OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, December 31, 2024

 भारतस्य 'स्पैडक्स्' परीक्षणे विजयः। 

भारतेन ह्यः विक्षिप्तः पि एस् एल् वि - सि ६० उपग्रहः। 

श्रीहरिक्कोट्टा> बहिराकाशपेटकानि भूमेः भ्रमणपथे संयोजितुं विभक्तुं चोद्दिश्य भारतेन विकसिता 'स्पैडक्स्' नामिका साङ्केतिकविद्या विजयप्रदा अभवत्। स्पैडक्स् परीक्षणाय द्वौ लघूपग्रहौ ऐ एस् आर् ओ संस्थायाः ध्रुवीयविक्षेपणवाहनेन [पि एस् एल् वि - सि६०] गतरात्रौ भ्रमणपथं प्राप्तौ। एताभ्यां सह बहिराकाशगवेषणार्थं २४ उपकरणानि च विक्षिप्तानि। 

  बहिराकाशपरीक्षणनिलयस्य [Space Docking] प्रथमसोपानमेव सोमवासरे पूर्तीकृतमिति ऐ एस् आर् ओ संस्थायाः अध्यक्षः एस् सोमनाथः अवदत्। कुजवासरे उपग्रहद्वयमपि परस्परं २० कि मी अन्तरे एकेनैव भ्रमणपथेन भूमिं प्रदक्षिणं करिष्यति। तदनन्तरमेतयोरन्तरं न्यूनीकृत्य द्वावुपग्रहौ संयोक्ष्यति। तदर्थं  सप्त दिनानि अपेक्षितानीति सोमनाथेनोक्तम्।

Monday, December 30, 2024

 विश्व महिला द्रुतचतुरङ्गः 

भारतस्य कोनेरू हम्पी विश्वविजेत्री। 


न्यूयोर्क्> अमेरिक्कायां सम्पन्नायां महिलानां विश्वद्रुतचतुरङ्गस्पर्धापरम्परायां भारतस्य कोनेरू हम्पी [३७] इति आन्ध्रप्रदेशीया विश्वकिरीटधारिणी जाता। दोम्मराजू गुकेशेन चतुरङ्गस्य विश्ववीरतापदं भारतमानीय कतिपयदिनाभ्यन्तरे महिलानां द्रुतचतुरङ्गकिरीटमपि भारतं प्राप्तमित्येतत् द्विगुणीकृतमधुरस्य अनुभवः। 

वीरतापरम्परायाः अन्तिमचक्रे इन्डोनीष्यायाः ऐरिन् सुकन्दर् इत्येतं पराजित्य एव सार्धाष्टाङ्कान् सम्प्राप्य लोकविजेत्री अभवत्। द्वितीयवारमेव हम्पी विश्वविजयिनी भवति। २०१९ तमे वर्षे मोस्को मध्ये आसीत् प्रथमकिरीटप्राप्तिः।

 सन्तोष् ट्रोफी - अन्तिमस्पर्धायां वंग- केरलप्रतिद्वन्द्वः। 

केरलाय अनुस्यूतत्रितयं प्राप्तवतः मुहम्मद रोषनस्य मित्राणामभिनन्दनम्। 

हैदराबादः> श्वः सम्पद्यमाने सन्तोष् ट्रोफी पादकन्दुकस्पर्धापरम्परायाः अन्तिमप्रतिद्वन्द्वे केरलं पश्चिमवंगेन सह स्पर्धिष्यते। ह्यः सम्पन्ने पूर्वान्त्यस्पर्धायां सर्वीसस् दलं ४ -२ इति लक्ष्यकन्दुकक्रमेण पराजित्य वंगदलः अन्तिमस्पर्धां प्राविशत्। अन्यस्मिन् प्रतिद्वन्द्वे केरलेन मणिप्पुरदलः ५ - १ इति लक्ष्यकन्दुकक्रमेण पराजितः। 

  केरलस्य क्रीडकः मुहम्मद रोषनः अनुस्यूतत्रयं लक्ष्यकन्दुकं [हाट्रिक्] सम्पादितवान्। नसीब रह्मानः, मुहम्मद अज्सलः इत्येतौ केरलस्य अन्ये लक्ष्यकन्दुके प्राप्तवन्तौ।

 दक्षिणकोरियायां विमानदुर्घटना - १७९ जनाः मृत्युमुपगताः। 

द्वौ अद्भुतेन रक्षितौ। 

विमानप्रज्वलस्य दृश्यम्। 

सोल्> दक्षिणकोरियायां मूवान् अन्ताराष्ट्रविमाननिलये अवतरणवेलायां विमानपथात् स्रंसितं विमानं सुरक्षाभित्तिमभिघात्य प्रज्वाल्य १७५ यात्रिकाः चत्वारः विमानसेवकाश्च  मृत्युमुपगताः। द्वौ विमानसेवकौ अद्भुतरीत्या रक्षां प्राप्तवन्तौ। 'जेजु एयर्' संस्थायाः बोयिंग् ७३७-८०० इति विमानमेव दुर्घटितम्। 

  ताय्लान्ट् राजधान्यां बाङ्कोके सुवर्णभूमि  अन्ताराष्ट्रियविमाननिलयात् मूवानं प्रति प्रस्थिते विमाने द्वौ अपहाय सर्वे कोरियाजनाः आसन्। यात्रासमये विमानं प्रति कश्चन पक्षी अभिघट्टितः इति कस्यचन यात्रिकस्य शब्दसन्देशः बहिरागतः इति 'न्यूस्- १' इति वृत्तान्तमाध्यमेन सूच्यते। विमानस्य पृष्ठस्थाने उपविष्टौ द्वावेव रक्षां प्राप्तौ।

Sunday, December 29, 2024

 मन्मोहनस्य वियोगे गुटेरस् बैडनश्च अनुशोितवन्तौ। 


सान्फ्रान्सिस्को> भूतपूर्वप्रधानमन्त्रिणः मन्मोहन् सिंहस्य देहवियोगे यू एन् सचिवप्रमुखः अन्टोणियो गुटरसः, यू एस् राष्ट्रपतिः जो बैडनश्च अनुशोचितवन्तौ। 

  भारतस्य आर्थिकविधानरूपीकरणे मन्मोहनसिंहः निर्णायकं भागं गृहीतवानिति अनुशोचनसन्देशे गुटरसेन प्रस्तुतम्। तथा च तस्य शासनकाले संयुक्तराष्ट्रसभां प्रति च शक्तं सौहार्दमभवदिति च तेनोक्तम्।

  मन्मोहनसिंहस्य नयतन्त्रदर्शनं राजनैतिकवीक्षणं च भारत-यू एस् राष्ट्रयोर्मध्ये उभयपक्षसंबन्धं सम्पुष्टमकरोदिति जो बैडनेन  प्रस्तुतम्।

 असर्बैजान विमानदुर्घटनायां क्षमां याचित्वा पुतिनः। 

मोस्को> ३८ जनानां मृत्युहेतुभूतायां विमानदुर्घटनायाम् असर्बैजानस्य राष्ट्रपतिम् इल्हाम अलियेवं रूसराष्ट्रपतिः व्लादिमिर् पुतिनः क्षमामयाचत। रष्यायाः व्योममण्डले आसीत्  दुर्घटना जाता इत्यत एव क्षमायाचनम्। 

  प्रत्युत, विमानं प्रति अग्निबाणाक्रमणं कृतमिति अभ्युपगन्तुम् उत्तरदायित्वं स्वीकर्तुं वा पुतिनः न सज्जः। ६७ यात्रिकैः सह बाकु इत्यस्मात् ग्रोस्नियां गतवत् असर्बैजानस्य विमानं रष्यायाः मिसैल् आक्रमणेन भञ्जितमिति वृत्तान्तमासीत्।

कृषकनेतुः जज्जितसिंहदलेवालस्य निराहारसत्याग्रहः; सर्वोच्चन्यायालयेन मध्यस्थता कृता।

  कृषकनेतुः जज्जितसिंहदलेवालस्य निराहारसत्यग्रहस्य प्रसङ्गे सर्वोच्चन्यायालयेन हस्तक्षेपं कृतम्। दलेवालं चिकित्सालयं प्रति नेतुं पञ्जाबस्य शासनं प्रति सर्वोच्चन्यायालयेन आदेशः प्रदत्तः। एतदर्थं पञ्जाबशासनं मासस्य एकत्रिंशत् दिनाङ्कपर्यन्तं कालं समायाचितम्। दलेवालस्य स्वास्थ्यदशा दुरितस्थितिं प्राप्ता अस्तीत्यतः न्यायालयेन एषः हस्तक्षेपः कृतः। न्यायाधिपौ सूर्यकान्तः उज्जलभूयानः च संयुक्ततया एषः आदेशः प्रदत्तः।


   केन्द्रसर्वकारस्य कृषकविरोधिनी नीतिः इति दोषारोपेन खनौरिनगरे जज्जितसिंहदलेवालेन एकमासात् अधिकं कालं यावत् निराहारसत्यग्रहः आरब्धः। पञ्जाबस्य शासनं वदति यत् दलेवालं चिकित्सालयं प्रति नेतुं प्रयासाः अस्याः कृषकसमूहस्य विघ्नेन वर्तते। अपि तु न्यायालयेन उक्तं यत् दलेवालं चिकित्सालयं प्रति नेतुं विघ्नं कुर्वद्भ्यः कृषकनेतृभ्यः आत्माहुति-प्रेरणा इति अपराधः आरोपितः भविष्यति।

Saturday, December 28, 2024

 मन्मोहनसिंहस्य अन्त्येष्टिकर्माणि अद्य। 

अनुशोच्य लोकनेतारः राष्ट्रनेतारश्च। 

राष्ट्रे साप्ताहिकम् औद्योगिक दुःखाचरणम्। 

राष्ट्रपतिः द्रौपदी मुर्मू मन्मोहनसिंहस्य भवनं प्राप्य आदराञ्जलिं समर्पयति। 

नवदिल्ली> गुरुवासरे रात्रौ  दिवंगतस्य भारतस्य पूर्वप्रधानमन्त्रिणः मन्मोहनसिंहस्य अन्त्येष्टिकर्माणि अद्य प्रभाते एकादशवादने दिल्ल्यां यमुनातीरस्थे निगमबोधघट्टे  सम्पत्स्यते। 

  श्वासकोशानुबन्धरोगेण दिल्ली एयिंस् आतुरालये परिचर्यायां सन्तः मन्मोहनसिंहस्य अन्त्यसमये पत्नी गुर् शरणकौर्, अपत्यानि उपीन्दरः, दमनः, अमृता , कोण्ग्रसदलस्य नेत्री प्रियङ्कागान्धी च समीपमासन्। 

  अद्य कोण्ग्रस् दलस्य राष्ट्रियास्थाने सामाजिकदर्शनानन्तरं मन्मोहनसिंहस्य अन्त्यक्रियाः सम्पत्स्यते। राष्ट्रे सर्वत्र साप्ताहिकम् औद्योगिक दुःखाचरणं विहितम्। अद्य मध्याह्नं  यावत् केन्द्रीय-राज्यसर्वकारसंस्थानां कृते विरामः प्रख्यापितः।

Friday, December 27, 2024

 सन्तोष् ट्रोफि - बङ्गालः, मणिपुरं पूर्वान्त्यं प्रविष्टवन्तौ। 

केरल-जम्मुकश्मीरं, मेघालय-सर्वीसस् प्रतिद्वन्द्वौ अद्य। 

हैदराबादः> ओडीशां ३ - १ इति लक्ष्यक्रमेण पराजित्य भूतपूर्ववीरदलः पश्चिमवंगः सन्तोष् ट्रोफि पादकन्दुकस्पर्धापरम्परायाः पूर्वान्त्यचक्रं प्राविशत्। अन्यस्मिन् प्रतिद्वन्द्वे दिल्लीं पराजित्य मणिपुरं पूर्वान्त्यचक्रं प्रविवेश। अधिकसमयं यावत् दीर्घिते प्रतिद्वन्द्वे ५ - २ इति क्रमेणैव मणिपुरस्य विजयः। 

   अद्यापि द्वे चतुर्थांशस्पर्धे विद्येते। अपराह्ने २. ३० वादने केरल-जम्मुकश्मीरदलयोः स्पर्धा भविष्यति। मेघालय-सर्वीसस् प्रतिद्वन्द्वः सायं ७. ३० वादने च भविष्यति।

Thursday, December 26, 2024

 भूतपूर्वप्रधानमन्त्री डो मनोमोहनसिंहः दिवंगतः।


नवदिल्ली> भारतस्य भूतपूर्वप्रधानमन्त्री , भारतेन दृष्टः श्रेष्ठः आर्थिककुशलः डो मनोमोहनसिंहः [९२] दिवंगतः। दिल्ल्यां एयिंस् आतुरालये श्वासरोगबाधितः सन्  परिचर्यायामासीत्। 

  भारतस्य आर्थिकपरिष्करणस्य सूत्रधारः आसीत् डो मनोमोहनसिंहः। २००४ आरभ्य दशसंवत्सराणि सः भारतस्य प्रधानमन्त्रिपदे व्यराजत। ततः पूर्वं १९८२ - ८५ पर्यन्तं रिसर्वबाङ्कस्य पालनाधिकारी आसीत्।

 एम् टि वर्यस्य वियोगे प्रधानमन्त्रिणः राष्ट्रपतेश्च अनुशोचः। 

सहस्राणाम् अन्त्याञ्जलिः ; अन्येष्टिक्रियाः पञ्च वादने। 

कोष़िक्कोट्> ह्यः रात्रौ दिवंगतस्य एम् टि वासुदेवन् नायर् वर्यस्य देहवियोगे केरलं दुःसन्तप्तहृदयेन अन्त्योपचारान् करोति। कोष़िक्कोट् कोट्टारं मार्गस्थं सितारा नामकं भवनं प्रति  सहस्रशः जनाः प्रवहन्ति। 

  प्रधानमन्त्री नरेन्द्रमोदी , राष्ट्रपतिः द्रौपदी मुर्मू च तस्य अक्षरकुलपतेः देहवियोगे अनुशोचिवन्तौ। साहित्यलोकस्य राष्ट्रियनष्ट इति राष्ट्रपतिना सामाजिकमाध्यमे सूचितम्। पार्श्ववत्कृतानां निश्शब्दजनानां कृते एम् टि वर्येः स्वतूलिकां चालिवानिति प्रधानमन्त्री 'एक्स्' माध्यमे सूचितवान्।

   १९३३ तमे वर्षे पालक्काट् जनपदे कूटल्लूर् ग्रामे एम् टि वासुदेवन् नायर् वर्यः जनि

 न्यून-संख्यामूल्यानां मुद्रापत्रस्य अलब्धिः।

अङ्कमालीस्थे पञ्जीकरणकार्यालयस्य समीपात्

   गोश्रीपुरम् (कोच्ची)> न्यून-संख्यामूल्यानि मुद्रापत्राणि लब्धुं वर्तमानकाले अतिक्लेशः अनुभूयते। सहस्ररूप्यकेभ्यः न्यूनमूल्यानां मुद्रापत्राणां दौर्लभ्यं प्रचलति। अधुना, न्यूनमूल्यानि मुद्रापत्राणि केवलं अन्तर्जालसुविधायाः माध्यमेन एव प्राप्यन्ते, किन्तु तेषां वितरणकेन्द्राणां अल्पता जनानां कृते महान् क्लेशः जनयति। अतः पत्रस्य लब्ध्यर्थं जनाः दिनानि बहूनि व्ययीकरणीयानि भवन्ति। कदाचित् अन्तर्जालसुविधायाः मन्दता अलब्धिः च समयहानिं जनयति। अतः अस्य समस्यायाः समाधानाय, जनसेवा-केन्द्रद्वारा वा सि.एस्.सी. केन्द्रद्वारा वा अन्तर्जालमुद्रापत्रस्य वितरणं सुगमं करणीयम्।



 पञ्च राज्येषु राज्यपालाः परिवर्तिताः। 

केरलस्य नूतनराज्यपालः राजेन्द्र आर्लेकरः।

केरलस्य नूतनराज्यपालः राजेन्द्र आर्लेकरः। 

 

नवदिल्ली> केरलमभिव्याप्य पञ्च राज्येषु राज्यपालाः परिवर्तिताः। केरलं विना बिहारं, मणिपुरं, ओडीशा, मिसोरामः इत्येतेषु राज्येषु नूतनराज्यपालाः नियुक्ताः।  केरल बिहार राज्ययोः राज्यपालौ मिथः परिवर्तितौ। 

  केरलात् आरिफ मुहम्मद खानः बिहारे, तत्रत्यः राजेन्द्र आर्लेकरः केरले च नियुक्तौ। 

  संघर्षभरिते मणिपुरे भूतपूर्वगृहसचिवः अजयकुमार भल्लः नियुक्तः। मिसोरामस्य वर्तमानीनराज्यपालः हरिबाबु कम्भम्पतिः ओडीशायां नियुक्तः। मिसोरामे भूतपूर्वकेन्द्रमन्त्री जनरल् वि के सिंहः राज्यपालो भविष्यति।

Wednesday, December 25, 2024

 कैरलीसाहित्यकुलपतिः एम् टि वासुदेवन् नायर् दिवंगतः। 


कोष़िक्कोट्> केरलस्य साहित्यकुलपतिः एम् टि वासुदेवन् नायर् [९१] अद्य रात्रौ दशवादने दिवंगतः। वरिष्ठः कथाकारः, अतुल्यः  आख्यायिकाकारः, श्रेष्ठः  चलच्चित्रकथारचयिता, असामान्यः  चलच्चित्रनिदेशकः इत्येवं कैरलीवाङ्मये व्यक्तिमुद्राम् अङ्कितवान् एम् टि महोदयः दशदिनानि यावत् आतुरालये परिचर्यायामासीत्। 

  एम् वर्यस्य अन्त्येष्टिक्रियाः श्वः - गुरुवासरे - कोष़िक्कोट् नगरस्थे स्वभवने सम्पत्स्यते।

यू एन् शान्तिसेनायाः कार्यवाहकः सर्वसैन्यनायकः अमिताभझा दिवंगतः।

    यू एन् शान्तिसेनायाः कार्यवाहकः सर्वसैन्यनायकः ब्रिगेडियर् अमिताभझा दिवंगतः। गोलानपर्वतेषु संयुक्तराष्ट्र-निरस्त्रण-निरीक्षणदलस्य (UN Disengagement Observer Force - UNDOF) उपसेनाप्रमुखरूपेण (Deputy Force Commander - DFC) सेवां कुर्वन्तः ब्रिगेडियर् अमिताभझा स्वास्थ्यसम्बद्धकारणैः मृतिं प्राप्तवन्तः इति भारतीयसेनया सूचितम्।

    मृत्युकाले ब्रिगेडियर् झा नियोगस्य कार्यवाहकः सर्वसैन्यनायकः अपि आसन्। तस्य परिवारं प्रति भारतीयसेनया शोकसन्देशः प्रेषितः। जनरल् उपेन्द्रद्विवेदी सहिताः अनेकाः वरिष्ठसेनान्यः अपि शोकम् निवेदितवन्तः।

 भारतीयगोमयस्य सुवर्णमूल्यम्, गल्फ् देशाः क्रीणनाय श्रेण्यां स्थिताः

   भारतस्य गोमयं गल्फ् देशाः  अत्यधिकमात्रया क्रीणाति। क्रूड्- तैलेन, गैस-भण्डारेण च धनीभूताः गल्फ् देशाः भारतीयं गोमयं क्रेतुम् अधिकम्   उत्साहं कुर्वन्ति। नवीनतया भारतात् १९२ मेट्रिक्-टन् गोमयं कुवैटदेशेन स्वीकृतम् । 


   आगामिकाले अपि गल्फ् देशेषु गोमयस्य आवश्यकता वर्धिष्यते इत्यतः भारतस्य आपूर्तिः अपि वर्धते।  एषः सन्दर्भः केवलं कृषकेभ्यः न, अपि तु भारतीय-सामुदायिक-व्यवस्थायाः अपि महतीम् आर्थिकसाहाय्यं दास्यतीति विशेषज्ञैः उच्यते।

 सन्तोष् ट्रोफी - चतुर्थांशस्पर्धाः श्वः आरप्स्यते।

केरलस्य प्रतियोगी जम्मु-काश्मीरम्। 

केरलस्य गतदिनस्पर्धायां समस्थितिः। 

हैदराबादः> सन्तोष् ट्रोफी पादकन्दुकस्पर्धापरम्परायाः चतुर्थांशप्रतियोगिताः श्वः आरप्स्यते। प्रथमस्पर्धायां वंग-ओडीशा प्रतिद्वन्द्वः भविष्यति।  केरलं जम्मु-काश्मीरेण सह शुक्रवासरे  स्पर्धिष्यते। 

  बी संघे केरलस्य अन्तिमस्पर्धायां तमिलनाटं प्रति समस्थितिमपालयत। अनेन केरलदलः अपराजितः सन्नेव चतुर्थांशं प्रविष्टः।

 दयालुः बैडः। 

३७ जनानां मृत्युदण्डः लघूकृतः। 

वाषिङ्टणः> यू एस् राष्ट्रस्य फेडरल् सर्वकारस्य आदेशानुसारं मृत्युदण्डविहितेषु ४० अपराधिषु ३७ जनानां दण्डः जीवनपर्यन्तरूपेण लघूकृत्य राष्ट्रपतेः जोबैडनस्य दयार्द्रप्रक्रमः। अधिकारनिवृत्तये दिनानि अवशिष्टमात्रे एव बैडनस्यायं कारुण्यदृष्टिः। १५०० अपराधिनां कारागारदण्डः सप्ताहद्वयात्पूर्वं बैडनेन लाघवं कृतमासीत्। 

  रक्षिपुरुषाणां सैनिकानां च घातकाः, उन्मादकवस्तुविक्रयिणः, वित्तकोशस्तेयकाश्च मृत्युदण्डात् लाघवविहितेषु अन्तर्भवन्ति। नियुक्तराष्ट्रपतिः डोनाल्ड ट्रम्पस्तु मृत्युदण्डः विपुलीकरणीयः इति प्रवदति।

Tuesday, December 24, 2024

 चलच्चित्रकारः श्याम बेनगलः दिवंगतः। 


मुम्बई> विश्वविख्यातः भारतीयचलच्चित्रकारः श्याम बेनगलः [९०] ह्यः दिवंगतः। निदेशकः, पटकथाकर्ता इत्येवं रीत्या प्रसिद्धः आसीत्। 

  अङ्कुर्, मण्टि, मन्तान्, निशान्त्, सर्दारी बीगम्, सुबैदा इत्यादीनि चलच्चित्राणि भारतीयचलच्चित्रसंस्कृतेः नवमार्गसूचकानि अभवन्। पद्मश्री,पद्मभूषणपुरस्काराभ्यां सम्मानितः सः सप्तवारं श्रेष्ठतमचलच्चित्रस्य राष्ट्रियपुरस्कारेण समादृतश्च। 

  २००५ तमे वर्षे दादासाहिबपुरस्कारेण सम्मानितश्च। षड्वर्षाणि राज्यसभांगः आसीत्।

 भारत-कुवैटयोः  सौहार्दं शक्तं भविष्यति। 

चत्वारि सन्धिपत्राणि हस्ताक्षरीकृतानि। 

नरेन्द्रमोदिने कुवैटे लब्धं स्वीकरणम्। 

कुवैट् सिटी> भारत - कुवैट् राष्ट्रयोर्मध्ये सौहार्दं सबलं कर्तुं प्रधानमन्त्री नरेन्द्रमोदी कुवैट् राष्ट्रस्य अमीर् शैख् मेषाल् अल् अहम्मद् अल् जाबिर् अल् सहाब् इत्यनेन सह मेलनं कृतवान्। रविवासरे  सम्पन्ने मेलने राष्ट्ररक्षा, सांस्कृतिकविनिमयः, कायिकक्षेत्रे सहयोगः, व्यापारविकासः इत्येतेषां विषयेषु सन्धिपत्राणि हस्ताक्षरीकृतानि।

  अमीर् वर्यस्य आमन्त्रणानुसारं शनिवासरे आसीत् मोदिनः कुवैट् प्राप्तिः। ४३ संवत्सराणामनन्तरमेव कस्यचन भारतप्रधानमन्त्रिणः कुवैट् सन्दर्शनम्। १९८१ तमे वर्षे इन्दिरागान्धिनः सन्दर्शनमासीत् इतःपूर्वम् सम्पन्नम्।

 प्रधानमन्त्रिणा नरेंद्रमोदिना क्रिस्तुमसस्य शुभकामनाः प्रदत्ताः।

    प्रधानमन्त्रिणा उक्तं यत् क्रिस्मसस्य दिनेः सदैव क्रिस्तुदेवस्य उपदेशः प्रेम्नः सौहार्दस्य च सन्देशं वहन्ति। पोप महोदयेन सह सम्पन्नः साक्षात्कारः अविस्मरणीयः इति सः अवदत्।

प्रधानमन्त्रिणा पोपः भारतं प्रति आमन्त्रितः। कार्डिनल-जॉर्जकूवक्काडस्य स्थानारोहणाय जॉर्जकुरियनस्य नेतृत्वे एका अधिकारिकप्रतिनिधिमण्डली प्रेषिता आसीत्।

Monday, December 23, 2024

 गासायाम् इस्रयेलस्य आक्रमणम् - २८ मरणानि। 

गासासिटि> युद्धविराममुद्दिश्य चर्चासु अभ्युन्नतिः अस्तीति मध्यस्थेषु उक्तवत्सु गासां प्रति इस्रयेलस्य आक्रमणम् अनुवर्तते। शनिवासरस्य आरात्रं कृते आक्रमणे २८ जनाः हताः। मध्यगासायां अबु सम्रपरिवारस्य गृहोपरि बोम्बवर्षेण १३ जनाः मृताः। 

  गासानगरे अभयार्थिशिबिरेण वर्तमानस्य विद्यालयस्य उपरि बोम्बः पतित्वा चतुरान् बालकानभिव्याप्य अष्ट जनाः मृत्युमुपगताः। विद्यालयमाधारीकृत्य प्रवर्तमानं हमासस्य नियन्त्रणकेन्द्रमासीत् लक्ष्यमिति इस्रयेलस्य भाष्यम्।

 नरेन्द्रमोदिने कुवैट् राष्ट्रस्य परमोन्नतबहुमतिः। 


कुवैट् सिटि> कुवैट् राष्ट्रस्य परमोन्नतबहुमतिः 'दि ओडर् ओफ् मुबारक् अल् कबीर् ' नामिका भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने सम्मानिता। उभयोरपि राष्ट्रयोः सुदृढसौहृदाय मोदिनः योगदानं पुरस्कृत्य एवायं पुरस्कार इति कुवैट् राष्ट्रियमाध्यमेन के यू एन् ए इत्यनेन निगदितम्।

  भारत-कुवैट् राष्ट्रयोः मिथः सहयोगस्य प्रमाणपत्रमेवायं पुरस्कार इति विदेशकार्यमन्त्रालयेन सूचितम्। कुवैट् राष्ट्रस्य पुरस्कारेण नरेन्द्रमोदिनः सञ्चये २० राष्ट्राणां बहुमतयः अभवन्।

Sunday, December 22, 2024

सर्वभाषाकविसम्मेलने संस्कृतस्य प्रातिनिध्यं व्यदधात् युवकवि: भट्टराईयुवराज:

    वार्ताहर:- कुलदीपमैन्दोला।

 ऐषमो दिसम्बर-एकोनविंश्यां प्रसार-भारती-समवायस्य मुम्बाय्या: आकाशाणीकेन्द्रस्य आयोजकत्वे दिसम्बरे एकोनविंश्यां गुरुवासरे सर्वभाषा- कवि-सम्मेलनम् अनुष्ठितम्। ध्येयम् अस्ति यदेतत् सर्वभाषाकविसम्मेलनम् विश्वस्मिन्नपि विश्वे बृहत्तमं कविसम्मेलनं वर्त्तते, यद्धि "गिनिज बुक ओफ् वर्ल्ड रिकॉर्ड" इत्यत्र समङ्कितम् अस्ति। अस्मिन् भव्ये दिव्ये सभ्ये च कविसम्मेलने   समवाप्तसाहित्याकादेमीयुवपुरस्कार: डॉ. युवराज: भट्टराई संस्कृत-कवित्वेन आमन्त्रितो भूत्वा संस्कृतमातु: गुणगौरवं प्रास्तौत्। अवधेयम् अस्ति यत् भट्टराईमहोदयस्य गणना आधुनिकेषु संस्कृतकविषु अन्यतमत्वेन विधीयते। अमुना देशस्य विविधेषु राष्ट्रियेषु अन्ताराष्ट्रियेषु च कविसम्मेलनेषु

 संस्कृतम् आभारतं दैनन्दिनव्यवहारभाषा भवितव्यम् - डो. एम् सि दिलीपकुमारः।

 केरले संस्कृतप्रबोधनवर्गशिबिरं समारब्धम्।

केरले सम्पद्यमानं संस्कृतप्रबोधनवर्गं भूतपूर्वः कुलपतिः एम् सि दिलीप कुमारः उद्घाटनं करोति। 
    कोच्ची> संस्कृतभारत्याः केरलप्रान्तीयस्य विश्वसंस्कृतप्रतिष्ठानस्य नेतृत्वे साप्ताहिकः आवासीय संस्कृतप्रबोधनवर्गः समारब्धः। पेरुम्पावूर् नगरस्थे अमृतविद्यालये आयोज्यमानस्य प्रबोधनवर्गस्य उद्घाटनं  श्रीशङ्कराचार्य -संस्कृत- विश्वविद्यालयस्य भूतपूर्वः कुलपतिः डाः एम् सि दिलीपकुमारः अकरोत्। 

   दैनंदिनव्यवहारेणैव संस्कृतभाषायाः अमरभाषा इति पदं सार्थक्यं भवेदिति एम् सि दिलीपकुमारः तस्योद्घाटनभाषणे अवदत्। "इतरभाषासु एकस्याशयस्य प्रकाशनार्थं चत्वारि पञ्च वा वाक्यानि उपयुज्यन्ते। किन्तु तदेवार्थप्रकाशनाय एकमेव  संस्कृतवाक्यं पर्याप्तं भवति। सङ्गणकयन्त्रेषु अत्यन्तमुपयुज्यमाना भाषा इति वैशिष्ट्यं सार्थकमभविष्यत्तर्हि एषा नित्यव्यावहारिकी भवेत्।" सः उक्तवान्। 

  उद्घाटनसभायां विश्वसंस्कृतप्रतिष्ठानस्य केरलप्रान्ताध्यक्षः डा. पि के शङ्करनारायणः अध्यक्षपदमलङ्कृतवान्। संस्कृतभारत्याः अखिलभारतीय-प्रशिक्षणप्रमुखेन श्रीरामेण प्रास्ताविकभाषणं कृतम्। अखिल भारतीयसहकार्यदर्शी डा. पि नन्दकुमारः मुख्यभाषणमकरोत्।पेरुम्पावूर् श्रीस्वामिवैद्यगुरुकुलस्य वैद्यः डो.अभिलाष् वि आर् नाथः, दक्षिणक्षेत्रविद्वत्परिषत्प्रमुखः डा. ई एन् ईश्वरः च  आशंसामर्पितवान्तौ। शिबिरस्य मुख्यसंयोजकः पि के राजेष् कुमारः स्वागतं , प्रतिष्ठानस्य  एरणाकुलं विभागसंयोजकः विवेक विजयः कृतज्ञतां च व्याजहार।

 जय्पुरे ट्रक् यानं पाकवातकवाहकेन सह संघट्टितम् - १४ जनाः मृताः।

बहूनि यानानि अग्निसात्कृतानि। 

ट्रक्दुरन्तस्य दृश्यम्। 

जयपुरं> राजस्थाने   जयपुरं-अजमीर राजमार्गे शुक्रवासरस्य प्रत्युषसि जयपुरे रासवस्तुसम्भृतं ट्रक् यानं अन्येन एल् पि जि सम्भृतयानेन सह संघट्य जाते अग्निप्रकाण्डे १४ जनाः मृताः। ४५ जनाः आहताः। 

   एल् पि जि सम्भृतयाने ट्रक् यानस्य आघातेन पाकवातकस्य बहिः प्रसरणमभवत्। समीपस्थानि ३७ यात्रावाहनानि अग्निसात्कृतानि च। ३०० मीटर् परिधौ अन्तर्भूतानि यानानि पूर्णतया अग्निसात्कृतानि। 

  दुर्घटनायामस्यां राष्ट्रपतिः प्रधानमन्त्री राज्यमुख्यमन्त्री इत्यादयः अनुशोचं प्रकाशितवन्तः।

 सन्तोष् ट्रोफी - सर्वीसस्, वंगदलं च चतुर्थांशचक्रं प्राप्तम्। 

हैदराबादः> सन्तोष् ट्रोफी पादकन्दुकस्पर्धापरम्परायां ए संघात् पश्चिम वंगः तथा सर्वीसस् दलं च चतुर्थांशचक्रं प्राविशत्। वंगदलं संघवीरः इति सविशेषतामर्हति। गतदिने सम्पन्ने प्रतिद्वन्द्वे राजस्थानं २ - ० इति लक्ष्यकन्दुकरीत्या पराजित्य एव सर्वीससदलं चतुर्थांशचक्रं प्राविशत्।

Saturday, December 21, 2024

 साकिर् हुसैन् वर्याय यू एस् मध्ये अन्त्यनिद्रा। 


सान्फ्रन्सिस्को> सोमवासरे दिवंगतः विश्वविख्यातः ऊर्ध्वकवादकः उस्ताद् साकिर् हुसैन् वर्यः अमेरिकायां अन्त्यनिद्रां प्राप। गुरुवासरे सान्फ्रन्सिस्कोस्थे फेण्हुडे तस्य अन्त्येष्टिकर्माणि सम्पन्नानि। शतशः आराधकाः कर्मण्यस्मिन् भागं गृहीतवन्तः। उस्तादवर्यस्य आदररूपेण तालकुशलस्य  शिवमणिवर्यस्य नेतृत्वे सङ्गीतज्ञाः सङ्गीतार्चनां कृतवन्तः। 

  श्वासकोशाधिष्ठितरोगेण भारतीयसमयानुसारं सोमवासरे उषसि सान्फ्रन्सिस्कोमध्ये आसीत् उस्तादवर्यस्य अन्त्यम्। ७३ वयस्कः आसीत्। १९५१ तमे वर्षे विश्रुतोर्ध्वकवादकः उस्ताद् अल्ला राख, बवी बीगम् इत्यनयोः पुत्ररूपेण मुम्बय्यां माहिमे आसीत् साकिर् हुसैनस्य जननम्।

 भारत-वेस्टिन्डीस् महिला टि - २०

भारतस्य विजयः , परम्परा। 

मुम्बई>  वेस्टिन्डीसेन सह सम्पन्नायां महिलानां स्पर्धात्रयात्मक टि २० क्रिकट् क्रीडापरम्परायां स्पर्धाद्वयमपि विजित्य भारतं परम्परां स्वायत्तीचकार। गतदिने मुम्बय्यां सम्पन्ने तृतीयप्रतिद्वन्द्वे भारतस्य ६० धावनाङ्कानां विजयः अभवत्। 

  तृतीये प्रतिद्वन्द्वे भारतं २० क्षेपणचक्रे चतुर्णां द्वारकाणां विनष्टेन २१७ धावनाङ्कान् सम्प्राप। महिला टि २० मध्ये भारतस्य उच्चतमा अङ्कप्राप्तिः भवत्येषा। प्रत्युत्तररूपेण वेस्टिन्डीसः २० क्षेपणचक्रे ९/१५७।

 जापानस्य आकाशबाणः विपरिवृत्य अधोमुखः भूत्वा भूमौ पपात।

  टोक्कियो> जापानस्य स्पेस् वण् नाम संस्थायाः निजीयबाह्याकाशविक्षेपकस्य 'केय्रोस्' नाम अग्निबाणः पुनरपि पराजयं प्राप्तः। विक्षेपणानन्तरं निमेषाभ्यन्तरे नियन्त्रणं विना अधोमुखः सन् भूमौ अपतत्। भूमेः ५०० कि. मि. विदूरस्थं भ्रमणपथं प्रति उपग्रहं विक्षेप्तुमेव परिश्रमः कृतः। 'स्पेस् वण्' संस्थायाः केय्रोस् नाम बाह्याकाशविक्षेपयानाय एव दुर्गतिरियं दुरापन्ना।

Friday, December 20, 2024

 डिङ्क डिङ्क नाम नूतनरोगबाधया ३०० अधिकजनाः चिकित्सायां वर्तन्ते।

 उगाण्ड देशे डिङ्क डिङ्क नाम रोगः सर्वत्र प्रसरति। त्रिसहस्राधिकाः  (३००)  जनाः रोगस्य चिकित्सायां वर्तन्ते इत्यस्ति प्रतिवेदनम्। बण्डिबुग्यो नाम जनपदे बहवः रोगिणः परिचर्यायां वर्तन्ते। स्त्रीषु बालिकासु च रोगः प्रसरति। ज्वरः, शरीरकम्पनम् इत्यादीनि रोगलक्षणानि भवन्ति। आन्टिबयोडिक् औषधानि एव इदानीं रोगशमनाय रोगिभ्यः दीयन्ते इति स्वास्थ्यमन्त्रालयाधिकारिणा डो. कियिट्टा क्रिस्टफर् महोदयेन उक्तम्।

 सन्तोष् ट्रोफी - केरलं चतुर्धांशं प्राविशत्। 

हैदराबादः> सन्तोष् ट्रोफी पादकन्दुकस्पर्धापरम्परायाः बी संघस्य तृतीये प्रतिद्वन्द्वे केरलं ओडीशां प्रत्युत्तरहीनेन लक्ष्यकन्दुकद्वयेन पराजयत।  अनेन विजयेन केरलं चतुर्धांशचक्रं प्राविशत्। 

  ए, बी संघयोः स्पर्धात्रयचक्रं सम्पूर्णम्। चक्रद्वयमवशिष्यते। २२,२४ दिनाङ्कयोः यथाक्रमं दिल्ली, तमिलनाट् दले च पराजित्य संघवीरता प्रदर्शनीया इति केरलस्य लक्ष्यम्।

 जम्मु-काश्मीरे पञ्च भीकरवादिनः व्यापादिताः। 

श्रीनगरं> जम्मु-काश्मीरे कुलगाम् जनपदे सुरक्षासेनया सह प्रतिद्वन्द्वे पञ्च हिस्बुल् मुजाहिदीनीयाः भीकरवादिनः  व्यापादिताः। हताः के के इति प्रत्यभिज्ञाताः। तेष्वेकः संघटनस्य कमान्डर् पदीयः फरूख् अहम्मद भट्टः अस्ति। 

  द्वौ सैनिकावपि व्रणितौ। बुधवासरे रात्रौ बहिबागसमीपे भीकराः निलीनाःवर्तन्ते इति वृत्तान्तस्य आधारे कृते मार्गणे आसीत् प्रतिद्वन्द्वः।

Thursday, December 19, 2024

 ओस्कार् - 'लाप्त लेडीस्' निरस्तम्। 

लोसाञ्जलस्> ओस्कार् चलच्चित्रपुरस्काय परिगण्यमानायाः संक्षिप्तावल्याः भारतस्य 'लाप्त लेडीस्' इति चलच्चित्रं बहिर्नीतम्।  भारतस्य  औद्योगिकसमर्पणमासीत् किरण् रावस्य निदेशकत्वे साक्षाकृतमिदं चित्रम्। 

  प्रत्युत, गुनीत् मोङ्क कपूरेण निर्मितं चलच्चित्रम् 'अनूजा' नामकं ह्रस्वचित्रविभागस्य संक्षिप्तावल्याम् अन्तर्भूतम्। आदं जे ग्रीव्स्, सुचित्रा मत्तायी इत्येतौ अस्य निदेशकौ।

 न्याय. यादवाय वाग्दण्डः। 

न्याय.शेखरकुमार यादवः। 

नवदिल्ली> विश्वहिन्दुपरिषदः कार्यक्रमे इस्लामविभागं विरुध्य विवादपरामर्शं कृतवते अलहबाद उच्चन्यायालयस्य  न्यायमूर्तिः शेखरकुमार यादव इत्यस्मै सर्वोच्चन्यायालयस्य न्यायाधिपवृन्देन प्रबोधनपूर्वकः वाग्दण्डः विहितः। न्यायमूर्तिपदस्य आभिजात्यं परिपालयितव्यमिति यादवः उपदिष्टः। सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः सञ्जीव खन्नः इत्यस्य नेतृत्वे पञ्चाङ्गयुक्तेन न्यायमूर्तिवृन्देनैव प्रबोधनात्मकः उपालम्भः विहितः।

 अर्बुदरोगनिरोधकं वाक्सिनः  रष्येण निर्मितः । 2025 तमे वर्षे निःशुल्कं वितरणं भविष्यति।

  अर्बुदरोगनिरोधकं वाक्सिनम् आविकृतमिति रष्यस्य  स्वास्थ्यमन्त्रालयेन घोषितम्। अर्बुदरोगं विरुद्ध्य एम्-आर्-एन्-ए वाक्सिनं निर्मितमिति विज्ञापनं कृतम्। रष्यस्य स्वास्थ्य-मन्त्रालयाधीनस्य रडियोलजी मेडिकल् रिसर्च् केन्द्रस्य सामान्यनिदेशकः आन्द्रियः कप्रिनः इत्यनेन एतद्विषये सूचितम्। वाक्सिनं 2025 तमे वर्षस्य आरम्भे एव रोगिणः प्रति निःशुल्कं वितरिष्यते इति घोषणं कृतम्। अर्बुदरोग-वाक्सिनानां शीघ्रं विकासं भविष्यति इति रष्यस्य राष्ट्रपतिना व्लादिमीर पुतिनेन पूर्वं ज्ञापितम्।

 नाविकसेनायन्त्रनौका-यात्रानौकाघट्टनं - १३ मरणानि। 

रक्षाप्रवर्तनस्य दृश्यम्। 

१०१ जनाः रक्षिताः। 

मुम्बई> 'गेट् वे ओफ् इन्डिया' इत्यस्मात् विनोदयात्रिकैः सह 'एलिफन्ट् केव्' स्थानं प्रति गतवत्यां यन्त्रनौकां नौसेनायाः यन्त्रनौकाघट्टनेन दुरापन्नायां दुर्घटनायां १३ जनाः जले निमज्य मृताः। एषु त्रयः नौसेनाङ्गाः, इतरे उल्लासयात्रिकाश्च। बुधवासरे सायं चतुर्वादने उरानतटसमीपमासीत् दुर्घटना।

  उल्लासनौकायां ११० अधिकाः जनाः आसन्। १०१ जनाः रक्षिताः। यात्रिकेषु विदेशिनः अपि सन्तीति सूच्यते। 

  आहतेषु चतुर्णामवस्था तीव्रा भवतीत्यकः मृत्युसंख्यायां वर्धनं सम्भाव्यते।

Wednesday, December 18, 2024

 आफ्रिकस्य फ्रान्स् -द्वीपः मयोट्  चक्रवातेन धूलीकृतः ।

चक्रवातात् पूर्वम् - अनन्तरं च

   चिडो नाम चक्रवातेन फ्रान्स् राष्ट्रान्तर्गते मयोट्-द्वीपः धूलीकृतः। २०० कि.मी. वेगेन आसीत् वातवीचनम्। सर्वकारस्य कार्यालयानि, आतुरालयानि च भग्नानि। नारिकेलवृक्षाः मूलबन्धं विच्छित्य गृहाणाम् उपरि पतिताः। ९० संवत्सराणाम् अभ्यन्तरे जायमानेषु चक्रवातेषु घोरतमः भवति अयम्।

  फ्रान्स् राष्ट्रस्य १८ मण्डलेषु एकः अस्ति मयोट्। ३९ कि.मी. दीर्घता, २२ कि.मी. आयतिः च अस्य अस्ति। यूरोप्-संयुक्तराष्ट्रान्तर्गतः दूरस्थदेशः भवति इति अस्य विशेषता। © https://www.samprativartah.in

सम्पादकस्य सूचना - वार्ताः यथेच्छं स्वीकरोतु । यथेच्छं प्रसारयतु । किन्तु प्रसारणे https://www.samprativartah.in इति अन्तर्जालसूत्रमपि निश्चयेन देयम् ।

 एकराष्ट्रम्; एकनिर्वाचनं - विधेयकं संसदि अवतारितम्। 

विधेयकं संयुक्तसमित्याः परिशोधनाय समर्पितम्। 

नवदिल्ली>  विपक्षदलानां प्रतिषेधे वर्तमाने एकराष्ट्रम्; एकनिर्वाचनम् इति विधेयकं लोकसभायां सर्वकारेण अवतारितम्। विपक्षस्य आवश्यमनुसृत्य मतदानप्रक्रियया एव अवतरणानुमतिः लब्धा। विधेयकावतरणमनुकूल्य २६९ सदस्याः, प्रतिकूल्य १९८ सदस्याश्च मतदानम् अङ्कितवन्तः। 

  केन्द्रनियममन्त्री अर्जुन मेघवालः विधेयकमवतारितवान्। विधेयकं संयुक्तसभासमित्यै [जे पि सि] समर्पणीयमिति आदेशः सर्वकारेण अङ्गीकृतः। सभाद्वयस्य अङ्गान् अन्तर्भाव्य सभापतिः जे पि सि समितिं रूपीकरिष्यति।

 रष्यायाः आणवसेनाधिकारी युक्रेनेन व्यापादितः। 

मोस्को> रष्यायाः आणव-जैव-रासायुधसंरक्षणसेनायाः अधिकारी लेफ. जनरल् इगोर् किरिलोवः [५४] मोस्को मध्ये आयोजितेन द्विचक्रिकायानस्फोटनेन हतः। गतदिने प्रभाते किरिलोवस्य भवनसमीपमासीत् स्फोटनम्। विदूरनियन्त्रितयन्त्रेण कृतस्य  स्फोटनस्य पृष्ठतः युक्रेन इति सूच्यते। 

  रष्यायाः युद्घे रासायुधप्रयोगमालक्ष्य किरिलोवस्य उपरि दण्ड्यपराधाः युक्रेनेन विहिताः आसन्। इतः पूर्वमपि रष्यायाः सेनाप्रमुखाः रष्यायां युक्रेनेन हताः आसन्।

Tuesday, December 17, 2024

 दिसनायके-नरेन्द्रमोदी मेलनं सम्पन्नम्। 

विविधमण्डलेषु परस्परसहयोगवर्धनाय निर्णयः। 


नवदिल्ली> श्रीलङ्कायाः राष्ट्रपतिः अनुर कुमार दिसनायकः भारतस्य प्रधामन्त्रिणं नरेन्द्रमोदिनं  सोमवासरे सम्मिलितवान्। राष्ट्ररक्षा ऊर्ज व्यापार समुद्रगतागत डिजिटल मण्डलेषु परस्परसहयोगं संवर्धयितुं उभयोरपि राष्ट्रनेतारयोः मध्ये सम्मतिः जाता। 

  रामेश्वरात् तलैमान्नारं प्रति यन्त्रनौकासेवाम् आरब्धुं निश्चिकाय। धीवराणां प्रकरणेषु मानविकमूल्ययुक्तं व्यवहारं स्वीकरिष्यति। 

  दिल्ल्यां हैदराबादभवने सम्पन्नस्य मेलनानन्तरं कृते पत्रकारमेलने  भाविनी मार्गरेखा उभाभ्यां राष्ट्राभ्याम् अङ्गीकृतमिति निगदितम्।

 भारतीयाः ११ कर्मकराः जोर्जियायां मृताः। 

टिबिलिसि> जोर्जियायाराष्ट्रस्य पर्वतप्रदेशस्थे सुखवासकेन्द्रे १२ कर्मकराः मृताः। एषु ११ जनाः भारतीयाः भवन्ति। 

  समुद्रतलात् २२००मीटर्मिते  उच्चस्तरे वर्तमाने गुडौरिनामकनगरे 'स्की' इति सुखवासकेन्द्रस्य भोजनशालायामेव एते मृतरूपेण दृष्टाः। कार्बण् मोणोक्सैड् इति विषवायोः श्वसनात् स्यात् मृत्युरभवदिति मन्यते।

Monday, December 16, 2024

 त्रिदिवसीयसन्दर्शनाय श्रीलङ्काराष्ट्रपतिः भारतं प्राप्तवान्। 

भारतं प्राप्तं श्रीलङ्काराष्ट्रपतिं अनुर कुमार दिसनायके वर्यं [वामे] केन्द्रमन्त्री एल् मुरुगः स्वीकरोति। 

नवदिल्ली> दिनत्रयात्मकसन्दर्शनाय श्रीलङ्कायाः राष्ट्रपतिः अनुर कुमार दिसनायके वर्यः ह्यः सायं भारतं प्राप्तवान्। सेप्तम्बरमासे राष्ट्रपतिरूपेण चयनानन्तरं प्रथममेव तस्य भारतसन्दर्शनम्। केन्द्रमन्त्री एल् मुरुगः  नयतन्त्राधिकारिणः च मिलित्वा तं स्वीकृतवन्तः। 

  राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी इत्यादिभिः सह तस्य मेलनं भविष्यति। दिसनायकेन सह  श्रीलङ्कायाः विदेशकार्यमन्त्री उप वित्तकार्यमन्त्री च तमनुगच्छतः।

 महाराष्ट्रे मन्त्रिमण्डलं विकसितम्। 

३९ मन्त्रिणः ; महिलामन्त्रिणः ४। 

 नागपुरम्> मुख्यमन्त्री, द्वौ उपमुख्यमन्त्रिणौ इत्येतेषां शपथवाचनस्य दशदिनानन्तरं महाराष्ट्रे देवेन्द्र फड्नविसस्य नेतृत्वे विद्यमानस्य  मन्त्रिमण्डलस्य विकासः सम्पन्नः। चतस्रः महिलाः अभिव्याप्य ३९ मन्त्रिणः रविवासरे शपथवाचनं कृतवन्तः। 

   नागपुरे राजभवने आयोजिते कार्यक्रमे राज्यपालः सि पि राधाकृष्णः सत्यशपथं कारितवान्। अनेन देवेन्द्र फड्नविसस्य मन्त्रिमण्डलस्य अङ्गबलं ४२ अभवत्। भाजपा - २०, शिवसेना - १२, एन् सि पि - १० एवमेव मन्त्रिमण्डले राजनैतिकदलानां मन्त्रिसंख्या। तेषु ३३ केबिनट्पदीयाः मन्त्रिणः, ६ सहमन्त्रिणश्च भवन्ति।

 सन्तोष् ट्रोफी पादकन्दुकस्पर्धा - केरलस्य विजयः। 

  हैदराबादः> हैदराबादे रविवासरे आरब्धायाः सन्तोष ट्रोफीपादकन्दुकस्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे केरलदलं विजयश्रीलालितमभवत्। प्रतियोगिनं गोवादलं ४ - ३ इति लक्ष्यकन्दुकक्रमेण पराभवं चकार।

 सिरियायां विद्यालयाः उद्घाटिताः। 

     डमास्कसः> सप्ताहद्वयं यावत् दीर्घितस्य सायुधान्दोलनस्यानन्तरं सिरियायां जनजीवनं पूर्वावस्थां प्राप। राष्ट्रे विद्यालयाः कलालयाश्च गतदिने उद्घाटिताः। उच्च-उच्चतरछात्राणां कृते कक्ष्याः आरब्धाः। किन्तु उपस्थितिः बहुन्यूनमासीत् - ३०%। अतीतपञ्चदिनाभ्यन्तरे तुर्की सीमाद्वारा ७६०० सिरियीयाः अभयार्थिनः स्वराष्ट्रं प्रति न्यवर्तन्त इति सूच्यते।

Sunday, December 15, 2024

 तबल-विद्वान् पद्मविभूषणः जाकीरहुसैनः दिवंगतः। 

      उध्वर्क(तबल)विद्वान् पद्मश्री जाकीरहुसैनः दिवंगतः। अमेरिका-राष्ट्रस्य सान्-फ्रान्सिस्को-नगरस्थे आतुरालये हृदयाघातेन तस्य निधनम् अभवत्।


 गासायाम् इस्रयेलस्य आक्रमणं - नगरसभापिता हतः। 

गासासिटि> गासायाः विविधस्थानेषु शनिवासरे इस्रयेलेन कृते आक्रमणे नगरसभापितरमभिव्याप्य १७ जनाः हताः। मध्यगासायां डयर् अल् बला नामके स्थाने प्रवृत्ते बोम्बाक्रमणे नगरसभापिता डयिब् अल् जारो इत्येषः मृतः। 

  अभयार्थिशिबिररूपेण प्रवर्तमाने विद्यालये बोम्बाक्रमणेन  सप्त जनाः मृत्युमुपगताः। 

  प्रत्युत, लबनने, सिरियायां च इस्रयेलः आक्रमणं तीव्रमकरोत्। लबनने एकः हतः।

Saturday, December 14, 2024

 ट्रम्पस्य विवासभीषायाम् अयुतशः भारतीयाः। 

वाषिङ्टणः> जनुवरिमासे यदा राष्ट्रपतिपदं प्राप्स्यति, अचिरेणैव अमेरिक्काचरित्रे महत्तमस्य विवासप्रक्रमस्य राष्ट्रं साक्षी भविष्यतीति नियुक्तराष्ट्रपतेः डोनाल्ड ट्रम्पस्य भीषा। एषा १७,९४० भारतीयानां विपरीताय भविष्यति। 

   अव्यवस्थापितरूपेण यू एस् राष्ट्रमधिवसन्तः १५ लक्षं   विदेशीयाः सन्तीति राष्ट्रस्य Immigration and Customs Enforcement संस्थया निर्णीतं, तेषां गणनावली नवम्बरमासे बहिर्नीता च। तेषु १७,९४० भारतीयाः अन्तर्भवन्ति। बहवः गुजरात्, पञ्चाब् , आन्ध्रप्रदेशराज्येभ्यः सन्ति।

 अल्लु अर्जुनः निगृहीतः ; अविलम्बेन प्रातिभाव्यं च। 

अद्य प्रभाते कारागारात् मुक्तिः। 

अल्लु अर्जुनः। 

 हैदराबादः> 'पुष्प २' इति चलच्चित्रस्य प्रथमप्रदर्शने जातेन जनसम्मर्देन युवती मृता इत्यस्मिन् प्रकरणे चलच्चित्रस्य नायकनटः अल्लु अर्जुनः हैदराबाद आरक्षकैः निगृहीतः तथापि तेलङ्काना उच्चन्यायालयस्य प्रातिभाव्यात् शनिवासरे प्रभाते विमोचितः।

  प्रकरणेSस्मिन् नम्पिल्लि धर्माध्यक्षन्यायालयेन १४ दिनात्मककारागारवासः विहितः च। किन्तु होराणामाभ्यन्तरे तेलङ्कानस्य उच्चन्यायालयेन प्रातिभाव्यं विहितम्। चलच्चित्रस्य  प्रथमप्रदर्शने अल्लु अर्जुनस्य सान्निध्यं तत्रासीदिति कारणेन मृत्योः उत्तरदायित्वं प्रथमदृष्ट्या तस्मै  दातुं न शक्यते इति उच्चन्यायालयेन निरीक्षितम्।

 कर्षकनेतुः निराहारे परिहारः आवश्यकः - सर्वोच्चन्यायालयः। 

नवदिल्ली> पञ्चाब-हरियानसीमायां १८ दिनानि यावत् अनशनान्दोलनं क्रियमाणस्य कृषकनेतुः विषये परिहारप्रक्रियाः अवलम्बनीयाः इति सर्वोच्चन्यायालयेन केन्द्रसर्वकारं पञ्चाबसर्वकारं च आदिष्टम्। पञ्चाबस्य कृषकनेता जगजीत सिंह दल्लेवालः खनोरिसीमायां नवम्बर् २६ तमदिनाङ्कतः अनशनान्दोलनं क्रियमाणस्य  प्राणाः अमूल्याः इति न्यायाधीशौ सूर्यकान्तः उज्जल् भूमनः च निगदितवन्तौ।

Friday, December 13, 2024

 तमिल् नाट् राज्ये अतिवृष्टिः अनुवर्तते।

    चेन्नै> बङ्गसमुद्रभागे जायमानेन न्यूनमर्दस्य प्रभावेन तमिलनाट् राज्ये वृष्टिः अनुवर्तते। निम्नप्रदेशाः जलेन आप्लाविताः वर्तन्ते। श्रीपेरुम्बत्तूर् पेरुवण्णामलै आदि प्रदेशे जलोपलवः अत्यधिकः अस्ति। तिरुनेल्वेली तेङ्काशि जनपदयोः व्यापकनाशः अभवत् ।

 विश्वविजयी गुकेशः तरुणराजः।

    स्वस्य अष्टादशतमे वयसि विश्वचतुरङ्गवीरतास्पर्धायां धैर्येण आत्मविश्वासेन च प्रतियोगिनं पराजित्य चतुरङ्गकिरीटं शिरसि धृतवानस्ति भारतपुत्रः दोम्मराजु गुकेशः।  आद्यन्तमुद्वेगभरितस्य आकाङ्क्षापूर्णस्य स्पर्धाचक्रस्य अन्ते गुकेशस्य विजयः कोटिशः भारतीयानामभिमानं संवर्धयति। न्यूनातिन्यूनवयस्कः विश्ववीरः अभवत् गुकेशः। 

  २२ तमे वयसि विश्वकिरीटं धृतवतः गारि कास्परोवस्य [रूसीयः]  'रिकोड्' एव गुकेशेन भञ्जितम्।

  "गतदशवर्षाणि यावत् विश्वकिरीटमिति  मम स्वप्नं साक्षात्कर्तुं उद्योगी आसम्। अन्तिमप्रतियोगितायाम् आकस्मिकविजयः मां विकाराधीनमकारयत्। प्रतियोगी मह्यमेकं सन्दर्भमदात्। तमहं सम्यक् उपयुक्तवान्। डिङ् लिरनः वस्तुतया वीर एव। यथार्थवीर इव सः क्रीडितवान्। प्रतियोगिनमधिकृत्य  आदरेण गुकेशः  उक्तवान्।

विजयानन्तरं गुकेशस्य आह्लादः। 

 उत्तराखण्डे संस्कृतशिक्षकाणां त्रिदिवसीयप्रशिक्षणशिबिरम् आयोक्ष्यते।

कुलदीपमैन्दोला। हरिद्वारम्।

 उत्तराखण्डराज्ये संस्कृतशिक्षायाः विकासं प्रति समर्पितं त्रिदिवसीयं विशेषप्रशिक्षणशिबिरं १३, १४, १५ दिसम्बरदिनाङ्केषु उत्तराखण्डसंस्कृत-अकादम्यां हरिद्वारे आयोज्यते। अयं कार्यक्रमः संस्कृतशिक्षामन्त्रिणः माननीयधनसिंहरावतस्य निर्देशनस्य अन्तर्गतं क्रियते।

   अस्मिन् प्रथमचरणे प्रदेशस्य पञ्चाशत् (५०) संस्कृतशिक्षकाणां शिक्षणकौशलविकसनाय, आधुनिकशिक्षणप्रणालीभ्यः

 भारवाहकदुर्घटना - चतस्रः छात्राः मृताः। 

पालक्काट्> केरले पालक्काट् - कोष़िक्कोट् राजवीथ्यां भारवाहकयानं शरीरं पतित्वा परीक्षानन्तरं गृहं प्रतिगच्छन्त्यः चतस्रः बालिकाः मृत्युमुपगताः।  गतदिने सायं ३. ४५ वादने करिम्पनयंपाटमिति स्थाने  आसीदियं दुर्घटना। 

  करिम्पा सर्वकार उच्चतरविद्यालये अष्टमी कक्ष्याछात्राः रिदा फातिमा, इर्फाना षेरिन्, निता फातिमा, अयिषा इत्येताः वीथीपार्श्वेण चलन्त्यः भारवाहकं नियन्त्रणं विनष्ट्य एतासां उपरि अपतत्। बहुदुष्करेणैव बालिकाः बहिर्नीताः। आतुरालयप्राप्तेः प्रागेव सर्वेषां मृत्युरभवत्।

  तदा वर्षः वर्षन्नासीत्। अत एव वाहनस्य नियन्त्रणं विनष्टमिति सूच्यते।  वीथीनिर्माणे अपाक एव दुर्घटनाकारणमित्यारोप्य तद्देशवासिनः जनाः मार्गोपरोधमकुर्वन्।

Thursday, December 12, 2024

 डि गुकेशः विश्वचतुरङ्गवीरः। 


सिंगपुरं> अन्तिमविजयः डि गुकेशाय। विश्वचतुरङ्गवीरतास्पर्धायाः अन्तिमप्रतिद्वन्द्वे भारतस्य दोम्मराजु  गुकेशः वर्तमानकालीनवीरः चीनीयः डिङ् लिरनः इत्येनं पराजितवान्। विश्वनाथन् आनन्दात् परं कश्चन भारतीयः विश्वचतुरङ्गवीरपदं प्राप।

   अनेन विजयेन न्यूनातिन्यूनवयस्कः लोकवीरः अभवत् १८ वयस्कः गुकेशः। गुकेशस्य विजये राष्ट्रपतिः प्रधानमन्त्री च अभिनन्दयति स्म।

 राजस्थानस्य कूपे पतितस्य बालकस्य निधनम्, ५६ होराणां  रक्षाकर्मं निष्फलम्।

   राजस्थानराज्ये कूपे पतितः ५ वर्षीयः बालकः मृतः। ५६  होराभ्यः अधिकं कालं यावत् रक्षणप्रयत्नः कृतः, किन्तु अन्ते बालकस्य प्राणान् रक्षितुम् अशक्यमभवत्।

    सोमवासरे सायं बालकः आर्यः कालीघाट्ग्रामस्य एकस्मिन् क्रीडाक्षेत्रे क्रीडन् आसीत्। तदा सः अकस्मात् नालीकूपे पतितः। प्रारम्भे तु रज्जु-साधनादिभिः तम् उद्धर्तुं प्रयत्नः कृतः, किन्तु यथोचितं फलम् न प्राप्तम्। बालकस्य प्राणानां पालनाय नलिकाद्वारा प्राणवायुः प्रदत्तः।

    राष्ट्रियदुरन्तनिवारणसेना (NDRF), राज्यदुरन्तनिवारणसेना (SDRF), नागरिकरक्षण-दलानि च  रक्षणकार्ये सम्मिलितानि आसन्। अन्ते, चिकित्सालयं प्रेषितस्य बालकस्य प्राणरक्षणं कर्तुम् अशक्यमभवत्।

 तन्तै पेरियार् स्मारकम् अद्य उद्घाट्यते।

तन्तै पेरियार् वर्यः। 

 

वैक्कम्> केरले वैक्कं स्थाने तमिलनाट् सर्वकारस्य स्वामित्वे वर्तमानस्य नूतनीकृतस्य तन्तै पेरियार् (ई वी रामस्वामि नाय्क्कर्)  स्मारकस्य पेरियार् ग्रन्थशालायाः च  उद्घाटनं गुरुवासरे तमिलनाट् मुख्यमन्त्री एम् के स्टालिनः निर्वक्ष्यति। तदनुबन्ध्य वैक्कं सत्यग्रहान्दोलने तन्तै पेरियार् वर्यस्य भागभागित्वस्य शताब्द्याचरणस्य समाप्तिसम्मेलनस्य उद्घाटनमपि अद्य सम्पद्यते। प्रभाते दशवादने आयोज्यमाने सम्मेलनेSस्मिन् केरलमुख्यमन्त्री पिणरायि विजयः अध्यक्षपदमलङ्करोति। १९२४ तमे वर्षे वैक्कं मन्दिरस्य समीपे उपसंवत्सरद्वयात्मकं  संवृत्ते अस्पृश्यतोच्चाटनान्दोलने नेतृत्वपरं भागभागित्वं कृतवान् तमिलनाट् प्रदेशीयः सामाजिकपरिष्कर्ता आसीत् तन्तै पेरियार् इति विशेष्यमानः ई वी रामस्वामि नाय्क्कर् महाभागः।

 विश्वचतुरङ्गक्रीडा 

पुनरपि समस्थितिः, अन्त्यस्पर्धा अद्य।

डिङ् लिरनः (वामे), डि गुकेशश्च। 

 

सिंगपुरं> विश्वचतुरङ्गवीरतास्पर्धापरम्परायाः अन्तिमचक्रस्य पूर्वान्त्यप्रतिद्वन्द्वः अपि (१३तमः) समस्थितिं प्राप्तः।  अनेन भारतस्य डि गुकेशः चीनस्य डिङ् लिरनः यः वर्तमानीयवीरः च ६.५ अङ्कान् प्राप्तवन्तौ। अन्तिमः श्रेणीकृतप्रतिद्वन्द्वः अद्य सम्पत्स्यते। 

  अद्यतनक्रीडा गुकेशस्य निर्णायका भवति। १४ क्रीडायुक्ते श्रेणीकृतप्रतिद्वन्द्वे यः प्रथमं ७.५ अङ्कान् प्राप्नोति सः विश्ववीरः भविष्यति। यदि अन्त्यस्पर्धा अपि समस्थितिं प्राप्स्यति शुक्रवासरे समयनियन्त्रणसहितैः रापिड् ब्लीट्स् नामकैः प्रतिद्वन्द्वैः विजयिनिर्णयं करिष्यति। समयनियन्त्रणक्रीडासु डिङः कुशल इति अभिज्ञैः सूच्यते।

 काबूले आत्मघात्याक्रमणम् 

तालिबानस्य मन्त्री व्यापादितः। 

इस्लामबादः> अफ्गानिस्थानस्य राजधान्यां काबूले बुधवासरे जाते आत्मघात्याक्रमणे तालिबानस्य अभयार्थिकार्यमन्त्री खलील् उर् रह्मान् हखानी इत्येषः व्यापादितः। मन्त्रालयस्य अन्तः एव आत्मघातिपुरुषः विस्फोटितः, अन्यौ द्वावपि स्फोटने मृताविति अधिकृतैः निगदितम्। 

   संवत्सरत्रयात्पूर्वं अफ्गानस्य प्रशासनप्राप्त्यनन्तरं तालिबानेन अभिमुखीकुर्वन् महत्प्रत्याघातो भवति खलील् हखानेः हत्या।

Wednesday, December 11, 2024

 मुहम्मद अल् बषीरः सिरियायाः संरक्षकप्रधानमन्त्री। 

मुहम्मद अल् बषीरः। 

डमास्कसः> राष्ट्रपतिं बाषर् अल् असदं निष्कास्य शासनग्रहणं कृतवन्तः विमतपक्षीयाः मुहम्मद अल् बषीरं सिरियायाः संरक्षकप्रधानमन्त्रिरूपेण [Care taker PM] नियुक्तवन्तः। २०२५ मार्च् १ पर्यन्तं तस्य कार्यकालः भवति। 

  विमतानां नेतृत्वमावहतः एछ् टि एस् इत्यस्य नियन्त्रणे इड्लिबं प्रशासमाने सालवेषन् सर्वकारे प्रधानमन्त्री भवति ४९ वयस्कः मुहम्मद अल् बषीरः। तन्त्रज्ञः एषः इड्लिब विश्वविद्यालयात् 'शरीयत्' नियमे बिरुदधारी भवति।

 अलहबाद् उच्चन्यायालयस्य न्यायाधिपेन कृते विद्वेषप्रभाषणे व्यापकप्रतिषेधः।

उच्चन्यायालयं प्रति सर्वोच्चन्यायालयेन वस्तुताविवरणं मार्गितम्। 

नवदिल्ली> विश्वहिन्दुपरिषदः कार्यक्रमे भागं गृह्णन् विद्वेषप्रभाषणं कृतवन्तं अलहबाद् उच्चन्यायालयस्य न्यायाधिपं शेखर कुंमारयादवं विरुध्य व्यापकः प्रतिषेधः। घटनायां स्वमेधया व्यवधृतवान् सर्वोच्चन्यायालयः अलहबाद् उच्चन्यायालयात् वस्तुताविवरणं मार्गितवान्। 

  एक नागरिक नियममधिकृत्य कृते प्रभाषणे आसीत् विवादपरामर्शः जातः। इस्लामधार्मिकान् विरुध्य अधिक्षेपा‌ः न्यायाधिपात् अजायन्त इति सूच्यते। 

  राष्ट्रस्य शासनसंविधानेन निर्दिश्यमानायाः  नयसंहितायाः विरुद्ध एव शेखर कुमार यादवस्य परामर्शाः इति राष्ट्रपतिं प्रति समर्पिते आवेदने मुस्लिमलीगदलस्य सदस्याः सूचितवन्तः।

 संस्कृतभारत्याः प्रबोधनवर्गः डिसं. २१तः आरभते। 


 कोच्ची> संस्कृतभारती इति संस्कृतभाषासंवर्धकसंघटनस्य केरलविभागस्य नेतृत्वे प्रतिसंवत्सरमायोज्यमानः संस्कृतप्रबोधनवर्गः डिसम्बरमासस्य २१ तमदिनाङ्कादारभ्य २८ तमदिनाङ्कपर्यन्तं एरणाकुलं जनपदस्थे पेरुम्पावूर् अमृत विद्यालये सम्पत्स्यते। २५० युवजनेभ्यः परिशीलनं दास्यते। केरलं, तमिलनाट्, आन्ध्रप्रदेशः,कर्णाटकम् इत्येतेभ्यः राज्येभ्यः युवछात्राः प्रबोधनवर्गशिबिरे भागं करिष्यन्तीति संस्कृतभारत्याः अखिलभारत माध्यमसंयोजकः डो सच्चिन् कठालेवर्यः निगदितवान्। 

  ये परिशीलनं सम्प्रापयिष्यन्ति ते १०१ संख्याकानि अमौपचारिकसंस्कृतशिक्षाकेन्द्राणि प्रचालयिष्यन्ति। पत्रकारसम्मेलने संस्कृतभारत्याः राज्याध्यक्षः डो पि के शङ्करनारायणः , दक्षिणक्षेत्रीयसंघटनकार्यदर्शी सुवीशः, जनपदसंयोजिका कीर्तीप्रकाशः, ज्योतिष् मयी इत्येते भागं गृहीतवन्तः।

Tuesday, December 10, 2024

 अर्णोस् पातिरि प्रतिभापुरस्कार : समर्पितः ।

    तृश्शिवपेरूर् सहृदयवेदिकायाः "अर्णोस् पातिरि-प्रतिभापुरस्कारः' सर्वकारीय पूर्वतनकार्यदर्शिना इ के भरत् भूषण् महाशेन डा. सी टि फ्रान्सीस् वर्याय समर्पितः   दश सहस्रमितरुप्यकाणि प्रशस्ति फलकञ्च पुरस्कारस्य स्वरूपम् ।

   महानुभावस्य संस्कृतभाषायाम् अन्यादृशपाण्डित्यं, संस्कृतभाषायै तेन कृतं समग्रं योगदानञ्च पुरस्कारसमर्पणाय हेतुभूतं मन्यते । तृश्शिवपुरस्थायां केरल-साहित्य अक्कादमि सभामन्दिरे पुरस्कारसमर्पणसभा प्रचालिता आसीत् ।

 दूरदर्शनस्य संस्कृतविभागस्य वार्ताहरः    नितीशभारद्वाजः दिवंगतः

  संस्कृतवार्ताक्षेत्रे प्रथितयशस्कः दूरदर्शनस्य संस्कृतविभागे वार्ताहरत्वेन च कार्यरतः युवविद्वान्  नितीशभारद्वाजः  ह्यः रात्रौ विवाहकार्यक्रमं परिसमाप्य उज्जयिनीतः प्रत्यागमनावसरे यानदुर्घटनायां दिवङ्गतः इति अतिदारुणा वार्ता । समेषां प्रीतिपात्रस्य नितीशस्य अकालमृत्युवार्तां श्रुत्वा समग्रः संस्कृतपरिवारः शोकसंविग्नमानसः वर्तते। तेन सहैव तदीयः भ्राता अपि दिवङ्गतः इत्यपि अतीव खेदस्य विचारः।

 डि गुकेशस्य पराजयः। 

सिङ्गपुरं> विश्वचतुरङ्गवीरतास्पर्धापरम्परायाः १२ तमे प्रतिद्वन्द्वे भारतस्य डि गुकेशः चीनस्य डिङ् लिरनेन पराजितः अभवत्। अनेन प्रतिद्वन्द्वेन उभावपि षडङ्कान् सम्पाद्य पुनरपि समस्थितिं पालयन्तौ वर्तेते। 

  ११ तमस्पर्धायां गुकेशः विजयं प्राप्य अग्रगामी आसीत्। परं स्पर्धाद्वयमवशिष्यते। यः ७. ५ अङ्कान् प्राप्नोति सः विश्वविजयी भविष्यति। अद्य विश्रान्तिदिनं भवति।

 सञ्जय मल्होत्रा आर् बी ऐ प्रशासक‌ः। 


नवदिल्ली> रिसर्व बैंक् ओफ् इन्डिया [आर् बी ऐ] संस्थायाः नूतनप्रशासकरूपेण वरिष्ठः ऐ ए एस् अधिकारी सञ्जय मल्होत्रा नियुक्तः। इदानीं सः केन्द्रसर्वकारस्य रवन्यूसचिवरूपेण कार्यनिरतः अस्ति। 

  वर्तमानीनः आर् बी ऐ प्रशासक‌ः शक्तिकान्तदासः अद्य सेवायाः विरमति। तस्य स्थाने अस्ति मल्होत्रावर्यस्य नियुक्तिः।

 जे सि डानियल् पुरस्कारः षाजि एन् करुणाय। 

अनन्तपुरी> मलयालचलच्चित्रमण्डलाय कृतम् आयुष्कालयोगदानं पुरस्कृत्य दीयमानाय जे सि डानियल् पुरस्काराय सुप्रसिद्धः निदेशकः षाजि एन् करुणः अर्होSभवत्। २०२३ तमवर्षस्य पुरस्कार एवास्मै दीयते।

  बहुषु  अन्ताराष्ट्रियमण्डलेषु षाजि एन् करुणस्य चलच्चित्राणि चर्चितान्यभवन्। केरलसर्वकारस्य परमोन्नता  चलच्चित्रबहुमतिः भवति जे सि डानियल् पुरस्कारः।

Monday, December 9, 2024

 सिरियाराष्ट्रं विमतैः गृहीतम्। 

राष्ट्रपतिः बाषर् अल् असदः रष्यां पलायितवान्।

सिरियानिग्रहणे आह्लादं प्रकटयन्तः विमताः। 

दमास्कसः> सिरियाराष्ट्रस्य राजधानी दमास्कसः स्वीयैः निगृहीतः इति सर्वकारविरुद्धविमतसंघेन हयात् तहरीर् अल् षाम् [एछ् टि एस्] इत्यनेन संघटनेन निगदितम्। नवम्बरमासस्य २७ तमे दिनाङ्के आरब्धस्य प्रशासनविरुद्धाक्रमणस्य ११ तमे दिने आसीदिदं प्रख्यापनम्। 

  राष्ट्रं परित्यक्तवान् राष्ट्रपतिः बाषर् अल् असदः सपरिवारः मोस्को प्राप्तवानिति  रूसीयवृत्तान्तहरैः प्रस्तुतम्। रष्यया असदाय अभयः दत्त इति सूच्यते। 

  असदः प्रशासनात् प्रतिलोमितः इति रविवासरे औद्योगिकदूरदर्शनमाध्यमेनैव विमतैः उद्घोषितम्। २० संवत्सरात्मकं असदशासनं समाप्तमिति ज्ञातवन्तः जनाः वीथीमागत्य आह्लादं प्रकटितवन्तः।

प्रयागराजे महाकुम्भमेलामहोत्सवे ४५ कोटि तीर्थयात्रिकाणां सहभागः भविष्यति - मन्त्री सूर्यप्रतापः शाहिः।

    प्रयागराजे महाकुम्भमेलामहोत्सवे ४५ कोटि तीर्थयात्रिकाणां सहभागः भविष्यति इति उत्तरप्रदेशस्य मन्त्री सूर्यप्रतापः शाहिः उक्तवान्।

     कार्यक्रमस्य अनुबन्धतया प्रयागराजे त्रिलक्षाधिकाः वृक्षाः रोपिताः। महोत्सवस्य समाप्तेः परम् अपि तेषां संरक्षणं सुनिश्चितं करणीयमिति सर्वकारेण सङ्कल्पितम् अस्ति इति मन्त्री अवदत्।

   ४५ कोटिभ्यः अधिकानां तीर्थयात्रिकाणाम्, संन्यासिनाम्, पर्यटकानां च स्वागताय अयं महोत्सवः सज्जः इति तेन उक्तम्। १२ संवत्सराणाम् अन्तराले युनेस्को-सांस्कृतिक- पैतृकत्वेन मानितः अयं महाकुम्भमहोत्सवः पुनः प्रयागस्य पवित्रभूमौ सम्पन्नः भविष्यति इत्यपि महोदयेन उक्तम्।

 विश्वचतुरङ्गक्रीडा - गुकेषः विजयेन अग्रे। 

क्रीडामध्ये डि गुकेशः [वामभागे] 

सिंगपुरं> विश्वचतुरङ्गक्रीडायाः अन्तिमचक्रस्य ११ तमे प्रतिद्वन्द्वे भारतस्य क्रीडकः डि गुकेशः निर्णायकविजयं प्राप्य अग्रगामी अभवत्। वर्तमानकालीनः विश्ववीरः चीनीयः डिङ् लिरनः क्रीडायाः २९ तमे पदे पराजयम् अङ्गीकृतवान्। 

   १४ चरणयुक्तायांक्रीडायां ११ चरणेषु समाप्तेषु गुकेशः ६ - ५ इति अङ्कक्रमेण अग्रे वर्तते। यः प्रथमं ७. ५ अङ्कान् सम्पादयिष्यति सः विश्वविजयी भविष्यति। १२ तमक्रीडा अद्य सम्पत्स्यते।