भारत-विन्डीसयोः पञ्चमस्पर्धा अद्य।
बङ्गलुरु> भारत-विन्डीसयोः टि-२० स्पर्धापरम्परायाः पञ्चमः एवम् अन्तिमश्च प्रतिद्वन्द्वः शनिवासरे सम्पत्स्यते। चिन्नस्वामि क्रीडाङ्कणे सायं सप्तवादने अस्ति स्पर्धा। उभयोरपि गणयोः लक्ष्यमेकमेव- परम्पराप्राप्तिः।
सौदीं प्रति विमानसेवा 'एयर् इन्डियया' २० तमपर्यन्तं निरस्ता।
नव दिल्ली> पश्चिमेष्या संघर्षस्य आधारे सौदी अरेबियां प्रति विमानसेवा ओक्टोबर् २० तमदिनाङ्कं यावत् निरस्ता इति 'एयर् इन्डियया' संस्थया निगदितम्। ररियाद्, दमामः, जिद्दा इत्येतानि स्थानानि प्रति गमनागमनसेवा एव निरस्ता। सेवानिरासेन ये यात्रां न कुर्वन्ति तेभ्यः चिटिकामूल्यं प्रत्यर्पयिष्यते इति संस्थया निगदितम्।
उपराष्ट्रपतिः अद्य केरले।
कोष़िक्कोट्> भारतस्य उपराष्ट्रपतिः सि पि राधाकृष्णः शुक्रवासरे अपराह्णे केरले कोष़िक्कोट् प्राप्नोति। प्रदेशस्थे चालप्पुरं केसरि भवने आयोज्यमानं नवरात्रसर्गोत्सवं उपराष्ट्रपतिः उद्घाटयिष्यति। सायं पञ्चवादने अस्ति कार्यक्रमः।
उद्घाटनसम्मेलने राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरः, स्वामी चिदानन्द पुरी, राज्यसभासदस्यः सि सदानन्दन् मास्टर् इत्यादयः भागं करिष्यन्ति।
पाकिस्थाने विद्यालयछदिः प्रभञ्ज्य ३५ मरणानि।
३४ छात्राः, एका अध्यापिका।
![]() |
| दुर्घटनाधीनः विद्यालयः। |
पेषवारं> पाकिस्थानस्य प्रान्ते खैबर् पख्तूण् ख्व इत्यत्र कस्यचन निजीयविद्यालयस्य छदिः निपत्य ३४ छात्राः एका शिक्षिका च मृत्युमुपगताः। ४० जनाः क्षताः। ऊनत्रयोदशवयस्काः छात्रा एव मृताः।
११० छात्राः विद्यालये पठन्तः सन्ति। त्रितयस्तरोपेतस्य विद्यालयस्य छदिः एव भग्नः। भवननिर्माणस्य अपाक एव दुर्घटनाहेतुरिति सूच्यते। विद्यालयभवनस्वामी निगृहीतः। पाकिस्थाने ईदश्यः विद्यालयदुर्घटनाः अनुस्यूततया जायन्ते। जूलाय् मासे विभिन्नदिनेषु एतादृशरीत्या छदिभञ्जनेन भित्तिकानाशेन च बहवः छात्राः मृताः आसन्।
सौद्याम् अरांको आस्थाने हूत्याक्रमणम्, अग्निबाधा।
रियादः> सौदी अरेबियायाः अधीने वर्तमाने अरांको तैलोद्पादनकेन्द्रे गतदिने यमनस्थानां हूतिनामाक्रमणमभवत्। आस्थानभवने बालिस्टिक् मिसैल् शस्त्राणि पतित्वा अग्निबाधा दुरापन्ना। आक्रमणभीषा आसीदित्यतः भवने कर्मकराः नासन्।
तथा च रियादे जनाधिवासक्षेत्रं लक्ष्यीकृत्य प्रयुक्तानि अग्निशस्त्राणि विनाशितानीति सौदीप्रशासनेन निगदितम्। किन्तु शस्त्रखण्डानि पतित्वा चत्वारः व्रणिताः। १५ गृहाणि दुष्टान्यभवन्।
टि-२० - चतुर्थस्पर्धायां विन्डीसस्य विजयः।
षाय् होपाय शतकम्।
शतकं प्राप्तवतः षाय्होपस्य आह्लादः।
हैदराबादः> भारत-विन्डीसयोः टि-२० क्रिकेट स्पर्धापरम्परायां चतुर्धस्पर्धा वेस्ट् इन्डीसेन विजिता। विन्डीसनायकस्य षाय् होप् इत्यस्य निर्दयं कन्दुकताडनं तेषां विजये निर्णायकमभवत्। सः ५० कन्दुकेषु १०२ धावनाङ्कान् सम्प्राप।
२४ धावनाङ्कैः आसीत् भारतस्य पराजयः। प्राप्ताङ्कसूचिका - विन्डीसः २० क्षेपणचक्रेषु २४७/३। अर्षदीपसिंहः व्रणितः सन् निवृत्तः इत्यतः भारतं १९.३ क्षेपणचक्रेषु २२३/९। अनेन विजयेन विन्डीसः भारतेन सह समस्थितं जग्राह [२ -२]।
भारतस्य ७% वृद्धिः प्रोच्यते, ऐ एम् एफ् संस्थया।
नवदिल्ली> भौगोलिकार्थिकव्यवस्था सन्दिग्धतां सृजते अपि भारतस्य सम्पद्व्यवस्था दृढतया वर्तते इति अन्ताराष्ट्रिय नाणकनिधिः [ऐ एम् एफ्]। राष्ट्रस्य आर्थिकवृद्धिः २०२६-२७ आर्थिकसंवत्सरे ७% भवेदिति संस्थायाः निर्णयः। पूर्वं ६. ४ आसीत् प्रोक्तवृद्धिः।
ऐ एम् एफ् संस्थायाः गणनानुसारं भारतस्य वृद्धिः २०२५ तमे वर्षे ७. ८ आसीत्। २०२६, २०२७ वर्षयोरपि ७% वृद्धिः प्रोच्यते। चीनस्य वृद्धिः २०२६ तमे ४•५% तथा २०२७ तमे ४% च भविष्यतीति गण्यते।
परम्परागतव्रीहीबीजानां संरक्षकः
चेरुवयल् रामः दिवंगतः।
चेरुवयल् रामः स्वगृहे।
वयनाट्> जैवकृषिरीतिमवलम्ब्य अपूर्वाणां व्रीहीबीजानां संरक्षणं कृतवान् चेरुवयल् रामः [७४] दिवंगतः। २०२३ तमे वर्षे राष्ट्रस्य पद्मश्रीपुरस्कारेण समादृत आसीत्।
वयनाट् जनपदे मानन्तवाटी प्रदेशे 'कम्मना' इत्यत्रस्थः गोत्रवर्गीयः कृषकः आसीत् चेरुवयल् रामः। वंशनाशं प्राप्नुवन्ति अपूर्णाणि ४५ अधिकरणानि व्रीहीबीजानि स्वकीये केदारे परम्परागतरीत्या कृषिं कृत्वा संरक्षितवान्। न केवलं व्रीहीबीजानि, बहूनि शाकानि औषधसस्यानि च एवं रीत्या संरक्षितवान्।
२०११ तमे वर्षे हैदराबादे आयोजिते १२ राष्ट्राणां भागधेयत्वेन विशिष्टे जैववैविध्यसम्मेलने केरलस्य प्रतिनिधिः चेरुवयल् रामः आसीत्।
वैशालिजिल्लायां राघोपुरथानसीमान्तर्गते मंगलवाररात्रौ गङ्गानद्यां नौकादुर्घटनया त्रयोदश बालाः मृताः।
नौकायाम् आरूढाः ग्रामीणः अन्यं ग्रामं गच्छन्ति स्म, यत्र तैः भोजने भागं स्वीकृतव्यम् आसीत्।
स्थानीयजनस्य मतानुसारम्, भगताण्टोलायां (रामपुरश्याम्चंदपंचायती) मातामहराणीस्थानस्य पार्श्वे सिंहेश्वररायस्य नाम्ना व्यक्तेः गृहे भोज्यसत्कारस्यायोजनं कृतम् आसीत्। प्रायः विंशतिजनाः एकस्मिन् लघुनौकायाम् आरूढाः गच्छन्ति स्म।
वैशाल्याः जिल्लाधिकारिण्या वर्षासिंहायाः मतानुसारम्, सप्त जनाः रक्षिताः ते च नालंदा-वैद्यकीय-महाविद्यालयस्य आतुरालयं प्रेषिताः। तया उक्तं यत् नौकायाम् सर्वे बालाः पञ्चदश-वयसकाः तद्यूनाः वा आसन्।
भारत-विन्डीस् चतुर्थं टि-२० अद्य।
भारतं विजयते चेत् परम्पराप्राप्तिः।
हैदराबादः> भारत-वेस्ट् इन्डीसयोः चतुर्धा टि-२० क्रिकटस्पर्धा बुधवासरे सायं हैदराबादे सम्पत्स्यते। पञ्चस्पर्धात्मिकायां परम्परायां त्रिषु प्रतिद्वन्द्वेषु समाप्तासु २-१ इति क्रमेण भारतम् अग्रे तिष्ठति। अद्यतनस्पर्धां विजयते चेत् भारतस्य परम्पराप्राप्तिः सिध्येत।
केरलविधानसभासम्मेलनम् आरब्धम्।
वयोवृद्धानां योगक्षेमाय नूतनं विधेयकम् प्रस्तुतम्।
अनन्तपुरी> १६ तम केरलविधानसभायाः द्वितीयं सम्मेलनं सोमवासरे समारब्धम्। वयोवृद्धानां योगक्षेमाय नूतनं विधेयकं मंगलवासरे सभायां प्रस्तुतम्। मुख्यमन्त्रिणा वि डि सतीशेन प्रस्तुतं विधेयकं विशेषज्ञसमित्यै [subject committee] समर्पितम्।
नागरिकानां कृते शासनमण्डले सविशेषविभागरूपीकरणं कृतं राज्यं भारते प्रथमतया केरलमस्ति। निर्वाचनकाले यू डि एफ् सख्येन कृतं वाग्दानमासीत् प्रौढवयस्कानांक्षेमाय सविशेषविभागः। विधायकेSस्मिन् ये वयोवृद्धान् परित्यजन्ति तेषां द्रव्य-कारागारदण्डं दृढीक्रियते। तथा च वरिष्ठानां परिचरणं संरक्षणं च विधेयके दृढीकृतमस्ति।
चत्वारः पाकिस्थानीयभीकराः गुप्तप्रवेशसमये बोम्बस्फोटनेन हताः।
श्रीनगरं> जम्मु-काश्मीरस्थे पूञ्च जनपदे नियन्त्रणमार्गद्वारा भारतं प्रति गुप्तप्रवेशाय उद्युक्ताः चत्वारः पाकिस्थानीयभीकराः खन्यबोम्बस्फोटनेन हताः। हतेषु निरुद्धसंघटनस्य लष्कर् ई तोय्बा इत्यस्य नेता मुहम्मद फैसान् नामकः अपि अन्तर्भवतीति अधिकारिभिरुक्तम्।
षट् राज्येषु नूतनराज्यपालाः।
केरले ओं प्रकाश माथुरः।
ओं प्रकाश माथुरः।
नवदिल्ली> तमिलनाट्, कर्णाटकं, सिक्किमः, उत्तराखण्डः, ओडीषा, केरलम् इत्येतेषु राज्येषु नूतनराज्यपालाः नियुक्ताः। केरलस्य राज्यपालं राजेन्द्र आर्लेकरं तमिलनाटस्य राज्यपालरूपेण स्थानपरिवर्तनमकरोत्। सिक्किमस्य राज्यपालः ओं प्रकाश माथुरः अस्ति केरलस्य नूतनः राज्यपालः।
ओडीषायां ब्रज मोहन रामः, कर्णाटके डो सुधायादवः, उत्तराखण्डे डो धल् सिंह बिसेनः, सिक्किमे दुष्यन्त गौतमश्च राज्यपालाः भविष्यन्ति।
![]() |
| Navika D. Nair (left) and Cathlin Marie Jeesan with Smriti 1.0 | Photo From: The Week| |
केरलप्रदेशस्य १४ वर्षीये बालिके काथ्लिन् मेरी जीसन् (Cathlin Marie Jeesan), नविका डी. नायर् (Navika D. Nair) च प्राचीन-तालपत्रग्रन्थानाम् संरक्षणार्थम् अङ्कीकरणार्थम् (digitization) च 'स्मृतिः १.०' (Smriti 1.0) इति स्वयञ्चलितं यन्त्रम् आविष्कृतवत्यौ। प्राचीनाः ताडपत्रग्रन्थाः भारतीयसंस्कृतेः ज्ञानस्य च अमूल्यनिधयः सन्ति, किन्तु कालक्रमेण तेषां क्षयः भवतीति ज्ञात्वा अस्याः समस्यायाः समाधानार्थम् एते बालिके प्रवृत्ते अभवताम्।
एतेन अभूतपूर्वेण कार्येण हैदराबाद्-नगरे आयोजितायां 'विश्व-यन्त्रकलोलम्पियाड्' (WRO India Nationals) स्पर्धायां 'ज्येष्ठ-नवस्रष्टृ' (Future Innovators - Senior) वर्गे एते प्रथमस्थानम् अलभेताम्। अनेन साफल्येन एते 'प्युर्तो रिको' (Puerto Rico) देशे डिसेंबर-मासे भविष्यन्त्याम् अन्ताराष्ट्रियायां स्पर्धायां भारतस्य गौरवपूर्णं प्रतिनिधित्वं करिष्यतः।
तमिलनाटे १३,००० कोटि रूप्यकाणां परियोजनाः प्रधानमन्त्रिणा उद्घाटिताः। 
अभियोजनानाम् उद्घाटनं विजयेन सह नरेन्द्रमोदी करोति।
चेन्नई> रविवासरे प्रधानमन्त्री नरेन्द्र मोदी तमिलनाटाय १३,००० कोटि रूप्यकाणां विकसनाभियोजनाः शिलान्यासानि च उद्घाटनं कृतवान्। चेन्नै मेट्रो अभियोजनायाः द्वितीयचरणे ४९०० कोटि रूप्यकाणां व्यये निर्मितस्य मार्गस्य उद्घाटनं मुख्यमन्त्रिणा विजयेन सह प्रधानमन्त्री निरवहत्। तदतिरिच्य विविधानां राष्ट्रियमार्गाणां, रेल् यानमार्गाणां, पञ्च अमृतभारत निस्थानानां चोद्घाटनं प्रधानमन्त्रिणा कृतम्।
तथा च चेन्नई नौकाश्रयस्य विकासपरियोजना, मणली तैलशुद्धीकरणशालायाः नूतनाभियोजना इत्येतयोः शिलान्यासः मोदिवर्येण कृतः। मद्रास् ऐ ऐ टि मध्यस्था 'सुधा गोपालकृष्णन् ब्रयिन् सेन्टर' नामिका संस्थामपि सः राष्ट्राय समर्पितवान्।
सौद्यां पुनरपि अग्निशस्त्राक्रमणं
१३ मरणानि; एकः भारतीयः।
रियादः> सौदीराष्ट्रस्य राजधान्यां रियादे किंग् खालिद् अन्ताराष्ट्रविमाननिलयं प्रति शनिवासरे कृते अग्निशस्त्राक्रमणे १३ जनाः हताः। तेष्वेकः भारतीयः भवति। हैदराबादप्रदेशीयः मुहम्मद यूसफः अस्ति मृतः भारतीयः। तस्य परिवाराङ्गाः त्रयः आहताः। ११ भारतीयान् अभिव्याप्य आहत्य ३०९ जनाः व्रणिताः।
हूतिनः आक्रमणमिति दृढीकृतम्। शक्तं प्रत्याघातं करिष्यतीति सौदीसेनया स्पष्टीकृतम्।
नेपालदेशस्य गोर्खामण्डले बुढीगण्डकी-नद्याम् सहसा उत्पन्नेन जलप्रवाहेन बहूनि गृहाणि नष्टानि। ह्यः (अक्टोबर-मासस्य एकादशे दिनाङ्के) प्रभाते सञ्जातस्य तडित्प्लवनस्य कारणात् नदीतीरस्य जनवासक्षेत्रेषु आपत्संभावितेभ्यः क्षेत्रेभ्यः जनान् सुरक्षितस्थानानि प्रति गन्तुम् अधिकारिभिः निर्देशः प्रसारितः। वर्तमाने कापि जनहानिः आहतता वा न प्रतिवेदिता इति अधिकारिभिः सूच्यते।
भूस्खलनेन निर्मितायाः तात्कालिकजलबन्धिकायाः विदारणात् एव अयं झटिति जलप्रवाहः सञ्जातः इति संशयः वर्तते। प्रभाते चतुर्वादने बुढीगण्डकी-नद्याः जलस्तरः सहसा वर्धितः इति वृत्तैः ज्ञायते। तीव्रस्य प्रवाहस्य शब्दः दूरस्थानेष्वपि श्रुतः इति वार्त्ताः सन्ति। नद्याः पङ्कयुक्तैः मलिनैः जलैः तीरक्षेत्रेषु भीतिः व्याप्ता। प्लवनस्य वास्तविकं कारणम् इदानीं न निश्चितम्।
ग्यानेष् कुमारस्य स्थानत्यागाय सि जे पी प्रक्षोभः।
राष्ट्रराजधानी संघर्षभरिता। नगरम् आरक्षकाधीनम्।
राजनैतिकदलनेतारः गृहात्, विमानात्, यानात्, मार्गात् च निगृहीताः।
![]() |
नवदिल्ली> शनिवासरः दिल्लीवासिनां नगरस्थानां च दुर्दशा आसीत्। मुख्यनिर्वाचनायुक्तस्य ग्यानेष् कुमारस्य पदवीत्यागाय सि जे पी [क्रोकोच् जनता पार्टी] इति युवजनसंघस्य नेतृत्वे आयोजितः युवजनप्रक्षोभं दमयितुं केन्द्रसर्वकारेण नियुक्तः आरक्षक-केन्द्रसेनादलः पूर्वेद्युः रात्रावेव नगरनियन्त्रणं स्वाधीने कारितम्। आन्दोलनकेन्द्रमिति निश्चितं जन्तर मन्दरस्थानं तटस्थानि विन्यस्य सम्पूर्णतया अगम्यमानं कृतम्।
भारत-विन्डीस टि २०।
द्वितीयस्पर्धायां विन्डीसस्य विजयः।
![]() |
| विन्डीसाय शतकं प्राप्तवान् गणनायकः षाय् होपः। |
राञ्ची> भारतस्य कन्दुकताडकैः आरचितं धावनाङ्कपर्वतम् अनुगम्य प्रभञ्ज्य वेस्ट् इन्डीसस्य ताडकाः। भारतं विरुध्य वेस्ट् इन्डीसस्य द्वितीया टि २० क्रिकेट स्पर्धा ४ ताडकानां विनष्टे विन्डीसेन विजिता। प्रथमं कन्दुकताडनं कृतवत् भारतं २० क्षेपणचक्रेषु ५ ताडकानां विनष्टे २४९ धावनाङ्कान् सम्पादयामास। विन्डीसस्तु १८.३ क्षेपणचक्रेषु ४ ताडकानां विनष्टे २५२ धावनाङ्कान् सम्पाद्य विजयलक्ष्यं प्राप। विन्डीसस्य बृहत्तमं धावनाङ्कानुगमनं [run chase] भवत्येतत्।
स्टोक्होम्> द्विसहस्राधिकषड्विंशतितमे (२०२६) वर्षे शान्त्यै नोबेलपुरस्कारः भारतवंशजायाः नवनीतं नवी पिल्लै महोदयायाः कृते प्राप्तः। दक्षिणाफ्रिकादेशजाता नवनीतं नवी पिल्लै महोदया मानवाधिकारकार्यकर्त्री न्यायाग्रणी च अस्ति। सा पूर्वम् संयुक्तराष्ट्राणाम् (UN) मानवाधिकारायोगस्य उच्चायुक्ता आसीत्। सम्प्रति सा पलस्तीनदेशस्य कृते संयुक्तराष्ट्राणाम् स्वतन्त्रायोगस्य अध्यक्षा अस्ति।
नवदिल्ली>
आन् कार्सः साहित्यनोबेल् प्राप्तवती।
स्टोक् होमः> साहित्यविभागे अस्य वर्षस्य नोबेलपुरस्काराय कनेडियाकवयित्री प्रबन्धकारिणी, तथा साहित्यनिपुणा च आन् कार्सः (७६)अर्हा अभवत्। रचनामण्डले कालातीतं नूतनमार्गं मार्गमाणा साहित्यकारी भवति आन् इति पुरस्कारसमित्या निरूपितम्। समग्रयोगदानं पुरस्कृत्य अस्ति पुरस्कारः।
श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य संस्कृतदिनोत्सवः समाप्तः।
डो जि गंगाधरन् नायर्, डो के मुरलिः, उषा नङ्ङ्यर् इत्येते समादृताः।
कालटी> केरले श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य संस्कृतदिनोत्सवः समाप्तः। समाप्तिसम्मेलनं कुलपतिः सिसा तोमसः उद्घाटनमकरोत्। उज्जैनीस्थस्य महर्षि पाणिनि संस्कृत एवं वेदविश्वविद्यालयस्य भूतपूर्वः कुलपतिः डो सि जी विजयकुमारः मुख्यभाषणं कृतवान्।
संस्कृतक्षेत्राय कृतं समग्रयोगदानं पुरस्कृत्य विख्यातः संस्कृतपण्डितः महामहोपाध्यायः डो जि गंगाधरन् नायर्, आयुर्वेदस्य अनुशीलनानुसन्धानमण्डले कृतं योगदानं पुरस्कृत्य प्रमुखः आयुर्वेदभिषग्वरः डो के मुरलिः, कूटियाट्टकलायां योगदानमालक्ष्य उषा नङ्ङ्यार् इत्येते विश्वविद्यालयेन समादृताः।
संस्कृतोत्सवस्य अंशतया वाक्यार्थविचारः, छात्राणां कृते विविधाः स्पर्धाः च आयोज्य सम्मानानि वितीर्णानि।
लख्नौ> पट्नातः लख्नौदेशं प्रति सप्तदशसहस्रपादोन्नते आकाशे उड्डीयमानस्य इन्डिंगो विमानस्य उपरि तडिदाघातः अभवत्। तडिदाघातानन्तरं विमानस्य आपत्कालीनावतरणं कृतम्। विमानस्य अग्रभागे क्षतिः अभवत्। विमाने विद्यमानैः षट् कर्मकरैः साकम् आहत्य ११० यात्रिकाः आसन्। सर्वे सुरक्षिताः इति अधिकारिभिः आवेदितम्। निर्धारितसमयात् अष्टनिमेषात् पूर्वमेव विमानं सुरक्षितरूपेण लख्नौ विमानपत्तने सम्प्राप्तम्। Photo: X/ TOILucknow
रिसर्वबेंकेन 'रिपो'मानं वर्धापितम्।
ऋणभारं वर्धिष्यते।
मुम्बई> भारतीय रिसर्व बेंकेन [RBI] वित्तकोशेभ्यः दीयमानस्य ऋणस्य वृद्धिमानं [रिपो मानं Ripo rate] 0.25% वर्धापितम्। अतः एतत् भवन-वाहन-वैयक्तिक ऋणानां वृद्धिवर्धनस्य कारणाय भविष्यति। ५.२५ इत्यतः ५. ५ इत्येव नूतनं रिपोमानम्।
२०२३ फेब्रुवरीतः परं प्रथमतया एव रिपोमानस्य वर्धापनम्। राष्ट्रस्य वर्तमानीनार्थिकवर्षस्य अभिवृद्धिः ६.७ प्रतिशतमित्यतः ७.१ % इति अनुमीयते।
गोवा>प्रसिद्धः हिन्दी-मराठी-चलच्चित्राभिनेता नाना पाटेकरः (७५) दिवङ्गतः। हृदयाघातेन पीडितः सः गोवायाः निजीयचिकित्सालये अन्तिमश्वासं त्यक्तवान्। ‘क्रान्तिवीर्’ इति चलनचित्रे उत्कृष्टाभिनयस्य कृते तेन श्रेष्ठाभिनेतुः राष्ट्रस्तरीययचलच्चित्रपुरस्कारः प्राप्तः। कलाक्षेत्रे तस्य उत्कृष्टयोगदानं परिगणय्य २०१३ तमे वर्षे पद्मश्री पुरस्कारेण सः समादृतः। तस्य सविशेषा अभिनयशैली संभाषणानि च भारतीय चलनचित्रेषु अपूर्वा भवति।
हर्मन् प्रीतकौर् क्रिकट्नायिकापदं त्यक्तवती।
नवदिल्ली> भारतस्य महिला क्रिकटक्रीडाचरित्रे सुवर्णाध्यायम् आलिखितवती श्रेष्ठा गणनायिका हर्मन् प्रीतकौर् वर्या राष्ट्रियक्रीडागणस्य पदं संत्यजति। सामाजिकमाध्यमेन आसीत् तस्याः स्तरत्रयस्यापि नायिकापदत्यागोद्घोषणम्। उपनायिका स्मृति मन्थाना नूतननायिकारूपेण बि सि सि ऐ संस्थया चिता।
होर्मुस् समुद्रसङ्कोचे इन्धनमहानौकां प्रति आक्रमणं -
११ भारतीयनाविकाः आहताः।
नवदिल्ली> होर्मुस् समुद्रसङ्कोचे पनामा राष्ट्रध्वजं वहन्ती तैलेन्धनमहानौका व्योमाक्रमणाधीना जाता। भारतीयाः ११ नाविकाः आहताः इति विदेशकार्यमन्त्रालयेन निगदितम्। आहत्य १९ वृत्तिकराः महानौकायां सन्ति। तेषु १७ जनाः भारतीयाः भवन्ति। तेषु ११ कर्मकराः एव व्रणिताः।
ग्यानेष् कुमारस्य स्थानत्यागाय प्रक्षोभः।
राजधानीनगर्यां आन्दोलनाग्निः प्रोज्वलते।
राहुल-प्रियङ्कादयः निगृहीताः; विमुक्ताश्च।
![]() |
| राहुल गान्धी बलादपनीयते। |
नवदिल्ली> निर्वाचनायोगस्य एस् ऐ आर् प्रक्रियायां प्रलोमकरणमारोप्य विपक्षदलैः आरब्धः प्रक्षोभः ह्यः उच्चस्थमभवत्। ओक्टोबर् द्वितीयदिनाङ्के - गान्धिजयन्तिदिने - सि जे पी संघैः मुम्बैय्याम् आरब्धः प्रक्षोभः अनन्तरदिनेषु दिल्ल्यां जन्तर मन्दरं केन्द्रीकृत्य अनुवर्तते स्म। सि जे पी संघं विना विभिन्नैः विपक्षीयछात्रदलैः युवजनसंघटनैश्च आन्दोलनम् आयोजयामास। रक्षिपुरुषैः सह संघर्षोSपि जातः।
मंगलवासरे एषः प्रक्षोभः कोण्ग्रसः नेतृत्वे 'इन्डिया'सख्येन स्वीकृतः। राहुलगान्धिनः नेतृत्वे संसद्सदस्याः प्रभाते एकादशवादने मुख्यायुक्तस्य कार्यालयं प्रति पथसञ्चनं समारब्धम्। मार्गमध्ये सदस्याः निगृहीताः निवारिताश्च। किन्तु अप्रतीक्षितप्रक्रमेण विपक्षनेता राहुल गान्धी समीपस्थस्य आकाशवाणीभवनस्य परिसरं प्रविश्य उपवेशनान्दोलनमारब्धम्। प्रियङ्का गान्धी, के सि वेणुगोपालः इत्यादयः नेतारः अपि अनुयायिभिः सह राहुलस्य समीपं प्राप्तवन्तः।
राहुल गान्धिनः एतादशेन आकस्मिकप्रक्रमेण दिल्ल्याः आरक्षकदलं परिभ्रान्तमभवत्। अनुनयश्रमः विफलो जातः। रात्रौ अष्टवादने राहुलं प्रियङ्कां च इतरैः सदस्यैः सह आरक्षकसंघः हठेन निगृह्य यानं प्रावेशयत्। किन्तु राहुलः यानात् बहिर्गन्तुमुद्युक्तवानपि न शक्यते स्म। किञ्चित्कालानन्तरं सर्वेSपि विमोचिताः।
युरुग्वा-भारतसौहृदस्पर्धा।
युरुग्वा - ६, भारतं - १।
कोल्कोत्ता> भारतस्य युरुग्वापादकन्दुकगणेन सह कृते सौहृदप्रतिद्वन्द्वे युरुग्वागणस्य विजयः। एकं विरुध्य षट् लक्ष्यकन्दुकैः आसीत् युरुग्वाविजयः।
मेघविद्युता सह वृष्टिः क्रीडायाः प्रतिबन्धमसृजत्। मध्ये अल्पकालं यावत् क्रीडा स्थगिता च। क्रीडायाः प्रथमार्धकाले आसीत् भारतस्य लक्ष्यसंप्राप्तिः। युरग्वागणस्तु द्वयोरर्धयोः ६ लक्ष्याणि सम्प्राप।
मेसिवर्यस्य अन्तिमा पादकन्दुकस्पर्धा बुधवासरे प्रत्युषसि।
अतीतविश्वचषकात्परम् अन्ताराष्ट्रियस्पर्धाभ्यः विरतिं प्रख्यापितवते मेसिवर्याय अर्जन्टीना पादकन्दुकसमित्या एव अन्तिमाभिवादनस्पर्धा आयोज्यते। अर्जन्टीनया सह दशकद्वयाधिकसंवत्सराणि यावत् दीर्घितायाः पादकन्दुकयात्रायाः अद्य परिसमाप्तिर्भविष्यति।
अद्य भारत-युरग्वाय् पादकन्दुकस्पर्धा।
कोल्कोत्ता> ब्रसीलेन सह पादकन्दुकक्रीडायाः अनन्तरं मंगलवासरे रात्रौ भारतं चरित्रे प्रथमविश्ववीरेण युरग्वायराष्ट्रेण सह क्रीडति। कोल्कोत्तायां साल्ट् लेक् क्रीडाङ्कणे सार्धसप्तवीदने अस्ति स्पर्धा।
द्वितीयवारमेव भारतं युरग्वायम् अभिमुखीकरोति। प्रथमस्पर्धा १९८२ तमे वर्षे नेहरू चषके आसीत्। तदानीं ३-१ इति क्रमे युरग्वायः विजितः। फिफायाः श्रेणीकरणे युरग्वायः २० तमस्थाने अस्ति। भारतं तु १३८ तमे स्थाने च।
वैद्यशास्त्रनोबेल् पुरस्काराय त्रयः उद्घोषिताः। 
पुस्कारोद्घोषणम्।
स्टोक होमः> अस्य वर्षस्य वैद्यशास्त्रनोबेल् पुरस्कारः उद्घोषितः। त्रयः अर्हाः अभवन्। यू एस् - जर्मन् गवाषकाः नाम्ना काल् डेय्स् रोत् (५४), पीटर् हेग्मान् ७१), जोर्ज् नगेल् (७३) इत्येते पुरस्कृताः। मस्तिष्कस्थानां वैयक्तिकनाडीकोशानां प्रवर्तनं प्रकाशम् उपयुज्य नियन्त्रणविधेयं सुसाध्यमाने अनुशीलने [Optogenetics] अस्ति पुरस्कारः।
स्टाक्होम्> (Stockholm) — २०२६ तमस्य वर्षस्य वैद्यशास्त्राय (Medicine) नोबेल्-पुरस्कारः (Nobel Prize) त्रिभ्यः वैज्ञानिकेभ्यः उद्घोषितः। कार्ल्-डीसेरोथ् (Karl Deisseroth), पीतर्-हेगेमन् (Peter Hegemann), जोर्जज्-नागेल् (Georg Nagel) इत्येते वैज्ञानिकाः अस्य पुरस्कारस्य भागिनः अभवन्। एतेभ्यः प्रकाश-नियन्त्रित- आयस-प्रणालीनां (light-gated ion channels) अन्वेषणाय, प्रकाश-आनुवंशिकी-प्रविधेः (Optogenetics) विकासाय च संयुक्तरूपेण एषः पुरस्कारः समर्पितः। स्वीडन् (Sweden) देशस्य कैरोलिन्स्का-संस्थायाः (Karolinska Institute) नोबेल्-समित्या एषा विज्ञप्तिः कृता।
ब्रिटीषविमानं २८,००० पादमितम् अधः निपतितम्।
लण्टनं> फ्लै दुबाय् विमानघटनायाः जातस्य प्रकम्पनस्य विमोचनात्पूर्वं तादृशी इतरा घटना अपि ब्रिटनादागच्छति।
लण्टने हीत्रो विमाननिलयात् षिकागोस्थं 'ओहेयर्' विमाननिलयं प्रति डयमानं ब्रिटिश एयर्वेस् संस्थायाः बोयिंग् ७७७ विमानं आपत्कालीनरीत्या हीत्रोविमाननिलये प्रत्यवतरणं कारितम्। हेतुः क इति न स्पष्टीकृतः। विमानं यदा अयर्लान्डस्य उपरि प्राप्तं तदा ३७,००० पादमितात् उच्चात् अधः निपत्य क्षणाभ्यन्तरे ९००० पदमितम् उच्चावस्थां प्राप्तमासीत्। अस्मिन् समये विमानात् 'स्क्वाक् 7700' इति आपत्कालीनसन्देशः बहिरागतः। भारलघूकरणाय इन्धनविसर्जनं कृतमिति वृत्तान्तीक्रियते। 'अप्रतीक्षितं प्रवर्तनदोष' एव यात्रासमापनाय कारणमिति कतिपयैः ब्रिटीषीयमाध्यमैः वृत्तान्तीकृतम्।
एष्यन् गयिंस् क्रीडायै वर्णोज्वलपरिसमाप्तिः।
आगामि गयिंस् खत्तरे।
![]() |
| गयिंस् समाप्तिकार्यक्रमात्। |
नगोया> जापाने 'एची-नगोया' नामकं नगरं केन्द्रीकृत्य अतीतानि पञ्चदशदिनानि यावत् आयोजिताः एष्यन् गयिंस् स्पर्धाः वर्णशबलैः कार्यक्रमैः परिसमाप्ताः। २०३० तमे वर्षे सम्पत्स्यमानस्य गयिंस् महोत्सवस्य आतिथेयराष्ट्रेण खत्तरेण गयिंस् दीपशिखा पताकया सह स्वीकृता।
नगोयायां 'मिसुहो पलामो' इति कायिकक्रीडाङ्कणे जापानस्य राजकुमारः फुमिहि तो, तस्य पत्नी किको इत्यादीनां सान्निध्ये एष्यायाः ओलिम्पिक्स् कौण्सिल् संस्थायाः अध्यक्षः षेक् जोवान् वर्यः समाप्तिघोषणं कृतवान्।