OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Showing posts with label Health. Show all posts
Showing posts with label Health. Show all posts

Saturday, May 17, 2025

 १३ प्रकारस्य अर्बुदस्य प्रतिरोधाय पादचरणम् औषधं, - नवीनम् अध्ययनम्।

  त्रयोदशप्रकारस्य अर्बुदव्याधेः परिहाराय नवीनतमम् अध्ययनं दर्शयति यत् प्रतिदिनं पादचरणं कृत्वा अर्बुद (Cancer) रोगं न्यूनं कर्तुं शक्यते इति। इदम् अनुसन्धानम् ओक्सफोर्ड् विश्वविद्यालयस्य वैज्ञानिकैः यु के देशस्य ८५,००० जनानां स्वास्थ्यविवरणानि विश्लेष्य कृतम्। षट् वर्षपर्यन्तम् निरन्तरं पठनं कृत्वा पश्चात्, वैज्ञानिकाः निगमनम् इदं प्राप्तवन्तः यत्  येन प्रतिदिनं पादाभ्यां चरति चेत् तेनैव अर्बुदः  न्यूनी भविष्यति इत्युच्यते। 

  अध्ययनस्य अनुसारं, प्रतिदिनं ७,००० पादचरणानि करोति चेत् अर्बुदस्य व्यापनशीलः प्रतिशतं एकादश (११%) इति न्यूनं भविष्यति, यदा ९,००० पादचरणानि क्रियते तर्हि रोगस्य व्यापनशीलः प्रतिशतं षोडश (१६%) इति न्यूनं भवति।   

  वैज्ञानिकाः सूचयन्ति यत् दीर्घकालात् उपवेशनस्य स्थाने मन्दगत्याः शारीरिकक्रियाः अपि रोगः न्यूनीकर्तुं सहायकं भवति। विशेषतया, यकृत्, श्वसनकोशः, वृक्का, गर्भाशयः, 'कोलन्', शिरः-कण्ठः, गर्भाशयः स्तनम् इत्यादि प्रदेशेषु व्याधिः पादचारणेन परिशुष्यते इति अध्ययनं सूचयति।

Sunday, May 4, 2025

 दृश्यफलकस्य अनुस्यूतावलोकनेन देशस्थानां बालकेषु ५०% बालकेभ्यः हृस्वदृष्ट्यवस्थायाः सम्भावना।

चित्रं meta AI

   अत्यधिकं कालं अन्तर्जाल-पटलदर्शनेन कालयापनं कर्तुं अद्यतनबालकेभ्यः उत्साहः दृश्यते। एषः तेषां स्वास्थ्ये प्रतिकूलप्रभावं जनयति। 

    अतिपुष्टता, हृदयरोगः, मधुमेहः (विभागः-२) इत्येतेषां रोगाणां कारणत्वेन अयं स्वभावविशेषः एव इति पूर्वमेव वेदितः। किन्तु अधुना हृस्वदृष्टिः इत्यस्याः अवस्थायाः कारणम् अयमेव इति नवीनं ज्ञानं विशेषज्ञाः प्रकाशयन्ति।

   असोसियेषन् ओफ् कम्यूणिट्टी ओप्ताल्मोलजिस्ट् ओफ् इन्ट्या इत्यस्य वैद्याः एव विषयेऽस्मिन् अनुसन्धानं कृतवन्तः।

दृश्यफलकः - Screen 

Tuesday, April 2, 2024

 रक्तातिमर्दः बाल्ये प्रारभते। स्थूलता एव निदानम्। वैज्ञानिकाः प्रमाणं प्रकाशयिष्यति।

   हृद्रोग-पक्षाघातादीनां रोगाणं मूलभूतकारणत्वेन रक्तातिमर्दः वर्तते। वयोऽधिकानां रोगः आसीत् रक्तातिमर्दः। किन्तु इदानीं बालकान् अपि रक्तातिमर्दः बाधते। अस्य कारणत्वेन स्थूलशरीरत्वम् अपि भवति इति वैज्ञानिकाः प्रकाशयिष्यन्ति। रक्तमर्दः १४०/९० इत्यस्मात् उपरि जायते चेत् रक्तातिमर्दः इति परिगण्यते। इदानीं रोगबाधितेषु अधिके कौमारजनाः तथा शिशवः च भवन्ति। १६८३ संख्याकानां जनानां स्वास्थावस्थां निरीक्ष्य एव नूतनावगमः प्राप्तः इति अनुशीलनावेदने सूच्यते। मेय् मासे वेनीस् नगरे सञ्चाल्यमाने यूरोप्यन् कोण्ग्रस् इति मेलने इदम् प्रतिवेदनं प्रकाशयिष्यते ॥

Monday, February 19, 2024

 अर्बुदरोगप्रतिरोधाय उपकारकस्य वाक्सिनस्य आविष्कारसमीपं प्राप्ताः इति रष्यस्य राष्ट्रपतिः पुतिनः।

 मोस्को> स्वास्थ्यमण्डले रष्यस्य राष्ट्रपतिना पुतिनेन सुप्रधानख्यापनं कृतम्। रष्यस्य वैज्ञानिकाः अर्बुदप्रतिरोधकवाक्सिनस्य आविष्कारसमीपं प्राप्ताः इति तेन ख्यापितः। अर्बुदवाक्सिनः अथवा रोगप्रतिरोधाय सक्षमं आधुनिकभेषजम् इति वक्तुं योग्यस्य आविष्कारसमीपं वयं प्राप्तवन्तः इति पुतिनेन उक्तम्। विलम्बं विना एतस्य व्यक्तिगतोपयोगाय सज्जो भविष्यति इति प्रत्याश्यासे इति पुतिनेन निगदितम्। नूतनप्रौद्योगिकविद्यासम्बन्धिगणानां मध्ये भाषमाणः आसीत् अयम्।

Sunday, February 18, 2024

 अर्बुदजनकः मधुरकार्पासः रोधितः।


चेन्नै> अन्तर्लीनवर्णयुतं मधुरकार्पासः तमिल् नाट् सर्वकारेण निरुद्धः। अर्बुदस्य निदानं भवति अयं कार्पासः इति प्रत्यभिज्ञत्वा भवति रोधनम्। पुतुच्चेर्याम् अयं पूर्वं निरुद्धम् आसीत्। वसत्रस्यवर्णकरणाय उपयुज्यमानः रोडमिन् - बि इति रासवस्तुः मधुर कार्पासस्य पाकवेलायां उपयुज्यते। इयं रासवस्तुः अर्बुदजनकः भवति। खाद्यसुरक्षा नियमानुसारं रोडमिन् - बि इति रासवस्तुयुक्तानां खाद्यवस्तूनां निर्माणं सञ्चयनं विपणनं च दण्डार्हं भवतिl

Saturday, June 24, 2023

 भारते पोषकाहारन्यूनता आशङ्कां जनयति। तण्डुल-गोधूमयोः अधिकतया खादनं न पर्याप्तम्।

   नवदिल्ली> भारते पोषकाहारन्यूनता आशङ्काजनकमिति भक्ष्यवैज्ञानिकाः वदन्ति। सूक्ष्मपोषकाणां न्यूनत्वमेव विशेषेण सूचयन्ति। तत्परिहाराय तत्कालीकप्रक्रमाः आवश्यकाः इति अन्तराष्ट्रिय - खाद्य - नीति - अनुसन्धानसंस्थया प्रकाशिते २०२३ तमे संवत्सरीये विश्व - खाद्य - नीति - विवरणपत्रे सूचयति। आविश्वमपि पोषकाहारन्यूनताबाधितानां संख्या वर्धमाना अस्ति। २०१५ तमे संवत्सरे ५७.२ कोटि जनाः पोषकाहारन्यूनता अभिमुखीकृतवन्तः। २०२१ तमे संवत्सरे तत् ७६.८ कोटि जनाः अभवन्।

Friday, June 16, 2023

 श्वासननालिकायामपि सूक्ष्मपलास्तिकः इति पूर्वसूचनां दत्वा नूतनाध्ययन फलम्।

   सिड्नि> सूक्ष्मपलास्तिकसदृशाः पलास्थिककणिकाः श्वसननालिकायां स्वास्थ्यसमस्याः जनयितुम् प्रभवति  इति अध्ययनफलानि सूचयन्ति। मानवः प्रतिहोरायां १६.२ पलास्तिकशकलानि श्वसिति इति २०२२ तमे संवत्सरे प्रचलिते अध्ययने सूचितमस्ति। पलास्तिकात् विघटिताः लघुपलास्तिकपदार्थाः भवन्ति सूक्ष्मपलास्तिकाः (micro plastic)। 'फिसिक्स् ओफ् फ्लूयिड् ' नाम शोधपत्रिकायां प्रकाशिते अध्ययनप्रतिवेदने सूक्ष्मपलास्तिकाः नासाद्वारे गलस्य (throat) पृष्ठतः च विक्षिप्यन्ते इति सन्दृष्टाः। एवं बृहत् परिमाणेषु सूक्ष्मपलास्तिककणानि अधिकतया श्वसननालिकायामेव सञ्चिताः इति स्वास्थस्य हानिः उद्पाद्यते।

Wednesday, April 19, 2023

 कोविड् इव नूतना महामारी? साध्यतां सूचयित्वा गवेषण फलानि। 

-रणिमोल् एन् एस् 

    लण्डन्>  सामान्यजीवनं परिवर्तयन्त्याः कोविड् महामार्याः आगमनानन्तरं वर्षत्रय: अतीत:। एयर्फिनिटी नामिका प्रवचनात्मक स्वास्थ्यविश्लेषणसंस्थया (Predictive Health Analytic Institution) इदानीं दशसंवत्सराभ्यन्तरे कोविड् सदृशायाः अन्यस्याः महामार्याः साध्यता अस्ति इति सूचिता अस्ति। संस्थया एवम् अनुमीयते यत् अस्य आगमनस्य साध्यता प्रायः प्रतिशतं २७.५ अस्ति इति। न केवलं वैराणुः अपि तु वातावरणस्य परिवर्तनं, पशुजन्यरोगाश्च एतादृशानां रोगाणां कारणभूता: भवेयु: इति संस्थया उल्लिखिता अस्ति। कठिनता अपि अतितीव्रतां गच्छेत् यदा एकस्मिन् दिने बहूनां जनानां मृत्युः भवितुम् अर्हति इत्यपि एयर्फिनिटी नामिका संस्थायाः विज्ञप्तौ उक्तम्।

Friday, March 24, 2023

 कोविड्रोगः वर्धते। भारतम् अतीव जाग्रतायाम्। प्रधानमन्त्रिणः आध्यक्षे उच्चस्तरयोगः।

    नवदिल्ली> दीर्घकालविरामानन्तरं कोविड् प्रकरणानि वर्धिते सन्दर्भेऽस्मिन् राष्ट्रे अतिजाग्रतानिर्देशाः प्रदत्ताः। प्रधानमन्त्रिणः आध्यक्षे उच्चस्तरमेलनं समभवत्। सामाजिकदूरादिप्रतिरोधमार्गान् स्वीकर्तुं नरेन्द्रमोदिना आदेशः प्रदत्तः। प्रकरणानि वर्धन्ते तथापि अपघातसन्दर्भः नास्ति इति स्वास्थ्यमन्त्रालयेन प्रधानमन्त्रिणे सूचना प्रदत्ता।

Saturday, March 18, 2023

 भारते वृद्धेषु एककोट्यधिकेषु जनेषु मेधाक्षयः अस्ति  इति अध्ययनफलम्।

   नवदिल्ली> भारते षष्ट्युपरिवयस्केषु एककोट्यधिकजनेषु मेधाक्षयः  (Dementia) इति अध्ययनफलम्। विस्मृतिरोगः अस्ति ।

प्रावर्तित-कृत्रिमबुद्धिमापनप्रक्रियायाः (Artificial intelligence technology) साह्येन दत्तांशसञ्चयं कृतम्। एतत् अध्ययनफलं न्यूरो एप्पिडेमियोलजि नाम वार्तापत्रिकायामेव प्रकाशितम्। ३१७७० जनात्  अध्ययनार्थं आदर्शसञ्चयः Sample collection ) कृतः।

Friday, March 3, 2023

 ऊर्जरहितस्य कृत्रिममधुरस्य  गुरुतरप्रत्याघाताः सन्ति इति अध्ययनफलम्।

     सितायाः स्थाने उपयुज्यमानेषु कृत्रिममधुरेषु मुख्यो भवति एरित्रिट्टोल्। शून्य - ऊर्जोत्पन्नस्य (zero calorie ) एरित्रिट्टोलस्य दोषफलानि सन्ति इति अध्ययनानि व्यनक्ति। सितायाः स्थाने उपयुज्यमानम् उत्पन्नमिदं हृदयाघातः, पक्षाघातः इत्यादिषु स्वास्थ्यसमस्यासु च नयति। तथा अस्य उपयोगः मरणकाराणमपि भविष्यति इति अध्ययनफलानि सूचयन्ति। अमेरिक्कस्य क्लेव् लान्ट् क्लीनिक् लेर्णल् गवेषणकलालयस्थैः वैज्ञानिकैः एव अध्ययनमिदम् आयोजितम् ।