OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Showing posts with label कायिकम्. Show all posts
Showing posts with label कायिकम्. Show all posts

Sunday, November 10, 2024

 भारत-दक्षिणाफ्रिका टि-२० क्रिकेट परम्परा - प्रथमविजयः भारतस्य।

दक्षिणाफ्रिकां प्रति शतकं प्राप्तवतः सञ्जु सांसणस्य आह्लादः। 

सञ्जु सांसणस्य शतकप्राप्तिः ; टि-२०मध्ये अनुस्यूततया शतकं प्राप्नुवन् प्रथमभारतीयक्रीडकः।

डर्बन्> केवलं ५० कन्दुकेभ्यः महत्वपूर्णानि दश षट्कानि अभिव्याप्य सञ्जु सांसणेन प्राप्तानां  १०७ धावनाङ्कानां लाभेन दक्षिणाफ्रिकां विरुध्य टि-२० परम्परायाः प्रथमे प्रतिद्वन्द्वे भारतस्य उज्वलविजयः। 

   अङ्कप्राप्तिः - भारतं २० क्षेपणचक्रेषु ८ द्वारकाणां विनष्टेन २०२ धावनाङ्काः। दक्षिणाफ्रिका १७. ५ क्षेपणचक्रेषु १४१ धावनाङ्कैः सर्वे बहिर्नीताः। 

  शतकं प्राप्तवान् सञ्जु सांसणः इति केरलीयक्रीडकः टि-२०मध्ये अनुस्यूततया शतकं प्राप्नुवन् प्रथमभारतीयक्रीडकः इत्यपूर्वं स्थानमपि प्राप्तवान्। समीपकाले बङ्लादेशं विरुध्य टि-२० परम्परायाः अन्तिमे प्रतिद्वन्द्वे शतकं प्राप्तवानासीत्।

Saturday, July 11, 2020

प्रथमटेस्ट् क्रिकेट्क्रीडायां वेस्ट् इन्टीस् दलस्य आधिपत्यम्। 
     सताम्प्टण्> इङ्ग्लण्ट्-वेस्ट् इन्टीस् दलयोः मध्ये प्रचाल्यमानायां प्रथमटेस्ट् क्रिकेट्क्रीडायां वेस्ट् इन्टीस् दलाय ११४ धावनाङ्कानाम् आधिपत्यम्। इङ्ग्लण्ट् दलस्य प्रथमेन्निङ्स् अङ्कान् २०४ धावनाङ्कान् प्रति वेस्ट् इन्टीस् दलं प्रतिक्रीडनावसरे ३१८ धावनाङ्कान् प्रापयत्। वेस्ट् इन्टीस् दलाय क्रेग् ब्रात्वेय्ट्, षैन् डौरिच् च अर्धशतकं प्रापयताम्। तृतीयदिनस्य क्रीडायाः समापनवेलायां द्वितीयेन्निङ्स् मध्ये इङ्ग्लण्ट् दलं क्रीडकनष्टं विना १५ धावनाङ्कान् प्रापयच्च। क्रीडायाः प्रथमदिनं वृष्टिवशात् त्यक्तमासीत्।