासमित्या अनुमोदितानि। अस्य सज्जीकरणस्य ३०५ अंशान् क्रेतुं शक्यते। 

  तद्देशीयरीत्या रचनाकल्पितस्य अग्निगोलकप्रक्षेपिणीविधानस्य ४५ कि मी दूरावधौ प्रहरशक्तिः वर्तते।

 अनधिकृतौ बङ्लादेशीयौ केरलतः निगृहीतौ।

कोच्ची> कतिपयवर्षाणि यावत् प्रमाणरहितेन केरलमधिवसन्तौ द्वौ बङ्लादेशीयनागरिकौ आरक्षकैः निगृहीतौ। बङ्लादेशे मुहम्मदनगरप्रदेशीयौ मोनिरूल् मुल्ला [३०], अल्ताब अलि [२७] इत्येतौ अङ्कमाली नगरसमीपे करुकुट्टी इत्यत्र पश्चिमवंगस्य छद्मसङ्केतानुसारं वासं कुर्वन्तौ आस्ताम्। 

  २०१७ तमे वर्षे बङ्लादेशात् सीमामल्लंघ्य वंगं प्राप्य तत्रत्यं सङ्केतानुसारम् आधार् पत्राणि इतरप्रमाणानि च अलीकेन निर्माय केरलं प्राप्तवन्तौ। अङ्कमाल्यां समीपे च श्रमिकवृत्तिं स्वीकृत्य वसन्तौ स्तः। एताभ्यां लब्धं धनं तु वंगस्थेन प्रतिनिधिना बङ्लादेशं नीतमासीदिति आरक्षकाधिकृतैः प्रोक्तम्।

 अखिलभारतीयं वित्तकोश-कर्मस्थगनं परित्यक्तम् ।

    अस्मिन् मासे २४, २५ दिनाङ्कयोः घोषितम् अखिलभारतीयं वित्तकोश-कर्मस्थगनं त्यक्तम्।  वित्तकोशसङ्घस्य प्रतिनिधिभिः सह कृते चर्चायाः अन्ते निर्णयः स्वीकृतः। पञ्चदिनात्मकस्य कर्मस्य विषये सहानुभूतिपूर्णं दृष्टिकोणं भविष्यतीति  वित्तकोशस्य अधिकारिभिः वाक् दत्तम् इति वित्तकोशकर्मचारिणां सङ्घटनानि अवदन्।

     तात्कालिक-कर्मचारिणः स्थायीकरणं, वित्तकोशकर्मचारिणां सुरक्षा सुनिश्चितुं, ग्रैच्युइटी-अधिनियमस्य परिष्करणं च आवश्यकानि समुत्थाप्य इदम् कर्मस्थगनाय आहूतम्। वित्तकोश-सङ्घटनानि भारतीय-वित्तकोश-सङ्घस्य प्रतिनिधयश्च अप्रैल-मासस्य तृतीय-दिनाङ्के पुनरुपवेशनं करिष्यन्ति।

 शनिग्रहस्य वलयानि श्वः अप्रत्यक्षो भविष्यति। शनिः पीतग्रहः भविष्यति।

    सौरयूथस्थग्रहेषु अन्यतमः भवति शनिग्रहः। शनिग्रह इति श्रवणमात्रेण  गोलं परितः विराजमानानि वलयानि एव प्रथमं अस्माकं स्मृतिपथमायाति। हिमेन शिलाभिः च निर्मितानि एतानि वलयानि श्वः अप्रत्यक्षो भविष्यति। रिङ् प्लेयिङ् क्रोसिङ् नाम विशेष घटना एव अस्य कारणम्। १३ संवत्सरादारभ्य १५ संवत्सराणां मध्ये एव एषः विशेषघटना संभवति। यदा वलयः अप्रत्यक्षो भवति तदा शनिः पीतरूपेण द्रष्टुं शक्यते। भूमौ दृश्यमेतत् संद्रष्टुं दूरदर्शिन्या: साहाय्येन शक्यते।

Friday, March 21, 2025

 गासायां सर्वत्र आक्रमणं - ८५ मरणानि। 

हमासस्य प्रत्याक्रमणम्। 

गासासिटी> गासायां गतदिने इस्रयेलेन कृते व्योमाक्रमणे ८५ पालस्तीनीयाः हताः। अतीते द्वित्राणां दिनाभ्यन्तरे इस्रयेलस्य आक्रमणेन १९० बालकानभिव्याप्य ५०४ जनाः हताः इति गासायाः नागरिक प्रतिरोध प्रतिनिधिना उक्तम्। 

  प्रत्याक्रमणरूपेण हमासेन इस्रयेलस्थं टेल् अवीवं लक्ष्यीकृत्य अग्निबाणाः विक्षिप्ताः। किन्तु जनापायः विनष्टः वा न जात इति इस्रयेलेन निगदितम्।

 छत्तीसगढे पुनरपि मावोवाद्याखेटः। 

३० व्यापादिताः। एकस्मै सुरक्षाभटाय वीरमृत्युः।

बिजापुरं>  छत्तीसगढराज्ये स्थानद्वये विधत्ते प्रतिद्वन्द्वे ३० मावोवादिनः सुरक्षासेनया व्यापादिताः। बिजापुरे २६, काङ्करे ५ संख्याकाः एव गतदिने हताः। बिजापुरे जाते प्रतिद्वन्द्वे जनपदीय संरक्षणसेनायाः [डि आर् जि] एकः भटः वीरमृत्युं प्राप। 

  गुरुवासरे प्रभाते  बीजपुरं दन्तेवाडा जनपदयोः सीमाप्रदेशस्थे वनमण्डले  अन्वेषणमारब्धम्। अत्रतः १८  मावोवादिनां मृतशरीराणि बृहदायुधसञ्चयश्च अधिगतानि।

 क्रिस्टी कवन्ट्री 'ऐ ओ सी' अध्यक्षा। 


एतन्स्> अन्ताराष्ट्र ओलिम्पिक्स् समित्याः [ऐ ओ सी] अध्यक्षपदे इदंप्रथमतया एका महिला चिता। गुरुवासरे ग्रीस राष्ट्रे सम्पन्ने मतदानप्रक्रमे सिम्बाब्वे देशीया क्रिस्टी कवन्ट्री नामिका [४१] चिता। 

  ऐ ओ सी अध्यक्षपदाय सप्त जनाः स्पर्धन्ते स्म। ४९ मतानि प्राप्तानि क्रिस्टीवर्यया। ओलिम्पिक्स् क्रीडासु तरणस्पर्धासु सप्त पतकानि प्राप्तानि अनया।

Thursday, March 20, 2025

 केरले 'आशा'प्रवर्तकाः अद्य अनशनान्दोलनमारभ्यन्ते।

स्तरद्वयचर्चा विफला। 

अनन्तपुरी> ३८ दिनानि यावत् वेतनवर्धनादिकानुकूल्याय  शासनकार्यालयमन्दिरस्य पुरतः आन्दोलनं कुर्वन्त्यः 'आशा'प्रवर्तकाः अद्य आरभ्य विधानसभामन्दिरस्य पुरतः अनशनान्दोलनं कुर्वन्ति। ह्यः प्रभाते  राष्ट्रिय स्वास्थ्यपरियोजनायाः राज्यनिदेशकेन विनय गोयलेन सह , अपराह्ने स्वास्थ्यमन्त्रिणी वीणाजोर्ज् वर्यया च सह कृतं चर्चाद्वयमपि विफलं जातम्।

  प्रतिदिनं २४२ रूप्यकाणीति वेतनं जीवसन्धारणाय न पर्याप्तं, तस्य वर्धनमावश्यकमिति मुख्यापेक्षायां सर्वकारः पराङ्मुख इति आन्दोलननेतृभिरुक्तम्। अत एव चितैः कतिपयप्रवर्तकैः अनशनं दीक्षितुं निश्चितम्। आन्दोलनस्य परिहाराय मुख्यमन्त्रिणः व्यवहारः आवश्यक इति विपक्षनेत्रा वि डि सतीशेन निर्दिष्टम्।

 बहिराकाशयात्रिकाणां परं हूस्टणे ४५ दिनात्मकं परिशीलनम्। 

परीशीलनं भौमपर्यावरणेन सह तादात्म्याय। 

फ्लोरिडा> अन्ताराष्ट्रिय बहिराकाशनिलये २८६ दिनानां वासानन्तरं बुधवासरे  पृथ्वीं प्रत्यागतेभ्यः नासायाः बहिराकाशयात्रिकेभ्यः हूस्टणस्थे बहिराकाशकेन्द्रे ४५ दिवसीयानि निरीक्षणपरिशीलनानि विधत्तानि। स्वास्थ्यसम्बन्धीनि निरीक्षणानि कल्पितानि सन्ति। तथैव भूम्याः गुरुत्वाकर्षणेन सह शरीरं शारीरिकप्रवर्तनानि च अनुकूलतां कर्तुं परिशीलनानि च विधत्तानि। तथा च शारीरिक-मानसिकस्वास्थ्यपुनःस्थापनाय इहलोकसाहचर्यैः सह तादात्म्यं कर्तुं मार्गनिर्देशान् च तेभ्यः दास्यति।

 सर्वोच्चन्यायालयस्य न्यायाधिपाः मणिपुरं प्रति। 

नवदिल्ली> मणिपुरे अनुवर्तमानस्य संघर्षस्य आघातमूल्यनिर्णयं कर्तुं सर्वोच्चन्यायालयस्य षट् न्यायाधिपाः मणिपुरं सन्द्रक्ष्यन्ति। मीर्च् २२ तमे दिनाङ्के ते मणिपुरे दुरिताश्वासशिबिराणि प्राप्स्यन्ति।

 न्याय. बि आर् गवायि इत्यस्य नेतृत्वे न्यायाधीशाः सूर्यकान्तः, विक्रमनाथः, एम् एम् सुन्दरेशः, के वि विश्वनाथः , एन् कोटीश्वर सिंहः इत्येते गमिष्यन्ति।

 भारतस्य मतदातृ-अभिलेखाः आधार्-दत्तांशसञ्चये सम्बध्यन्ते।

 केन्द्रीयनिर्वाचनायोगेन तथा अद्वितीयपरिचायकप्राधिकरणेन (UIDAI) च भारतस्य मतदातृ-अभिलेखाः आधार्-दत्तांशसञ्चये सम्बध्यन्ते। अस्य प्रक्रमस्य भागतया, नियममन्त्रालयेन 6B-प्रपत्रस्य संशोधनं कृत्वा आधार्-विवरणस्य स्वेच्छया दानं करणीयमिति स्पष्टं करणीयम्। तथापि, ये मतदातारः आधार्-विवरणं दातुं न इच्छन्ति, ते तस्य कारणं स्पष्टतया वक्तव्यम्।

  एषः सम्बद्धनप्रक्रमः 1950 तमस्य जनप्रातिनिध्यनियमस्य 23(4), 23(5), 23(6) इत्येतेषां धाराणानाम् आधारेण क्रियते। ह्यः सम्पन्ने उच्चस्तरीयोपवेशने केन्द्रीयनिर्वाचनायोगस्य, गृह-मन्त्रालयस्य, विधि-मन्त्रालयस्य, सङ्गणक-तन्त्रज्ञानमन्त्रालयस्य, UIDAI इत्यादीनां वरिष्ठाधिकारीणः सहभागीभूताः। मतदाता-सूचिकायां कदाचित् अपव्यवस्था अस्तीत्यभिज्ञाय विपक्षराजनीतिसमूहः अस्य प्रक्रियायाः विरोधं कृतवन्तः इति सन्दर्भे अस्य निर्णयस्य ग्रहणं कृतम्।

Wednesday, March 19, 2025

 चतस्रः होराभ्यन्तरे व्रणानां नाशं ९०% अपाकर्तुं क्षमं नूतनम् औषधम् आविष्कृतम्।

    चतस्रः होराभ्यन्तरे व्रणानां नाशं ९०% अपाकर्तुं तथा २४ होराभ्यन्तरे पूर्णतया सुखमयं कर्तुं च योग्यं नूतनं 'हैड्रो जेल्ल्' (hydrogel) नाम औषधं वैज्ञानिकैः आविष्कृतम्।

    स्वयं व्रणनाशं कर्तुं मनुष्यत्वचस्य शक्तेः समानं प्रवर्तमानं हैड्रोजेल् नामकम् औषधं वैज्ञानिकैः आविष्कृतम्। चतस्रः होराभ्यन्तरे व्रणस्य ९०% तथा चतुर्विंशति होराम्यन्तरे सम्पूर्णतया सुखमयं कर्तुम् अनेन नूतनपदार्थेन शक्यते। व्रणानां परिचरणं, पुनर्निर्माणचिकित्सा (regenerative medicine), कृत्रिमचर्मप्रौद्योगिकविद्या (Artificial skin technologies ) इत्यादिषु मण्डलेषु एतत् औषधं सहायकं भविष्यति इति प्रमाणितम् अस्ति। फिन्लन्ट् विश्वविद्यालयस्य तथा नबेय्रूत् विश्वविद्यालयस्य च वैज्ञानिकानां संयुक्तसंघाः एव हेट्रोजेल् इति नूतनपदार्थस्य आविष्कर्तारः।

 सुनिता विल्यंसः सहप्रवर्तकाश्च सुरक्षिता‌ः वसुधां सम्प्राप्ताः। 

ड्रागण् क्रू ९ पेटकं प्रत्युषसि सार्धत्रिवादने फ्लोरिडासमुद्रे अवतारितम्। 

सुनितां क्रू ९ पेटकात् बहिरानयति। 

फ्लोरिडा> २८६ दिनानां बहिराकाशवासानन्तरं भारतीयवंशजा सुनिता विल्यंसः, सहयात्रिकेण विल्मोरेन सह  सुरक्षितेव वसुधां प्राप्तवती। ऐ एस् एस्  निलये वर्तमानौ द्वावपि प्रत्यागतवन्तौ। 

  अद्य प्रत्युषसि सार्धत्रिवादने [भारतीयसमयः] बहिराकाशयात्रिकान् वहत् स्पेस् एक्स् संस्थायाः ड्रागण् क्रू ९ नामकं  पेटकं अमेरिकायां फ्लोरिडातीरात् ४५० कि मी दूरे अत्लान्टिकसमुद्रे सुरक्षितेन आस्फालितावतरणं [Splash landing] अकरोत्।  १७ होरायुता आसीत् बहिराकाशात् वसुधां प्रति यात्रा।

 गासायां पुनराक्रमणम्

राष्ट्रैः अपलपितम्। युद्धविरामलङ्घनमिति हमासः। 

गासा सिटि> गासायाम् इस्रयेलेन कृता सङ्घहत्या संयुक्तराष्ट्रसभया इतरराष्ट्रैश्च अपलपिता। नरहत्यावार्ता संभ्रमजनका इति यू एन् संस्थायाः निदेशकप्रमुखः अन्टोणियो गुटरसः प्रोक्तवान्। 

  सोपानत्रयेण विधातुमुद्दिष्टस्य युद्धविरामसन्धेः लङ्घनं भवति इस्रयेलेन कृतमिति हमासेन प्रस्तुतम्। गासायां शाश्वतशान्तिरिति मध्यस्थानामुद्यमं विलोमीकर्तुमेव इस्रयेलस्य लक्ष्यमिति च आरोपितम्।

 गासायां पुनरपि नरहत्या।

इस्रयेलस्य आक्रमणे ४०४ मरणानि। 

अधिकतया बालकाः!

गतदिने इस्रयेलेन कृतं व्योमाक्रमणम्। 

जरुसलेमः> जनुवरि १९ तमे दिनाङ्के आरब्धे ४२ दिवसीय युद्धविरामे समाप्ते इस्रयेलेन गासां हत्याक्षेत्रं कृतम्। सोमवासरे रात्रौ मङ्गलवासरे च कृते व्योमाक्रमणे ४०४ पालस्तीनीयाः हताः, ५६२ जनाः क्षताश्च। मृतेषु अधिके बालकाः भवन्तीति पालस्तीनस्य स्वास्थ्यविभागेन निगदितम्। 

  गासायाः उत्तर दक्षिणभागेषु वर्तमानानि भवनानि कुटीराणि च व्योमाक्रमणस्य लक्ष्यमभवत्। सप्ताहद्वयं यावत् गासां प्रति भोज्यवस्तूनि अभिव्याप्य अवश्यवस्तूनि इस्रयेलेन निरुद्धानि आसन्। अनेन जनाः नूतनमभयस्थानं प्रति पलायनमारब्धवन्तः।

Tuesday, March 18, 2025

 राष्ट्ररक्षामण्डले भारत - न्यूसिलान्टयोः सहयोगः। 

नवदिल्ली> राष्ट्ररक्षामण्डले सहयोगाय भारत - न्यूसिलान्टराष्ट्रयोः मिथः सन्धिरजायत। न्यूसिलान्ट प्रधानमन्त्री क्रिस्टफर् लक्सनः नवदिल्ल्यां भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलने आसीदयं निर्णयः। वाणिज्यव्यवहारान् ऊर्ज्वस्वलं कर्तुं,निक्षेपान् वर्धयितुं च चर्चाः पुनरारप्स्यन्ते। विविधमण्डलेषु परस्परसहयोगाय षट् सन्धयः हस्ताक्षरीकृताः।

 समुद्रसिकताखननम् 

परिस्थितिप्रातिकूल्यं नास्तीति केन्द्रसर्वकारः। 

नवदिल्ली> केरलस्य सीमासमुद्रान्तर्भागात् सिकतासञ्चयं खननं कर्तुं केन्द्रसर्वकारस्य निर्णये परिवर्तनं नास्ति। समुद्रात् सिकताखननं परिस्थितेः मत्स्यसम्पदश्च दोषाय भविष्यतीति केरलस्याशङ्का निराधारा इति केन्द्रसर्वकारेण लोकसभायां प्रस्तुतम्। 

  सिकताखननं तीरसंक्षणमण्डलात् बहिरेव विधास्यति, तत्तु परिस्थितेः प्रतिकूलः नास्तीति च वनं-परिस्थितिविभागस्य सहमन्त्री कीर्तिवर्धन सिंहः निगदितवान्। के सि वेणुगोपालस्य प्रश्नस्य एन् के प्रेमचन्द्रस्य उपप्रश्नस्य च समाधानरूपेणायं मन्त्रिणः प्रस्तावः।

Monday, March 17, 2025

 भारतेन मार्गमाणः भीकरः पाकिस्थाने अज्ञातैः निहतः। 

इस्लामबादः> पाकिस्थानीयभीकरसंघटनं लष्कर् ई तोय्बा इत्यस्य उन्नतनेता कमान्डरपदीयः जम्मुकाश्मीरे दुरापन्नस्य बहूनां भीकराक्रमणानां सूत्रधारश्च अबु खत्तल नामकः [४३] पाकिस्थाने अज्ञातैः भुषुण्डिप्रयोगेण निहतः। शनिवासरस्य रात्रौ पञ्चाबप्रान्ते झलं क्षेत्रे आसीदियं घटना। द्विचक्रिकया प्राप्ताभ्यां द्वाभ्यां कृतेन भुषुण्डिप्रयोगेण खत्तलेन सह अङ्गरक्षकोSपि हतः। 

  जम्मु-काश्मीरे विधत्ते भीकराक्रमणानां नाम्नि राष्ट्रियान्वेषणनियोजकसंस्थया मार्गमाणो भवति खत्तलः। २००८ तमवर्षे आयोजितस्य मुम्बई भीकराक्रमणस्य सूत्रधारोSपि एष आसीत्।

 नासा संस्थया भारतीयवंशजा सूनिता विलियम्स् तथा बुच् विलमोर् इत्ययोः प्रत्यागमनस्य कालः प्रकाशितः।

    भारतीयसमयमानुसार श्वः प्रभाते ८.१५ वादने प्रत्यागमनयात्रा आरभ्यते। बुधवासरस्य प्रातः ३.२७ वादने तौ फ्लोरिडातीरे सागरं प्राप्स्यतः।

स्टार्लायनर्-नामकयानस्य तांत्रिकदोषानां कारणात् नवमासाधिककालपर्यन्तम् अन्ताराष्ट्रिय बाह्याकाशनिलये स्थिता सुनिता विलियम्सः तथा बुच् विलमोरः इत्युभौ बुधवासरे पृथिवीं प्रत्यागमिष्यतः। निक् हेग्, अलेक्जान्द्र-गोरबुनेव् इत्येतौ अपि सहगामिनौ भविष्यतः। फ्लोरिडायाः तटस्य समीपे अटलाण्टिक्-महासागरे तेषां आकाशयानं सागरं प्रति पतिष्यति।

 'क्रू १०' बहिराकाशनिलयं प्राप्तम्। 

सहयात्रिकेन सह सुनिता १९ तमे दिनाङ्के धरां प्राप्स्यति।

बहिराकाशनिलयं प्राप्तैः यात्रिकैः सह सुनीता विल्मोरश्च। 

वाषिङ्टणः> नव मासेभ्यः अनिश्चितत्वं परिसमाप्य बहिराकाशात् सुनिता विल्यंसः सहयात्रिकेन विल् मोरेन सह परश्वः भूमिं प्राप्स्यति। तौ प्रत्यानेतुं नासया 'स्पेस् एक्स्' इत्यनेन च सह विक्षिप्तं 'क्रू १०' इति यानं चतुर्भिः गवेषकैः साकं अन्ताराष्ट्रिय बहिराकाशनिलयं प्राप्तम्। नवातिथीन् हस्तदानेन आलिङ्गनेन च सुनिता विल्मोरश्च स्वीकृतवन्तौ।

 बलूचिस्थाने पुनरपि भीकराक्रमणम्।

आत्मघातिस्फोटनेन ९० सैनिकान् व्यापादयत्  इति बी एल् ए ; निषिध्य पाकिस्थानम्।

स्फोटने भगने सैनिकानां बस् यानेअधिकारिणां परिशोधना। 

कराची> रेलयानमपहृत्य यात्रिकान् बद्धान् कृतमिति घटनायाः अनन्तरं पाकिस्थानस्य बलूचिस्थाने पुनरपि भीकराक्रमणम्। रविवासरे प्रभाते सेनाव्यूहं प्रति आत्मघातिस्फोटनमापन्नम्। ९० सैनिकाः अनेन स्फोटनेन व्यापादिताः इति स्फोटनस्य उत्तरदायित्वं स्वीकृत्य बलूच् लिबरेषन् आर्मी [बी एल् ए] नामकविघटनवादसंघटनेन निगदितम्।

  किन्तु पाकिस्थानेन इदं निषिद्धम्। ५ सैनिकाः हताः १२ व्रणिताः इति पाकिस्थानेन स्थिरीकृतम्। क्वेटा स्थानात् तफ्तानं प्रति गम्यमानानि सप्त बस् यानानि द्वे अनुगमनयाने च वाहनव्यूहे आसन्। तानि लक्ष्यीकृत्य स्फोटकोपेतं वाहनं आत्मघातिना सम्घट्टितमासीत्।

Sunday, March 16, 2025

 दशमकक्ष्याम् उत्तीर्णवतां +2 विना महाविद्यालये उपरिपठनाय अवसरः, 100% छात्रवृत्तिः लप्स्यते।
CSU Guruvayoor Campus 

   दशमकक्ष्याम् उत्तीर्णवतां महाविद्यालये उपरिपठनाय अवसरः अस्ति, +2 तः Ph. D पर्यन्तं महाविद्यालयाध्ययनाय केन्द्रीयविश्वविद्यालये सुविधा अस्ति। केन्द्रीयसंस्कृतविश्वविद्यालस्य (Central Sanskrit University) विविधराज्यस्तरीय-परिसरेषु संस्कृतभाषया सह वैज्ञानिकविषयाणाम् अध्ययनाय शतप्रतिशतं छात्रवृत्त्या (Scholarship) सह अवसरः अस्ति। दशमकक्ष्याम् उत्तीर्णवतां छात्राणां प्राक्-शास्त्री (+2 तुल्यः) इत्यारभ्य Ph.D पर्यन्तं महाविद्यालये / विश्वविद्यालये अध्ययनं शक्यते इत्यस्ति विशेषता। भारतस्य विभिन्नराज्येषु विद्यमानेषु केन्द्रीयसंस्कृतविश्वविद्यालस्य परिसरेषु अपि अवसराः सन्ति। उत्तरदिशि जम्मु-काश्मीरतः आरभ्य दक्षिणे केरलराज्यपर्यन्तं प्रादेशिकपरिसरैः आदर्शविद्यापीठैः च विस्तृतः भवति अयं विश्वविद्यालयः।

 केरळेषु तृश्शूर् जनपदे विश्रुते गुरुवायूर् परिसरे अस्य संवत्सरस्य प्रवेशनकार्यक्रमः आरब्धः। परिसरेऽस्मिन् विद्यमानाः पाठ्यक्रमाः प्राक् शस्त्री (+2 तुल्यः), चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री (ऐटेप्प् - बि.ए बि. एड् तुल्यः), शास्त्री (बि.ए तुल्यः), आचार्यः (एम्. ए तुल्यः), शिक्षाशस्त्री ( बि. एड् तुल्यः), विद्यावारिधिः ( पि एच्च्. डि तुल्यः) तथा आयुर्वेद-योगः इत्यादिविषयेषु प्रमाणपत्रीयपाठ्यक्रमाः (Diploma Courses) च भवन्ति। पाठ्यक्रमेषु प्राक्-शास्त्री विहाय अन्येषु प्रवेशः राष्ट्रिय परीक्षा एजेन्सी (NTA) द्वारा आयोज्यमाना केन्द्रीयविश्वविद्यालयसंयुक्त प्रवेशनपरीक्षा ( CUET ) द्वारा एव भविष्यति। प्राक् शास्त्री (+2) प्रवेशनार्थं प्रवेशनपरीक्षा प्रादेशिकपरिसरद्वारा समायोज्यते। 

 केरळराज्ये चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री (BA B.Ed) पाठ्यक्रमः केवलं संस्थात्रयेषु एव गतवर्षादारभ्य आरब्धः। तेषु अन्यतमा संस्कृतसंस्था भवति केन्द्रीयसंस्कृतविश्वविद्यालस्य गुरुवायूर् परिसरः। अन्ये तु एन्. ऐ. टि कालिक्कट् बि.एस् सी बि.एड् तथा केरलाकेन्द्रीयविश्वविद्यालस्य बि.ए/ बि.कोम् /बि.एस् सी बि.एड् च। अत्र केन्द्रीयसंस्कृतविश्वविद्यालस्य गुरुवायूर् परिसरः विशिष्य संस्कृते एव चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री प्रचाल्यते। ये एकीकृत शास्त्रीशिक्षाशस्त्री पाठ्यक्रमः न वाञ्चति तर्हि तेषां कृते केवलं शास्त्री पाठ्यक्रमः विभिन्नशास्त्रेषु पठितुम् अवसरः च अस्ति। 

अत्रत्यः विशेषताः 

1. शास्त्री आरभ्य विद्यावारिधिपर्यन्तं वेदान्त-न्याय- व्याकरण-ज्योतिष-साहित्यादि पञ्च शास्त्रीयविषयेषु पठितुम् अवसरः।

2. शतप्रतिशतं छात्रवृत्ति:।

3. पाठ्यक्रमे संस्कृते पारम्पर्यशास्त्रविषयान् विहाय राष्ट्रशिक्षानीतिः-2020 अनुसृत्य आङ्गलेयं, हिन्दी, चरित्रम्, सामाजिकशास्त्रं, नीतिशास्त्रं, अर्थशास्त्रं, सङ्कणकं, धर्मशास्त्रं, योगः इत्यादि आधुनिकविषयेष्वपि अध्ययनावसरः परिकल्प्यते।

4. NCrF अनुसृत्य मूल्याङ्कनं भवति ।

5. बहुभाषायां तथा बहुशास्त्रेषु च निष्णाताः प्राध्यापकाः पाठयन्ति।

7. राष्ट्रस्तरीय कला-कायिक-शास्त्र-साहित्यस्पर्धासु भागं ग्रहीतुं छात्राणाम् अवसरः भवति। 

8. परिसरे एव बालिका-बालकानां कृते छात्रावासः लभ्यते इति कारणेन आभारतं छात्राणां कृते प्रवेशनार्थं सुव्यवस्था वर्तते ।

अस्मिन् संवत्सरे प्रवेशः इदानीं राष्ट्रिय परीक्षा एजेन्सी द्वारा आयोज्यमानः अस्ति।


📌 चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री प्रवेशनाय आवेदनार्थं https://ncet2025.ntaonline.in/ इदं स्वीकृत्या पञ्चीकरोतु । पञ्जीकरणाय अन्तिमतिथिः 31 मार्च् 2025 समयः 9:00 PM पर्यन्तम् । 


📌 शास्त्री प्रवेशानाय आवेदनार्थं https://cuet.nta.nic.in/ इदं स्वीकृत्या पञ्चीकरोतु । पञ्जीकरणाय अन्तिमतिथिः 22 मार्च् 2025 समयः 11:50 PM पर्यन्तम् ।


गुस्वायूर् परिसरस्य अन्तर्जालसूत्रम्

https://www.csu-guruvayoor.edu.in/


लेखिका - 


डा. राधिका. पि. आर्,

 सहायकाचार्या,

केन्द्रीयसंस्कृतविश्वविद्यालयः गुरुवायूर् - परिसरः

 अशीति समारोहः गुरुवन्दनञ्च।

    पट्टाम्पि महाविद्यालये दशवर्षाधिककालं वृत्तिमावहन्नासीत् डो . के. जी. पौलोस् वर्यः तथा तस्य पत्नी सरला च। दम्पत्योः अशीति जन्मदिनपर्व तथा तच्छिष्याणां सङ्गमश्च पट्टाम्पि कलालयस्य  सभासदने संयोज्यते। अस्य मासस्य सप्तविंशत्यां दिने आघोष: आयोजयिष्यते। गुरुवन्दनम् पट्टाम्पि इति नाम्ना समारोहः समायोजितः अस्ति।

  तस्मिन् दिने प्रातः दशवादने केरलस्य तद्देशविकसनमन्त्रालयस्य मन्त्री एम्. बी राजेषः  गुरु वन्दनम् उद्धाटयिष्यति। केरलविधानसभासदस्यः मुहम्मद् मुहसिन् अध्यक्षः भवेत्। मलयालं विश्वविद्यालयस्य कुलपतिः डो. एल्. सुषमावर्या मुख्यं भाषणं करिष्यति।

  दम्पत्योः शिष्याः पट्टाम्पी पौरमुख्याश्च अशीत्याघोषस्य सङ्घटकाः भवन्ति। पट्टाम्पि महाविद्यालयस्य अध्यापकाः छात्राश्च आघोषस्य विजयाय कटीबद्धाश्च वर्तन्ते।

 पालस्तीनियान् आफ्रिकामधिनिवेशयितुं यू एस् - इस्रयेलोद्यमः। 

जरुसलेमः> युद्धेन विशीर्णं गतस्य गासाप्रदेशस्थान् २० लक्षं पालस्तानीयजनान् आफ्रिकीयदेशान् निष्कासयितुं यू एस् - इस्रयेलराष्ट्रयोः उद्यमः प्रचलति। पूर्वं तान् अरबदेशान् निष्कासयितुमुद्यमः पराजित आसीत्। गासीयजनाः स्वीकर्तव्याः इति यू एस् - इस्रयेलराष्ट्रे त्रीणि आफ्रिकीयराष्ट्राणि प्रति अभ्यर्थितमिति नयतन्त्राधिकारिणः पुरस्कृत्य अन्ताराष्ट्रमाध्यमैः वृत्तन्तीकृतम्। 

  सुडानः,सोमालिया, सोमालिलान्ड् इत्येताः देशाः मार्गिताः। किन्तु सुडानेन निर्देशः निरस्तः। इतरेण राष्ट्रद्वयेन इतःपर्यन्तं प्रतिकरणं न कृतम्।

 छात्राणाम् अध्ययनविप्रतिपत्तिः - प्रधानाध्यापकस्य आत्मदण्डनम्। 

अमरावती> अध्ययने छात्राणां विप्रतिपत्तिः अध्यापकानां च्युतिरिति सन्देहेन आत्मदण्डनं विधाय प्रधानाध्यापकः। आन्धप्रदेशे  विष़ियनगरं जनपदस्थे 'जिल्ला परिषद्' उच्चविद्यालयस्य प्रधानाध्यापकः चिन्त रमणः विद्यालये छात्रसभायां प्रायश्चित्तरूपेण आत्मदण्डनमकरोत्। 

  छात्राः गृहपाठं न कुर्वन्ति  इत्येतत्  शिक्षकाणाम् अपराधः इति प्रकल्प्य सर्वेषां कृते चिन्त रमणः आत्मपीडनाय सन्नद्धः अभवत्। प्रायश्चित्तानन्तरं सः छात्रान् उपदिदेशश्च। 

  चिन्त रमणेन निगदितं यत् यदि अस्माभिः अनुशासनानि विधीयन्ते तर्हि रक्षितारः प्रतिषेधेन आगत्य कलहं कुर्वन्ति। एतत्तु अध्यापकेभ्यः क्लेशाय भवति। अत एव आत्मदण्डः विहितः।

Saturday, March 15, 2025

 कलालयछात्रावासे उन्मादकवस्तुविक्रयः - त्रयः छात्राः निगृहीताः। 

किलोद्वयं 'गञ्चावस्तु' निगृहीतम्। 

कोच्ची> होलि अनुष्ठाने वीर्यवर्धनाय छात्रावासं 'गञ्जा' इत्युन्मादकस्य विपणनकेन्द्रं कुर्वत्सु युवकछात्रेषु त्रयः आरक्षकदलेन निगृहीताः। कोच्चीनगरस्थस्य कलमश्शेरी पोलि टेक्निक् कलालयस्य 'पेरियार्'नामके पुरुषाणां छात्रावासे शुक्रवासरस्य रात्रौ ९. ३० वादनतः शनिवासरस्य प्रत्यूषःपर्यन्तं लहरिविरुद्धविभागस्य आरक्षकसंघस्य च अप्रतीक्षितशीघ्रपरिशोधनायां [Raid] द्विकिलोपरिमितः उन्मादकसञ्चयः मदिराकूप्यः अन्यानि धूमपानोपकरणानि च  संगृहीतानि। पूर्वसूचनामनुसृत्य आसीत् 'रेय्ड् प्रक्रमः'। 

  कलालयछात्राणां मध्ये  होलिदिनोत्सवस्य अंशतया कार्यक्रमाः निश्चिताः। अनुष्ठाने उत्साहाय गूढरीत्या 'वाट्स् अप्' संघं रूपीकृत्य उन्मादकवस्तुविक्रयस्य प्रक्रमाः आरब्धाः। एतदवगम्य कलालयस्थेन लहरिनिर्मार्जनसमित्या पूर्वसूचनां लब्ध्वा आरक्षकसंघेन कृतेन गुप्तासुत्रणेनैव अयं प्रक्रमः विधत्तः।

 कानडायां मार्क् कार्णी प्रधानमन्त्रिपदं स्वीकृतवान्। 

मन्त्रिमण्डले द्वौ भारतीयवंशजौ। 

मार्क् कार्णी। 

ओट्टावा> कानडाराष्ट्रस्य २४ तमप्रधानमन्त्रिरूपेण 'लिबरल् पार्टी' इत्यस्य नेता मार्क् कार्णी [५९] शपथवाचनं कृत्वा पदं स्वीकृतवान्। जनुवरिमासे पदं त्यक्तवतः जस्टिन् ट्रूडोः अनुगामिरूपेण एव कार्णिनः पदलब्धिः। 

  २४ अंगयुक्ते मन्त्रिमण्डले द्वौ भारतीयवंशजौ स्त‌ः। अनिता आनन्दः [शास्त्रं, व्यवसायः], कमल खेरा [स्वास्थ्यं] इत्येते महिले मन्त्रिसभायाम् अन्तर्भवतः।

Friday, March 14, 2025

 पाकिस्थाने रेल् यानमपहृतम्। 

यात्रिकेषु २१ हताः; इतरे रक्षिताः।

  ३३ विघटनवादिनः निहताः। 

कराची> पाकिस्थाने बलूचिस्थानप्रान्ते ४२५ यात्रिकैः गच्छत् रेल् यानं 'बलूचिस्थान् लिबरेषन् आर्मी' [बी एल् ए] इति विघटनवादिसंस्थया अपहृतम्। याने निबद्धाः सर्वे यात्रिकाः पाकिस्थानसेनया रक्षिताः, ३३ विघटनवादिनः निहताः इति लफ्ट. जनरल् अहम्मद षरीफ् इत्यनेन निगदितम्। 

  किन्तु २१४ यात्रिकाः बद्धीभूता इति बी एल् ए वक्त्रा निगदितम्। २१ यात्रिकाः चत्वारः सैनिकाः हताः। स्वतन्त्रबलूचिस्थानाय युद्धं कुर्वन् तीव्रवादिसंघः भवति बी एल् ए।

 बहिराकाशपेटकयोः विच्छेदनमपि विजयः। 

भारतस्य निर्णायकलाभः। 

इस्रोसंस्थया बहिर्नीता विच्छेदनस्य दृश्यम्। 

बङ्गलुरु> इस्रो संस्थया विक्षिप्य बहिराकाशे संयोजिते द्वे पेटके - एस् डि एक्स् 01(चेसर्), एस् डि एक्स् 02(टार्गट्)च - मासद्वयानन्तरं बहिराकाशे एव विच्छेद्य भारतस्य बहिराकाशदौत्य विजयः। गुरुवासरे प्रभाते ९. २० वादने आसीत् ऐ एस्  आर् ओ संस्थायाः विजयलब्धिः। 

  भूमेः ४६० कि मी दूरे वृत्ताकारे भ्रमणपथे आसीत् विच्छेदनप्रक्रिया संवृत्ता। अस्याः दृश्यानि इस्रोसंस्थया बहिर्नीतानि। अधुना पेटकद्वयमपि स्वच्छन्दं पृथक् पृथक् सञ्चरतीति  इस्रोसंस्थया निगदितम्।

  अनेन लाभेन बहिराकाशपेटकानां संयोजन-विच्छेदन प्रक्रियाः [Docking & Undocking] स्वतन्त्रतया कृतं चतुर्थं राष्ट्रं भवति भारतम्। यू एस्, रष्या, चीनः इत्येतानि इतराणि राष्ट्राणि।

 केरलमुख्यमन्त्री केन्द्रवित्तमन्त्रिण्या सह राज्यपालस्य सान्निध्ये मिलितवान्। 

राज्यस्य आर्थिक-विकसनकार्येषु निवेदनम्।

केरला हौस् भवनेसम्पन्ने मेलने वामतः प्रोफ.के वि तोमसः, वित्तमन्त्री निर्मला सीतारामः, मुख्यमन्त्री पिणरायि विजयः, राज्यपालः आर् वि आर्लेकरः च।

 

नवदिल्ली> राष्ट्रराजधान्यां 'केरलाहौस्' भवने असाधारणं किमपि मेलनं बुधवासरे सम्पन्नम्। केरलस्य मुख्यमन्त्री पिणरायि विजयः राष्ट्रस्य वित्तमन्त्रिणी निर्मला सीतारामः च केरलराज्यपालः राजेन्द्र विश्वनाथ आर्लेकर् वर्यस्य साक्षित्वे सम्मिलितवन्तौ। मुख्यमन्त्रिणः आमन्त्रणमनुसृत्य आगताभ्यां वित्तमन्त्रि-राज्यपालाभ्यां प्रातराशसत्कारोSपि दत्तः। मेलनेSस्मिन् पिणरायिवर्यः निर्मलासीतारामं प्रति केरलस्य आर्थिकसङ्कटान्, विकसनोद्देश्यानि, वयनाट् पुनरधिवासप्रकरणम् इत्यादिविषयानधिकृत्य निवेदनं समर्प्य साहाय्यमभ्यर्थितवान्। 

  सविशेषं किमपि दृढीकरणं  न लब्धं तथापि केन्द्र-राज्यसंबन्धम् इतोSपि  ऊष्मलं कर्तुमेतन्मेलनं सहायकमभवदिति कल्प्यते। दिल्ल्यां केरलस्य स्थानपतिः प्रोफ. के वि तोमसः च मेलने भागं गृहीतवान्।

Thursday, March 13, 2025

 जनानां धर्मविभागीयचिन्ता राष्ट्रस्वतन्त्रतायाः भीषा भवेत् - तुषार गान्धी।


शिवगिरिः> भारते अद्य वर्तमाना धर्मपरा विभागीयचिन्ता राष्ट्रस्य स्वतन्त्रतामपि सन्दिग्धावस्थां नीयमानस्य कारणं भवेदिति महात्मागान्धिनः प्रपौत्रः तुषार गान्धी अवदत्।  शिवगिर्यां महात्मागान्धिनः श्रीनारायणगुरोः च समागमस्य शतवार्षिकोत्सवम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। धर्मपरा विभागीयता राजनैतिकचूषणस्य विधेया भवति। भाषापरं विघटनमपि राष्ट्रे दृश्यते - तुषार गान्धी प्रोवाच। 

  गान्धिमहोदयस्य प्रपौत्रेण निर्दिष्टं यत् जाति-धर्म-आचार-प्रादेशिकतातीतम् ऐक्यमद्य आवश्यकम्। तदर्थं श्रीनारायणगुरोः महात्मागान्धिनश्च मानविकतासन्देशाः ऐक्यमार्गाधिगमाय सहायका‌ः भविष्यन्ति। 

  श्रीनारायणधर्मसंघस्य अध्यक्षः सच्चिदानन्दस्वामिनः सम्मेलने अध्यक्षोSभवन्। कोण्ग्रसदलस्य वरिष्ठनेता वि एम् सुधीरः, विधानसभासदस्यः चाण्टि उम्मन्, श्रीनारायणधर्मसंघस्य कार्यदर्शिप्रमुखः शुभाङ्गानन्दस्वामिनः इत्यादयः कार्यक्रमे भागं स्वीचक्रुः।

 भारत-मौरीष्यस् राष्ट्रयोर्मिथः  अष्ट सन्धिपत्राणि हस्ताक्षरीकृतानि। 

मौरीष्यसः राष्ट्रियदिनोत्सवे नरेन्द्रमोदी मुख्यातिथिः। 

मौरीष्यस् राष्ट्रस्य परमोन्नतः राष्ट्रियपुरस्कारः नरेन्द्रमोदिने राष्ट्रपतिना सम्मान्यते। 

पोर्ट् लूयी> भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः मौरीष्यस् राष्ट्रसन्दर्शनं समारब्धम्। उभयोः राष्ट्रयोर्मिथः अष्ट सन्धिपत्राणि हस्ताक्षरीकृतानि। विकस्वरराष्ट्राणां विकासाय भारतस्य परिचिन्तनं नरेन्द्रमोदिना अवतारितम्। 

  सीमातिक्रान्तव्यवहारेषु इतरराष्ट्रस्य मुद्रापत्रविनियोगानां प्रोत्साहः, समुद्रवृत्तान्तानाम् उपसंक्रमणं, सूक्ष्म-लघु-मध्यमस्तरीयपरियेजनानां सहयोगवर्धापनम् इत्यादीनि ८ सन्धिपत्राणि एव हस्ताक्षरीकृतानि। मौरीष्यसः प्रधानमन्त्री नवीनचन्द्र राम्गूलवः इत्यनेन सह चर्चायाः अनन्तरं विकस्वरराष्ट्राणां विकासार्थं भारतस्य दर्शनं 'महासागर्' [Mutual And Holistic Advancement for Security And Growth Across Regions - MAHASAGAR] नामकं मोदिना अवतारितम्। 

  बुधवासरे मौरीष्यसः राष्ट्रियदिनोत्सवे नरेन्द्रमोदी आसीत् मुख्यातिथिः। नरेन्द्रमोदिने तस्य राष्ट्रस्य परमोन्नतबहुमतिः राष्ट्रपतिना  धरम्बीर् गोखुलः इत्यनेन सम्मानिता।

Wednesday, March 12, 2025

 आट्टुकाल् "पोङ्काला" [अन्ननैवेद्यं] श्वः। 

राजधानीनगरी सर्वसिद्धा।

पोङ्कालयज्ञार्थं सम्मिलिताः महिलाभक्ताः। 

अनन्तपुरी> केरले प्रसिद्धेषु भक्तजनसंगमेषु अन्यतमः 'आट्टुकाल् पोङ्काला' नामकः भक्तस्त्रीणां महासंगमः ताभिः क्रियमाणं अन्ननैवेद्यं च मार्च् १३ तमे दिनाङ्के अनन्तपुरीनगर्यां समीपप्रदेशेषु च सम्पत्स्यते। महिलानां शबरिगिरिः इति अनन्तपुरीनगरस्थस्य आट्टुकाल् देवीमन्दिरस्य प्रशस्ति‌ः। 

  दशसहस्रशः जनाः विशिष्य महिलाः अन्ननैवेद्यसमर्पणाय दिनेभ्यः पूर्वमेव अन्नपाकसामग्रीसहितं  मन्दिरपरिसरेषु सम्मिल्य प्रार्थनामनस्काः सत्यः प्रतीक्षां कुर्वन्त्यः सन्ति। 

  श्वः [गुरुवासरे] प्रभाते १०. १५ वादने मन्दिरस्य पुरतः वर्तमाने मुख्यचुल्लीं अर्चकेण अग्निः प्रसारयिष्यते। ततः दशसहस्रेषु चुल्लीषु अग्निं प्रसार्य तण्डुलगुडादिभिः पायसं पाकं कृत्वा अपराह्ने १. १५ वादने नैवेद्यसमर्पणं सम्पत्स्यते। केरलस्य नानाप्रदेशेभ्यः राज्यान्तरेभ्यश्च भक्ताः पोङ्कालसमर्पणाय सम्मिलन्ति।

 'आशा'प्रवर्तकानां वेतनं वर्धापयिष्यतीति केन्द्रसर्वकारः। 

विषयः देशीयश्रद्धामाचकर्ष। 

संसदि उन्नीय सदस्याः। 

नवदिल्ली> केरले सर्वकारेण  'अङ्गीकृत स्वास्थ्य-सामाजिकप्रवर्तकेषु' [Accredited Social and Health Activist - ASHA] वेतनवर्धनाय आन्दोलनं कुर्वत्सु प्रकरणमिदं केन्द्रप्रशासनस्यापि श्रद्धामाचकर्ष। लोकसभायां राज्यसभायां च सदस्याः गतदिनेषु विषयममुम् उन्नीतवन्तः। अनुभावपूर्वं प्रतिकरणं कृतवान् केन्द्रस्वास्थ्यमन्त्री जे पी नड्डावर्यः उक्तवान् यत् आशाप्रवर्तकानां वित्तानुकूल्यवर्धनाय राष्ट्रिय स्वास्थ्य परियोजनायाः 'योजनानिर्णयसंघः' [Mission Steering Group - एम् एस् जि] सिद्धः अस्ति, सर्वकारोSपि तत् साक्षात्कर्तुं यतिष्यते। राष्ट्रियस्वास्थ्यपरियोजनायाः नयरूपवत्करणसमितिः भवति एम् एस् जि इति संस्था।

 महात्मा गान्धि - श्रीनारायणगुरु समागमस्य शताब्द्युत्सवः अद्य शिवगिर्याम्।


शिवगिरिः >  महात्मा गान्धी शिवगिरिं सम्प्राप्य केरलस्य आध्यात्मिकाचार्यं तथा समाजपरिष्कर्तारं च श्रीनारायणगुरुं सन्दर्श्य मार्च् १२ तमे दिनाङ्के शतवर्षाणि पूर्तीकरोति। अस्य महासंगमस्य स्मृतिपर्वकार्यक्रमाः शिवगिर्याम् अद्य उत्सवान्तरिक्षे आयोज्यन्ते। 

    अद्य प्रभाते वैदिकमठे सम्पद्यमाने संघप्रार्थनया कार्यक्रमः समारभ्यते। दशवादने यत्र गुरु-गान्धिसमागममभवत् गान्धियाश्रमः इति कृतनामधेयं वनजाक्षिमन्दिरं  समागमशताब्दिस्मारकरूपेण महात्मनः प्रपौत्रः तुषारगान्धिवर्यः समर्पयिष्यति। गुरु-गान्धिनोः मेलनानन्तरं ताभ्यां  गिवगिरिं कृतं प्रयाणमनुस्मारयन् वनजाक्षिमन्दिरात् गिवगिरिं प्रति 'एकलोक सङ्कल्पसन्देशयात्रा' विधास्यते। तस्यां यात्रायां तुषारगान्धी, गिवगिर्यां सन्यासिनः, गान्ध्यनुयायिनश्च नेतृत्वमावक्ष्यन्ति।

  अनन्तरं मठाधिपतेः सच्चिदानन्दस्वामिनः आध्यक्षे  आयोज्यमाने सम्मेलने बहवः राजनैतिक-सांस्कृतिक-आध्यात्मिकनेतारः ऐक्यसन्देशान् दास्यन्ति।


 कानडा - मार्क् कार्निः ट्रूडो वर्यस्य अनुगामी। 

टोरन्टो> कानडाराष्ट्रे प्रशासनपक्षस्य लिबरल् पार्टी इत्यस्य नूतननेतृरूपेण मार्क् कार्निः चितः। अनेन जस्टिन् ट्रूडो वर्यस्य अनुगामिरूपेण एषः प्रधानमन्त्री भविष्यति। लिबरल् पार्टीमध्ये सम्पन्ने निर्वाचने ८५. ९% मतानि अनेन सम्प्राप्तानि।

Tuesday, March 11, 2025

 युक्रेनाय अन्ताराष्ट्र सुरक्षासेना 

३० राष्ट्राणि चर्चायै पारीसं प्रति।

पारीस्> युक्रेनराष्ट्राय अन्ताराष्ट्र सुरक्षासेनायाः रूपीकरणाय चर्चितुं ३० राष्ट्राणां सैनिकप्रतिनिधयः पारीसे उपवेशयन्ति। युद्धविरामानन्तरं रूसराष्ट्रस्य आक्रमणं भवेत्तर्हि प्रतिरोद्धुमेव अन्ताराष्ट्रसेनां रूपीकरोति। एष्या - ओष्यानाराष्ट्राण्यपि चर्चायां भागं कुर्वन्तीति पारीसस्य सेनाधिकारिभिरुक्तम्। ब्रिटनं , फ्रान्स् इत्येतस्य राष्ट्रद्वयस्य नेतृत्वे अस्ति सेनारूपीकरणस्य निर्वहणम्।

 एफ् बी ऐ संस्थया मार्गमाणः  उन्मादकगूढसंघस्य नेता पञ्चाबे निगृहीतः।

चण्डीगढः> एफ् बी ऐ [Federal Bureau of Investigation] इति यू एस् राष्ट्रस्य अपराधान्वेषणसंस्थया चिरकालं यावत् मार्गमाणः अन्ताराष्ट्रिय उन्मादकगूढसंघस्य नेता षेह्नास् सिंह नामकः भारतीयवंशजः लुधियाना प्रदेशात् पञ्चाब आरक्षकसंघेन निगृहीतः।  कोलम्बिया राष्ट्रात् यु एस् , कानडा इत्यादि राष्ट्राणि प्रति कोकेन् इत्याद्युन्मादकवस्तूनां वाहकसंघस्य नेता भवति षोण् बिन्दर् इत्यपि कथ्यमानोSयम्। 

  षेह्नासः २०१४ तमवर्षादारभ्य कानडायां प्रवर्तमानः अस्ति। फेब्रुवरि २६ तमे यू एसे विधत्ते आरक्षकान्वेषणे तस्य ६ सहप्रवर्तकाः निगृहीताः आसन्। एतेषां गृहेषु कृते अन्वेषणे बृहदुन्मादकसञ्चयः आयुधानि च संगृहीतानि आसन्।

Monday, March 10, 2025

 सि पि एम् दलस्य राज्यस्तरीयसम्मेलनं परिसमाप्तम्। 

एम् वि गोविन्दः कार्यदर्शी। मुख्यमन्त्रिणः 'नवकेरलनिर्माणनयरेखा' सर्वात्मना अङ्गीकृता। 

पथसञ्चलनस्य दृश्यम्। वाहने देशीयसंयोजकः प्रकाश् काराटः, एं वि गोविन्दः,पिणरायि विजयःइत्यादयः।  

कोल्लम्> कम्यूणिस्ट् पार्टी ओफ् इन्डिया [मार्क्सिस्ट्] इति राजनैतिकदलस्य [सि पि एम्] चतुर्दिनात्मकं  केरलराज्यस्तरीयं सम्मेलनं समाप्तम्। ह्यः सम्पन्ने प्रतिनिधीनामुपवेशने नूतनी कार्यकर्तृसमितिः, राज्यस्तरीयसमितिश्च चिता। 

  ८९ अङ्गयुक्तायाः राज्यसमित्याः कार्यदर्शिरूपेण एम् वि गोविन्दः पुनरपि चितः। द्वितीयवारमेव तस्य कार्यदर्शिपदम्। राज्यस्तरीयकार्यनिर्वाहकसमित्यां मुख्यमन्त्री पिणरायि विजयः, एम् वि गोविन्दः इत्यादयः १७ सदस्याः अन्तर्भवन्ति। 

  सम्मेलनस्य अंशतया मुख्यमन्त्रिणा पिणरायि विजयेन अवतारिता 'नवकेरलनिर्माणाय नूतनी मार्गरेखा' इत्याख्या तृतीयवारप्रशासनप्राप्त्यर्थकी नयरेखा सम्मेलने सर्वैः सर्वात्मना अङ्गीकृता।

  सम्मेलनस्य समाप्तिरूपेण सायं बृहत् पथसञ्चलनमपि आयोजिता। समाप्तिसम्मेलनं दलस्य राष्ट्रियसंयोजकः प्रकाश् काराट् वर्यः उद्घाटनमकरोत्।

 सुनिता विल्यंसस्य संघस्य च प्रत्यागमनं मार्च् १६ तमे। 

न्यूयोर्क्> राष्ट्रान्तरीयबहिराकाशनिलये नव मासान् यावत् लग्नानां सुनिता विल्यंसमभिव्याप्य चतुर्णां बहिराकाशयात्रिकाणां भूमिं प्रति आगमनं अस्मिन् मासे १६ तमे दिनाङ्के भविष्यति। सुनितया साकं गतः बारी विल्मोरः, प्रकरणान्तरे बहिराकाशं गतवन्तौ  यू एस् देशीयः निक् हेगः, रूसीयः अलक्साण्टर् गोर्बुनोव् इत्येतौ च तद्दिने एव प्रत्यागमिष्यन्ति।

 संसदः द्वितीयचरणम् अद्य समारभ्यते। 


नवदिल्ली> भारतीयसंसदः आयव्ययपत्रकसम्मेलनस्य द्वितीयचरणम् अद्य समारभ्यते। अस्यार्थिकवर्षस्य वित्तविनियोगविधेयकस्यानुमोदनं, वखफ् परिष्करणं, मणिपुरराज्याय आयव्ययपत्रकम् इत्यादीनामङ्गीकरणं च अस्य  सम्मेलनस्य मुख्योद्देश्यानि भवन्ति।

 केरले आशा कर्मचारिण्यः प्रतिषेधं कुर्वन्ति।

   केरले आशाकर्मचारिण्यः फेब्रुवरीमासस्य दशमदिनाङ्कात् आरभ्य प्रतिषेधं कुर्वन्ति। अद्य प्रतिषेधस्य त्रिंशत्तमो दिवसः अस्ति। भृतिवर्धना तथा स्थिरनियुक्तिः इत्यादीन् अवाप्तुमेव स्वशब्दोपवेशित प्रतिषेधः। किन्तु सर्वकारः  अद्यावधि पराङ्मुखः  निद्राणः इव अस्ति। शासकाः कर्मदिनैः  सह समन्वयचर्चाम् अपि कर्तुं न सन्नद्धाः।

  प्रतिषेधः कतिपयसप्ताहेभ्यः पूर्वम् आरब्धः इत्यतः कर्मचारिण्यः समागमिष्यमाणेषु दिनेषु प्रतिषेधं विस्तारयितुं निर्णयं कृतवन्तः। सर्वकारस्य दमननीतिं प्रति प्रत्युत्तरं दत्त्वा कांग्रेसदलस्य नेता के.सी. जोसफः अस्य प्रतिषेधस्य अनुकूलनं कृतवान्।

  एतेषु सन्दर्भेषु केरलस्य विशेषप्रतिनिधिः के.वि. तोमसः केन्द्रधनमन्त्रिणं निर्मला सीतारामन् महाभागाम् इदानिन्तनां अवस्थामधिकृत्य न्यवेदयितुं सज्जतां करोति। तेन आशाकर्मचारिणीनां समस्याः भारतसर्वकरस्य पुरतः प्रस्तोष्यन्ते।

    आन्ध्रप्रदेशे आशाकर्मचारिणीभ्यः वर्धिता निष्कृतिः प्रदत्ता अस्ति इत्यतः केरलराज्येऽपि समरूपेण दातव्या इत्यस्ति कर्मचारिण्याः आवश्यकता। 

Sunday, March 9, 2025

 मणिपुरे बस् यानसेवा आरब्धे प्रथमदिने एव संघर्षः - एको हतः। 

इम्फालः> राष्ट्रपतिप्रशासने अनुवर्तमाने मणिपुरे कुक्किवाभागः सुरक्षासेना इत्यनयोर्मिथः संघट्टने एकः प्रक्षोभकः हतः। २५ जनाः आहताः। 

  राज्ये शनिवासरतः स्वतन्त्रसञ्चारः परिपालनीयः इति केन्द्रगृहमन्त्रिणः अमित शाहस्य निर्देशमनुसृत्य सुरक्षासेनायाः अनुगमनेन  बस् यानसेवा आरब्धा। किन्तु यानसेवां विरुध्य कुक्किविभागः प्रतिषेधेन आगत्य वाहनानि दाहयितुमारभत। एतान्प्रतिषेधकान् विरुद्ध्य सुरक्षासेना भुषुण्डिप्रयोगमकरोत्।

 भारतमेव वीरः। 

चाम्प्यन्स् ट्रोफी अन्तिमे प्रतिद्वन्द्वे न्यूसिलान्टं विरुध्य चतुर्णां द्वारकाणां विजयः। 

दुबाय्> आद्यन्तम् उत्साहभरिते प्रतिद्वन्द्वे चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः अन्तिमद्वन्द्वे भारतस्य उज्वलविजयः। २५२ विजयलक्ष्यमनुगतं भारतं ६ कन्दुकेषु अवशिष्टेषु ६ ताडकानां विनष्टेन विजयतीरं प्राप। दलनायकः रोहितशर्मा ८३ कन्दुकान् अभिमुखीकृत्य ७६ धावनाङ्कान् लब्धवान्। 

  प्रथमचरणे कन्दुकताडनं कृतवता न्यूसिलान्टेन ७ ताडकानां विनष्टे ५० क्षेपणचक्रेषु २५१ धावनाङ्काः प्राप्ताः। प्राप्ताङ्कसूचिका - न्यूसिलान्टः २५१/७ , ५० क्षेपणचक्रेषु। भारतम् - ४९ क्षेपणचक्रेषु २५२/६।

 चाम्प्यन्स् ट्रोफी - अन्तिमस्पर्धा अद्य। 

दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकट्वीरः क इति अद्य ज्ञातुं शक्यते। अपराह्ने सार्धद्विवादने दुबाय् अन्ताराष्ट्र क्रीडाङ्कणे आरप्स्यमाणे अन्तिमप्रतिद्वन्द्वे भारतं न्यूसिलान्टेन सह स्पर्धिष्यते। 

  वर्तमानलोकजेतारम् आस्ट्रेलिया दलं पराजित्य एव भारतम् अन्तिमचरणं प्राविशत्। अन्यस्मिन् प्रतिद्वन्द्वे न्यूसिलान्ट् दक्षिणाफ्रिकां पराजित्य अन्तिमयुद्धाय योग्यतामलभत।

Saturday, March 8, 2025

 वेस्ट् बाङ्के कारागृहस्थाः १० भारतीयाः इस्रयेलेन विमोचिताः।

वेस्ट् बाङ्क्>  पालस्तीने वेस्ट् बाङ्क् इत्यत्र एकस्मिन् ग्रामे मासाधिककालं यावत् कारागारबद्धाः १० भारतीयाः निर्माणवृत्तिकराः इस्रयेलेन विमोचिताः। निर्माणवृत्त्यर्थं इस्रयेलं प्राप्ताः भारतीयाः कर्मवाग्दानाधीनाः  वेस्ट् बान्कस्थं अल् - सयीम ग्रामं नीताः इति इस्रयेलिमाध्यमैः सूचितम्। एतेषां पास्पोर्ट् पत्राणि बलेनापहृतानि। सीमातरणाय एतानि पास्पोर्ट् पत्राणि कतिपयैः पालस्तीनीयैः उपयुक्तानीति अवगम्य इस्रयेलसेनया परिशोधनं कृत्वा एते अधिगताः आसन्।

 सिरिया संघर्षभरिता। 

७० मरणानि। 

लताकिया> बाषर् अल् असद् प्रशासनं प्रतिलोम्य विमतैः  अधिकारं प्राप्ते सिरियाराष्ट्रे मासत्रयानन्तरं संघर्षः। लताकिया इति समुद्रतटप्रदेशे आयुधधारिणः असदनुकूलिनः सुरक्षासेना च मिथः सञ्जाते संघट्टने सप्तत्यधिकं जनाः हताः। अनेके व्रणिताः। मृतेषु ३५ सुरक्षासैनिकाः भवन्ति।

Friday, March 7, 2025

 पाकिस्थाने आत्मघातिस्फोटनं - १२ मरणानि। 

पेषावरं> अफ्गानस्थानस्य सीमायां  खेबर् पख्तून् ख्व इत्यत्र वर्तमाने पाकिस्थानस्य सैनिकशिबिरे दुरापन्ने युगलात्मघातिस्फोटने १३ जनाः हताः; त्रिंशदधिके आहताश्च। मङ्गलवासरे सायमासीत् आत्मघात्याक्रमणम्। 

  कार् याने आगताभ्यां भीकराभ्यां सह इतरे भीकराः अप्यासन्। तेषु षट् सुरक्षासेनयाः निहताः। आक्रमणस्य उत्तरदायित्वं तेहरिके तालिबान् पाकिस्थान् इत्यस्य भीकरसंघटनस्य 'जय्ष् अल्' विभागेन स्वीकृतम्।

 भारतं विरुध्य अमेरिकायाः आयातकरः एप्रिमासे - ट्रम्पः। 


न्यूयोर्क> भारतं विरुध्य अमेरिकया प्रख्यापितः आयातकरः एप्रिमासस्य द्वितीये दिने प्रवृत्तिपथमीगमिष्यतीति राष्ट्रपतिना डोनाल्ड ट्रम्पेन प्रस्तुतम्। यू एस् राष्ट्रपतिपदावरोहानन्तरं सभायाः संयुक्तसम्मेलनं प्रथमतया  अभिमुखीकुर्वन्  ट्रम्पः आयातशुल्कं पुरस्कृत्य भारतमभिव्याप्य बहूनि राष्ट्राणि विमृष्टवान्। भारतं विना यूरोपीयराष्ट्रसंहतिः, चीनः, ब्रसीलः, मेक्सिको, कानडा, दक्षिणकोरिया इत्येतैः राष्ट्रैः अमेरिकायामुपरि विहितानि शुल्कानि अनीतियुक्तानीति ट्रम्पेण विमृष्टम्।

 भारतस्य विदेशकार्यामन्त्री डा॰ एस् जयशङ्करमुद्दिश्य आक्रमणश्रमः है अभवत्। 

     भारतस्य विदेशकार्यामन्त्री डा॰ एस् जयशङ्करमुद्दिश्य आक्रमणश्रमः अभवत् लण्डननगरे चथं हाउस् इत्यस्मिन् सङ्गोष्ठ्यां भागं ग्रहीतुं स्थिते खलिस्थानवादिभ्यः भीकरेभ्यः आक्रमणभीषा जाता। विरोधिनः जयशङ्करस्य वाहनस्य समीपं प्राप्य भारतीयराष्ट्रध्वजं अनादृतवन्तः इति च चित्रेषु दृश्यते।

   भारतस्य विदेशकार्यमन्त्रालयः एतां घटनां तीव्रं निन्दनम् अकरोत्, तथा च ब्रिटनदेशः स्वीयं उत्तरदायित्वं पूर्णं करिष्यतीति अभ्याशां प्रकटितवान्। ब्रिटनदेशस्य सर्वकारेण अपि एततां घटननां तीव्रं निन्दित्वा, अपराधिनः न्यायसम्मुखे स्थापयितुं दृढप्रतिज्ञा च  स्वीकृता।

Thursday, March 6, 2025

 चाम्प्यन्स् ट्रोफी - भारतस्य प्रतिद्वन्दी न्यूसिलान्टः।

दक्षिणाफ्रिकां ५० धावनाङ्कैः पराजितवान्। 

लाहोरं> बृहत्प्राप्ताङ्कस्य आधिकारिकविजयस्य च प्रदीप्त्या न्यूसिलान्टः चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः अन्तिमचक्रं प्राविशत्। रविवासरे दुबाय् मध्ये सम्पत्स्यमाने प्रतिद्वन्द्वे भारतेन सह स्पर्धिष्यते। 

  ह्यः सम्पन्ने द्वितीये पूर्वान्त्यचक्रे प्रथमं कन्दुकताडनं कृतवान् न्यूसिलान्टदलः ५० क्षेपणचक्रे ६ ताडकानां विनष्टे ३६२ धावनाङ्कान् सम्पादितवान्। तत्र रचिन् रवीन्द्रः [१०८], केय्न् विल्यंसणश्च [१०२] शतकं प्राप्तवन्तौ। द्वितीयचरणे ताडनं कृतेन दक्षिणाफ्रिकादलेन ५० क्षेपणचक्रे ९ क्रीडकानां विनष्टे ३१२ धावनाङ्काः प्राप्ताः।

 ट्रम्पस्य वैरनिर्यातनबुद्धिः।

युक्रैनाय सैनिकसाह्यं जडीकृतम्। 

वाषिङ्टणः> वैट् हौस् सन्दर्शनवेलायां युक्रैनस्य राष्ट्रपतिं व्लोदिमर् सेलन्स्किवर्यं अपमानितवान् डोनाल्ड ट्रम्पः वैरनिर्यातनबुद्धिं प्रकाशयति। युक्रेनराष्ट्राय दीयमानं सैनिकसाह्यं जडीकर्तुमादेशः अमेरिकायाः राष्ट्रपतिना हस्ताक्षरीकृतः। रष्यां प्रति शान्तिचर्चायै युक्रेनः यावत्  प्रतिज्ञाबद्धः भविष्यति तावत्पर्यन्तं तेषां कृते साह्यं न भविष्यतीति ट्रम्पस्य आदेशः।

Wednesday, March 5, 2025

 मणिपुरे भूचलनम्। 

इम्फालः> मणिपुरराज्ये काम्जोङ् जनपदे अद्य मध्याह्ने १२. ३० वादने भूचलनम् अनुभूतम्। रिक्टर् मापने ४. १ अङ्कितम्। किन्तु जनापायः नाभूत् इति सूच्यते।

 साधारणजनस्य कृते सरलसंस्कृतेन अनुवादः आवश्यकः  -डा. प्रकाशपन्त:।

    उत्तराखण्डसंस्कृतविश्वविद्यालये भारतीयभाषासमितेः, शिक्षामन्त्रालयस्य भारतसर्वकारस्य च सहयोगेन सञ्चालितायाम् अनुवादकार्यशालायाम् चतुर्थदिवसे विषयविशेषज्ञः डा. श्रीओमशर्मा प्रतिभागिभ्यः वाक्यनिर्माणस्य सूक्ष्मतासु सम्बन्धिनीषु ज्ञानं अददात्। तेन उक्तम् यत् आङ्ग्लभाषायाः अथवा हिन्दीभाषायाः संस्कृतभाषायां प्रति अनुवादे कृते विशेषतया संस्कृतभाषायां वाक्यरचनायाः भाषाशैली सरला भवेत्, यया सामान्यजनानां बोधे सुलभा भवेत्। अद्य संस्कृतभाषायाः रचनाकारैः मौलिकरचनया सह अनुवादे अपि सरलविन्यासस्य विशेषं ध्यानं दातव्यम्, तेन सर्वेषाम् अनुवाचकानां समीपं साहित्यं प्रापयितुं शक्यते। संस्कृतभाषायाम् उत्तमाः अनुवादकाः अस्मिन् विषये विशेषं ध्यानं दद्युः यत् अद्यतनं साहित्यं सरलमानकसंस्कृतेः भवेयुः।

 चाम्प्यन्स् ट्रोफी - भारतम् अन्तिमचरणं प्राविशत्। 

विश्वचषके पराजयस्य आस्ट्रेलियां प्रति मधुरप्रतीकारः!

विजये भारतदलस्य आह्लादः। 

दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकटस्पर्धाया‌ः पूर्वान्त्यचक्रे भारतेन आस्ट्रेलिया चतुर्भिः ताडकैः पराजिता। १५ मासेभ्यः पूर्वं अहम्मदाबादे सम्पन्ने विश्वचषकस्पर्धायाः अन्तिमप्रतिद्वन्द्वे आस्ट्रेलिययाः स्वीकृतस्य पराजयस्य मधुरप्रतीकाररूपेण गण्यते अयं विजयः। 

  चाम्प्यन्स् ट्रोफीपरम्परायाः पूर्वान्त्यस्पर्धायाम् आधिकारिकः विजयः आसीत् भारतस्य। कन्दुकक्षेपणे ताडने च युगपत् श्रेष्ठतां प्रकटितवान् भारतदलः। प्राप्ताङ्कसूचिका - आस्ट्रेलिया ४९. ३ क्षेपणचक्रे २६४ धावनाङ्कैः सर्वे बहिर्नीताः। भारतं, ४८. १ क्षेपणचक्रे षट् ताडकानां विनष्टे २६७। 

  विराट कोहली ८४ धावनाङ्कान् सम्पाद्य श्रेष्ठक्रीडकपदं प्राप्तवान्। कन्दुकक्षेपकः मुहम्मद षमी द्वारकत्रितयं प्राप्तवान् च। अद्य सम्पत्स्यमाने दक्षिणाफ्रिका - न्यूसिलान्ट् प्रतिद्वन्द्वे यः विजयी भविष्यति स एव अन्तिमचरणे भारतस्य प्रतिद्वन्दी।

Tuesday, March 4, 2025

 आङ्गलं यू एस् राष्ट्रस्य औद्योगिकी भाषा।

वाषिङ्टणः> आङ्गलभाषां यू एस् राष्ट्रस्य औद्योगिकभाषारूपेण विधत्ते आदेशे डोनाल्ड ट्रम्पेन हस्ताक्षरं कृतम्। यू एस् राष्ट्रस्य २५० संवत्सरीयचरिते प्रथममेवायमादेशः। औद्योगिकभाषापदात् स्पानिष् भाषा अपाकृता। 

  राष्ट्रस्य ऐक्यसंस्थापनाय सर्वकारस्य कार्यक्षमतावर्धनायैव अयं प्रक्रम इति वैट् हौस् अधिकारिभिरुक्तम्। किन्तु अयं परिष्कारः अमेरिकायां वर्तमानानां अनेकेषां भाषा - प्रवासिनां दोषाय भविष्यतीति मान्यते। राष्ट्रे ३५० अधिकाः भाषाः व्यवहारे सन्ति।

एन् एन् एस् एस् संस्थायाः अङ्गभूतेषु विद्यालयेषु २०२१ तमवर्षात् आरभ्य नियुक्तानि ३५० अधिकानि पदानि स्थिरीकर्तुम् सर्वोच्चन्यायालयेन आदेशः दत्तः।

 दिल्ली > भिन्नशक्तिसंवरणार्थं पदानि विन्यस्तानि इत्यनेन केरलेषु एन् एस् एस् संस्थायाः विधेयत्वेन विद्यमानेषु विद्यालयेषु शिक्षकेतर-शिक्षकनियुक्तये केरल-राज्यसर्वकारं प्रति सर्वोच्चन्यायालयेन आदेशः प्रदत्तः। न्यायाधीशः बी.आर्.गवायः अध्यक्षरूपेण आसन्। एन् एन् एस् एस् संस्थायाः  विद्यालयेषु भिन्नशक्तिमद्भ्यः षष्टिस्थानानि विन्यस्तानि इति निरीक्ष्य एव निर्णयः कृतः।

 ओस्कारे  'अनोरा' प्रकाशते - ५ पुरस्काराः। 

   मैकी माडिसणः श्रेष्ठा अभिनेत्री; अड्रियन् ब्रोडिः श्रेष्ठः अभिनेता। 

पुरस्कारलब्धाः - वामतः , अड्रियन् ब्रोडिः [नटः], मैकी माडिसणः [नटी], सोयी सल्दाना [सहाभिनेत्री], किरण् कुल्किन् [सहाभिनेता] 

लोस् आञ्जलसः> ओस्कार् चलच्चित्रपुरस्कारस्य ९७ तमे संस्करणे षोण् बेकरेण निदेशं कृतं अमेरिकीयचलच्चित्रम् अनोरा नामकं पञ्च पुरस्कारान् प्राप्नोत्। श्रेष्ठं चित्रं, श्रेष्ठा दृश्यकथा, श्रेष्ठं निदेशनं, श्रेष्ठं चित्रसंयोजनं, श्रेष्ठा अभिनेत्री इत्येते पुरस्काराः अनोरया प्राप्ताः। 

  निदेशकत्वं विना दृश्यकथा, चित्रसंयोजनं इति पुरस्कारद्वयमपि निदेशकेन षोण् बेकरेण प्राप्तानि। अनोरा इति नायिकाकथापात्रम् अवतारितवती   मैकी माडिसणः श्रेष्ठा अभिनेत्री अभवत्। 'दि ब्रूटलिस्ट्' इत्यस्मिन् चलच्चित्रे अभिनयेन अड्रियन् ब्रोडिः श्रेष्ठः अभिनेता जातः।

Monday, March 3, 2025

 रञ्जी ट्रोफी विदर्भया प्राप्तम्। 


नागपुरं> रञ्जी ट्रोफी क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वे केरलं पराजित्य विदर्भादलः किरीटं प्राप।   रञ्जी ट्रोफी स्पर्धायां विदर्भायाः तृतीयकिरीटं भवत्येतत्। 

  अन्तिमचरणं यावत् पराजयमविज्ञाय अग्रे गच्छतः केरलस्य इदं प्रथमतया किरीटं लप्स्येत इत्यभिलाषः अस्तंगतः। अन्तिमस्पर्धायाः पञ्चमदिने रविवासरे द्वितीयचरणे विदर्भायां ३७५/९ इति प्राप्तायां स्पर्धां समस्थितिं विधातुं दलद्वयेन निश्चितम्। प्रथमचरणे प्राप्तस्य ३७ धावनाङ्कानामधिकत्वस्य कारणेन विदर्भा विजयीभूता।