OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, March 10, 2026

 इरान युद्धम्। 

पानजलसुविधां विभञ्ज्य युद्धपरिवर्तनम्। 

दुबाय्> द्वितीयसप्ताहे अपि  संघर्षभरितं पश्चिमेष्यायुद्धं नूतनस्तरं प्राविशत्। इरानस्य गल्फराष्ट्राणां च जीवनाडिरूपेण वर्तमानाः समुद्रजलशुद्धीकरणशालाः विरुध्य युद्धस्य गतिः परिवर्तिता। शनिवासरे 'केषं' द्वीपे विद्यमानां इरानस्य समुद्रजलशुद्धीकरणशालाम् आक्रम्य यू एस् राष्ट्रमेव नूतनयुद्धरीतिमारभत। ततः रविवासरे बहरिनस्था जलशुद्धीकरणशाला इरानेनापि आक्रमिता। 

  गल्फराष्ट्राणां मुख्यं पानजलस्रोतः समुद्रजलशुद्धीकरणशालाः भवन्ति।  नगराणामवस्थितिः, उद्योगसंस्थानां प्रवर्तनं, भोजन-वासालयानां प्रवर्तनं, कृषिः इत्यादिसर्वम् अपनीतलवणाशं समुद्रजलमेव आश्रयते। कुवैट् राष्ट्रस्य पानजलस्य ९०% समुद्रजलं शुद्धीकृत्य एवोपयुज्यते। तथा च  ओमाने ८६%, सौद्यां ७०% च पानजलं समुद्रजलशुद्धीकरणेन एव।

  एतत् जलयुद्धं तु 'जनीवा सन्धि'मभिव्याप्य अन्ताराष्ट्रमानवाधिकारनियमानां लङ्घनमस्ति।

 प्रमुखः चरित्रकारः 

के एन् पणिक्कर् दिवंगतः। 


संस्कृतविश्वविद्यालयस्य भूतपूर्वः कुलपतिः। 

अनन्तपुरी> विख्यातः चरित्रपण्डितः तथा श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य [केरलम्] भूतपूर्वः कुलपतिश्च डो के एन् पणिक्कर् [९०] दिवंगतः।अनन्तपुरीनगरस्थे निजीयातुरालये परिचर्यायामासीत्।

  केरल चरित्रगवेषणसमित्याः अध्यक्षः, भारतीय चरित्र कोण्ग्रस् इत्यस्य अध्यक्षः, केरलस्य उच्चतरशैक्षिकसमित्याः उपाध्यक्षः इत्यादीनि कार्यभारान् च वहति स्म। 

  गुरुवायूर् प्रदेशे लब्धजन्मा कण्टियूर् नारायणप्पणिक्करः इति पूर्णनामधेयः अयं दिल्ली जे एन् यू विश्वविद्यलये चरित्रविभागाध्यक्षः, डीन् पदीयः चासीत्। बहुषु विदेशविश्वविद्यालयेषु सन्दर्शकप्राचार्यः आसीत्। आङ्गलेये सन्ति तस्य भूरिशः ग्रन्थाः। २००० - २००४ कालखण्डे पणिक्करवर्यः कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य कुलपतिपदम् अलङ्करोति स्म।

 इङ्गलाण्ट् ओपण् बाड्मिन्टण्

लक्ष्या सेनस्य द्वितीयस्थानम्। 


लण्टनं> पिच्छकन्दुकक्रीडायाः [बाड्मिन्टण्] विम्बिल्डण् इति विख्यातायाः इङ्गलाण्ट् ओपण् बाड्मिन्टण् क्रीडापरम्परायाः अन्त्यस्पर्धायां भारतस्य क्रीडकः लक्ष्य सेनः द्वितीयस्थानेन तृप्तः जातः। चैनीस् ताय्पेय् राष्ट्रस्य [तैवान्] क्रीडकेन लिन् चुन् यि नामकेन एव सेनः पराजितः। २०२२ तमे वर्षे अपि लक्ष्य सेनः अन्त्यस्पर्धायां पराजितः आसीत्।

Monday, March 9, 2026

 भारतस्य विश्वविजयः। 

किरीटं प्राप्तः भारतसंघः आह्लादे। 

*त्रिवारं उपलब्धकिरीटम् एक एव दलम्। 

*सञ्जू सांसणः परम्परा प्रवीरः। 

सञ्जू सांसणः।

*जस्प्रीत बुम्रः क्रीडाप्रवीरः। 

अहम्मदाबादः> टि-२० विश्वचषकस्य किरीटोपलब्धिना भारतदलाय अभिलेखप्रवर्षः! ह्यः अहम्मदाबादस्थे नरेन्द्रमोदी क्रीडाङ्कणे न्यूसिलान्टं ९६ धावनाङ्कैः पराजित्य आसीत् भारतस्य उज्वलविजयः। धावनाङ्कस्य आधारे विश्वचषकान्त्यस्पर्धासु उच्चतमः विजयो भवत्येषः।  २००७,२०२४ वर्षयोः विजयकिरीटं धृतवतः भारतस्य तृतीयः विश्वविजयः। प्रथमतया एव एकेन दलेन किरीटोपलब्धिः अवस्थाप्यते। त्रिवारं टि-२० मध्ये विश्वविजयी भवत् एकं दलमपि भारतस्य अस्ति। 

  प्रथमचरणे कन्दुकताडनं कृतवते भारताय. २५५ इति बृहत्तरं प्राप्ताङ्कम् उपलब्धुं मुख्यतया साहाय्यं कृतवन्तः एते आसन् - सञ्जू सांसणः [४६ कन्दुकैः ८९ धावनाङ्काः], अभिषेक शर्मा [२१ कन्दुकैः ५२], इषान किषन् [२५ कन्दुकैः ५४], शिवं दुबे [८ कन्दुकैः २६] च। विश्वचषकान्त्यप्रतिद्वन्देषु उच्चतमं प्राप्ताङ्कं भवति २५५। 

  भारतस्य क्रीडासु निर्णायकेषु अन्तिमेषु त्रिषु प्रतिद्वन्द्वेषु  - प्रपूर्वान्त्ये, पूर्वान्त्ये, अन्त्ये च - उच्चतरप्राप्ताङ्कः भूत्वा भारतं विजयतीरमानेतुं मुख्यभागं कृतवान् सञ्जू सांसणः परम्पराप्रवीरः अभवत्। केरलीयोSयं प्रपूर्वान्त्ये, पूर्वान्त्ये च क्रीडाप्रवीरः चासीत्। 

    कन्दुकक्षेपणे जस्प्रीत बुम्रः चत्वारि, अक्सर पटेलः त्रीणि च द्वारकाणि उपलब्धवन्तौ। बुम्रः क्रीडाप्रवीरो जातः। न्यूसिलान्टपक्षाय प्रथमे क्षेपणचक्रद्वये शोभनं प्रारम्भं कन्दुकताडने लब्धमपि भारतक्रीडकानां क्षेत्ररक्षणं [Fielding], कन्दुकक्षेपणं च क्रीडां भारतस्य अधीने अनयत्।

 ५२,००० जनाः गल्फराष्ट्रेभ्यः प्रतिनिवृत्ताः। 

नवदिल्ली> पश्चिमेष्यायाम् अवस्थाप्यमानस्य संघर्षस्य आधारितयागल्फप्रान्तात् भूरिसंख्यकाः भारतीयाः स्वदेशं प्रतिनिवर्तन्ते। मार्च् प्रथमदिनाङ्कतः सप्तमदिनाङ्कं यावत् ५२,००० तः अधिके जनाः प्रतिप्राप्तवन्तः इति विदेशकार्यमन्त्रालयेन निगदितम्। विविधानि गल्फराष्ट्राणि प्रादेशिकव्योमसीमाः भागिकतया उदघाटयन् इत्यतः एव जनाः सुरक्षिताः प्रतिनिवृत्ताः। सन्दर्शकविसापत्रेण प्राप्तेभ्यः 'ट्रान्सिट्' यात्रिकेभ्यः एव प्राधान्यं दीयते।

 आयव्ययपत्रकसम्मेलनस्य द्वितीयचरणम् अद्य आरभ्यते। 

नवदिल्ली> संसदः आयव्ययपत्रकसम्मेलनं सोमवासरे पुनरारभ्यते। सभापतिम् ओं बिर्लावर्यं निष्कासितुमुद्दिश्य विपक्षदलसख्येन समर्पितं निवेदनम् अस्मिन् सम्मेलने परिगणयिष्यते। 

  पश्चिमेष्यायां वर्तमानः संघर्षः, रष्यातः तैलेन्धनं क्रीणातुम् अमेरिक्कया दत्तम् आनुकूल्यं, एस् ऐ आर् प्रक्रिया इत्यादीनि चर्चाविषयाः भविष्यन्ति।

Sunday, March 8, 2026

 टि-२० विश्वचषकः।

 विश्वकिरीटं भारताय। 

न्यूसिलान्टं ९७ धावनाङ्कैः पराजापयत। 

अर्धशतकं प्राप्तवन्तौ सञ्जू सांसणः इषान् किषनः च।

अहम्मदाबादः> नरेन्द्रमोदी क्रीडाङ्कणं पुनरपि भारतस्य अभिमानक्षेत्रमभवत्। कन्दुकताडने क्षेत्ररक्षणे च अन्यादृशं श्रेष्ठत्वंं प्रकटितवत् भारतदलं टि-२० विश्वचषकस्य अन्त्यस्पर्धायां न्यूसिलान्टदलं ९७ धावनाङ्कैः पराजित्य किरीटमधिस्थापयामास। 

  प्रथमं कन्दुकताडनं कृतवत् भारतं २० क्षेपणचक्रेषु पञ्च ताडकानां विनष्टे २५५ इति बृहत्तमं प्राप्ताङ्कम् अलभत। ८९ धावनाङ्कान् सम्पाद्य सञ्जू सांसणः भारतस्य अधिकाङ्कप्राप्तः [Top scorer] जातः। भारताय इषान् किषनः (५४), अभिषेक शर्मा (५१) च अर्धशतकं प्राप्तवन्तौ। 

   प्रत्युत्तरक्रीडायां न्यूसिलान्टः   १९ क्षेपणचक्रेषु १५९ धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः। क्षेत्ररक्षणे अपि सर्वे क्रीडकाः स्वस्वप्राभवं प्रकट्य भारतं विजयतीरं प्रापयत्।

Latest news

 तमिलनाट्।

विद्यालयेषु राजनैतिक-धार्मिककार्यक्रमाः निरुद्धाः। 

चेन्नई> निजीयविद्यालयपरिसरेषु राजनैतिक-धार्मिककार्यक्रमान् आयोजयितुं तमिलनाट् सर्वकारः निरोधः व्यवस्थापितः। एतदर्थं २०२३ तमवर्षस्य तमिलनाट् निजीयविद्यालयनियमे (Private schools law - Regulations) सर्वकारेण सारभूतः परिष्कारः कृतः। शैक्षिक मण्डलस्य आधारसुविधाः छात्राणां क्षेमाय अध्ययनकार्याय च उपयोक्तव्याः इत्येव नियमपरिष्करणस्य लक्ष्यम्। 

  विद्यालयस्थानि भवनानि, क्रीडाङ्कणानि, सभागाराः, इत्यादीनि राजनैतिक-जाति-धर्म-भाषा-समाजादिषु विद्वेषजनकेभ्यः प्रवर्तनेभ्यः नोपयोक्तव्यानि। प्रत्युत, रक्तदानशिबिराणि, सामाजिकसेवाकार्यक्रमाः, सांस्कृतिककार्यक्रमाः इत्यादिभ्यः उपयोक्तव्याः इति नूतनादेशे स्पष्टीकृतम्।

 इराने स्थलयुद्धस्य सम्भावना।

 मरणानि १३३२। 

टेहरानः> इराने यू एस् राष्ट्रेण स्थलाधिनिवेशं कर्तुमुद्यमते इति इरानस्य परमोच्च सुरक्षासमित्याः अध्यक्षः अलि लारि जानि अवदत्। यदि स्थलयुद्धं भविष्यति तर्हि यू एस् सैनिकाः हनिष्यन्ते वा कारागृहायन्ते वा इति तेन भीषा उक्ता च। इराने आहत्य मरणानि १३३२ अभवन्। 

  लबनने अपि इस्रयेलस्य बोम्बवर्षः अनुवर्तते। तत्र १२३ जनाः मृताः। इरानस्य ड्रोण् आक्रमणेन यू ए ई, खत्तर्, सौदी इत्यादिभ्यः राष्ट्रेभ्यः २०,००० यू एस् सैनिकाः पश्चिमेष्यां परित्यक्तवन्तः।

Saturday, March 7, 2026

 टि २० विश्वचषकः।

भारत-न्यूसिलान्टयोः अन्त्यस्पर्धा श्वः। 

सञ्जु सांसणे जस्प्रीते च भारतस्य प्रतीक्षा। 

अहम्मदाबादः> टि २० विश्वचषकस्य अन्त्यस्पर्धा रविवासरे अहम्मदाबादे नरेन्द्र मोदी क्रीडाङ्कणे सम्पत्स्यते। कन्दुकताडने प्रारम्भकक्रीडकः सञ्जु सांसणः, कन्दुकक्षेपणे जस्प्रीत बुम्रः च विजये भारतस्य प्रतीक्षा अस्ति।

 इरान् युद्धम्। 

गल्फप्रान्तस्य यू एस् सख्यराष्ट्रेषु अमर्षः। 

ड्रोण् आक्रमणं प्रतिरोद्धुं यू एस् साहाय्यं न लभते। 

केय्रो> यू एस्-इस्रेलयोः इरान् प्रति युद्धे सप्ताहे अतीते पेर्ष्यन् गल्फप्रान्ते वर्तमानेषु यू एसस्य सख्यराष्ट्रेषु यू एसं प्रति विप्रतिपत्तिः जायते। इरानम्  आक्रमिष्यति इति विषये यू एसेन पूर्वसूचना न दत्ता इति  सख्यराष्ट्राणां विप्रतिपत्तेः कारणमिति 'ए पी' इति वार्तासंस्थया वृत्तान्तीकृतम्। इरानस्य प्रत्याक्रमणं  प्रतिरोद्धुं सज्जीकरणाय कालः न लब्धः। अपि च इरानस्य मिसैल्,ड्रोण् आक्रमणानि प्रतिरोद्धुं यू एस् सेनायाः पर्याप्तं साहाय्यं न लब्धम्। 

  स्वकीयसेनां संरक्षितुमेव यू एस् - इस्रयेलसेनयोः प्रयासः, गल्फराष्ट्राणि स्वयं रक्षणीयानीति तयोः नयः इति द्वयोः गल्फराष्ट्रयोः सेनाधिकारिभिरुक्तम्।

 इरानस्य युद्धमहानौकायै भारतम् आश्रयमदात्। 


कोच्ची> पश्चिमेष्यायां संघर्षे कलुषिते इरानस्य युद्धमहानौका IRIS लावन् इत्यस्यै भारतम् कोच्ची नौसेनाकेन्द्रसमीपम् आश्रयमदात्। १८३ इरानीयनाविकाः कोच्ची नाविकशिबिरे सुरक्षिताः सन्ति। लावनाय आश्रयं दातव्यमिति भारतं प्रति इरानस्य अभ्यर्थना स्वीकृता इति भारतस्य नौसेनाधिकारिभिः सूचितम्।

   विशाखपट्टणे सम्पन्ने नाविकाभ्यासे भागं कृत्वा प्रतिनिवर्तमानं IRIS देना इति इरानीयां युद्धमहानौकां अमेरेका मार्च् चतुर्थदिनाङ्के अन्तर्वाहिनीम् उपयुज्य निमज्जयति स्म। अन्ताराष्ट्रियपरिशीलनस्य अंशतया भारतमहासमुद्रमण्डले 'ऐ आर् ऐ एस् लावनः आसीत्। महानौकायां यान्त्रिकन्यूनता कारणेन कोच्ची मध्ये 'डोक्किङ्' आवश्यमिति निवेदनमभवत्। फेब्रुवरी अन्तिमदिने आसीत् इदं निवेदनम्। मार्च् प्रथमदिनाङ्के अनुज्ञा दत्ता।

Friday, March 6, 2026

 केरलम्। 

मुख्यनिर्वाचनायुक्तः ग्यानेष् कुमारः केरलं सम्प्राप्तवान्। 

दिनत्रयात्मके सन्दर्शने राज्यस्य निर्वाचनसज्जीकरणस्य अवलोकनम्। 


कोच्ची>राष्ट्रस्य मुख्यनिर्वाचनायुक्तः ग्यानेष् कुमारः त्रिदिवसीयौद्योगिकसन्दर्शनाय  केरलं सम्प्राप्तवान्। केरलस्य विधानसभानिर्वाचनस्य पूर्वसिद्धतां साक्षादवलोकयितुमेव तस्य सन्दर्शनम्। तेन सह इतरौ निर्वाचनायुक्तौ डो एस्  एस् सन्धुः डो विवेक जोषी च स्तः। 

  शुक्रवासरे प्रान्तीयनिर्वाचनाधिकारिणः, राजनैतिक नेतारः, एस् ऐ आर् प्रक्रमस्य अधिकारिणः इत्यादयैः सह चर्चां कृत्वा मतदानावलिम् एस् ऐ आर् प्रक्रिया इत्यादीनाम् अवलोकनं सन्देहनिवारणं च करिष्यति। 

  शनिवासरे अनन्तपुर्यां केरलस्य निर्वाचनाधिकारी, मुख्यकार्यदर्शी, राज्यस्य गृहसचिवः, आरक्षकसेनानिदेशकमुख्यः  इतरे उच्चाधिकारिणः इत्येतैः सह विधानसभानिर्वाचनप्रक्रमाणाम् अवलोकनं करिष्यति।

 असमे 'सुखोय्'विमानं भग्नम्। 

गुवाहाटी> भारतीय व्योमसेनायाः सुखोय्'- ३० एम् के युद्धविमानं भग्नमिति सूच्यते। विमानेन सह 'रडार्' सम्बन्धः असमस्य कर्बी आङ्गलोङ् इत्यत्र विनष्टः अभवदिति वायुसेनाधिकृतैः निगदितम्। 

  गुरुवासरे रात्रौ सप्तवादने आसीदियं घटना। विमानचालकः अप्रत्यक्षः जातः। मार्गणाय सविशेषसंघः नियुक्तः। आसनद्वयोपेतं 'ट्विन् जेट्' [twin jet] परम्परान्तर्भूतं विमानमस्ति रूसनिर्मितमिदम्।

 पश्चिमवंगः। 

राज्यपालः सि वि आनन्दबोसः स्थानमत्यजत्।

सि वी आनन्दबोसः। 

 

कोल्कोत्ता> पश्चिमवंगस्य राज्यपालः सि वि आनन्दबोसः त्यागपत्रं समर्पितवान्। स्थानत्यागस्य कारणं न स्पष्टीकृतम्। सार्धत्रयवर्षाणि राज्यपालपदे  पर्याप्तं कालं यापितवान् इति सः वार्ताहरान् प्रति उक्तवान्। तमिलनाटुराज्यस्य राज्यपालः आर् एन् रविः वंगस्य राज्यपालपदं वक्ष्यति।

Thursday, March 5, 2026

 टि-२० विश्वचषकः।

 भारतम् अन्त्यचक्रे। 

भारतदलम्।

मुम्बई> वांखडे क्रीडाङ्कणं  पुनरपि प्रकम्पितम्। टि-२० विश्वचषकस्य द्वितीये पूर्वान्त्यप्रतिद्वन्द्वे इङ्गलाण्टदलं ७ धावनाङ्कैः पराजित्य भारतदलम् अन्त्यक्रीडां प्राविशत्। 

  प्रथमं कन्दुकताडनं कृतवत् भारतं इङ्लाण्टं विरुध्य २५३ धावनाङ्कान् सम्पादयामास। प्रारम्भकः केरलीयः सञ्जू सांसणः ४३ कन्दुकैः ८९ धावनाङ्कान् सम्पाद्य बृहत्प्राप्ताङ्कस्य शिलान्यासं कृतवान्। 

  प्राप्ताङ्कसूचना - भारतं २० क्षेपणचक्रेषु २५३/७। इङ्लाण्टः २० क्षेपणचक्रेषु २४६/७।

Latest news

 इरानस्य युद्धमहानौका अमेरिकया निमज्जिता। 

८७ नाविकाः मृताः; ३२ रक्षिताः। 

यू एसेन निमज्जिता इरानस्य इरिस् देना नामिका युद्धमहानौका। 

कोलम्बो> श्रीलङ्कायाः  विदूरसमुद्रेण गम्यमानाम् इरानस्य नौसेनायाः 'इरिस् देना' नामिकां युद्धमहानौकां यू एस् राष्ट्रस्य अन्तर्वाहिनीनौका न्यमज्जयत्। बुधवासरे प्रत्युषसि भारतमहासमुद्रे आसीदियं घटना।

   श्रीलङ्कायाः दक्षिणपार्श्वे वर्तमानात्  गाला नामकनौकाशयात् ७५ कि मी दूरे आसीत् इरानस्य युद्धमहानौका। भारतस्य नेतृत्वे विशाखपट्टणं प्रान्ते सम्पन्ने 'मिलान्-२०२६' इति नाविकाभ्यासे भागं कृत्वा प्रतिनिवृत्तमाना आसीत् इरिस् देना। १८० नाविकाः तस्यामासन्। 

  आक्रमणसमये एव श्रीलङ्कायाः तटरक्षसेनां प्रति अपायसूचना प्रेषिता। अर्धहोराभ्यन्तरे तटसंरक्षणसेनायाः रक्षानौकाः  दुर्घटनास्थानं प्राप्ताः अपि युद्धनौका पूर्णतया निमग्ना आसीत्। मृतशरीराणि स्यन्दन्ते स्म। ३२ नौभटाः सेनया रक्षिताः।  

  यू एसेनैव महानौका निमज्जिता इति अमेरिकायाः  रक्षासचिवेन पीट् हेग्सेत् इत्यनेन निगदितम्। इरानस्य नौसेनायाः उन्मूलनाश एव लक्ष्यमिति पेन्टगण् संस्थया निगदितम्। इरानस्य १७ अन्तर्वाहिनीमहानौकाः निमज्जिता इति तया अभिमानितम्।

संस्कृताध्ययनाय छात्राणां सहनसमरः

 संस्कृताध्ययनाय तमिळनाटुराज्यस्य छात्राः समरं कुर्वन्ति।

मौनसमरः

    मद्रपुरीसंस्कृतकलाशाला - मैलापुरे स्थिता, विंशत्यधिकशतवर्षपरम्परायुक्तं संस्थानम्, University of Madras तथा Central Sanskrit University इत्येताभ्यां सह आदर्शसंस्कृतमहाविद्यालययोजनायाः अन्तर्गतं सम्बद्धम् च।केन्द्रीयविश्वविद्यालयद्वारा अस्मै संस्थानाय निधयः, शैक्षिकपरिचयः, अखिलभारतीयस्पर्धासु सहभागितायाः अवसराः, छात्राणां अध्यापकानां च विविधविकासलाभाः च प्रदीयन्ते स्म ।

   अधुना छात्राणां प्राध्यापकानां च पूर्वसूचनां विनैव, संवादं विनैव, महाविद्यालयन्यासेन केन्द्रीयविश्वविद्यालयेन सह आधिकारिकसमन्वयस्य अन्तर्गतं निधीनां निरोधाय पत्रं प्रेषितम्। अस्य निर्णयस्य कारणात्, छात्राः प्रख्यातविद्वांसः प्राध्यापकाः हानिं प्राप्नुवन्ति, यतः ते यूजीसी-वेतनाभावे प्रतिष्ठितसंस्थानात् निर्गन्तुं बाध्यन्ते।

   पूर्वं लब्धाः राष्ट्रियस्तरीयस्पर्धासु सहभागितायाः अन्येषां शैक्षिकपरिचयानां च अवसराः अपि विनष्टाः सन्ति। अधुना छात्राः अस्य निर्णयस्य विषये न्यायं पारदर्शितां च अन्विष्यन्ति, यतः एषः निर्णयः तेषां शैक्षिकविकासं भविष्यत्सु अवसरान् च प्रत्यक्षतया प्रभावयति ।

   छात्रैः शान्तया मौनरूपेण च आन्दोलनं क्रियते। शिष्टाचारं गौरवं च पालयताम् अपि, तेषां चिन्ताः अद्यापि न परिगृहीताः, आन्दोलनं च लघुतया दृष्टम् । छात्राः विनयपूर्वकं निवेद्यते यत् भवतः अमूल्यसमर्थनं अस्य विषयस्य ध्यानं आकर्षयेत्, येन सत्यस्य स्वराः श्रूयेरन्, छात्राणां प्राध्यापकानां प्रबन्धनस्य च हिताय सम्यग्विमर्शः क्रियेत। अस्मिन् विषये पारदर्शितां न्यायं च सुनिश्चेतुं जनसमर्थनं साहाय्यकरं भविष्यति इति विश्वासः अस्ति ।

   विषयेऽस्मिन् संस्कृतपण्डिताः तेषाम् अभिमतानि ईमेलद्वारा तमिळनाडुराज्यपालमहाभागाय, तथा  केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतये अपि  प्रेषयन्तु इति छात्रा: प्रार्थनां कुर्वन्ति ।

 विद्युद्प्रैषः > तमिलनाडु राज्यपालः - govtam@nic.in

केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः - vc@sanskrit.ac.in

Latest News

 टि-२० विश्वचषकः।

न्यूसिलान्टः अन्त्यस्पर्धायाम्।

फिन् अलनाय शीघ्रतमं शतकम्। [३३/१००*]

शतकं प्राप्तवान् फिन्अलन्।

कोल्कोत्ता> दक्षिणाफ्रिकां नव द्वारकैः पराजित्य न्यूसिलान्टः टि-२० विश्वचषकस्य अन्त्यस्पर्धां प्राविशत्। प्रथमं कन्दुकताडनं कृतवत् दक्षिणाफ्रिकादलं २० क्षेपणचक्रेषु ८ ताडकानां विनष्टे १६९ धावनाङ्कान् सम्पादयामास। न्यूसिलान्टस्य ताडनक्रीडायां १२. ५ क्षेपणचक्रेषु केवलमेकस्य द्वारकस्य विनष्टे १७३ धावनाङ्कान् सम्पाद्य ते अन्त्यचक्रं प्राविशन्। 

  प्रारम्भक्रीडकस्य फिन् अलन् इत्यस्य शीघ्रतमं शतकं - ३३ कन्दुकेषु १००* - न्यूसिलान्टस्य विजयस्य सविशेषता अस्ति। क्रीडाप्रवीरः अपि अलनः अस्ति।

Wednesday, March 4, 2026

 टि-२० विश्वचषकः।

पूर्वान्त्यस्पर्धा अद्य आरभते।


न्यूसिलान्ट-दक्षिणाफ्रिकयोः स्पर्धा कोल्कोत्तायाम्।

कोल्कोत्ता> टि-२० विश्वचषकस्य पूर्वान्त्यचक्रम् अद्य आरभते। प्रथमप्रतिद्वन्द्वे न्यूसिलान्ट-दक्षिणाफ्रिकादले मुखामुखमागच्छति। रात्रौ सप्तवादने कोल्कोत्तायाम् ईडन् गार्ड्स् क्रीडाङ्कणे अस्ति स्पर्धा।

 होर्मुस् धुनीं पिधाय इरानस्य प्रतिक्रिया। 

७०० + महानौकाः स्थगिताः। 

होर्मुस् जलमार्गः। 

इराने मरणानि ७८७। 

टेहरानः> इरानं विरुद्ध्य यू एस्-इस्रयेलयोः युद्धे पञ्चमदिनं प्रविष्टे प्रतीकारप्रक्रमरूपेण तैलेन्धनवाहकमहानौकानां सञ्चारमार्गः 'होर्मुस्' समुद्रसङ्कोचः इरानेन पिहितः। नियन्त्रणमुल्लङ्घ्य   समुद्रसङ्कोचेन गम्यमाणाः पण्यमहानौकाः प्रज्वालयिष्यन्ते इति इरान् रवलूषणरि गार्ड् कोर् [I R G C] इत्यनेन  भीषा प्रख्यापिता। सप्तशताधिकाः पण्यमहानौकाः पेर्ष्यासमुद्रे लग्नाः वर्तन्ते इति वृत्तान्तः अस्ति। 

  होर्मुस् धुन्याः नियन्त्रणं ऐ आर् जि सी संघटनस्यैव वर्तते।  प्रथमतया एव पूर्णतया समुद्रसङ्कोचस्य पिधानम् इरानेन क्रियते। होर्मुसस्य पिधानं तीव्रमूल्यवर्धनस्य कारणं भविष्यतीति आशङ्कते। 

  तथा च इराने इतःपर्यन्तं ७८७ जनाः व्योमाक्रमणेन मृताः। लबनने ५२ मरणानि जातानि। २४६ जनाः आहताश्च। यू एस् सैनिकानां मृत्युसंख्या षडभवत्। इरानस्य प्रत्याक्रमणे  गल्फराष्ट्रेषु ९० जनाः मृत्युमुपगताः।

 केरलम्। 

भूतपूर्वः केन्द्रमन्त्री, प्रतिभाधन‌ः सदस्यः

के पी उण्णिकृष्णः यशश्शरीरः। 


कोष़िक्कोट्> धर्मेतरराष्ट्रवादस्य अग्रणीः, विमलः समाजहितैषी, भूतपूर्वः केन्द्रमन्त्री, वरिष्ठः कोण्ग्रस् नेता च के पी उण्णिकृष्णः [८९] दिवंगतः।कोष़िक्कोटस्थे 'पन्नियङ्करा' प्रदेशस्थे पद्मालयमिति स्वभवने आसीत्तस्य अन्त्यम्। अन्त्येष्टिकर्माणि बुधवासरे कोष़िक्कोटस्थे मनारी श्मशाने सम्पद्यन्ते। 

  १९७१ तः १९९६तमपर्यन्तं २५ वर्षाणि यावत् वटकरा लोकसभामण्डलस्य सदस्यः आसीत् के पी उण्णिकृष्णः। वि पि सिंहस्य मन्त्रिमण्डले उपरितलगमनागमनं, वार्तावितरणम् इत्यादिविभागेषु 'काबिनट्'पदीयः मन्त्री आसीत्। १९८० - '९१ कालखण्डे वामपक्षदलस्य सदस्यरूपेण आसीत् लोकसभाप्रातिनिध्यम्। कोण्ग्रसदले जातः विच्छेदः आसीत् तस्य विरुद्धपक्षप्रवेशे कारणभूतः। किन्तु १९९४ तमे वर्षे मातृसंघटनं प्रतिनिवृत्तः अपि ततः प्रभृति राजनैतिकमण्डले निष्प्रभः अभवत्। 

  भारतीयलोकतन्त्रस्य दीपस्तम्भेषु अन्यतमः अस्ति के पी उण्णिकृष्णः।


  

Tuesday, March 3, 2026

 केरलम्।

एस् एस् एल् सि, +1 परीक्षाः गुरुवासरे आरप्स्यन्ते। 

अनन्तपुरी> केरलराज्ये दशमीकक्ष्यायाः सामाजिकपरीक्षा - एस् एस् एल् सि - तथा +1छात्राणां वार्षिकपरीक्षा च  मार्च् पञ्चमदिनाङ्के आरप्स्यते। +2 वार्षिकपरीक्षा षष्ठदिनाङ्के च  आरप्स्यते।  प्रश्नपत्रिकावितरणं सम्पूर्णमभवदिति शिक्षामन्त्री वी शिवन् कुट्टिः पत्रकारसम्मेलने न्यवेदयत्। 

  मेय् मासस्य तृतीयसप्ताहे एस् एस् एल् सि परिणामम् उद्घोषयिष्यति।

 इरान-इस्रयेलयुद्धं व्याप्यते। 

पश्चिमेष्या कलुषायते। 

इराने ५५५ मरणानि, लबनने ३१, गल्फराष्ट्रेषु अष्ट। 


दुबाय्> इरानं विरुध्य यू एस्-इस्रयेलयोः युद्धं लबननमपि व्याप्तम्। इरानाय सहयोगमुद्घोषयत् लबनीयसायुधसंघटनं हिस्बुल्ला नामकं इस्रयेलस्य उत्तरपार्श्वे आक्रमणमारब्धम्। प्रत्युत्तररूपेण लबनने ह्यः इस्रयेलेन कृतेन आक्रमणेन ३१ जनाः मृताः। 

  खमीनेः वधस्य प्रतिकाररूपेण इस्रयेलं गल्फराष्ट्रस्थानां यू एसस्य सेनानिलयानि प्रति च इरानेन आक्रमणं कठिनीकृतम्। इरानस्य आक्रमणे   यू एस् सैनिकाः हताः। इस्रयेले हतानां संख्या ११ अभवत्।

  इराने एकं चीनीयमभिव्याप्य ५५५ जनाः मृताः। १३० इरानीयनगराणि आक्रमणाधीनानि जातानि।  'एलिमेन्टरि' विद्यालये हतानां बालिकानां संख्या १६५ अभवत्।

 कानडा प्रधानमन्त्री भारते। 

विभिन्नक्षेत्रेषु भागांशसन्धयः हस्ताक्षरीकृताः। 

हैदराबादहौसे मार्क कार्णी - मोदिनोः मेलनम्। 

नवदिल्ली> संवत्सरद्वयस्य परस्परास्वारस्यं विस्मृत्य भारत-कानडयोर्मध्ये  ऊर्ज-रक्षा-आर्थिक-शैक्षिकमण्डलेषु परस्परसाहाय्यसन्धयः हस्ताक्षरीकृताः। गतदिने कानडायाः प्रधानमन्त्री मर्क् कार्णी इत्यनेन सह भारतस्य प्रधानमन्त्री नरेन्द्रमोदी नवदिल्ल्यां हैदराबाद हौस् इत्यत्र कृतायाः चर्चायाः अनन्तरं परस्परसहयोगस्य अनुकूलता सम्पन्ना।

  सन्धिमनुसृत्य कानडाराष्ट्रात् भारताय दीर्घकालं यावत्  'यूरेनियं' नामकस्य  धातोः दानाय कृतः सन्धिः तेषु प्राधान्यमर्हति।  एतत्तु भारतस्य ऊर्जमण्डले बृहत्परिणामाय कारणं भविष्यति। २. ६ बिल्यण् डोलर् मितमूल्ययुक्तं सन्धिं केन्द्रसर्वकारस्य आणवोर्जविभागः कनेडियसंस्था कामेको नामिका च मिथः हस्ताक्षरं कृतम्। 

  उच्चस्तरीय शैक्षिकमण्डलमभिव्याप्य विभिन्नक्षेत्रेषु परस्परसहयोगार्थं अष्ट अभिसन्धयः हस्ताक्षरीकृताः। १६ संवत्सराणि यावत् चर्च्यमानः समस्तः आर्थिकभागभाक्त्वसन्धिरपि अस्मिन् वर्षे एव साक्षात्कर्तुं निर्णयोSभवत्।


  '