OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi
Showing posts with label Science. Show all posts
Showing posts with label Science. Show all posts

Monday, October 12, 2026

Ancient Heritage, Future Tech: Kerala Teens Win Gold for Robot That Cleans and Digitises Palm Leaves

 भारतस्य द्वे बालिके  यन्त्रकलायाः कृत्रिमबुद्धिमत्तायाः च साहाय्येन तालपत्रग्रन्थसंरक्षणम् साधितवत्यौ।

by Samprativartah News Desk
Navika D. Nair (left) and Cathlin Marie Jeesan with Smriti 1.0 | Photo From: The Week|

    ​केरलप्रदेशस्य १४ वर्षीये बालिके काथ्लिन् मेरी जीसन् (Cathlin Marie Jeesan), नविका डी. नायर् (Navika D. Nair) च प्राचीन-तालपत्रग्रन्थानाम् संरक्षणार्थम् अङ्कीकरणार्थम् (digitization) च 'स्मृतिः १.०' (Smriti 1.0) इति स्वयञ्चलितं यन्त्रम् आविष्कृतवत्यौ। प्राचीनाः ताडपत्रग्रन्थाः भारतीयसंस्कृतेः ज्ञानस्य च अमूल्यनिधयः सन्ति, किन्तु कालक्रमेण तेषां क्षयः भवतीति ज्ञात्वा अस्याः समस्यायाः समाधानार्थम् एते बालिके प्रवृत्ते अभवताम्।

    ​एतेन अभूतपूर्वेण कार्येण हैदराबाद्-नगरे आयोजितायां 'विश्व-यन्त्रकलोलम्पियाड्' (WRO India Nationals) स्पर्धायां 'ज्येष्ठ-नवस्रष्टृ' (Future Innovators - Senior) वर्गे एते प्रथमस्थानम् अलभेताम्। अनेन साफल्येन एते 'प्युर्तो रिको' (Puerto Rico) देशे डिसेंबर-मासे भविष्यन्त्याम् अन्ताराष्ट्रियायां स्पर्धायां भारतस्य गौरवपूर्णं प्रतिनिधित्वं करिष्यतः।

Tuesday, October 6, 2026

 प्रकाशेन मस्तिष्कीयनाडीकोशिकानां नियन्त्रणम्; कार्ल-डीसेरोथ्, पीतर्-हेगेमन्, जोर्ज्-नागेल् इत्येतेभ्यः २०२६ वर्षे वैद्यशास्त्रे नोबेल्-पुरस्कारः

​स्टाक्होम्> (Stockholm) — २०२६ तमस्य वर्षस्य वैद्यशास्त्राय (Medicine) नोबेल्-पुरस्कारः (Nobel Prize) त्रिभ्यः वैज्ञानिकेभ्यः उद्घोषितः। कार्ल्-डीसेरोथ् (Karl Deisseroth), पीतर्-हेगेमन् (Peter Hegemann), जोर्जज्-नागेल् (Georg Nagel) इत्येते वैज्ञानिकाः अस्य पुरस्कारस्य भागिनः अभवन्। एतेभ्यः प्रकाश-नियन्त्रित- आयस-प्रणालीनां (light-gated ion channels) अन्वेषणाय, प्रकाश-आनुवंशिकी-प्रविधेः (Optogenetics) विकासाय च संयुक्तरूपेण एषः पुरस्कारः समर्पितः। स्वीडन् (Sweden) देशस्य कैरोलिन्स्का-संस्थायाः (Karolinska Institute) नोबेल्-समित्या एषा विज्ञप्तिः कृता।

Wednesday, September 30, 2026

छात्रायाः परीक्षा-उद्वेगमुक्ति-अभियानस्य विश्वकीर्तिः

 छात्रायाः परीक्षा-उद्वेगमुक्ति-अभियानस्य विश्वकीर्तिः

Author: Harikumar
Vishnupriya Pai Golden Book of World Records Sanskrit News
Vishnupriya Pai Golden Book of World Records Sanskrit News

   मङ्गलूरु:> मङ्गलूरुनगरसमीपस्थ-मूडबिद्रि-अल्वास्-केंद्रीय-विद्यालयस्य दशमश्रेण्याः छात्रा विष्णुप्रिया पै परीक्षाहेतुकाम् आशङ्काम् उद्वेगञ्च दूरीकर्तुं विशिष्टम् अभियानम् आचरितवती। सा १५ दिनेषु कर्णाटकस्य पञ्चसु मण्डलेषु स्थितानाम् ५१ विद्यालयानाम् ४,५०० तः अधिकान् छात्रान् सम्बोध्य विश्वकीर्तिम् (Golden Book of World Records) प्राप्तवती।

    षष्ठकक्षातः एव मनोविज्ञान-परामर्शविषयेषु अभिरुचिं दधाना विष्णुप्रिया अन्तर्जाल-वर्गैः ज्ञानमर्जयित्वा तत् स्वसहपाठिभ्यः वितरति स्म। सा स्वसत्रेषु परीक्षा-मनोभारस्य प्रबन्धनानि, समयस्य सदुपयोगम्, सुलभपठनरीतीश्च सम्यक् विशदीकृतवती।

    अन्यैः प्रौढैः विशेषज्ञैः वा स्थाने एकया छात्रया एव एतादृशस्य कार्यक्रमस्य नेतृत्वं कृतम् इति हेतोः एषः प्रयासः सर्वैः भृशं प्रशंसितः। अक्टोबर्-मासस्य प्रथमे दिनाङ्के अल्वास्-शिक्षण-प्रतिष्ठानस्य अध्यक्षस्य विद्वान् एम. मोहन-अल्वा-महोदयस्य उपस्थितौ तस्यै आधिकारिकं प्रमाणपत्रं प्रदास्यते।

Tuesday, February 10, 2026

 वक्रयितुं भ्रामयितुं रूपान्तरं कर्तुं च सक्षमः नूतनः यन्त्रमानुषः वैज्ञानिकैः आविष्कृतः।

   यन्त्रमानुषमधिवृत्य वयं चिन्तयामः चेत् यन्त्रभागसदृशानि पाणिपाद युक्तरूपाण्येव सर्वेषां मनसि आयान्ति। टेस्ला इत्यादयः तादृशान् यन्त्रमनुष्यान् निर्मान्ति। किन्तु भाविनिकाले आगम्यमानाः यन्त्रमनुष्याः समानरूपेषु भविष्यन्ति इति चिन्ता न कार्या। इच्छानुसारं वक्रयितुं रूपान्तरणं कर्तुं च सक्षमाः यन्त्रमनुष्याः अपि भाविनि काले भविष्यन्ति इत्यत्र नास्ति संशयः। वैद्युतक्षेत्रद्वारा चलितुं शक्ताः स्निग्ध द्रवपदार्थरूपाः यन्त्रमानुषाः लण्डन् क्वीन् मेरी विश्वविद्यापीठस्थैः तथा ब्रिस्टोल् विश्वविद्यालयस्थैः वैज्ञानिकैः च आविष्कृताः।

Wednesday, October 29, 2025

 दिल्यां वायूप्रदूणं नियन्त्रयितुम् कृत्रिमवर्षापातनश्रमः विफलो जातः ।

    नवदिल्ली> .प्रतिदिनं वायूप्रदूषणेन खिन्नानां दिल्लीनिवासिनाम् आश्वासाय कृत्रिमवर्षापातः कल्पितः । किन्तु वर्षापातनाय कृतसंकल्प मेघोत्तेजनं  ( cloud seeding ) पराजितम् अभवत्। ह्यः मध्याह्ने उत्तेजनं कृतम्। किन्तु मेघजालेषु जलांशः २०% इत्यस्मात् न्यूनम् आसीत् इत्यनेन वृष्टिः न अभवत् इति  काणपुरस्य ऐ ऐ टी संस्थया उक्तम्। अद्य कर्तुं निश्चितं मेघोत्तेजनं अनुकूवातावरणस्य अभावेन न कृतम्। एकवारं मेघोत्तेजनाय ६४ लक्षं रूप्यकाणां व्ययः अस्ति। अद्य दिल्यां वायूप्रदूषणसूचिका ३०० इत्यस्मात् उपरि अस्ति।

Friday, October 24, 2025

 स्वदेशभाषायां नूतनं संवादयन्त्रं समागच्छति । दशभाषाभिः भाषते। 

चित्रम् - कान्वया लिखितम्

   बंङ्गलूरु> बंङ्लूरस्थया सर्वम् ए ऐ नाम संस्थया नूतनं स्वदेशीयं बृहत् भाषारूपं (LLM) संवादयन्त्रं निर्मीयते। अनेन भरतस्य दशभाषाभिः व्यवहर्तुं शक्यते। हिन्दी, मलयाळम्, आङ्गलेयं, तमिष़्, तेलुगु, मरात्ती, गुजराती, कन्नडा, ओडिया, पञ्चाबी इत्याद्यः भाषाः एव अत्र उपयुक्ताः। एतत् आङ्गलेयभाषाम् अशिक्षितानां   ग्रामीणजनानां कृते बहुसहायकं भविष्यति।

Friday, May 16, 2025

 पृथिव्याः अन्तःस्थितं महाधनम् ।  1,70,000 संवत्सरपर्यन्तं पर्याप्तं हैड्रोजनस्य स्रोतांसि इति अध्ययनम्।

  पृथिव्याः गर्भभागे रूपीकृताः स्वाभाविकाः हैड्रोजन-सञ्चयाः वैश्विकम् इन्धन-आवश्यकतां 1,70,000 (सप्तति सहस्राधिक एक लक्षं) वर्षाणि यावत् उपयोक्तुं समर्थाः स्युः इति नवीनम् अध्ययनम् सूचयति।

   विश्वस्य अनेकप्रदेशेषु विशेषतया अमेरिकादेशस्य त्रिंशतधिक-राज्येषु एवं प्रकारस्य हाइड्रोजन्-स्रोतांसि सन्तीति अध्ययनम् दर्शयति। एतदनुसन्धानम् ओक्सफोर्ड्-विश्वविद्यालयस्य भू-रसायनविभागाध्यक्षस्य प्रोफेसर् क्रिस् बलन्टैन्  इत्यस्य नेतृत्वेन कृतम्।। Nature Reviews Earth and Environment इत्यस्यां  प्रख्यातायां वैज्ञानिक-पत्रिकायाम् एषः शोधः प्रकाशितः अस्ति।

   पाषाणानि जलम् च मिलित्वा याः स्वाभाविकाः रासायनिकक्रियाः जाताः, ताभ्यः हैड्रोजनस्य उत्पत्तिः भवति। एते नैसर्गिकानि हैड्रोजन् स्रोतांसि कार्बण्-रहितस्य ऊर्जस्य दिशायाम् अस्मान् नेष्यन्ति। अल्पकालात् पूर्वमेव अल्बेनियायाः पश्चिम-अफ्रिकायाः च प्रदेशयोः क्रोमियम्-खननक्रियासु सत्सु,पृथिव्याः अधस्तले विशालः हाइड्रोजन्-सञ्चयः अस्ति इत्यपि ज्ञातम्। इदम् अध्ययनम् भाविष्यस्य हरित-ऊर्जानीतये महत्त्वपूर्णम् एकं द्वारम् उद्घाटयिष्यति।

Monday, November 18, 2024

 भारतात् अमेरिका यात्रा - यात्रायाः समयः केवलं ३० निमेषाः;

यात्रायै एलोनमस्कस्य 'स्टारशिप्' नामकम् अतिवेगयानम्।

    अमेरिकायाः प्रवासिजनेभ्यः भारतं प्रति आगमनाय २० होरायाः अधिकः समयः आवश्यकः अस्ति। किन्तु सा यात्रा केवलम् एका घटिकायाः अधः भवेत् चेत्? इयम् एलोनमस्कस्य नवीनाः योजनायाः उद्देश्यः इति प्रतिवेदितम्। मस्कस्य स्पेस् एक्स् परियोजनायाः कृते 'स्टारशिप्' नामकं अतिवेगयानं योजना बद्धाम् अस्ति।

     दशवर्षेभ्यः पूर्वम् एलोनमस्कः 'स्टार्शिप् रोकट्' इति आशयं प्रकटितवान्। जगति सर्वाधिकवेगयुक्तं यात्रा-साधनं भवेदिति लक्ष्यं तेन स्थापितम्। प्रतिवेदनानुसारम् एतत् साधनं १००० यात्रिकान् वोढुं समर्थं

Sunday, November 10, 2024

 भूमिः तापेन ज्वलति। विश्वजनमनस्सु आशङ्कां जनयन् तापमानः वर्धते।

   मुम्बै> भूमेः तापमानः प्रवर्धते। भूमौ इंदप्रथमतया अतितापमानः रेखाङ्कितः संवत्सरः अभवत् २०२४ तम संवत्सरः। कार्बण् डै ओक्सैड् नाम वातकस्य अमितबहिर्गमनमेव अतितापमानस्य कारणमिति वैज्ञानिकाः प्रवदन्ति। दुरवस्थामेतां नियन्त्रणविधेयं न करिष्यति चेत् आगामिनि संवत्सरे तापमानः इतोपि वर्धिष्यते इति सूचना अस्ति।

Saturday, November 9, 2024

 सूर्यस्य आयुषः अर्धः अपि समाप्तम्।

    ४५७ कोटिसंवत्सरात् पूर्वं लब्धजन्मनः पीतनक्षत्रं भवति सूर्यः। अधुना सूर्यः तस्य आयुषः मध्यकालं प्राप्नवान् अस्ति। भूमौ ऊर्जस्य स्रोतः भवति सूर्यः। तापयुक्तः जाज्वल्यमानः हैड्रजन् - हीलियं इत्येतयोः संयुक्तवातकगोलं भवति सूर्यः इति वक्तुं शक्यते। अन्यनक्षत्राणि इव सूर्यः अपि एकस्मिन् दिने ऊर्जशोषणेन निर्जीवो भविष्यति इति उचितैः प्रमाणैः दृढीकृतमस्ति। वैज्ञानिकानां मतानुसारं सूर्यः तस्य मध्यवयः प्राप्तवान् अस्ति। मा किं ५०० कोटि संवत्सरपर्यन्तं यावत् सूर्यः अत्र स्थास्यति इति वैज्ञानिकाः अभिप्रयन्ति।

Thursday, October 17, 2024

 बृहस्पतिग्रहे भीमाकारं रक्ततिलकम्।

     अनन्ताद्भुतानां भण्डाकारः भवति अस्माकं भूमिः आकाशः च। अनन्तम् अज्ञातम् अवर्णनीयं निगूढम् च भवति, सूर्यः, ग्रहाः, उपग्रहाः च। विश्वस्मिन् नूतनायाः प्रौद्योगिकविद्यायाः प्रभावेन अनेकाः आविष्काराः कृताः अपि इतःपरम् उत्तरं लब्धुम् अशक्याः बहवः प्रश्नाः सन्ति बाह्याकाशलोके। तद्वत् अतिविस्मयावहा नूतना विशेषघटना भवति बृहस्पतिग्रहे दृश्यमानं रक्ततिलकं, किन्तु एतत् अनित्यम् इति च उच्यते नासया। नासायाः हबिल् स्पेस् इति विहायदर्शनी द्वारा कृते अनुसन्धानेन लब्धम् इदं नूतनं ज्ञानम्।

Tuesday, September 10, 2024

धरातलं प्रति आगच्छन्तः अपोफिस् नामकः उल्कापिण्डः, परिस्थितिः भीतिदा अस्ति इति इसरो संस्थायाः अध्यक्षः।

 अपोफिस् इति महद्भयंकरः उल्कापिण्डः भारतीय-अन्तरिक्ष-अनुसन्धान-संस्था (इसरो) द्वारा निरन्तरम् निरीक्ष्यते। पृथिव्याः समीपं प्रति आगच्छन् एषः उल्कापिण्डः 2029 तमे वर्षे अप्रिलमासस्य त्रयोदशे दिने पृथिव्याः अत्यन्तं समीपतः गमिष्यतीति अपेक्ष्यते। www.samprativartah.in

  उपग्रह-सञ्चालनानि तथा ग्रहान्तर-पर्यवेक्षण-कार्यक्रमैः सह विदेश-अन्तरिक्ष-संस्थानैः सहकार्यं कुर्वन्तः 'ग्रहीय-रक्षा' इति क्षेत्रे अपि इसरो संस्थया सक्रियता अस्ति। पृथिवीं प्रति भीषणं ददतः  अन्तरिक्षवस्तूनां निरीक्षणं, तेषां प्रति सुरक्षा-प्रविधेः विकासश्च अस्य लक्ष्यमस्ति।

  मानवजातेः वास्तविकं भीषणं महद्भिः उल्कापिण्डैः सह सम्भाव्यम् संघट्टनं भवति इति इसरो संस्थायाः अध्यक्षः श्रीमान् एस्. सोमनाथः एन् डि टि विं प्रति   कथितवान्। अस्य भीषणस्य सम्बन्धतया सक्रियतया कार्यं कुर्वतः इसरो संस्थायाः 'अन्तरिक्षवस्तूनां निरीक्षण-विमर्श-कार्यक्रम' (नॆत्र) इति योजनया अपोफिस् इति उल्कापिण्डः सूक्ष्मतया निरीक्ष्यते। अस्माकं जीवनाय एकैव पृथिवी अस्ति। अपोफिस् इत्यस्य जनितं भीषणं च भविष्ये सम्भाव्यम् अपि भीषणं निवारयितुं भारतस्य सर्वेषु राष्ट्रेषु सहकार्यं भविष्यति इति श्रीमान् एस्. सोमनाथः उक्तवान्।

Sunday, August 4, 2024

 अत्र वृक्षाः पार्श्वोन्मुखान् भूत्वा वर्धन्ते।

  वृक्षाः सूर्याभिमुखाः अथवा ऊर्ध्वमुखाः भूत्वा वर्धन्ते इति वयं जानीमः। किन्तु न्यूसिलान्ट् देशस्य स्लोप् पोयिन्ट् (slop point) इति प्रसिद्धे प्रदेशे वृक्षाः पार्श्वोन्मुखान् भूत्वा वर्धन्ते इति आश्चर्यजनकः विषयः भवति। अयं प्रदेशः न्यूसिलन्टस्य दक्षिणदिशि भवति। अत्र निरन्तरम् अतिशक्तः वायुः वाति इत्यनेन वृक्षाः वायोः विपरीतदिशायां पार्श्वी भूत्वा वर्धन्ते। दक्षिणध्रुवप्रदेशतः ४८०३ कि.मी - भूमध्यरेखातः ५१४० कि .मी दूरे वर्तते अयं 'स्लोप् पोयिन्ट्'।

Monday, July 15, 2024

 अन्धान् श्रावयितुं 'कीबो' समागता। 

६० संख्याकाः भाषाः अनया पठिष्यन्ते।

केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि 

  नवदिल्ली> संस्कृतं चैनीस् इत्यारभ्य  ६० संख्याकाः भाषाः उच्चैः पठितुं शक्यते 'कीबो' इति नामिकायाः निर्मितबुद्धियुक्तायाः सङ्गणकसुविधायैः। दृश्यान्धानां साहाय्यार्थं निर्मिता भवति इयं सुविधा। विभिन्नभाषायां विरचितानि पुस्तकानि स्वस्य इष्टतमभाषायां श्रोतुमसरः अनया सिध्यते अन्धेभ्यः। 

   लोकसभायाः संसद् पुस्तकालयः, कोलकत्त राजभवनं, ऐ ऐ टि दिल्ली, केरल - कर्णाटक - गुजरात् - बेरहांपूर -त्रिपुर विश्वविद्यालयेषु च सज्जिताः सन्ति। इदानीं इदं प्रथमथया केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि सुविधेयं सज्जिताः सन्ति। हस्तेन लिखितं टिप्पणी-पुस्तकमपि पठितुं 'कीबो' सक्षमा भवति। अतः नयनान्धतया पीडितानां पिपठिषूणं हृदयेषु ज्ञन- विज्ञानकमलानां विकासाय एषा 'कीबो' उपकरोति।

Sunday, June 23, 2024

 विमानतुल्यः आकारः कश्चित् क्षुद्रग्रहः अद्य भूमेः समीपं प्राप्स्यति - नासा । 

विमानेन समं साकारः एकः क्षुद्रग्रहः अद्य रात्रौ भूमेः समीपम् आगमिष्यति इति नासा संस्थया प्रतिवेद्यते। १६५०० कि.मी वेगेन आगच्छन् अयं श्रुद्रग्रहः भूतलं स्प्रष्टुं सन्दर्भः ७२% अस्ति इति वैज्ञानिकाः वदन्ति। अद्य रात्रौ ११ः ३९ वादने घट्टनं स्यात्।

Tuesday, December 26, 2023

 आदित्य एल् आँण्  गम्भीरपदं प्रविश्यति। प्रभामण्डलप्रवेशस्य निम्नगणना समारब्धा।

   भारतस्य प्रथमसौरयोजना इति प्रसिद्धा आदित्य एल् आँण् इत्यख्यायाः सूर्यप्रभामण्डलप्रवेशस्य अनुकूलसमयः समागतः। तदर्थं निम्नगणना समारब्धा इति इसरो द्वारा न्यवेदिता। भूतलात् १५ लक्षं किलोमीट्टर् दूरं प्राप्य लग्राञ्च् इति बिन्दौ भ्रमणपथस्य समीपं वर्तते आदित्य एल् आँण् । सूर्यस्य समीपवर्ती इति निर्णीतः बिन्दुः भवति लग्राञ्च्। विना विलम्बं लग्राञ्च् इति प्रभामण्डलं प्रवेष्टुं शक्यते इति ऐ एस् आर् ओ अधिकारिणा प्रबुध्यते। २०२४ तमे जनुवरि ६ दिनाङ्के श्रमः सफलं भविष्यति इति ऐ एस् आर् ओ  अधिकारिणः अवदन्।

Sunday, December 3, 2023

 जगदीशचन्द्रबोसस्य जन्मदिवसोपलक्ष्ये 

विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनम्॥ 

-वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारम्।

     महावैज्ञानिकस्य जगदीशचन्द्रबोसस्य जन्मदिवसावसरे रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे कण्वनगरीकोटद्वारे अन्तर्विद्यालये विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनं सञ्जातम्। कार्यक्रमस्य उद्घाटने विद्यालयस्य उपप्राचार्य: अनिलकोटनाला निर्णायक: एवं विशेषातिथि:, राजकीय-स्नातकोत्तर-महाविद्यालयस्य भौतिकीसहायक: प्राध्यापक: डॉ.डी.एस.चौहान:, रसायनविज्ञानस्य सहायक: प्राध्यापक: डॉ० सुरेशकुमार:, जीवविज्ञानस्य प्रवक्ता मनीषमधवाल: च दीपं प्रज्ज्वाल्य सरस्वतीमातुः पुरतः पुष्पार्पणं कृतवन्त:। 

   विद्यालयस्य विज्ञान-प्रौद्योगिकीविभागस्य अध्यक्षः राहुलभाटिया इत्यनेन उक्तं यत् कार्यक्रमस्य आयोजनं कनिष्ठ-वरिष्ठयोः वर्ग: कृतम् आसीत्, प्रत्येकस्मिन् खण्डे छात्रै: कार्यरतपरियोजना अकार्यशीलपरियोजना च प्रदर्शिता। सः अवदत् यत् अस्मिन् अन्तर्विद्यालयविज्ञानप्रदर्शनस्पर्धायां नगरस्य १५ विद्यालयाः भागं गृहीतवन्तः। प्रत्येकं सहभागी छात्रः नवीनतायाः नूतनप्रौद्योगिक्याः च आधारेण नवीनविज्ञानप्रतिमानं परियोजना च प्रदर्शितवान्। 

   वरिष्ठवर्गस्य कार्यशील-आदर्श-परियोजना-प्रतियोगितायां यथाक्रमं -> ज्ञानभारती- जनता-विद्यालय:, आर्य-कन्या-इण्टर-कॉलेज् , श्री सिद्धबली-पब्लिक-स्कूल् च प्रथम द्वितीय तृतीयस्थानानि प्राप्तवन्तः। कनिष्ठवर्गे कार्यशीलादर्श-परियोजना-प्रतियोगितायां ज्ञानभारती -पब्लिक-स्कूल् प्रथमस्थानं, श्रीसिद्धबलीपब्लिकस्कूल् द्वितीयस्थानं तथा ज्ञानभारती-पब्लिक-स्कूल्  तृतीयस्थानं च प्राप्तवन्त: । 


    कार्यपरियोजनाया: प्रदर्शनीप्रतियोगितायां श्री गुरुरामरायपब्लिकस्कूल् इति दलं कनिष्ठवर्गे प्रथम: च द्वितीय: एवं डी-ए-वी-पब्लिक्-स्कूल् दलमिति तृतीय: च आसन् । वरिष्ठवर्गस्य कार्यप्रारूपे एवं प्रदर्शनीप्रतियोगितायां ज्ञानभारतीपब्लिकस्कूल इति प्रथम:, श्री गुरुरामराय: द्वितीय: तथा डी-ए-वी-पब्लिक-स्कूल् इति तृतीय: आसन् । एतदतिरिक्तं सर्वेभ्यः विजेतृभ्यः सहभागिभ्यः च छात्रेभ्यः प्रमाणपत्राणि पुरस्काराणि च प्रदत्तानि। अवसरेस्मिन् रोहितबलोदी, संगीता रावत:, राजनकुमारशर्मा, गौरव: ब्रोकोटी, भूपेन्द्रसिंह:, राकेशचमोली, अनिलभटनागर:, श्रुतिमैन्दोला, संगीता कुकशाल:, सरोजनेगी, मोहनसिंह:, शिवरामबडोला, मधुबाला नौटियाल: आदय: उपस्थिता: आसन् ।

Thursday, November 16, 2023

 १५० HD चलनचित्राणि क्षणैकेन अवरोहितमुद्रणम् कर्तुं चीनस्य अन्तर्जालेन। शक्यते। 

    बैजिङ्> अन्तर्जालस्य तरणवेगेषु चीनः पारंगतः। १५० HD चलनचित्राणि क्षणैकेन अवरोहितमुद्रणं कर्तुं सक्षमं भवति चीनस्य अन्तजालम्। १.२ टेराबैट् ( १२०० जी बि) इति क्षणवेगेन दत्तान् सञ्चालयितुं शक्यते अनेन। सिन्हुवा विश्वविद्यालयः चीना मोबैल्, वावे टेक्नोलजीस्, सेर् नेट् कोर्परेषन् इत्येताभिः संस्थाभिः मिलित्वा एव योजनेयं प्रवृतिपथम् आनीता। यू एस् राष्ट्रेण परीक्षितायाः नूतनायाः पञ्चमश्रेण्याः तरणवेगः ४०० जी बि परिमितः आसीत्।

Saturday, September 30, 2023

    ३७१ दिनानि यावत् बाह्याकाशे वासः। २५.१ कि. मि. सञ्चारं कृत्वा नासायाः साञ्चारी अभिलेखम् आरचितवान्। 

    एकसंवत्सराधिककालं बाह्याकाशे यापयित्वा अमेरिक्कस्य बाह्याकाशसञ्चारिणा डो. फ्राङ्क् रूबियो इत्यनेन अभिलेखमारच्य भूमिं प्रत्यागतवान्। सः ३८१ दिनानि बाह्याकाशे यापितवान्। अमेरिक्कस्य सञ्चारिणौ मार्क वाण्डे हे (३५५ दिनानि ) स्कोट् केल्ली (३४० दिनानि) इत्यनयोः अभिलेखौ विभिद्य एव सः बाह्याकाशनिलयात् प्रत्यागतः। २०२२ तमे संवत्सरे सेप्तंबर् २२ तमे दिनाङ्के रष्यस्य बाह्याकाश-सञ्चारिभ्यां सर्गो प्रोकोप्येव्, दिमित्रि पेट्टेलिन् इत्येतेभ्यां साकं एव सः बाह्याकाशनिलयात् प्रत्यागतवान्।

Thursday, June 22, 2023

 टैटन् जलान्तर्वाहिनी यत्र तिरोभूता तत्रतः शब्दवीचयः। अन्वेषणम् अनुवर्तते।

    वाषिङ्टण्> टैट्टानिक् महानौकायाः अवशिष्टानि द्रष्टुम् अट्लान्टिक्समुद्रस्य अन्तर्भागे सञ्चारिभिः सह प्रस्थास्य अनन्तरम् तिरोभूतस्य टैटन् नाम जलान्तर्वाहिन्याः अन्वेषणम् अनुवर्तते। सन्दर्भेऽस्मिन् जलान्तर्भागे अवलोकनस्य भागतया उपयुक्तेन सोनार् उपकरणेन काचन शब्दवीचयः संगृहीताः इति प्रतिवेदनं बहिरागतम्। टैटन् यत्र अप्रत्यक्षीभूतः तस्मात् मण्डलात् एव शब्दवीचयः संगृहीताः इति बि बि सि वार्तामाध्यमेन आवेदितम्। रक्षाप्रवर्तनस्य भागतया कानडस्य पि३ विमानेन विन्यस्तेन सोनार् द्वारा एव शब्दवीचयः संगृहीताः इति अमेरिक्कस्य तीरसेनया आवेदितम्। एते अमेरिक्कस्य नाविकवैज्ञानिकाः सूक्ष्मविशकलनं कुर्वन्तः सन्ति। अष्टहोरापर्यन्तम् उपयोक्तुमेव प्राणवायुः तस्याम् अवशिष्यते इति सर्वेभ्यः भीतिजनकं भवति।