OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Showing posts with label परिस्थितिः. Show all posts
Showing posts with label परिस्थितिः. Show all posts

Monday, July 3, 2023

 अधिनिवेशसस्यानि निर्मार्जयिष्यति। नीडानि सज्जीकर्तुं वृक्षान् रोपयित्वा पक्षिनिकेतनानि संरक्षितुं तमिल्नाडुदेशः प्रयतते।

     चेन्नै> पक्षिणां संरक्षणं परिपोषयितुं तमिल्नाडु राज्येन राज्यस्तरीयप्राधिकरणसंस्था रूपीकृता। नवाङ्गैः सहितस्य प्राधिकरणस्य नेतृत्वदायित्वं परिस्थिति-वातावरणपरिवर्तन-वन विभागकार्यदर्शिन्यः सुप्रिया साहोः भवति। तमिल्नाडु देशे इदानीं १७ पक्षिनिकेतनानि सन्ति। पक्षिणां नीडनिर्माणाय अनुकूलवातावरण सज्जीकरणं, पक्षिणाम् आवासस्थानानां रेखाङ्कणं, पक्षिनिकेतानां पुनरुद्धारणं, पास्थितिक-पर्यटनद्वारा (Eco-tourism) सन्दर्शकसौकर्यपरिपोषणम् इत्यादयः प्राधिकरणस्य दायित्वं भवति। प्राधिकरणस्य नेतृत्वे पक्षिनिकेतनात् अधिनिवेशसस्यानि निर्मार्जयिष्यति।

Saturday, June 24, 2023

 विश्वनक्रदिने भारते गण्डकीनद्यां १२५ कुम्भीराः अण्डात् जाताः।

    चम्पारन्> बीहारस्थे चम्पारन् जनपदे गण्डकीनद्यां १२५ कुम्भीराः (मत्स्याशननक्रविशेषः) अण्डात् जाताः। प्रदेशवासिनः वनविभागस्य च साहाय्येन भारतीय वन्यजीविसंस्थायाः निरीक्षणे आसीत् कुम्भीराणां नीडम्।२०१३ संवत्सरादारभ्य परिस्थिति - वन - वातावरणविभागानां सहयोगेन भारतीयवन्यजीविसंस्था गण्डकी नद्यां वंशनाशभीषां अभिमुखीक्रियमाणान् कुम्भारान् संरक्षयन्ती अस्ति।

Monday, June 19, 2023

 नूतनजाति भीमसरटः संदृष्टः। इङ्लण्ट् राष्ट्रस्य तीरप्रदेशे वासः।

    वैज्ञानिकैः नूतनजाति भीमसरटः संदृष्टः। पूर्वकाले इड्लण्ट् राष्ट्रस्य तीरप्रदेशे कृतवासः जीविविभागः भवति अयम्। ऐल् ओफ् वैट्टू नाम द्वीपे आसीत् अस्य वासस्थानम्। ऐल् ओफ् वैट्ट् द्वीपे १४२ संवत्सराभ्यन्तरे आर्मेर्ट् विभागे अन्तर्भूतानां भीमसरटाणां मध्ये प्रथमतया प्रत्यभिज्ञातः भवति अयम्।

Saturday, June 17, 2023

 बाह्याकाशे संवर्धितस्य पुष्पस्य चित्रं नासया प्रसारितम्।

   -जगदीश्वरी एम् आर्

    बाह्याकाशे रोपितस्य सस्यस्य प्रफुल्लकुसुमस्य च चित्रं नासया प्रकाशितम्। इन्स्टाग्राम् इति सामाजिक-माध्यमद्वारा आसीत् नासा-संस्थायाः चित्रप्रकाशनम्। अन्तराष्टिये बह्याकाशनिलये 'वेज्जि' नाम सुविधायाः भागतया संवर्धितस्य पुष्पितस्य  स़िन्निय (Zinnia) सस्यस्य मनोहरं चित्रमेव प्रकाशितम्। पुष्पस्य वर्णयुक्तदलानि सस्यस्य हरितवर्णपत्राणि च दृश्यन्ते। अपि च पृष्ठतः आकाशस्य श्यामवर्णः भूमेः विदूरदृश्यं च द्रष्टुं शक्यते। अतिन्यून-गुरुत्वाकर्षणावस्थायां सस्यानां वृद्धिः कथं भविष्यति ? तादृश्यानां भूसस्यानाम् उत्पादनं कथं करणीयम्  इत्यादयः ज्ञातुम्  साहाय्यं करिष्यति इदम् अनुसन्धानम्।  चन्द्र-मङ्गलग्रहयोः दीर्घकालीन-योजनायाः कृते भक्ष्यादीनां बहुमूल्यं स्रोतः प्रदातुं शक्यते अनेन अनुसन्धानेन इति नासया उक्तम्।

Friday, June 16, 2023

 श्वासननालिकायामपि सूक्ष्मपलास्तिकः इति पूर्वसूचनां दत्वा नूतनाध्ययन फलम्।

   सिड्नि> सूक्ष्मपलास्तिकसदृशाः पलास्थिककणिकाः श्वसननालिकायां स्वास्थ्यसमस्याः जनयितुम् प्रभवति  इति अध्ययनफलानि सूचयन्ति। मानवः प्रतिहोरायां १६.२ पलास्तिकशकलानि श्वसिति इति २०२२ तमे संवत्सरे प्रचलिते अध्ययने सूचितमस्ति। पलास्तिकात् विघटिताः लघुपलास्तिकपदार्थाः भवन्ति सूक्ष्मपलास्तिकाः (micro plastic)। 'फिसिक्स् ओफ् फ्लूयिड् ' नाम शोधपत्रिकायां प्रकाशिते अध्ययनप्रतिवेदने सूक्ष्मपलास्तिकाः नासाद्वारे गलस्य (throat) पृष्ठतः च विक्षिप्यन्ते इति सन्दृष्टाः। एवं बृहत् परिमाणेषु सूक्ष्मपलास्तिककणानि अधिकतया श्वसननालिकायामेव सञ्चिताः इति स्वास्थस्य हानिः उद्पाद्यते।

Monday, June 5, 2023

 जलं विना जीवितुं शक्याः द्विषष्टि सस्यविशेषाः संदृष्टाः।

 पश्चिमपर्वतमण्डलेषु अतिनिर्जलीकरणं सोढुं शक्याः द्विषष्टि संख्याकाः सस्यविशेषाः  वैज्ञानिकैः संदृष्टाः। जलदौर्लभ्यस्थलेषु अपि एतेषां सस्यविशेषाणां अतिजीवनं सुसाध्यं भवति। अन्येषां सस्यानाम् अतिजीवनाय अशक्येषु प्रदेशेषु अपि एते सस्यविशेषाः पुष्टिं प्राप्स्यन्ति। एते  'डेसिक्केषन् टोलरन्ट् वास्कुलार् ' इति नाम्ना विख्याताः। पूर्वम् एतानि सस्यानि अधिकृत्य कृतानि अध्ययनानि न्यूनमासीत्। अत एव एतान् सस्यविशेषानधिकृत्य लोकः न ज्ञातः इति वैज्ञानिकाः मन्यन्ते। पूनायाः अगार्कर् अनुसन्धानकेन्द्रस्य वैज्ञानिकाः एव सस्यविशेषाणां संद्रष्ट्रारः। नूतनतया संदृष्टेषु सस्येषु १६ संख्याकाः  सस्यविशेषाः केवलं भारते एव द्रष्टुं शक्यन्ते। द्वादश सस्यविशेषाणां पश्चिमपर्वतमण्डले एव सान्निध्यमस्ति। अध्ययनमिदं पश्चिमपर्वतमण्डलस्य जैववैविध्यमधिकृत्य अधिकज्ञानाय सहायकं भवति।

Wednesday, May 3, 2023

 वङ्गसमुद्रे चक्रवातः। पञ्चदिनानि यावत् मेघगर्जनेन सह वृष्टिः चण्डवातः च भवेत्।

- रमा टी के

  तिरुवनन्तपुरम्> राज्ये आगामिनि पञ्चदिनं यावत् विविधेषु प्रदेशेषु मेघगर्जनेन सह वृष्टिः चण्डवातः च भवेत् इति केन्द्रवातावरणमन्त्रालयस्य पूर्वसूचना अस्ति। मेय् मासस्य षष्ठे दिने दक्षिण-पूर्व-वङ्गसमुद्रे चक्रवातरूपीकरणस्य साध्यता अस्ति। विविधेषु जनपदेषु केन्द्रवातावरणमन्त्रालयेन पीतजाग्रता ख्यापिता।

Tuesday, April 18, 2023

 विश्वधरोहरदिवसविशेषः

ग्राम्यनिक्षेपं (धरोहरं) रक्षितुं पाणिनिसंस्कृतविश्वविद्यालयस्य अभिनवप्रयास: "चलत मिलाम: ग्राम्य देहाल्याम्" 

     (वार्ताहरः डॉ.दिनेश: चौबे )

    ग्रामा: अस्माकं संस्कृत्या आत्मा वर्त्तते यतोहि अस्माकं सांस्कृतिकं मूलं ग्रामेषु एव विद्यते। इदानीं ग्राम्यगृहं तत्रत्यं वातावरणं, पर्वाणि अनेकविधानि ग्राम्य धरोहराणि ग्रामेषु सन्ति यानि अस्माभि:विस्मृतानि। विस्मृयते च । उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य ज्योतिष - ज्योतिर्विज्ञानविभागेन ग्राम्यवास्तुप्रेक्षणपरियोजना आरभते अस्यां परियोजनायां छात्रा:शिक्षकाश्च यथासमये विभिन्नेषु ग्रामेषु गत्वा ग्राम्यजनैः सह चर्चां कृत्वा तत्रत्या वास्तुविद्याम्, संस्कृतिं च अवलोक्य रेखाङ्कनं करिष्यन्ति । ग्रामवास्तव्यवृद्धजनानां साक्षात्कार: लघुचलचित्रम् (वीडियो ) छायाचित्रम्,वृत्तचित्राणां निर्माणं पुस्तकसंकलनमित्यादि कार्याणि भविष्यन्ति। 

       "चल मिले गांव की चौखट पे इति" शीर्षकान्वितायां परियोजनायां विभागस्य पूर्व-वर्तमान छात्रा: भागं ग्रहीतुं शक्नुवन्ति। संप्रति पञ्जीयनम् , ग्रामचयनस्य कार्यं च प्रचलति। ग्रामेभ्य:प्राप्तविवरणानुसारं छात्रा: शिक्षकाणां मार्गदर्शने सामग्रीं सम्पादिष्ययन्तिति ।एवञ्च पुनः ग्रामं गत्वा संस्कृतशब्दावलीम्,  वास्तुशास्त्रस्य प्रामाणिकज्ञानेन सह ग्राम्यजनान् परिचितं कारयित्वा भारतीयज्ञानपरम्पराया: प्रचारः प्रसारश्च् करिष्यन्ति। विश्वकर्माज्यन्त्यावसरे प्रतिवर्षम् उत्कृष्टं छात्रदलं विभागपक्षतः पुरस्कार: अपि प्रदास्यते। 

Wednesday, April 12, 2023

आमसोण् वृष्टिवनानां नशीकरणे पुनरपि शीघ्रता।

-जयराजः कोट्टारम्

   आमसोण् वृष्टिवनेषु वननशीकरणं पूर्वतनसंवत्सरेभ्यः अपेक्षया मार्च् मासे प्रतिशतं १४ इति क्रमेण वर्धितम् इति नूतनानि अध्ययनफलानि। ब्रसीलस्य पूर्वभूतराष्ट्रपतेः नेतृत्वे विद्यमाने शासनकले अधिकतया वृष्ट्यटव्यः नाशिता‌ः। पश्चात् कालीने शासने समागतः नूतनः राष्ट्रपतिः लूयिस् इनासियो लुल ड सिलवः, 'अहं वननशीकरणप्रवर्तनानि सम्पूर्णतया रोधयिष्यामि' इति घोषितवान्।लुलमहोदयेन आविष्कृता योजना न विजयं प्राप्ता इत्यस्य सूचना भवति नूतनम् अध्ययनफल-प्रतिववेदनम् इति परिस्थितिवादिनः वदन्ति।

Wednesday, March 15, 2023

 आविश्वं समुद्रजलवितानवर्धनया न केवलं द्वीपराष्ट्राणि  भारतीयनगराणि अपि भीषां अभिमुखीकरिष्यन्ति।

   आविश्वं समुद्रजलवितानवर्धनं द्वीपराष्ट्राणि प्रबाधयिष्यते इति प्रतिवेदनं समीपकाले एव आगतम्। घटनेयं  न केवलं द्वीपराष्ट्राणि भारते चेन्नै कोल्कत्ता इत्यादीनि अन्यानि  बृहन्नगराण्यपि आविश्वसमुद्रजलवितानवर्धनया भीषां अभिमुकरिष्यन्ति इति अध्ययनफलानि सूचयन्ति। २१०० संवत्सरप्राप्तेः प्राक् हरितगृहवातकानां बहिर्गमनं न निरोधयिष्यति चेत् एष्याभूखण्डस्थानां नगराणां स्थितिः अतिशोचनीया भविष्यति इति 'नेच्चर् क्ललैमट् चेञ्च्' इति वार्तापत्रिकायां प्रकाशितं अध्ययनप्रतिवेदनं पूर्वसूचनां ददाति।

 विश्वस्मिन् अति रूक्षतया वायुप्रदूषितेषु ५० नगरेषु ३९ नगराणि भारते एव। 

चित्रम् दिल्ली नगरम् - AFP द्वारा संगृहीतम्

 नवदिल्ली> २०२२ संवत्सरे विश्वस्मिन् अतिरूक्षतया वायुप्रदूषितानां राष्ट्राणां पट्टिकासु भारतम् अष्टमे स्थाने अस्ति। गतसंवत्सरे पञ्चमस्थाने आसीत्। विश्वस्मिन् अतिमलिनेषु पञ्चाशत् नगरेषु ३९ नगराणि भारतेषु अन्तर्भवन्ति। स्विस् एयर् क्वालिट्टि टेक्नोलजि परिषदेन आयोजिते वार्षिकप्रतिवेदने  विषयमिदं रेखाङ्कितमस्ति।

Sunday, March 12, 2023

 ब्रह्मपुरस्य मालिन्यसंस्करणशाला अशास्त्रीया इति केन्द्रमलिनीकरणनियन्त्रणसंस्था।

नवदिल्ली> केरले कोच्चीस्थे मालिन्यसंस्करणशालायाः निर्माणं शास्त्रानुसारी नास्तीति केन्द्रमलिनीकरणनियन्त्रणसंस्थया विधत्तायां परिशोधनायां अधिगतम्। मालिन्यानां निक्षेपःएव तत्र कृता, न संस्करणम्। नगरसभाधिकारिभिः पूर्वजाग्रता न पालिता।

Monday, July 8, 2019

छात्रैः ३.५० डण् मितानि पलास्टिक मालिन्यानि सञ्चितानि।

छात्राः परिस्थिति-विभाग-निर्देशकः मह्‌दि अल् हाषेमिना सह
 दुबाय् > दुबायस्थ-विद्यालयीय छात्रैः विगते दिने ३.५० डण् (३५२४ किलो) मितानि पलास्टिक मालिन्यानि सम्भृतानिI उपयोगानन्तरं दूरं प्रेषिताः कूप्यः भ्राष्ट्राणि च भवन्ति सम्भृतेषु अधिकतया। विश्वभौमदिनानुबन्धतया दुबाय् नगरपालिकया छात्रेभ्यः स्पर्धा आयोजिता। पलास्तिक मालिन्यानां सञ्चयनमासीत् स्पर्धा। १८६४२ छात्राः स्पर्धायां भागं ग्रहीतवन्तः। ५७५ किलोमितं पलास्तिकमालिन्यानि सञ्चय्य अल् अह्-मदिय आदर्शविद्यालयेन प्रथम स्थानम् प्राप्तम्। ३१३ किलोमितं पलास्तिक मालिन्यानि सञ्चयित्वा जुमैरा विद्यालयः द्वितीय स्थानं २३३ किलो मितानि पलास्तिक मालिन्यानि सञ्चय्य अहम्मद् बिन् सुलीं प्राथमिकविद्यालयस्य तृतीयं स्थानं च प्राप्तम्।
      परिस्थितिप्रतिकूलावस्थां न्यूनीकर्तुं, तथा छात्रेषु  परिस्थिति संरक्षणभावनाम्  उद्पादयितुं च अनेन कार्यक्रमेण उद्दिश्यते इति दुबाय् शैक्षिकमण्डलस्य प्रतिनीधी परिस्थिति-विभाग-निर्देशकः मह्‌दि अल् हाषेमी अब्रवीत्।
[

Wednesday, April 17, 2019

लोमवती मधुकर्कटी। पश्चिमाद्रिपङ्क्तितिषु नवीना मधुकर्कटी लब्धा।
-डा. अभिलाष् जे
   कोट्टक्कल्> तमिल्नाट् राज्यस्य कोत्तगिरि वनेषु पूर्णतया लोमयुक्तां मधुकर्कटीं प्राप्ता। कोट्टक्कल् आर्यवैद्यशालायाः औषधोद्यान-गवेषणकेन्द्रस्य सस्यवर्गीकरणविभागस्य शास्त्रकारस्य डा.को एम् प्रभुकुमारस्य तथा डा.इन्दिरा बालचन्द्रस्य च नेतृत्वे प्रवृत्ते गवेषणे नवीना मधुकर्कटी प्रत्यभिज्ञाता । समान्य मधुकर्किटीतः विभिन्ना भवति एषा इति डा. इन्दिरा बालचन्द्रेन उक्तम्। पुष्पाणि पीतवर्णानि सन्ति। फलानां रूपं सामान्यमधुकर्कटीतः लघु भवति। नीलगिरि वनेषु अपूर्वाणां सस्यानां अध्ययने अस्ति अस्य अवगमनम्। एतत् सस्यं दक्षिण अमेरिक्कायां विद्यमान वास्कोण्सेल्लिया प्यूबसेन्स् अस्तीति निर्णीतमस्ति। मधुररसमपि न्यूनमेव। अस्यां जीवकम्  सी, ए पोट्टास्यं इत्यादीनां बाहुल्यं वर्तते। अस्य पाप्पयिन् इति वस्तुना औषधनिर्माणं भवति।  समुद्रतलात् ४९०० तः ९८०० उपरि भागे वर्तन्ते।मालियड्करा ए एन् एम् महाविद्यालयस्य सस्य शास्त्रविभागस्य अध्यापकः डा. सी एन् सुनिलः, पूर्व शास्त्रकारः नवीन कुमारः तन्त्रांश विभागस्य अङ्गः बिनु प्रकाशः इत्येते सन्ति गवेषकाः।

Thursday, April 20, 2017

वयनाडे इ -३ विषयसङ्केतस्य उद्घाटनम् एप्रिल् ३० दिनाङ्के ।।  
दक्षिणभारतस्य अतिबृहत्परिस्थितिसौहृदविषयसङ्केत: वयनाडे प्रवर्तनक्षमं जायमानमस्ति । मानन्तवाटीत: २० कि मी दूरे तोण्डर्नाड् ग्रामे नीलोम् स्थानके एव एप्रिल् ३० तमे इ _३ तीम् पार्क् नाम्नि परिस्थितिसौहृदविषयसङ्केत: प्रवर्तनक्षम: जायमान: वर्तते । परिस्थिति:, विज्ञानं, विनोद:-विषयत्रयमुपजीव्य पश्चिमघट्टहरितनेतृत्वसंस्थया  एव सङ्केत: आविष्कृत: । वर्षचतुष्टयेन प्राथमिकघट्टनिर्माणं पूर्तीकृतमिति प्रधानप्रबन्धकेन डो के टी अषरफ् महोदयेनोक्तम्। सामान्या: ३०० प्रवासिन:  सम्पदंशं विन्यस्य वयनाड्कार्षिकप्रतिसन्धे: पश्चात्तले संरम्भोयमारब्ध: । प्रथमघट्टे ७५ कोटि रूप्यकाणां पद्धति: ५५ कोटि रूप्यकै; पूर्तीकृतमिति तन्त्रज्ञाने प्रबन्धकक्षेत्रे वाणिज्यरङ्गे च नूतना मातृका एषा पद्धतिरिति सी ई ओ  तथा हैदराबाद रामोजी फिल्म सिटी पूर्वसह निर्देशकेन के वेङ्कटरत्नेन स्पष्टीकृतम् ।।