शिक्षकप्रशिक्षणकेंद्रेण अभिमुखीकरणकार्यक्रमः आयोज्यते।
वार्ताहर:- कुलदीपमैन्दोला।
देशस्य उच्चशिक्षासंस्थासु सेवार्थं शिक्षकाणां प्रशिक्षणार्थं विश्वविद्यालयानुदानायोगस्य अधीनं "मालवीय-मिशन्-शिक्षकप्रशिक्षण-केन्द्रं" इत्यस्मिन् हेमवतीनन्दनगढ़वालविश्वविद्यालये, श्रीनगरगढ़वाले, उत्तराखण्डराज्ये, २२ एप्रिल् २०२५ दिनांकतः ३ मई २०२५ दिनांकपर्यन्तं अन्तर्जालमाध्यमेन राष्ट्रियशिक्षानीतिः २०२० इत्यस्मिन् केन्द्रित: अभिमुखीकरणकार्यक्रम: आयोज्यते।
केंद्रस्य कार्यवाहकनिदेशकः डॉ. राहुलकुंवरसिंहेन उक्तं यत् अस्मिन् कार्यक्रमे चतुर्षु राज्येषु स्थितानां त्रिंशत् शिक्षकाणां सहभागिता भविष्यति।
ते सम्यक् प्रकारेण देशस्य प्रख्यातविद्वद्भिः द्विसप्ताहपर्यन्तं चतुर्विंशतिः घण्टासु प्रशिक्षिता: भविष्यन्ति।एवंविधा: कार्यक्रमा: अद्यतनकाले विश्वविद्यालयानुदानायोगस्य प्राथमिकताया: अन्तर्गतं सन्ति। प्रशिक्षिता: शिक्षकाः राष्ट्रीयनवशिक्षानीतिं प्रभावपूर्वकं कार्यरूपेण स्थापनाय महत्त्वपूर्णं योगदानं कुर्वन्ति। अतः एतेषां कार्यक्रमाणां माध्यमेन शिक्षकेभ्यः शैक्षिकनेतृत्वम्, सर्वाङ्गीणविकासः, छात्रविविधता, शोधविकासः, उच्चशिक्षा-सामाजिकसंबन्धः, कौशलविकासः, सूचना-संवादप्रौद्योगिकी चेत्यादिभारतीयज्ञानपरम्परायाः विषये जागरूकता दीयते।
कार्यक्रमस्य आयोजनसमये विश्वविद्यालयस्य कुलपतिः प्रो. एम. एम. एस. रौथाणेन हर्षं व्यक्तं कृत्वा केंद्रं प्रति शुभकामनाः दत्ताः। कार्यक्रमे मालवीयकेंद्रस्य सह-निदेशकः डॉ. सोमेशथपलियाल: सर्वेषां स्वागतं कृत्वा संचालनं च अकरोत्। कार्यक्रमस्य अधिशासी डॉ. कविता भट्टवर्या आयोजनकार्ये साहाय्यं कृतवती। पूनमरावत: च अनिलकठैत: च अपि सहयोगं कृतवन्तौ।