OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi
Showing posts with label Article. Show all posts
Showing posts with label Article. Show all posts

Wednesday, October 14, 2026

 वैशालिजिल्लायां राघोपुरथानसीमान्तर्गते मंगलवाररात्रौ गङ्गानद्यां नौकादुर्घटनया त्रयोदश बालाः मृताः। 

​नौकायाम् आरूढाः ग्रामीणः अन्यं ग्रामं गच्छन्ति स्म, यत्र तैः भोजने भागं स्वीकृतव्यम् आसीत्।

​स्थानीयजनस्य मतानुसारम्, भगताण्टोलायां (रामपुरश्याम्चंदपंचायती) मातामहराणीस्थानस्य पार्श्वे सिंहेश्वररायस्य नाम्ना व्यक्तेः गृहे भोज्यसत्कारस्यायोजनं कृतम् आसीत्। प्रायः विंशतिजनाः एकस्मिन् लघुनौकायाम् आरूढाः गच्छन्ति स्म।

​वैशाल्याः जिल्लाधिकारिण्या वर्षासिंहायाः मतानुसारम्, सप्त जनाः रक्षिताः ते च नालंदा-वैद्यकीय-महाविद्यालयस्य आतुरालयं प्रेषिताः। तया उक्तं यत् नौकायाम् सर्वे बालाः पञ्चदश-वयसकाः तद्यूनाः वा आसन्।


Friday, October 25, 2024

शशिकला-सुदर्शनपरिणयः 

(श्रीमद्देवीभागवते प्रोक्तः शशिकलासुदर्शनयोः परिणयवृत्तान्तः )

    पुरा एकदा काशिराजः सुबाहुः तस्याः कन्यायाः शशिकलायाः विवाहार्थमेकं स्वयंवरं आयोजितवान्। अस्मिन् प्रसङ्गे यथाशास्त्रं स्वयंवरमुद्दिश्य किञ्चिदालोचयामः। विद्वद्गणाः स्वयंवरः त्रिविधः इति प्रोक्तवन्तः। क्षत्रियाणां राज्ञां कृते स्वयंवरः उपयुक्तः न तु अन्येषां कृते। तद्यथा-

स्वयंवरस्तु त्रिविधो विद्वद्भिः परिकीर्तितः।

राज्ञां विवाहयोग्यो वै नान्येषां कथितः किल॥

विद्वद्गणाः स्वयंवरः  त्रिविधः