OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, October 31, 2024

 जम्मु आक्रमणं जय्षे भीकरैः कृतम्। 

श्रीनगरं> जम्मुक्षेत्रस्य अखनूरप्रदेशे सुरक्षासेनया व्यापादिताः त्रयः भीकराः जय्षे मुहम्मद् इत्यस्मिन् निरुद्धसंघटनस्य अङ्गाः इति सेनया निगदितम्। पाकधीनकाश्मीरतः अतिक्रम्य प्रविष्टाः भवन्त्येते। भारते बृहदाक्रमणाय ते कल्पितवन्तः च। एतत्साधूकृतानि प्रमाणानि भीकरेभ्यः अधिगतानीति गुप्तान्वेषणसंस्थया आवेदितम्।

 पालस्तीनराष्ट्राय नूतनं सख्यम् 

सौद्यां प्रथममेलनम्। 

रियादः> पालस्तीनराष्ट्रसंस्थापनाय सम्मर्दं कर्तुं रूपीकृतस्य नूतनान्ताराष्ट्रीयसख्यस्य प्रथमं मेलनं सौदिराजधान्यां रियादे आरब्धम्। गतमासे संवृत्ते यू एन् इत्यस्य सामान्यसभामध्ये आसीत् 'द्विराष्ट्रपरिहारसाक्षात्करणाय अन्ताराष्ट्रसख्यं' रूपीकृतम्। पश्चिमेष्या, यूरोप्,इत्यत्रादिभ्यः राष्ट्राणि सख्ये सन्ति। ९० राष्ट्राणि इतराणि अन्ताराष्ट्रियसंघटनानि च द्विदिवसीये  मेलनेSस्मिन् भागं कुर्वन्ति।

 २५,१५,५८५ दीपानां प्रज्वालनं, सरयूनद्याः तटे १,१२१ महा-आरत्याः अनुष्ठानं; द्वाभ्यां गिनीस् रेकॉर्ड् सहितः योगी।

   अयोध्यानगरे संपन्नायां दीपावली-महोत्सवे सरयूनद्याः तटे २५ लक्षाधिकानि दीपानि प्रज्वाल्य अयोध्यायाः द्वौ रेकॉर्ड् स्थापितौ। प्रथमः, बहूनि दीपानि (२५ लक्षं) प्रज्वालितानि। द्वितीयः, सर्वाधिक आरत्या (१,१२१) सरयूनद्याः तटे अनुष्ठिताः। राष्ट्रमाध्यमेण ANI इत्यनेन एषा वार्ता प्रकाशिता।

   रामलल्लायाः प्राणप्रतिष्ठायाः अनन्तरं संपन्नायां अस्मिन्प्रथमदीपावलीमहोत्सवे अयोध्या पुनरपि इतिहासस्य भागम् अभवत्।

 स्पेयिने आकस्मिकप्रलयः - ७२ मरणानि। 

बार्सिलोना> स्पेयिनराष्ट्रस्य दक्षिणपूर्वमण्डले कुजवासरे जातया अतिवृष्ट्या सञ्जाते आकस्मिकप्रलये ७२ जनाः मृत्युमुपगताः। अनेके जनाः अप्रत्यक्षाः अभवन्। 

  मलागतः आरभ्य वलन्सियपर्यन्तं वर्तमानेषु प्रदेशेषु एव प्रलयदुष्प्रभावः अतितीव्रः अनुभूतः। ८ होराभ्यन्तरे ४९१ मिल्लीमीटर् मिता वर्षा वलन्सियायां चिवानगरे  अङ्किता। १९९६ तमस्यानन्तरं प्रथमतया एव एतादृशप्रलयदुष्प्रभावः तीव्रतया अनुभूयते। 

  उपसहस्रं सैनिकाः रक्षाप्रवर्तनाय विन्यस्ताः। मृतानाम् आदरसूचकत्वेन दिनत्रयस्य दुःखाचरणं प्रख्यापितम्।

आयुर्वेदगुरुकुलमहाविद्यालयारम्भाय ऐतिहासिकं सर्वकारीयविज्ञप्तितिः निर्गता।

  नवदिल्ली> संस्कृतच्छात्रेभ्यः आयुर्वेदः साक्षादध्येतुं सन्दर्भः लभ्यते। तदर्थं आयुर्वेद-गुरुकुल-महाविद्यालयारम्भाय ऐतिहासिकं सर्वकारीयविज्ञप्ति: निर्गता अस्ति। केन्द्रसर्वकारस्य आयुषमन्त्रालयस्य तत्सचिवस्य वैद्यराजेशकोटेचामहोदयस्य भारतीय-चिकित्सापद्धति-राष्ट्रियायोगस्य अध्यक्षमहोदयस्य वैद्यजयन्तदेवपूजारीमहोदयस्य इतरेषां सहयोगिनां समुद्यमः एव सफलतायाः कारणम्। इतः परं संस्कृतच्छात्राः साक्षाद् आयुर्वेदाध्ययनाय अर्हाः भविष्यन्ति। संस्कृतमाध्यमेन आयुर्वेदाध्ययनं भविष्यति इत्यस्ति अस्य  सर्वकारीय-विज्ञप्तेः माहात्म्यम् ॥

 

Wednesday, October 30, 2024

 जम्मु काश्मीरे पुनरपि भीकराक्रमणं - त्रयः भीकराः हताः। 

जम्मू> जम्मु काश्मीरे अखनूर् मण्डले सोमवासरे विधत्तस्य उत्तरदायिनः त्रयः भीकराः सैन्येन हताः। सोमवासरे प्रभाते आम्बुलन्स् यानं प्रति कृते आक्रमणे फान्टं नामकः श्वानसैनिकः मृतः आसीत्। 

  ततः विधत्ते अन्वेषणे एकः भीकरः सैनिकैः मृत आसीत्। अनुवर्तमाने अन्वेषणे वने निलीयमानौ द्वौ भीकरौ ह्यः भुषुण्डिप्रयोगेण निहतौ।

 आयुष्मान् भारत परिरक्षा 

वयोधिकानां कृते 'वयोवन्दनं' कार्ड्पत्राणि वितरीतानि।

नवदिल्ली> वयोवरिष्ठानां नागरिकाणां स्वास्थपरिरक्षाभियोजना प्रधानमन्त्री जन आरोग्य योजना इत्यस्मै प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रारम्भः कृतः। चितानां वयोधिकानां वयोवन्दनं कार्ड्पत्राणि तेन वितरितानि। 

  ७० वयोSधिकानां प्रतिवर्षं पञ्चलक्षं रूप्यकाणि यावत् स्वास्थ्यपरिरक्षां लभते। ६ कोटि वरिष्ठनागरिकाणां कृते परियोजनेयं उपकारिका भविष्यति।

 व्याजबोम्बभीषा - एकापराधी प्रत्यभिज्ञातः। 

मुम्बई> राष्ट्रस्य विमानसेवां भीत्यां निमज्य विमानानां सर्वकारीयसंस्थाः च प्रति बोम्बभीषां कुर्वत्सु एकः नागपुरं आरक्षकदलैः प्रत्यभिज्ञातः। नागपुरं गोण्टिय प्रदेशीयः जगदीश उय्के [३५] नामकः एव भीषानां पृष्ठतः इति आरक्षकाधिकारिणा उक्तम्। २०२१ तमे व्याजबोम्बभीषाप्रकरणे निगृहीतः आसीत्। आतङ्कवादमधिकृत्य कस्यचन ग्रन्थस्य कर्ता भवत्येषः। 

  प्रधानमन्त्रिणः कार्यालयमभिव्याप्य अनेकान् सर्वकारीयकार्यालयान् प्रति च भीषापत्राणि ई मेयिल् द्वारा अनेन प्रेषितानीति आरक्षकसेनायाः 'डेप्यूटि कम्मीषणर्' पदीयस्य  श्वेत खड्करस्य  अन्वेषणे प्रत्यभिज्ञातम्।

 संघर्षाणां शतकम् अतिक्रम्य सः सखः वि. एस्. अच्युतानन्दः अद्य एकाधिकं शततमं जन्मदिनं प्राप्नोति।

    केरलराजनीत्याः महायोद्धा, सखः वि. एस्. अच्युतानन्दः अद्य एकाधिकशततमं जन्मदिनम् आचरति। संघर्षाणां शतकम् अतिक्रम्य अपि सः समाजाय प्रेरणास्रोतो भूत्वा तिष्ठति। यद्यपि सङ्घर्षे रूपसाकारो भवेत्, सः वि. एस्. अच्युतानन्द एव। तेन प्राचीन-ग्रामाधिपानां पुरतः स्वसाहसं प्रदर्श्य मुष्ट्युद्धरणं कृत्वा समाजोद्धारणाय समागतः आसीत् सः।हर्षध्वनिं कृत्वा अच्युतानन्दस्य नेतृत्वे जनाः संग्रामाय चलिताः।

    १९८० तः १९९२ पर्यन्तं द्वादशवर्षाणि सः सी. पी. आई. (एम्) दलस्य राज्यसचिवरूपेण सेवारत आसीत्। ८३ तमवयसि केरळराज्यस्य मुख्यमन्त्री अपि अभवत्। अद्य तु सः विश्रान्तजीवनं नयन् अस्ति।

Tuesday, October 29, 2024

 वैट् हौस् मध्ये दीपावली सन्दर्भे ‘दीया दीपं’ प्रज्वाल्य जो बाइडनेन उत्सवस्य समारम्भः कृतः।

   वैट् हौस् मध्ये दीपावली सन्दर्भे उत्सवस्य प्रारम्भाय राष्ट्रपतिः जो बैडनः सम्मुखे आगतवान्। सोमवासरे सायंकाले प्रथममहिला जिल् बैडनेन सह मिलित्वा ‘ब्लू रूम’ मध्ये 'दिया दीपं' प्रज्वाल्य उत्सवस्य आरम्भः कृतः। अनेके भारतीय-अमेरिकीजनाः अपि उत्सवस्य साक्षिभूताः आसन्।

    दीपावली दिवसे भारतीय-अमेरिकीजनानां स्वागतं बैडनः करिष्यति इति सूचितमस्ति। बाइडेनस्य अमुखप्रवचनमध्ये  नौसेनायाः निवृत्ता अध्यक्षा, भारतीयवंशजा  सूनिता विलियम्स् महोदयायाः वीडियो संदेशः भविष्यति इत्यपि सूचितम्। अन्तरराष्ट्रिय अन्तरिक्षकेंद्रात् सूनिता विलियम्सः दीपावलीदिनसंदर्भे शुभकामनाः प्रेषयिष्यति।



 जनसंख्यागणना २०२५ तमे वर्षे। 

  नवदिल्ली> भारते नूतनी जनसंख्यागणना [Census]  आगामिवर्षे आरब्धुं निर्णयः कृत इति सूच्यते। २०२५ तमात्  आरभ्य २०२६ तमे पूर्तीकर्तुम् उद्दिश्यते।  साधारणरीत्या वर्षचतुष्टयस्य विलम्बः अभवत्। 

  जनसंख्यागणनानन्तरं लोकसभामण्डलानां पुनर्निर्णयस्य क्रियाविधयः 'डि लिमिटेशन् आयोगेन'  आरप्स्यन्ते। २०२८ तमे वर्षे मण्डलपुनःक्रमीकरणं पूर्तीकृत्य २०२९ मध्ये लोकसभानिर्वाचनं विधातुमेव प्रशासनस्य चिन्ता इति सूच्यते। राष्ट्रस्य रजिस्ट्रार जनरल् पदीयः तथा सेनसस् कम्मीषणर् पदीयश्च मृत्युञ्जय कुमार नारायणः इत्यस्य कालपरिधिः २०२६ ओगस्ट् पर्यन्तं दीर्धीकृतः इति जनसंख्यागणनप्रवर्तनम् लक्ष्यीकृत्य इति अनुमीयते।

 न्याय. पुट्टस्वामी दिवंगतः। 


बङ्गलुरु> निजीयतां मौलिकाधिकारं कारयितुं अक्षीणं प्रयतितवान् न्याय. के एस् पुट्टस्वामी दिवंगतः। कर्णाटक उच्चन्यायालये न्यायाधिपः आसीत्। सोमवासरे बङ्गलुरुस्थे स्वभवने आसीत् तस्यान्त्यम्। ९८ वयस्क आसीत्। 

   आधार् परियोजनायाः नीतिन्यायसंहितासाधुतां परिपृच्छ्य तेन कृतं नियमयुद्धं राष्ट्रीयस्तरे श्रद्धामलभत। एषां परियोजनां विरुध्य समराह्वानं कृतवान् प्रथमव्यक्तिरासीत् न्याय. पुट्टस्वामी।

Monday, October 28, 2024

 कानडादेशः नियमाणां कठिनत्वे, जर्मनीदेशः नियमान् शिथिलीकृत्य भारतीयाय विसायाः संख्यां वर्धयति।

    जर्मनीदेशे प्रवासार्थं प्रयतमानानां भारतीयानां कृते एषा सुखदवार्ता अस्ति। भारतीय-प्रवेशपत्राणां संख्या २०,००० तः ९०,००० पर्यन्तं वर्धयिष्यते इति जर्मनीदेशेन घोषितम्। एषः निर्णयः शुक्रवासरे दिल्लीनगरे आयोजिते 'जर्मन् बिज़नेस् २०२४' नामके अष्टादशे एष्या-प्रशान्तसङ्गोष्ठ्यां स्वीकृतः, प्रधानमन्त्रिणा नरेन्द्रमोदिना एव एतद्विषये घोषणा कृता।

     इदानीं भारतस्य व्यवसायज्ञाः तथा विशेषज्ञाः जर्मनीदेशे अधुना अधिकम् अवसरं प्राप्स्यन्ति। विशेषतः सूचना-प्रौद्योगिकी, अभियान्त्रिकी, स्वास्थ्यरक्षायाः क्षेत्रेषु भारतीयप्रवेशिनः उन्नतानि कार्यसन्दर्भानि प्राप्स्यन्ति इति अनेन नवनिर्णयेन निर्दिष्टम्।

 ३३ 'नक्षत्रपथिकगृहाणि' प्रति बोम्बभीषा। 

नवदिल्ली> विमानानामनुबन्ध्य प्रमुखानि  नक्षत्रहोटेल् संस्थाभिः विरुध्य शनिवासरे बोम्बभीषा जाता। कोल्कोत्ता, तिरुप्पति, राज्कोट्, लख्नौ इत्यत्रानां ३३ पथिकाश्रमान् विरुध्य एव भीषासन्देशाः आगताः।

  एतदाभ्यन्तरे गतदिने ५० विमानानामपि भीषा जाता। अनेन १४ दिनाभ्यन्तरे ३५० विमानसेवाः भीषाधीनाः जाताः।

 सप्ततिवयोSतीतानां श्व आरभ्य स्वास्थ्यपरिरक्षा। 


नवदिल्ली> कुटुम्बस्य सांवत्सरिकायं अपरिगणयन् , ये ७० वयांसि अतीताः तान् सर्वान् आयुष्मान् भारत स्वास्थ्य निगम परिरक्षायाम् अन्तर्भावयितुं परियोजनायाः प्रधानमन्त्रिणा नरेन्द्रमोदिना श्वः शुभारम्भं करिष्यति। 

   सार्घचतुःकोटिमितानां परिवाराणां ६ कोटि जनेभ्यः पञ्च लक्षं रूप्यकाणां परिरक्षा लभते। एतदर्थं प्रधानमन्त्री जनारोग्ययोजना इत्यस्मिन् पोर्टल् द्वारा 'आयुष्मान् आप्' द्वारा वा पञ्जीकरणीयम्। येषाम् इदानीम्  आयुष्मानपत्रमस्ति ते पुनरपि नूतनपत्राय अपेक्षिताः भवितव्याः।

भयं त्यज कल्पितबन्धनं भारते नास्ति - नरेन्द्रमोदी।

 अन्तर्जालिकं कापट्यम् व्यापकमस्ति। दूरवाण्याह्वानम् आगमिष्यति चेत् भयं मास्तु  इति प्रधानमन्त्त्रिणा नरेन्द्रमोदिना उद्बोधितः।

वार्ताहरा -रमा टी के

   अन्तर्जालिकः आङ्किकनिग्रहः व्याप्यमाने सन्दर्भेऽस्मिन् दूरवाण्याह्वानम् आगमिष्यते चेत् भयं त्यज इति प्रधानमन्त्रिणा उद्बोधितः। प्रतिपालयस्व, चिन्तय, प्रक्रमाः स्वीकरणीयाः इति तत्वम् अनुवर्तस्व इति प्रधानमन्त्रिणा नरेन्द्रमोदिना नागरिकाः उदबोधिताः।

  आङ्किकबन्धनं कुर्वतां साङ्कणिकापराधिनम् अधिकृत्य मोदिना पूर्वसूचना प्रदत्ता। प्रतिदिनं विवर्धमानाम् एतां समस्यां परिहर्तुम् नैकाः संस्थाः प्रवर्तन्ते इत्यपि महोदयेन निगदितम्।  आकाशवाण्याः 'मन की बात' नाम प्रतिमास-कार्यक्रमस्य ११५ तमे उपाख्याने एव कल्पित-बन्धनम् (virtual arrest) भारतीय-न्याय संहितायां  नास्ति इति मोदना उदीरिम्।


Sunday, October 27, 2024

 उत्तराखण्डे 'मद्रसा'सु संस्कृताध्ययनम् आरभ्यते। 

दरादूण्> उत्तराखण्डस्य चतुश्शताधिकम् इस्लामधर्मप्रबोधनकेन्द्रेषु मद्रसा नामकेषु संस्कृताध्ययनम् ऐच्छिकविषयत्वेन आनेतुं चिन्त्यते इति मद्रसासंस्थानामध्यक्षः मुफ्ति षामूण् खास्मि इत्यनेन निगदितम्। राज्यसर्वकारात् यदा अनुज्ञा लभ्यते तदा तदर्थं प्रक्रमाः आरप्स्यन्ते इति सः सूचितवान्। धर्मपाठशालायां पठन्तः छात्राः मुख्यधाराध्ययनेन घटनीयाः इति मुख्यमन्त्रिणः  पुष्करसिंह धामिनः इच्छानुसारमिति सः उक्तवान्। 

     उत्तराखण्डे मद्रसासु अस्मिन् वर्षे एन् सि ई आर् टि पाठ्ययोजना विधत्ता। संस्कृताध्ययनम् उत्तराखण्डस्य वखफ् बोर्ड् संस्था अपि स्वागतं चकार।

 शबरिगिरितीर्थाटनं 

विमानयात्रायाम्  'इरुमुटिक्केट्ट्' भाण्डे नारिकेलाय अनुज्ञा।

नवदिल्ली> शबरिगिरितीर्थाटकैः विमानयात्रायाम् 'इरुमुटिक्केट्ट्' नामके भाण्डे नारिकेलमपि नेतुम् अनुज्ञा व्योमयानमन्त्रालयेन दत्ता। मण्डल-मकरसंक्रान्तिकालतीर्थाटनस्य अन्तिमे जनुवरि २० तमदिनाङ्कपर्यन्तम् अनुज्ञा भविष्यति। 'केबिन् बागेज्' इत्यत्र नेरिकेलनयनाय सुरक्षाकारणैः विमानसेवासंस्थाभिः निरोधः कृतः आसीत्।

 विमानानि अनुस्यूततया बोम्बभीषायाम् 

सामाजिकमाध्यमानां प्रशासनस्य पूर्वसूचना। 

नवदिल्ली> विमानानि प्रति अनुस्यूततया जायमानान् बोम्बभीषासन्देशान् प्रतिरोद्धुं सामाजिकमाध्यमानां केन्द्रसर्वकारस्य 'इलक्ट्रोणिक्स् ऐ टि' मन्त्रालयस्य पूर्वसूचना। बोम्बभीषामधिकृत्य अन्वेषणस्य अंशतया अन्वेषणाभिकर्तृभिः अपेक्षिताः सूचनाः ७२ होराभ्यन्तरे दातव्याः। नो चेत् ऐ टि नियमस्य ७९ तमविभागानुसारं कल्पितस्य संरक्षणस्य अर्हता न भविष्यति। 

  मेटा, एक्स् इत्यादयाः सामाजिकमाध्यमाः अन्वेषणे सहकरणीयाः। अतीतेषु १२ दिनेषु २७५ भीषासन्देशाः जाताः। व्याजबोम्बभीषाप्रकरणेषु केवलं द्वावेव निगृहीतौ।

Saturday, October 26, 2024

 प्राचार्य: प्रो.एम.सी.पाण्डे "श्री-के-एस-अय्यरसम्मानं" डॉ.दीपकखाती "वाणिज्यगौरवसम्मानं" प्राप्तवन्तौ 

वार्ताहर:-कुलदीपमैन्दोला।

    रामनगरम्> नैनीतालजनपदे रामनगरमहाविद्यालयस्य कृते विशिष्टदिवस: गौरवमय: आसीत् यस्मिन्दिवसे उत्तर-प्रदेशस्थे पीलीभीतस्थाने उपाधि-महाविद्यालये रामनगरस्थ-पी-एन-जी- राजकीय- स्नातकोत्तर-महाविद्यालयस्य प्राचार्य: प्रो.एम.सी.पाण्डे श्री-के-एस-अय्यरसम्मानं च वाणिज्यसंकायस्य सहायकप्राध्यापक: डॉ.दीपकखाती वाणिज्यगौरवसम्मानं च प्राप्तवन्तौ। उभाभ्यामपि सम्मानमिदम् उत्तरप्रदेशस्य पीलीभीतनगरस्थस्य वाणिज्य-सङ्काय-उपाधि- महाविद्यालयद्वारा द्विदिवसीय- अन्ताराष्ट्रियसङ्गोष्ठ्याम् अक्टूबरमासस्य पञ्चविंशतिदिनाङ्के प्रदत्तम् । 

    अस्मिन् समारोहे

 इस्रयेलस्य आक्रमणम् - खान् यूनिसे ३६ जनाः मृताः।

गासानगरं> अन्ताराष्ट्रियस्तरे  युद्धविरामाय सम्मर्दे प्रबले गासायां बृहत्तमे नगरे खान् यूनिसे शुक्रवासरे इस्रयेलेन कृते आक्रमणे १४ बालकान् अभिव्याप्य ३६ जनाः मृत्युमुपगताः। 

  दक्षिणलबने विधत्ते अन्यस्मिन्नाक्रमणे त्रयः वार्ताहरप्रवर्तकाः अपि मृताः। एकसंवत्सरं यावत् ११ माध्यमप्रवर्तकानां प्राणाः विनष्टाः।

 उत्सवेषु गजमेला- मानवानां धार्ष्ट्यमिति उच्चन्यायालयः। 

तिमिङ्गलः स्थलजीवी न इत्येतत् तेषां भाग्यमेव।

    उत्सवेषु गजान् अलङ्कृत्य उन्नयनं धार्ष्ट्यमेव इति केरलस्य उच्चन्यायालयेन निगदितम्। पादौ प्रबध्य पञ्च निमेषमपि स्थातुं मानवाः प्रभवन्ति वा? पुरतो विद्यमानौ पादौ प्रबध्य होराः यावत् स्थितानां गजानाम् अवस्था का इति भावयितुम् अपि मानवाः न प्रभवन्ति इति केरलस्य उच्चन्यायालयेन वाग्भिः उवाच। जन्तून् विरुध्य अतिक्रमाः प्रवर्धमाणे सन्दर्भे न्यायालयेन स्वयं स्वीकृतस्य प्रकरणस्य गणनावसरे कृतः परामर्शोऽयम् ।

 नासायाः 'षाडोस्' अभियानं भारते कोच्चीनगरे। 


कोच्ची> अमेरिकायाः बहिराकाशगवेषणसंस्थायाः नासायाः 'षाडोस्' नामकं ओसोणस्तरस्य निरीक्षण-गवेषणाभियानं केरलस्य कोच्चिनगरे अपि संस्थापयितुं नीर्णयः कृतः। कोच्चि विश्वविद्यालयस्य अन्तरिक्षशास्त्रपठनविभागेन सहकृत्वा एव केन्द्रस्य प्रवर्तनम्। 

  इदानीं १४ राष्ट्रेषु इदमभियानं प्रवर्तमानमस्ति।  ओसोण् स्तरस्य संरक्षणप्रक्रमान् साक्षात्कर्तुं उष्णमण्डलराष्ट्रेषु इदमभियानं प्रवर्तते। मलेष्या, इन्डोनेष्या, दक्षिणाफ्रिका, वियट्नामः, ब्रसीलः इत्यादिषु १४ राष्ट्रेषु अभियानस्यास्य प्रवर्तनं प्रचलति।

 पूर्वलडाके भारत-चीनसैना अपनीयते। 

नवदिल्ली> पूर्वलडाकस्य डें चोक्, देप् साङ् इत्येतयोः ,समतलप्रदेशयोः संघर्षक्षेत्रेभ्यः भारतं चीनश्च स्वस्व सेनाविभागान् अपनीतुम् आरभेताम्। पूर्वलडाकस्य नियन्त्रणरेखातः सेनां निराकर्तुं राष्ट्रयोरुभयोः सन्धिप्रकारेणैवायं प्रक्रमः।

  २०२० एप्रिल्मासात् पूर्वं एषु मण्डलेषु या अवस्था परिपालिता तामवस्थां प्रत्यानेतुं राष्ट्रद्वयानापि निश्चितमस्ति। सैनिकप्रक्रमस्य पुरोगतिं निर्णेतुं सैनिककमान्डर् स्तरे मेलनमपि भविष्यतीति उन्नताधिकारिभिः निगदितम्।

 भारतीयानां कृते इदानीं कष्टमेव; कानडादेशः प्रवासं नियन्त्रणं कर्तुं सज्जः।

   कानडादेशः प्रवाससंख्यायाः नियन्त्रणाय प्रयत्नं करोति। २०२५ तः प्रवासनकार्यक्रमाणां संख्या न्यूनीकरिष्यते इति प्रधानमन्त्री जस्टिन् ट्रूडो सूचितवान्। एषः निर्णयः कानडादेशं प्रति प्रवासार्थं सज्जानां भारतीयानां आशाः न्यूनीकरोति।

    कानडायाः नवीनकार्यक्रमेण भारतेन सह अन्येषां राष्ट्राणां प्रवासीजनानां कृते स्थिरनिवासं प्राप्तुं तथा कर्मलाभं

Friday, October 25, 2024

 सञ्जीव खन्ना सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः। 

नवदिल्ली> सर्वोच्चन्यायालयस्य आगामि मुख्यन्यायाधिपरूपेण सञ्जीव खन्ना केन्द्रसर्वकारेण नियुक्तः। वर्तमानीनः मुख्यन्यायाधिपः डि वै चन्द्रचूडः नवम्बर् दशमदिनाङ्के विरम्यते। अपरेद्युः खन्नावर्यः पदं स्वीकरिष्यति। 

  भारतस्य ५१ तमः मुख्यन्यायाधिपः सञ्जीव खन्ना ६ मासपर्यन्तं पदं वक्ष्यति। २०२५ मेय् १४ तमे दिनाङ्के सेवायाः निवर्तिष्यते।

शशिकला-सुदर्शनपरिणयः 

(श्रीमद्देवीभागवते प्रोक्तः शशिकलासुदर्शनयोः परिणयवृत्तान्तः )

    पुरा एकदा काशिराजः सुबाहुः तस्याः कन्यायाः शशिकलायाः विवाहार्थमेकं स्वयंवरं आयोजितवान्। अस्मिन् प्रसङ्गे यथाशास्त्रं स्वयंवरमुद्दिश्य किञ्चिदालोचयामः। विद्वद्गणाः स्वयंवरः त्रिविधः इति प्रोक्तवन्तः। क्षत्रियाणां राज्ञां कृते स्वयंवरः उपयुक्तः न तु अन्येषां कृते। तद्यथा-

स्वयंवरस्तु त्रिविधो विद्वद्भिः परिकीर्तितः।

राज्ञां विवाहयोग्यो वै नान्येषां कथितः किल॥

विद्वद्गणाः स्वयंवरः  त्रिविधः

Thursday, October 24, 2024

 ८५ विमानानि प्रति पुनरपि विस्फोटकभीषा।

   विमानानि प्रति विस्फोटकभीषा पुनरपि अनुवर्तते। विगतासु २४ होरासु एयर् इण्डियायाः २० विमानानि, आकासायाः २५ विमानानि, विस्तारायाः २० विमानानि - आहत्य ८५ विमानानि विरुद्ध्य भीषासन्देशाः प्राप्ताः।

   विमानसेवां प्रति ईदृश्याः भीषायाः सन्दर्भे केन्द्रीयाः अन्वेषणदलाः संयुक्ततया अन्वेषणं कुर्वन्ति इति व्योमयानमन्त्री राममोहननायिडुः उक्तवान्। यात्रिकै: भीतिं कर्तव्या, स्थितिः नियन्त्रणाधीना एव इति तेनोक्तम्। लब्धेषु अधिके भीषासन्देशाः विदेशेषु विद्यमाने भ्यः IP- सङ्केतेभ्यः निर्गताः इति ज्ञायते, तथा तेषां लेखानां (Account) विशेषविवरणानि अन्वेषणसमित्या सङ्कलितानि भवन्ति इति मन्त्री अवदत्।

 भारतं युद्धं नाङ्गीकरोति - नरेन्द्रमोदी। 

कसानः> न युद्धं, शान्तियुक्तं चर्चां नयतन्त्रं च भारतेन अभिवाद्यते इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी ब्रिक्स् उच्चशिखरसम्मेलनम् अभिसम्बुध्य प्रस्तुतवान्। ब्रिक्स् अङ्गराष्ट्रं रषियायाः उक्रैनस्य च मिथः युद्धं झटित्येव परिहरणीयमिति सः असन्दिग्धतया उदबोधयत्। 

  युद्धं विना आर्थिकास्थिरता, पर्यावरणव्यतियानं, आतङ्कवादः इत्येतानि मोदिनः भाषणविषयाः बभूवुः। यू एन् मध्ये विघातभूतः 'अन्ताराष्ट्रियभीकरतां विरुध्य समग्रसन्धिः' इत्यस्य साक्षात्काराय प्रयतितव्यमिति सः उक्तवान्। रष्या , चीनः, इरानः इत्यादयानां राष्ट्रनेतॄणां सान्निध्ये आसीत् भारतप्रधानमन्त्रिणः प्रभाषणम्।

 यू एस् निर्वाचनं - २. १ कोटिजनाः मतदानमकुर्वन्। 

वाषिङ्टणः>  प्रचाल्यमाने यू एस् राष्ट्रपतिनिर्वाचने एतदाभ्यन्तरे २. १ कोटिजनाः स्वाभिमतं कृतवन्तः। नवंबर् पञ्चमे दिनाङ्के अस्ति औद्योगिकतया निर्वाचनम्। किन्तु तत्र पूर्वकालीयमतदानम् [Early Vote] इति सुविधा अस्तीत्यतः ७८ लक्षं पूर्वकालीयमतदानं, १. ३३ कोटि पत्रालयमतदानं च कृतम्। फ्लोरिडा विश्वविद्यालयस्य 'इलक्षन् लाब्' संस्थया एव अयं वृत्तान्तः बहिरागतः।

 सीमायाः शान्तये प्राथमिकता दातव्या इति मोदी, शी जिन्पिङयोः समागमे परस्परसाह्यकरणाय बलं दत्तम्।

      सीमायाः शान्तिः प्राथमिकतया स्थापनीया इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदीः -चीनस्य राष्ट्रपतिः शी जिन्पिङ् इत्येतयोः समागमे उक्तवान्तौ। अभिमतभिन्नताः चर्चया परिहारयितव्याः इति शी जिन्पिङः अवदत्, तथा मोदी अपि सीमायाः शान्तये प्राथमिकता दातव्या इति प्रतिपाद्य, परस्परविश्वासः तथा परस्परसमादरः च सहकारस्य आधारः भवेत् इति निर्दिष्टवान्।

     भारत-भारतचीनयोर्मध्ये सीमासंबन्धिन्यां चर्चायां मोदी स्वागतं कृतवान्। उभयोः राष्ट्रयोः सहकारः विश्वशान्तये प्रगत्यै च अनिवार्यः इति अपि सः अवदत्। पूर्वलद्दाखप्रदेशे वास्तविक-नियन्त्रणरेखायाम् उभयोः सेनयोः प्रतिनिधीनां निरीक्षणाटनाय  (petrolling) सहमति अभवत्।, 'कसाननगरे' आयोजिते ब्रिक्सस्य' उच्चशिखरमेलने आसीत् मोदी- षी जिन्पिङयोः समागमः। सीमासम्बन्धविवादस्य परिहाराय विशेषप्रतिनिधिसमित्याः योगं शीघ्रमेव सम्पादयितुम्  अपि सहमतिरभवत्।

Wednesday, October 23, 2024

 डाना चक्रवातः - ओडीषा पश्चिमवंगेन सह जनान् अपनयति। 

भुवनेश्वरं / कोल्कोत्ता> बङ्गालसमुद्रान्तराले रूपीकृतः डानानामकः चक्रवातः राक्षसीयभावेन तीरं स्पृक्ष्यतीति पर्यावरणप्रवचनमस्तीत्यतः ओडीषा तथा पश्चिमवंगश्च तीरस्थान् जनान् सुरक्षितस्थानं नयति। 

  पुरी सागरद्वीपयोर्मध्ये वातः  प्रबलं वास्यतीति पर्यावरणविभागस्य पूर्वसूचना। चक्रवातस्य स्वाधीनतया अतिवृष्टिरपि प्रवचिता। 

  ओडीशायां ८०० समाश्वासकेन्द्राणि उद्घाटितानि। शैक्षिकसंस्थानां विरामः प्रख्यापिता। पश्चिमवंगमपि  चक्रवातदुष्प्रभावं प्रतिरोद्धुं सुसज्जमिति राज्यमुख्यमन्त्रिणी ममता बानर्जी न्यवेदयत्। तत्रापि सप्त जनपदेषु शैक्षिकसंस्थानां विरामः प्रख्यापिता।

 ब्रिक्स् उच्चशिखरसम्मेलनम् आरब्धम्। 

नरेन्द्रमोदिने लब्धं स्वीकरणम्। 

कसानः> विकस्वरराष्ट्राणां संघटनस्य ब्रिक्स् नामकस्य १६ तमं उच्चशिखरसम्मेलनं रषियाराष्ट्रस्थे कसाननगरे ह्यः समारब्धम्। रषियाराष्ट्रपतिना व्लादिमिर पुटिनेन आतिथ्यं क्रियमाणे सम्मेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी, चीनस्य राष्ट्रपतिः षि जिन् पिङ् इत्यादयः राष्ट्रनेतारः गतदिने कसानं प्राप्तवन्तः। ब्रिक्स् अङ्गराष्ट्राणि विना ३६ राष्ट्राणां प्रतिनिधयोSपि अस्मिन्नुच्चशिखरमेलने भागं स्वीकुर्वन्ति। 

  युक्रेनप्रकरणे रषियाविरुद्धप्रक्रमं स्वीक्रियमाणः यू एन् संस्थायाः कार्यकर्ताप्रमुखः अन्टोणियो गुटरसः अपि उच्चशिखरं प्राप्स्यति। 'आगोलविकासाय सुरक्षायै च बहुमुखवादप्रबलीकरणम्' इति अस्य उच्चशिखरमेलनस्य सारांशः।

 मोदी - पुतिनमेलनं सम्पन्नम्। 

रूस्-युक्रेनयुद्धपरिसमाप्तये भारतस्य साह्यवाग्दानं पुनरपि। 

नरेन्द्रमोदी-व्लादिमिर् पुतिनमेलनात्। 

कसानः> ब्रिक्स् उच्चशिखरसम्मेलने भागं कर्तुं रूसराष्ट्रस्य कसाननगरं प्राप्तवान् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी रूसराष्ट्रपतिना व्लादिमिर् पुतिनेन सह सम्मिलितवान्। वर्षत्रयमापद्यमानं रूस्-युक्रेनयुद्धं  परिसमापयितुं साध्यं सर्वं साहाय्यं कर्तुं सन्नद्धमिति भारतप्रधामन्त्रिणा वाग्दानं कृतम्। 

   "रूस्-युक्रेनयुद्धस्य शान्तियुक्तः परिहार एव भारतेन काङ्क्ष्यते। मनुष्यत्वाय प्राधान्यं दीयमानः शान्तिप्रयत्नः एव अस्माभिः क्रियते। मण्डले शान्तिः स्थिरता च पुनरागन्तव्या" - मोदिवर्येण निगदितम्। मासत्रयाभ्यन्तरे मोदिनः द्वितीयं रूससन्दर्शनमासीदिदम्।

Tuesday, October 22, 2024

 बङ्गलुरूनगरं महत्या वृष्ट्या दुष्प्रवितम्: षट्तलयुतम् अट्टशूलगृहं पतित्वा त्रयः कर्मकराः मृताः।

   बङ्गलुरुनगरे महती वृष्टिः जातास्ति। हेनूरमण्डले निर्माणं प्रचलितं षट्तलयुतम् अट्टशूलगृहं  पतित्वा त्रयः कर्मकराः मृताः। अवशिष्टेषु द्वादश कर्मकराः अवरुद्धाः सन्ति इति सूच्यते। 12 जनाः भग्नभवनस्य अधः पतिताः सन्ति इति सूचना लब्धा अस्ति। ते सर्वे अपरराज्येभ्यः आगताः  एव।

   शान्तिनगरे शताधिकानि गृहाणि जलप्रवाहेण ग्रस्तानि अभवन्। सर्जापुरे ह्यः एव चत्वारिंशत् मिल्लिमीट्टर् मितं जलं वर्षितम्। वृष्टेः तीव्रतया नगरे यातायातम् बाधितम् अभवत्, निम्नप्रदेशेषु च षड्पादमितं यावत् जलं गृहेषु प्रविष्टम्।

    वृष्टेः कारणेन बङ्गलुरुनगरस्य विद्यालयेषु अङ्गणवाटिकासु च श्वः बुधवासरे अनध्यायता उद्घोषितः आसीत्।

 दिल्ली विद्यालयसमीपे स्फोटनं - खालिस्थानसंघमिति सन्दिह्यते। 

नवदिल्ली> दिल्ल्यां प्रशान्तविहारस्थे सि आर् पि एफ् विद्यालयसमीपे आपन्नस्य बोम्बस्फोटनस्य पृष्ठतः खालिस्खानवादिनः इति सन्दिह्यते। बोम्बस्फोटनस्य दृश्यानि खालिस्थानस्य उदकचिह्नेन [water mark] 'जस्टिस् लीग् इन्डिया' नामके 'टेलिग्राम्' संघे प्रचलन्ति। खालिस्थानवादिनः विरुध्य भारतस्य प्रक्रमाणां प्रतिकार इति सन्देश अप्यस्ति। 

  उत्तरदायित्वं स्वीकृतस्य संघस्य विस्तरांशान् दातुं टेलिग्रामं प्रति दिल्ली आरक्षकाधिकृतैः निर्दिष्टम्।

 नवम्बर 1 तः 19 पर्यन्तं न गच्छ; एयर् इण्डिया विमानसेवां विरुद्ध्य खालिस्तानीयनेतुः सुग्रीवाज्ञा।

    एयर् इण्डिया विमानसेवां विरुद्ध्य खालिस्तानीयस्य नेतुः गुरुपन्तसिंहपन्नोः सुग्रीवाज्ञा। सिखजनविरुद्ध-कलहस्य वार्षिकस्मरणेण सम्बन्धतया नवम्बरमासस्य 1 दिनाङ्कतः 19 पर्यन्तं यदि एयर् इण्डिया विमानसेवा प्रचालयेत सति आक्रमणम् अवश्यं  भविष्यति इति सः ज्ञापितवान्। गतवर्षे अपि पन्नुः समानभीषां कृतवान् इति वार्ताः सूचयन्ति।

    2020 तमात् जुलाईमासात् आरभ्य गृहकार्य मन्त्रालयेन पन्नुः एकः आतङ्कवादीरूपेण प्रख्यापितः अस्ति, एषः Sikhs for Justice नामकस्य प्रतिबन्धितसंघटनस्य स्थापकः च अस्ति।

Monday, October 21, 2024

 जम्मूकश्मीरराज्ये आतङ्कवादिनः आक्रमणम्। सप्तजनाः हताः।

   जम्मूकश्मीरे भीकराक्रमणम् अभवत्। सप्तजनाः हताः, तेषु एकः वैद्यः अन्यराज्यस्य षट् कर्मकराः च सन्ति। साङ्गणं क्षेत्रे निर्मिते एकस्मिन् सुरङ्गस्य समीपे आक्रमणम् अभवत्। जम्मूकश्मीरस्य मुख्यमन्त्री उमर अब्दुल्लः तथा केन्द्रगृहमन्त्री अमितशाहः अपि भीकराक्रमणं निन्दितवन्तौ।

      सैनिकैः आक्रमणानि विरुध्य प्रक्रमाः स्वीकृताः। प्रदेशः सैनिकैः परिवृतः अस्ति, अन्वेषणं प्रारब्धं च। आक्रमणं द्वाभ्यां भीकराभ्यामेव कृतमिति सूच्यते। प्राथमिकनिरीक्षणेन ज्ञातम् यत् तस्यां क्रियायां पाकिस्थानीयाः आतङ्किनः विद्यमानाः आसन्। आक्रमणकाले द्वौ जनौ घटनास्थले एव मृत्युमुपगतौ। एकस्य वैय्यक्तिक-स्वामित्वे प्रचलिते सुरङ्गनिर्माणस्थले आक्रमणमभवत्।

 अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धा सम्पन्ना।

    केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरेण आयोज्यमानसु ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धासु विगत-दिनद्वयात् चत्वारिंशत् प्रतियोगितानां प्रथम-द्वितीय-तृतीय-पुरस्कारप्रदानेन समापनसमारोहः सम्पन्नः। 

  कार्यक्रमस्यास्य मुख्यातिथिः प्रो. अभिराजराजेन्द्रमिश्र-महोदयः (पूर्वकुलपतयः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी) उक्तवान् यत् वर्तमानकाले संस्कृतशिक्षकानां छात्राणाञ्च मुख्यमुत्तरदायित्वमस्ति यत् ते शब्दज्ञानराशिः वर्धयेयुः। संस्कृतभाषया एव भारतं विश्वगुरुत्वं प्राप्तुं शक्नोति। अस्माकं शास्त्राणि

 दिल्ल्यां विद्यालयसमीपे स्फोटनं; जनापायः नास्ति।

नवदिल्ली> दिल्ल्यां रोहिणीसमीपस्थे प्रशान्तविहारे सि आर् पि एफ् विद्यालयसमीपे रविवासरे प्रभाते तीव्रशब्देन स्फोटनमभवत्। तद्देशीयबोम्बः एव विस्फोटितमिति सन्दिह्यते। जनापायः नास्ति। विद्यालयस्य संरक्षणभित्तिः, समीपस्थानि कतिपयापणानि, एकं कार् यानम् इत्येतानि अंशतया विनाशितानि। राष्ट्रियान्वेषणाभिकर्ता [एन् ऐ ए], राष्ट्रियसुरक्षासंघः [एन् एस् जि], सि आर् पि एफ्, दिल्ली आरक्षकसेना, अग्निसेना इत्यादयः घटनास्थानं प्राप्य अन्वेषणमकुर्वन्।

 राजस्थाने बस् यानदुर्घटना - १२ मरणानि। 

जय्पुरं> राजस्थाने धोल्पुरे बस् यानं टेम्पो ट्रावलर् यानेन सह घट्टने एकस्मिन् परिवारे १२ अङ्गाः मृताः। शनिवासरस्य रात्रौ विवाहकार्यक्रमानन्तरं प्रतिनिवर्तमानाः आसन् दुर्घटनालग्नाः। मृतेषु ८ बालकाः भवन्ति। 

  दुर्घटनायां प्रधानमन्त्री नरेन्द्रमोदी अन्वशोचयत्। मृतानां बान्धवेभ्यः २ लक्षंरूप्यकाणि आहतानां कृते ५०,००० रूप्यकाणि च राष्ट्रिय दुरन्तसमाश्वासनिधेः अनुमोदितानि।

 महिला टि - २० विश्वचषकः 

नूसिलान्टः किरीटजेता। 

दुबाय् > महिला टि - २० क्रिकट् विश्वचषकः नूसिलान्टेन प्राप्तः। ह्यः सम्पन्ने अन्तिमप्रतिद्वन्द्वे दक्षिणाफ्रिकां ३२ धावनाङ्कैः पराजित्य नूसिलान्टः प्रथमतया विश्वचषककिरीटम् अचुम्बत्। 

  अङ्कप्राप्तिः - नूसिलान्टः २० क्षेपणचक्रे पञ्चद्वारकाणां विनष्टेन १५८ धावनाङ्काः। दक्षिणाफ्रिका २० क्षेपणचक्रे नव द्वारकैः १२६ धावनाङ्काः। अमेलिया केर् भवति नूसिलान्टस्य विजयशिल्पिनी [४३ धावनाङ्काः, ३ द्वारकप्राप्तिः च।]

Sunday, October 20, 2024

 जोहर चषक होक्की - भारतस्य विजयः। 

जोहर् [मलेषिया]> मलेषिया राष्ट्रे आरब्धायाः एकविंशत्यधोवयस्कानां [Under 21] जोहरचषकयष्टिक्रीडायाः प्रथमे प्रतिद्वन्द्वे भारतदलस्य विजयः। विरोधिनं जापानदलं ४ - २ इति लक्ष्यकन्दुकक्रमेण पराजयत्। भारतस्य  भूतपूर्वहोक्कीनायकस्य पि आर् श्रीजेषस्य परिशीलने अस्ति भारतजूनियर् दलस्य स्पर्धाः प्रचलन्ति।

 नेतन्याहोः गृहं लक्ष्यीकृत्य ड्रोण् आक्रमणम्। 

जरुसलेमः> इस्रयेलस्य प्रधामन्त्रिणः बञ्चमिन् नेतन्याहोः वासगृहं लक्ष्यीकृत्य शनिवासरे प्रभाते ड्रोण् यन्त्रायुधमुपयुज्य आक्रमितम्। लबननस्य सायुधसंघः हमास् इत्यनेनैव आक्रमणं कृतमिति सूच्यते। तत्समये नेतन्याहुः गृहे नासीत्। 

   उत्तरइस्रयेलस्य सीसेरियप्रदेशे वर्तमानं गृहं प्रति विधत्ते आक्रमणे जनापायः न सम्भूतः। हमासस्य नेतुः यहिया सिन्वरस्य हत्यायाः प्रतीकारः इदमाक्रमणमिति सूच्यते।

 बिहारमद्यदुरन्तः - मृत्युसंख्या ३७ अभवत्। 

पट्ना> मद्यनिरोधे वर्तमाने बिहारस्य सिवान् सारण् जनपदद्वयेविषमद्यपानेन मृतानां संख्या ३७ अभवत्। गोपालगञ्च् जनपदस्थे बैकुन्तपुरे एव नूतनं मरणद्वयमापन्नम्।

Saturday, October 19, 2024

 दिल्ल्यां वायुशुद्धता निन्द्यमानस्तरं पतति। 

यमुनायां विषफेनम्। 

नवदिल्ली> शैत्यकाले आरभ्यमाणे राष्ट्रराजधानीनगरे वायोः शुद्धतास्तरे दोषः अनुभूयते। सप्ताहं यावत् अन्तरिक्षे शैत्यमनुभूयते। शुक्रवासरे तीव्रशैत्यमनुभूतम्। संसद्सभापरिसरे, मध्यदिल्ली, राजधान्यां विविधस्थानेषु च ह्यः कठिनं हिमावरणं दृष्टम्। 

   रविवासरे वायोः अशुद्धता  तीव्रनिन्द्यस्तरम् आपतिष्यतीति पर्यावरणप्रवचनं वर्तते। 

  तथा च यमुनानद्यां विविधस्थानेषु विषफेनं दृष्टम्। जले मलिनीकरणद्वारा रासप्रवर्तनेन श्वेतवर्णयुक्तफेनजालम् उत्पाद्यते इति सूच्यते। दीपावलि दिनेषु नदीम् अवतार्यमाणानां स्वास्थ्यक्लेशाः भवेयुरिति परिस्थितिज्ञैः निगदितम्।

 बिहारे व्याजमद्यदुरन्तः - ३५ जनाः मृताः।

पट्ना> मद्यनिरोधे वर्तमाने बिहारराज्ये व्याजमद्यं पीत्वा ३५ जनाः मृत्युमुपगताः। मङ्गलवासरे आसीदियं घटना दुरापन्ना। सिवान् जनपदे २८, सारणजनपदे ७ जनाः च मृता इति सूच्यते। २५ अधिकं जनाः आतुरालयेषु परिचर्यायां वर्तन्ते। बहूनां दर्शनशक्तिः विनष्टा जाता। 

  व्याजमद्यविक्रये १५ जनाः आरक्षकैः निगृहीताः। सविशेषसंघद्वयं रूपीकृत्य अन्वेषणमारब्धम्।

Friday, October 18, 2024

 भारते उपग्रह अन्तर्जालसुविधां दातुम् इलोण् मस्कः। 

मुम्बई>भारते अन्तर्जालसुविधाम् उपग्रहसाह्येन लब्धुं स्वस्य 'स्टार्लिङ्क्' नामिकासंस्था सज्जा इति इलोण् मस्कः निगदितवान्। उपग्रह अन्तर्जालाय 'स्पेक्ट्रं' साक्षाल्लभ्यमानं भविष्यतीति केन्द्र वार्तावितरणमन्त्रिणः ज्योतिरादित्य सिन्ध्यस्य प्रस्तावमनुसृत्य मस्केन एक्स् माध्यमेन सूचितोSयं  वृत्तान्तः। 

  उपग्रहस्पेक्ट्रम् अनुज्ञा कथं दातव्या इति टेलिकोम् नियन्त्रण अथोरिटि [ट्राय्] संस्थया एव निर्णयः करणीयः। आगोलव्यपकेन उपग्रहस्पेक्ट्रम् शासनस्तरीये साक्षादेव ददाति। भारतमपि तदवलम्बिष्यते।

संस्कृत-विद्वान् पं.वसन्त-अनन्त-गाड्गीलः दिवंगतः॥

बलदेवानन्दसागरः

   शारदा'- इति संस्कृतपत्रिकायाः संस्थापक-सम्पादकः सुख्यातः संस्कृत-विद्वान् पं.वसन्त-अनन्त-गाड्गीलः गतरात्रौ हृदयगत्यवरोधात् प्राणान् अत्यजत्। असौ चतुर्नवति-वर्षदेशीयः आसीत्। अमुना संस्कृत-समाराधकेन आजीवनं संस्कृतस्य पत्रकारिताक्षेत्रे सुबहु योगदानम् अनुष्ठितम्। अस्मै महात्मने विनम्राः भावाञ्जलयः सादरं समर्प्यन्ते। शान्तिः शान्तिः शान्तिः ॥

 हमासनेता यह्या सिन्वरः हतः। 

यह्या सिन्वरः। 

जरुसलेमः> हमास् सायुधसेनायाः नेता यह्या सिन्वरः गतदिने सम्पन्ने सैनिकप्रक्रमे हतः इति इस्रयेलस्य विदेशकार्यमन्त्री इस्रयेल् कैट्स्  इत्यनेन निगदितम्। २०२३ ओक्टोबर् सप्तमे दिनाङ्के इस्रयेलं प्रति हमासेन कृतस्य आक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः आसीत् सिन्वरः इति सूच्यते।

  हमासस्य उन्मूलनाशः इति इस्रयेलस्य लक्ष्ये अतिप्रधानमासीत् हत्येयम्। दक्षिणगासायां राफा इत्यत्र कृते आक्रमणे सिन्वरस्य मरणमिति सूच्यते। डि एन् ए परिशोधनया एव निहतेषु त्रयेषु एकः यह्या सिन्वरः इति इस्रयेलेन दृढीकृतम्।

 जम्मु काश्मीरे ओमर् अब्दुल्ला प्रशासनं शपथमकरोत्। 

श्रीनगरं> सविशेषपदनिरासानन्तरं सम्पन्ने निर्वाचने विजयीभूतस्य नाषणल् कोण्फ्रन्स् दलस्य नेता ओमर् अब्दुल्ला जम्मु काश्मीरस्य मुख्यमन्त्रिरूपेण शपथवाचनं कृत्वा पदं प्राप्तवान्। लफ्टनन्ट् राज्यपालः मनोजसिंहः शपथमकारयत्। 

  पञ्चाङ्गमन्त्रिमण्डलमेव पदं प्राप्तवत्। जम्मुक्षेत्रात् चितः सुरीन्दर् चौधरी उपमुख्यमन्त्री भविष्यति। सर्वकाराय बहिःस्थित्वा सहयोगं दास्यतीति सख्यदलेन कोण्ग्रसेन निगदितम्।

Thursday, October 17, 2024

 बृहस्पतिग्रहे भीमाकारं रक्ततिलकम्।

     अनन्ताद्भुतानां भण्डाकारः भवति अस्माकं भूमिः आकाशः च। अनन्तम् अज्ञातम् अवर्णनीयं निगूढम् च भवति, सूर्यः, ग्रहाः, उपग्रहाः च। विश्वस्मिन् नूतनायाः प्रौद्योगिकविद्यायाः प्रभावेन अनेकाः आविष्काराः कृताः अपि इतःपरम् उत्तरं लब्धुम् अशक्याः बहवः प्रश्नाः सन्ति बाह्याकाशलोके। तद्वत् अतिविस्मयावहा नूतना विशेषघटना भवति बृहस्पतिग्रहे दृश्यमानं रक्ततिलकं, किन्तु एतत् अनित्यम् इति च उच्यते नासया। नासायाः हबिल् स्पेस् इति विहायदर्शनी द्वारा कृते अनुसन्धानेन लब्धम् इदं नूतनं ज्ञानम्।

 हिस्बुल्लायायाः शक्तिकेन्द्रेषु इस्रयेलस्य व्योमाक्रमणं - २५ मरणानि। 

बेय्रूट्> लबनने युद्धविरामनिर्देशः न केवलम् इस्रयेलेन निरस्तं किन्तु अचिरेणैव हिस्बुल्लायायाः शक्तिदुर्गेषु शक्तमाक्रमणं कृतम्। इस्रयेलेनकृते व्योमाक्रमणे नबतियेहनगरस्य अध्यक्षमभिव्याप्य २५ जनाः मृत्युमुपगताः इति लबनेन निगदितम्। ४३ जनाः व्रणिताः। इस्रयेल-हिस्बुल्ला प्रतिद्वन्द्वे अद्यावधि १३५६ जनाः मृताः इति सूच्यते।

 कानडायाः भारतविरुद्धारोपे अमेरिकायाः अनुकूलता।

वाषिङ्टणं> खालिस्थानभीकरस्य हर्दीपसिंह निज्जरस्य हत्याविषये कानडायाः भारतविरुद्धारोपः यू एस् राष्ट्रेण अनुकूलितः। कानडायाः आरोपः अतिगौरवयुक्तः , तस्मिन्  प्रकरणे तद्राष्ट्रस्य अन्वेषणे भारतेन सहयोगः कार्य इति यू एस् राष्ट्रेण प्रस्तुतम्। निज्जरप्रकरणे भारत-कानडाबन्धे अपस्वरे जाते अस्ति यू एस् विदेशकार्यवक्तुः मात्यू मिल्लर् इत्यस्य प्रस्तावः। प्रत्युत, यू एस् - भारतबन्धुत्वम् अनुवर्तिष्यते इति तेन सूचितम्।

Wednesday, October 16, 2024

 तमिलनाटे अतिवृष्टिः - ६ मरणानि । 

चेन्नै> वंगसमुद्रान्तराले सञ्जातः न्यूनमर्दः तीव्रन्यूनमर्दे जाते तमिलनाटराज्ये अतिवृष्टिः अनुभूयते। वृष्टेः दुष्प्रभावात् षट् जनाः मृताः। चेन्नै नगरस्थानि विविधानि गृहाणि मार्गाश्च जलाप्लावितानि जातानि। 

  चेन्नै, चेङ्कल् पेट्, काञ्चीपुरं, तिरुवल्लूर् जनपदेषु अद्य विरामः प्रख्यापितः।

 गुजरातप्रदेशे विषवातकस्य निर्गमनेन श्वासरोधेन ५ कर्मकराः  मृताः।

  गुजरातप्रदेशस्य कच्छनगरस्य इमामी अग्रोटेक् इति उद्योगशालायं विषवातकस्य निर्गमः अभवत्। अद्य प्रभाते एव दुर्घटना अभवत्। उद्योगशालायाः मालिन्यकूपस्य स्वच्छताकरणे सन्दर्भे एव विषवातकस्य निर्गमनं जातमिति अनुमन्यते। विषवातकस्य श्वसनेन मूर्छया पतितान् कर्मकरान् रक्षयन्तः श्रमिकाः अपि मृताः। मृतेषु एकः पर्यवेक्षकः अन्यः कूपसंचालकः च आस्ताम्।

 षाङ् हाय् सहयोग उच्चशिबिरं 

भारतविदेशकार्यमन्त्री पाकिस्थानं प्राप्तः। 

जयशङ्कराय पाकिस्थाने लब्धं स्वीकरणम्। 

इस्लामबादः>  षाङ् हाय् सहयोग उच्चशिबिरे भागं कर्तुं भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः गतदिने सायं पाकिस्थानस्य राजधानीम् इस्लामबादं प्राप्तवान्। अष्ट वर्षेभ्यः अनन्तरमेव भारतस्य विदेशकार्यमन्त्री पाकिस्थानं सन्दर्शयति। 

  मङ्गलवासरे सायं काले षाङ् हाय् अङ्गराष्ट्राणां प्रतिनिधिभ्यः पाकिस्थानप्रधानमन्त्रिणा षहबास् शरीफेन  आयोजिते  सौहृदसत्कारे जयशङ्करः भागं स्वीकृतवान्। षाङ् हाय् सहयोगसख्यस्य प्रवर्तनेषु सजीवभागभागित्वं भारतेन अनुवर्तिष्यते इति जयशङ्करेण निगदितम्।

 मणिपुरे अक्रममार्गं परित्यक्तुं संयुक्ताभ्यर्थना। 

नवदिल्ली> मणिप्पुरे वंशीयविद्वेषजनिताक्रमपरम्परामारभ्य प्रथमतया आयोजिते कुक्की, मेय्ती, नागा विभागानां विधानसभासदस्यानाम् उपवेशनं संवृत्तम्। केन्द्रसर्वकारान्तर्गतस्य गृहमन्त्रालयस्य आभिमुख्ये आयोजिते मेलने अक्रममार्गात् सर्वे विभागाः अपसरणीयाः इति अभ्यर्थितुम् ऐककण्ठ्येन निश्चितम्। 

  उपवेशनेSस्मिन् कुक्की मेय्ती विभागेभ्य‌ः २० सदस्याः नागाविभागात् त्रयः सदस्याश्च भागं स्वीकृतवन्त इति गृहमन्त्रालयेन निगदितम्।

 महाराष्ट्र झार्खण्डयोः विधानसभानिर्वाचनम् विज्ञापितम्।

केरले वयनाट् लोकसभां पालक्काट्, चेलक्करा विधासभाद्वयं प्रति उपनिर्वाचनं चोद्घोषितम्। 

नवदिल्ली> महाराष्ट्रं झार्खण्डः इत्येतयोः राज्ययोः विधानसभानिर्वाचनं निर्वाचनायोगेन  विज्ञापितम्। महाराष्ट्रे नवम्बर् २० तमे दिनाङ्के एकेनैव चरणेन सम्पत्स्यते। तत्र २८८ मण्डलानि वर्तन्ते। 

  झार्खण्डे नवम्बर् १३, २० दिनाङ्कयोः  सोपानद्वयेन मतदानप्रक्रिया भविष्यति। तत्र आहत्य  ८१ मण्डलानि सन्ति। 

    तथा च केरले वयनाट् लोकसभामण्डले  पालक्काट्, चेलक्करा विधासभाद्वये च  उपनिर्वाचनं नवम्बर् १३ तमे दिनाङ्के  विधास्यति। राहुल गान्धिवर्यः वयनाट् मण्डलं विना राय्बरेली मण्डले अपि विजितः इत्यतः वयनाट् निरस्तमासीत्। इतरराज्यविधानमण्डलद्वयस्य सदस्यौ आस्तां लोकसभां प्रति चितौ।

Tuesday, October 15, 2024

 महिला टि - २० 

भारतं बहिर्गतम्। 

दुबाय्> महिलानां टि - २० क्रिकट् विश्वचषकस्पर्धायां भारतस्य पूर्वान्त्यचक्रप्रवेशनप्रतीक्षा अस्तमिता। 'ए संघे' निर्णायके प्रतिद्वन्द्वे यदा पाकिस्थानं न्यूसिलान्टेन पराजितं तदैव भारतस्य पूर्वान्त्याभिलाषः अस्तं गत्वा परम्परायाः बहिर्नीतम्। स्पर्धायामस्यां यदि पाकिस्थानं विजयीभूतं तर्हि भारतस्य पूर्वान्त्यचक्रप्रतीक्षा  भवेत्।

 मणिपुरं सङ्घर्षः - कुक्की, मेय्ती, नागासदस्याः अद्य चर्चां करिष्यन्ति। 

इम्फाल्> मणिपुरे संघर्षस्य परिहाराय अद्य कुक्की, मेय्ती, नागासदस्याः दिल्ल्यां चर्चां करिष्यन्ति। केन्द्रसर्वकारस्य गृहमन्त्रालयस्य नेतृत्वे अस्ति चर्चा। 

   मणिपुरसंघर्षस्य प्रारम्भारन्तरं प्रथममेव विविधविभागस्य सदस्यान् अन्तरभाव्य  एतादृशी चर्चा समायोज्यमाना वर्तते। समस्यापरिहाराय केन्द्रसर्वकारस्य पदक्षेपस्य अंश एवेयं चर्चा।

 आर्थिकनोबेल् पुरस्काराय त्रयः चिताः। 

   ओस्लो> २०२४ तमवर्षस्य आर्थिकनोबेल् पुरस्काराय त्रयः शास्त्रज्ञाः चिताः। यू एस् मध्यस्थे Massachusetts Institute of Technology [एम् ऐ टि] नामकसंस्थायाः शास्त्रज्ञौ डारोण् असे मोग्लु, सैमण् जोण्सण्, तथा च षिकागो विश्व विद्यालये गवेषकः जेयिम्स् ए रोबिन् सण् इत्येते पुरस्कारजेतारः भवन्ति।

 वयनाट् दुरन्ते केन्द्रसाह्यम् अभ्यर्थ्य केरलविधानसभया निवेदनमनुमोदितम्।

अनन्तपुरी>  जूलैमासे वयनाट् जनपदस्थे चूरल्मला-मुण्टक्कै क्षेत्रे दुरापन्ने भूस्खलने आर्थिकसाहाय्यस्य विलम्बे खेदं प्राकट्य केरलविधानसभा ऐककण्ठ्येन अभियाचिकाम्  अनुमोदयत। विपक्षीयसदस्यः टि सिद्दिखः  निवेदनमवतारितवान्। 

  प्रत्युत, वयनाटाय यदावश्यकं तल्लप्स्यते इति केन्द्रवित्तमन्त्रिणी निर्मला सीतारामः कोच्चीमध्ये निगदितवती।

 राजनैतिकलाभाय भारतस्य अपकीर्तिं कर्तुं योजनाबद्धः प्रयासः।

 कनेडीयायाः प्रधानमन्त्रिणं प्रति  विदेशकार्यमंत्रालयेन तीव्रविमर्शः कृतः।

   कनेडीयायाः प्रधानमन्त्री जस्टिन् ट्रूडो इत्यस्मिन् प्रति तीव्रविमर्शं विदेशकार्य-मंत्रालयेन कृतम्। भारतस्य विषये  ट्रूडो स्वस्य राजनैतिकतायाः भागतया आरोपणं कृतवान् , एषः आरोपः  भारतस्य राजनीतिके विषयेषु तस्य हस्तक्षेपं सूचयति। राजनीतिकलाभाय भारतस्य अपकीर्तिं कर्तुं कानडायायाः प्रधानमन्त्रिणः योजनाबद्धं तन्त्रम् अस्ति इति विदेशकार्य मंत्रालयेन आरोपितम्। निज्जरस्य हत्याकाण्डस्य अन्वेषणे भारतीय उच्चायुक्तस्य तथा दूतियुक्तानाम् अपि व्यक्तिगतं चित्तम्  अस्ति इति  कानडायाः आरोपः भारतं निराकरोति।

Monday, October 14, 2024

 भारत-बङ्गलादेशयोः टि - २०  क्रिकट् - स्पर्धात्रये अपि भारतस्य विजयः। 

सञ्जु सांसणस्य शतकम्। अन्तिमे प्रतिद्वन्द्वे १३३ धावनाङ्कानां विजयः। 

हैदराबादः> बङ्गलादेशेन सह भारतस्य टि २०  क्रिकट्परम्परायाः तृतीयप्रतिद्वन्द्वे अपि भारतस्य उज्वलविजयः। २९८ विजयलक्ष्येन कन्दुकताडनमारब्धं बङ्गलादेशदलं १३३धावनाङ्कैः पराजित्य एव भारतं विजयकिरीटमधरत्। 

  भारतस्य कन्दुकताडनवेलायां केरलीयेन सञ्जु सांसणेन शतकं प्राप्तम्। ४४ कन्दुकैः १११ धावनाङ्काः तेन सम्पादिताः।

 लबनने अधिकनिष्कासनाय उद्दिश्य इस्रयेलः। 

बय्रूट्>  इस्रयेलस्य लबननं विरुध्य आक्रमणं तीव्रं कर्तुं लबननस्य दक्षिणभागे वर्तमानेषु २० ग्रामेषु वसतः जनान् ततः निष्कासितुम् इस्रयेलसेनया आदेशः विज्ञापितः। सुरक्षामालक्ष्य अवालिनद्याः उत्तरभागं प्रति अपसर्तुमेवादेशः। 

  रविवासरे दक्षिणलबनने कृते आक्रमणे कफर् तिब्निट् नामके ग्रामे वर्तमानः शतवर्षपुरातनः आराधनालयः निश्शेषेण भञ्जितः। नबातिये नामापणमपि सम्पूर्णतया विशीर्णम्। ह्यस्तनाक्रमणे १५ जनाः हताः, ३६ जनाः व्रणिताश्च।

 कार् यानादीनां लघुवाहनानां मार्गशुल्कं न भविष्यति। श्रद्धेयः निर्णयः स्वीकृतः सर्वकारेण।

    भारतस्य महानगराणि गच्छतां जनानां शिरोवेदनायाः कारणं भविष्यति मार्गेशुल्कम् (Toll)। किन्तु इदानीं मुम्बईनगरं प्रति गम्यमानानां लघुयानानां कृते मार्गशुल्कं न देयम्। विगते सोमवासरे महाराष्ट्रमुख्यमंत्री एक्नाथशिन्दे महोदयः मुम्बईनगरस्य प्रवेशद्वारे संस्थपितेषु पञ्चसु मार्गशुल्कद्वारेषु लघुयानानां (LMV) शुल्कं सम्पूर्णरूपेण परित्यक्तम् इति विज्ञापितवान्। अयम् नियमः अक्तोबरमासस्य १५ दिनाङ्कतः अर्धरात्रिरारभ्य प्रबलं भविष्यति। राज्ये विधानसभानिर्वाचने आसन्ने, मिलिते अन्तिममन्त्रिपरिषदि भवति इदं जनप्रियनिर्णयं स्वीकृतम्।

Sunday, October 13, 2024

 चेन्नै समीपे रेल् यानद्वयं घट्टितं - १९ जनाः आहताः। 

अन्वेषणम् एन् ऐ ए संस्थया स्वीकृतम्। 

चेन्नै> तमिल् नाटे चेन्नै समीपे तिरुवल्लूर् कावेरिप्पेट्टा रेल् निस्थाने मैसुरु - दर्भङ्गा एक्स्प्रेस यानं स्थगितेन  पण्ययानेन सह घट्टने १९ जनाः आहताः। गुरुवासरे रात्रौ ८. ३० वादने आसीत् दुर्घटना। यात्रायानस्य २३ कक्षाः पथविभ्रष्टाः जाताः। 

  दुर्घटनायां प्रतिलोमकर्म सन्दिह्य सर्वकारेण एन् ऐ ए संस्थायाः अन्वेषणं प्रख्यापितम्।

उत्तराखण्डसंस्कृताक्कादम्या संस्कृतछात्रप्रतियोगिता आयोक्ष्यन्ते।

वार्ताहर:- कुलदीपमैन्दोला।

  • छात्राः संस्कृतेन गास्यन्ति, नृत्यं करिष्यन्ति, वदिष्यन्ति च।
  • अक्टोबर-मासस्य १५, १६ दिनाङ्के मोटाढाकविद्यालये संस्कृत-छात्र-प्रतियोगिता भविष्यति । 
  • कण्वनगर्यां भविष्यति षोडशतमसंस्कृतमहोत्सव: 

      उत्तराखण्डसंस्कृताकादमीद्वारा १५ तथा १६ अक्टोबर् २०२४ दिनाङ्के दुगड्डाविकासखण्डे जनता-इण्टर-कालेज-मोटाढाके संस्कृतछात्रप्रतियोगितानाम आयोजनं क्रियते, यस्मिन् कनिष्ठ-वरिष्ठवर्गे आहत्य ०६ संस्कृतछात्रप्रतियोगितानां आयोजनं क्रियते।

1.संस्कृतनाट्यप्रतियोगिता

2.संस्कृतसमूहगानप्रतियोगिता

3.संस्कृतसमूहनृत्यप्रतियोगिता

4.संस्कृतवादविवादप्रतियोगिता 

5.संस्कृत-आशुभाषण- प्रतियोगिता

 6.श्लोकोच्चारणप्रतियोगिता च आयोजिताः भविष्यति। 

   दुगड्डाविकासखण्डस्य संस्कृत-छात्रप्रतियोगितायाः मार्गदर्शक-शिक्षाधिकारिण: अमितकुमारचंदमहोदयस्य निर्देशने खण्डसंयोजक: कुलदीपमैन्दोला, जनपद-सहसंयोजकः डा. रमाकान्तकुकरेती च अकादम्याः निर्देशिकानुसारेण सूचना प्रदत्तवन्तौ। प्रथमदिवसे कनिष्ठवर्गस्य एवं च द्वितीयदिवसे वरिष्ठवर्गस्य प्रतियोगिता: भविष्यन्ति।

  खण्डस्तरस्य कनिष्ठवर्गे 06 तः 10 पर्यन्तं तथा च कक्षा 11 तः स्नातकोत्तरपर्यन्तं च संस्कृतछात्रप्रतियोगितासु बालकाः बालिकाः च भागं गृह्णन्ति। खण्डस्तरस्य प्रथमद्वितीयविजेताप्रतिभागिनः दलं च जिलास्तरीयप्रतियोगितासु भागं ग्रहीतुं अनुमतिं दातुं पूर्वं खण्डसंयोजकस्य खण्डशिक्षाधिकारिणः स्वयमेव च आवेदनपत्रे हस्ताक्षरं कृत्वा एव छात्रान् जिलास्तरीयप्रतियोगितासु भागं ग्रहीतुं अनुमतिं दास्यति। अनुभागस्तरीयप्रतियोगितासु प्रथमद्वितीयतृतीयस्थानं प्राप्तानां प्रतिभागिनां प्रमाणपत्राणि साक्षात्पुरस्काराणि च प्रदत्तानि भविष्यन्ति तथा च कनिष्ठवरिष्ठवर्गयो: प्रथमपुरस्काराय ८०० रूप्यकाणि, द्वितीयस्य ६०० रूप्यकाणि तृतीयस्य च ४०० रूप्यकाणि अपि प्रदत्ताः भविष्यन्ति।

Saturday, October 12, 2024

 रत्तन् टाटावर्यस्य अनुगामी नोयल् नवल् टाटा वर्यः।

नोयल् नवल् टाटा।

मुम्बई> टाटा व्यवसायसाम्राज्यस्य अध्यक्षरूपेण दिवंगतस्य रत्तन् टाटावर्यस्य अर्धसोदरः नोयल् नवल् टाटा वर्यः ऐककण्ठ्येन चितः। Sir Rattan Tata trust, Sir Dorabji Tata trust इत्याद्यानां १३ ट्रस्ट् संस्थानां संयोजितरूपं 'टाटा ट्रस्ट्' इत्यस्य अध्यक्षपदमेव नोयल् नवल् टाटा वक्ष्यति।

  ट्रस्टि अङ्गानां स्वस्मिन् विश्वासः परिरक्षिष्यते इति नोयल् वर्येण सूचितम्। टाटापरिवारस्य पारम्पर्यमनुवर्तिष्यते। राष्ट्रनिर्मितेः जीवकारुण्यप्रवर्तनानां व्यवसायविकासस्य च कृते वयं समर्पितचेताः भविष्यामः इति च तेनोक्तम्।

 फ्लोरिडायां चक्रवातः - चत्वारि मरणानि। महान्नाशः।

टाम्पा> बुधवासरे रात्रौ अमेरिकायां फ्लोरिडा प्रान्ते तीरं प्राप्तः मिल्टन् इति कृतनामधेयः चक्रवातः महन्नाशकारणमभवत्। प्रशासनेन पूर्वजागरूकता विधत्ता अपि अद्यावधि १५ जनाः मृत्युमुपगताः।

    ३२ लक्षं गृहेषु विद्युत् विनष्टा। राक्षसीयचक्रवातस्य अतिवृष्टेः च दुष्प्रभावेन अनेके प्रदेशाः जलनिमग्नाः जाताः। गमनागमनसुविधा स्थगिता।

 गासायां विद्यालये इस्रयेलस्य आक्रमणं - २८ मरणानि। 

जरुसलेमः> गासायाम् अभयार्थिकेन्द्ररूपेण प्रवर्तमाने विद्यालये इस्रयेलेन कृते आक्रमणे २८ जनाः मृताः। ५४ जनाः व्रणिताः अभवन्। हमासस्य निर्देशककेन्द्रमेव विद्यालये प्रवर्तितमिति इस्रयेलसेनया निगदितम्। 

  गासायाम् अभयार्थिशिबिररूपेण प्रवर्तमानान् विद्यालयान् लक्ष्यीकृत्य इस्रयेलेन कृतेषु आक्रमणेषु नूतनतममासीत् ह्यस्तनमाक्रमणम्। अद्यावधि गासायां मृतानां संख्या ४२,०६५ अभवत्।

Friday, October 11, 2024

 महानवमी- अद्य सामान्यविरामदिनम्। 

अनन्तपुरी> महानवमीं पुरस्कृत्य शुक्रवासरः राज्यसर्वकारेण विरामदिनत्वेन प्रख्यापितः। पूर्वं केवलं विद्यालयानां कृते आसीत् विरामः। किन्तु इतरासां सर्वकारीयसंस्थानामपि विरामः भविष्यति।

 साहित्यनोबेल् पुरस्कारः हन् काङ् वर्यायै। 


स्टोक् होम्> अस्य वर्षस्य साहित्यनोबेल् पुरस्काराय हन् काङ् नामिका दक्षिणकोरियन् साहित्यकारी  चिता। इदंप्रथममेव साहित्यस्य नोबेल् पुरस्कारः दक्षिणकोरियां प्राप्तः। 

    मानसिक-शारीरिकपीडयोर्मिथः व्यवहारस्य अगाधतां मार्गमाणाः रचनाः भवन्ति हन् वर्यायाः इति निरीक्षकाणाम् अभिमतम्। ५३ वयस्का सा १९३३ तमे वर्षे कवितारचनया साहित्यमण्डलं प्रविष्टा। ततः कथाः आख्यायिकाश्च व्यरचयत्। २०१६ तमे वर्षे 'The Vegetarian' इत्याख्यायिकया बुक्कर् पुरस्कारं प्राप्तवती। "Human Acts", " We do not do it", "The White book" इत्याद्यः तस्याः प्रमुखाः आख्यायिकाः भवन्ति।

 रत्तन् टाटा वर्याय सहस्राणाम् अन्त्याञ्जलयः। 


सम्पूर्णबहुमत्या अन्त्येष्टिः सम्पन्ना। 

मुम्बई>  गतदिने कालयवनिकां प्राप्ताय व्यावसायिकप्रमुखाय रत्तन् टाटावर्याय जीवनस्य विविधस्तरीयाः सहस्रशः जनाः अन्त्याञ्जलयः समर्पितवन्तः। नरिमान् पोयन्ट् इत्यत्र स्थिते  एन् सि पि ए अङ्कणे टाटावर्यस्य  राष्ट्रपताकावृतं भौतिकशरीरं  राष्ट्रस्य समादरं स्वीकृतवत्। 

  क्रिकट् इतिहासः सचिन् टेण्टुल्करः टाटावर्यस्य भवनं प्राप्य अन्याञ्जलिं समर्पयामास। आदित्य बिर्ला, मुकेश् अम्बानी इत्यादयः व्यवसायप्रमुखाः स्वपरिवारैः सह अन्त्योपचारं समर्पयामासुः। केन्द्रमन्त्री अमित शाहः, महाराष्ट्रस्य मुख्यमन्त्री एकनाथ षिन्दे, गुजरातस्य मुख्यमन्त्री भूपेन्द्र पटेलः इत्यादयः राजनैतिक - प्रशासननेतारश्च  अन्त्याञ्जलिं समर्पितवन्तः।

Thursday, October 10, 2024

 भारतीयानां खाद्यसंस्कृतिः वातावरणानुकूला भवति। अर्जन्टीनायाः तथा अमेरिक्कायाः  खाद्यशैली तु अत्यधिकं प्रतिकूला।

    भारतीयानां आहारोपभोगः वातावरणानुकूलः भवति इति डब्लियू. डब्लियू. एफ् संस्थायाः (world Vide fund for nature) प्रतिवेदनम्। जि २० राष्ट्राणां मध्ये अत्यधिकां परिस्थित्यनुकूलां  आहाररीतिम् अनुवर्तमानं राष्ट्रं भवति भारतम् इति गतदिने प्रकाशिते लिविङ् प्लानट्ट् प्रतिवेदने सूचितमस्ति। परिस्थित्यनुकूलः आहारोपभोगः हरितगृहवातकबहिर्गमनं निवारयति। एतत् तु वातावरणानुकूलां अवस्थां जनयितुं प्रभवति इत्यपि प्रतिवेदने सूचितम् अस्ति।

 महिला टि - २० विश्वचषकः 

भारतस्य द्वितीयविजयः। 

दुबाय्> महिला टि - २० विश्वचषक क्रिकेट स्पर्धायां भारतं श्रीलङ्कां ८२ धावनाङ्कैः पराजित्य पूर्वान्त्यप्रतीक्षां ददाति। अङ्कप्राप्तिः - भारतं २० क्षेपणचक्रैः क्रीडिकात्रयस्य विनष्टे १७२धावनाङ्काः। श्रीलङ्का तु १९. ५ क्षेपणचक्रेषु ९० धावनाङ्कैः सर्वाः बहिर्नीताः। 

  भारतस्य स्मृति मन्थाना, नायिका हर्मन् प्रीतकौर् च अर्धशतकं प्राप्तवत्यौ। हर्मन् प्रीता श्रेष्ठक्रीडिका अभवत्।

 वसन्ति एकस्मिन् गृहसमुच्चये २०००० जनाः।

    चीनदेशे क्वियाञ्जियाङ् शताब्दिनगर्यां रीजेण्ट् अन्ताराष्ट्रीयः गृहसमुच्चयः अस्ति। जगति सर्वाधिक-जनसंख्यानाम् आवसत्वेन प्रसिद्धः विशालतमः गृहसमुच्चयः भवति अयम्।

   अस्य वैशिष्ट्यं यत् एतस्मिन् चतुस्त्रिंशत् तलेषु सहस्रशः उच्चस्तरीयानि आवासीयानि पत्तनानि सन्ति, अस्मिन् द्विसहस्राधिकाः जनाः निवसन्ति च। २६००० 'स्क्वयर्मीट'र्मिते स्थले ६७५ पादमिते 'S' आकारेण निर्मितं भवति इदम् । एतत् प्रथमतः आतिथ्यनिकेतनस्य कृते निर्मितम् आसीत् , परं पश्चात् महान्तः आवासीयाः 'अपार्टमेण्ट्' इति रूपेण परिवर्तितः। एतस्मिन् महाभवने प्रायः ३०,००० जनेभ्यः वस्तुं शक्यते।

 रतन् टाटा दिवंगतः।


  मुम्बई> नवभारतशिल्पिषु अन्यतमः उद्योगप्रमुखश्च रतन् टाटावर्यः [८६] दिवंगतः। व्यावसायिकभारतनिर्माणेन सह स्वजीवने मानविकमूल्यानाम् आदर्शपूर्णं समर्पणं च कृतवतः तस्य अन्त्यं ह्यः रात्रौ ११. ४५ वादने मुम्बय्यां ब्रीच् कान्डि आतुरालये आसीत्। 

   अनुस्यूततया २१ वर्षाणि टाटा ग्रूप् नामक व्यावसायिक संस्थायाः अध्यक्षः आसीत्। भारतीयानां कृते टाटा इन्डिका नामकं कार् यानं, सामान्यजनानां कृते 'नानो' इति न्यूनातिन्यूनतममूल्ययुक्तं कार् यानम् इत्यादीनि तस्य सामाजिकप्रतिबद्धतायाः निदर्शनत्वेन विलसन्ति। 

  रतन् टाटावर्यस्य निर्याणे प्रधानमन्त्री नरेन्द्रमोदी, लोकसभायाः विपक्षनेता राहुलगान्धी इत्यादयः प्रमुखाः अनुशोचितवन्तः।

Wednesday, October 9, 2024

  व्यङ्ग्यचित्रम् - देवीदासपाण्डेयः
 

 जम्मु काश्मीरे कोण्ग्रस् नेतृत्वे 'इन्डिया' सख्यस्य विजयः। 

श्रीनगरं>  'त्रिशङ्कुसभां' प्रवाचिते जम्मु काश्मीरे तस्य  विरुद्धतया नाषणल् कोण्फ्रन्स् - कोण्ग्रस् सख्यस्य महान्विजयः। आहत्य ९० मण्डलेषु इन्डिया सख्यं ४९ मण्डलेषु विजयीभूतम्। नाषणल् कोण्फ्रन्स् दलेन ४२ स्थानानि, कोण्ग्रसेन ६ स्थानानि, सि पि एम् दलेन एकं स्थानं च प्राप्तानि। 

  भाजपा दलेन २९ स्थानानि प्राप्तानि। गतवारात् ४ स्थानानि अधिकतया प्राप्तानि।

 हरियाने भाजपा दलस्य अनुस्यूततया  तृतीयवारम्।

नवदिल्ली> राज्यविधानसभां प्रति सम्पन्नस्य निर्वाचनस्य मतगणने परिसमाप्ते भाजपदलस्य पुनरपि विजयः। आहत्य ९० स्थानेषु  भाजपादलेन ४८ स्थानानि प्राप्तानि। विजयप्रतीक्षां प्रकटितेन कोण्ग्रस् दलेन ३७ स्थानानि विजितानि। ऐ एन् एल् डि दलेन स्थानद्वयमुपलब्धम्। अन्यैः त्रीणि स्थानानि प्राप्तानि।

Tuesday, October 8, 2024

 पश्चिमवंगे खनिजङ्गारक्षेत्रे स्फोटनं - पञ्च मरणानि। 

   कोल्कोत्ता> पश्चिमवंगे बिर्भूमजनपदस्थे गङ्गाराम् चक् खनिजङ्गारक्षेत्रे ह्यः दुरापन्ने विस्फोटे पञ्च जनाः मृताः। त्रयाधिकाः आहताः। खननार्थं स्फोटकवस्तूनि भारवाहकात् अवतारवेलायामेव स्फोटनमभवत्। स्फोटनकारणाय अन्वेषणमारब्धम्।

 मणिप्पुरे आयुधसञ्चयः अधिगतः। 

इम्फाल्> मणिप्पुरस्थे कक्चिङ्, तौबल् इत्येतयोः जनपदयोः सुरक्षासेनया कृते अन्वेषणे भुषुण्डयः, स्फोटकवस्तूनि इत्यादीनि आयुधानि अधिगतानि। ४ भुषुण्डयः, १५ ग्रनेट् स्फोटकानि, ४. ७५ किलो परिमितानि स्फोटकवस्तूनि इत्यादीनि अधिगते आयुधसञ्चये अन्तर्भवन्ति। 

  गते शनिवासरे तौबलजनपदे चिङ्खं चिङ् इत्यत्र कृते अन्यस्मिन् अन्वेषणे नालिकाशस्त्राणि, अश्रुवातकस्फोटकाः इत्यादीनां सञ्चयः अधिगतः आसीत्।

 वैद्यशास्त्रनोबेल् पुरस्काराय द्वौ अर्हतः - विक्टर् अम्ब्रोसः, गारि रव्कनः च। 

स्टोक् होमः> अस्य संवत्सरस्य वैद्यशास्त्रनोबेल् पुरस्कारः  अमेरिकीयौ शास्त्रज्ञौ विक्टर् अम्ब्रोसः [७०], गारि रव्कनः [७२] च विभज्य स्वीकरिष्यतः। 'मैक्रो आर् एन् ए' इत्यस्य अधिगमनं, प्रोटीनस्य उद्पादने जनितकस्य प्रवर्तनं नियन्त्रणं च इत्येतत्  प्रकरणद्वयमेव तयोः पुरस्कारकारणमभवत्।

कुम्भमेलनं पलास्तिककमुक्तं कर्तुं कृत्रिमबुद्धि-तन्त्रज्ञानं, ७०० वैद्युतिक-यानानि च; कुम्भमेलनस्य चिह्नं योगिना आदित्यनाथेन प्रकाशितम्।

    उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः प्रयागराजे कुम्भमेलनस्य सिद्धीनाम् अवलोकनं कृतवान्। महाकुम्भः २०२५ इत्यस्य चिह्नं (logo) रविवासरे उदघाटयत्। तेन अन्तर्जालदृश्यपुटस्य तथा एप् सुविधयायाः अपि लोकार्पणं कृतम्। अपि च महोदयेन कुम्भमेलनस्य सिद्धीनां प्रगति: अधिकारिभिः सह चर्चिता, मुख्येषु स्थलेषु स्थलीयनिरीक्षणं च कृतम्। कुम्भमहोत्सवः २०२५ तमस्य जनवरी-मासस्य १४ दिनाङ्कात् फेब्रुवरी-मासस्य २६ दिनाङ्कपर्यन्तं

Monday, October 7, 2024

 राष्ट्रे पञ्चसु राज्येषु एन् ऐ ए- अकस्मात् अन्वेषणं प्रचलति।


   आतङ्कवाद-संबन्धं आशङ्क्य राष्ट्रस्य पञ्चसु राज्येषु राष्ट्रिय-अन्वेषण-कार्यालयस्य (NIA) आकस्मिकम् अन्वेषणं प्रचलति। जम्मु-कश्मीरे, महाराष्ट्रे, उत्तरप्रदेशे, असमे, दिल्ल्यां च  द्वाविंशति स्थलेषु अन्वेषणं प्रवर्तमानं वर्तते। आतङ्कवाददलस्य जैष्-ए-महम्मद-संबन्धं शङ्कित्वा भवति इदं आकस्मिकम् अन्वेषणम्। महाराष्ट्रस्य मालेगाव-नगरे एका होमियो-औषधालये अपि एनआइए- अन्वेषणम् अभवत्। आतङ्कवाद-संबन्धम् आशङ्क्यमानाः सप्त जनाः अस्मिन् अन्वेषणे गृहीताः इति वार्ताः प्राप्ताः। पाकिस्थानम् आधारं कृत्वा स्थितः आतङ्कवाद-दलः भवति जैष्-ए-महम्मद् ॥

©®