OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, January 22, 2025

 ट्रम्पस्य अधिकारप्राप्त्यनन्तरं  प्रथमदिने ८० निर्वोढव्यादेशाः।

कतिपयाः आशङ्काजनकाः। 

द्वितीयवारं शपथवाचनानन्तरं ट्रम्पः।

वाषिङ्टणः>  राष्ट्रपतिपदस्वीकरणस्यानन्तरं प्रथमदिने डोनाल्ड ट्रम्पः आशङ्काजनकाः कतिपयादेशान् अभिव्याप्य ८० आदेशेषु हस्ताक्षरं कृतवान्। 

  जननाधिकाररूपेण अमेरिकानागरिकत्वं प्राप्यमाणः अल्पकालिकाधिनिवेशितानाम् अधिकारः ट्रम्पेन निरस्तः। संयुक्तराष्ट्रसभायाः स्वास्थ्यसभातः [WHO], 'पारीस् पर्यावरणसन्धिः' इत्यस्माच्च ट्रम्पस्य आदेशेन अमेरिका अपसृता भविष्यति।

  यू एस् राष्ट्रे इतःपरं पुं-स्त्रीति लिंगद्वयमेव भवेत्। 'मेक्सिको अन्तरालसमुद्रस्य' परं अमेरिका अन्तरालसमुद्रः इति पुनर्नामकरणं विधास्यति। ट्रम्पस्य नूतनादेशाः प्रायेण राष्ट्रिय-अन्ताराष्ट्रियविवादाय कारणं भविष्यतीति अभिज्ञैः सूच्यते।

 हमासेन चतस्रः महिलाः शनिवासरे विमोचयिष्यन्ते। 

जरुसलेमः> इस्रायेलेन सह कृतस्य युद्धविरामसन्धेः अंशतया हमासेन बन्धिताः चतस्रः महिलाः शनिवासरे विमोचिताः भविष्यन्ति। हमासेन निगदितमिदं वृत्तान्तम्।  तस्य स्थाने पलस्थीनीयाः बन्धिताः इस्रायेलेन विमोचयिष्यन्ते। विशदांशाः न लब्धाः। 

  रविवासरे प्रवृत्तिपथमागतं सन्धिमनुसृत्य तिस्रः महिलाः  हमासेन, ९० पालस्थानीयाः इस्रायेलेन च परस्परं प्रतिप्रेषिताः आसन्। युद्धविरामसन्धेः प्रथमसोपाने ३३ बन्धितान् हमासः १९०० पालस्थानीयान् इस्रयेलश्च विमोचयिष्यति।

 छत्तीसगढे १४ मावोवादिनः व्यापादिताः। 

गरिबन्दः> छत्तीसगढस्य ओडीशायाः च सीमायां सुरक्षासेनया सह विधत्ते प्रतिद्वन्द्वे १४ मावोवादिनः व्यापादिताः। मृतेषु मावोवादिसंघस्य समुन्नतः नेता चलपति इत्याहूयमानः जयराम रेड्डिः अपि अन्तर्भवतीति केन्द्रसर्वकारेण निगदितम्। सुरक्षासेनया संवत्सरैः मार्गमाणः मावोवादिनेता आसीत् जयराम रेड्डिः।

Monday, January 20, 2025

 ट्रम्पस्य स्थानारोहणम् अद्य। 


वाषिङ्टणः> यू एस् राष्ट्रस्य ४७ तम राष्ट्रपतिरूपेण डोनाल्ड ट्रम्पः सोमवासरे शपथवाचनं करोति। भारतसमयानुसारं रात्रौ १०. ३० वादने मुख्यन्यायाधिपः जोण् रोबर्ट्स् इत्यस्य पुरतः शपथं करिष्यति। 

  वाषिङ्टणे अतिशैत्यमनुभूयते इत्यतः कापिटोल् भवनस्य 'रोटन्डा' सभागारं भवति शपथवेदिका। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः राष्ट्रं प्रतिनिधीभूय शपथसमारोहे भागं करिष्यति। 

  शपथवाचनानन्तरं ट्रम्पः राष्ट्रम् अभिसम्बुद्धिष्यते। २०१७ - २०२१ कालखण्डे यू एस् राष्ट्रपतिपदम् ऊढवान् सः वर्षचतुष्टयस्य अन्तरानन्तरं द्वितीयवारमेव राष्ट्रपतिपदं प्राप्नोति।

 गासायां शान्तिकालः। [अल्पकालिकः]

गासायां शान्तिः प्रत्यागच्छति इत्यस्यां प्रतीक्षायां भोज्यवस्तुना सह स्वप्रदेशं प्रतिनिवर्तमानाः बालाः। 

गासासिटी> १५ मासाधिककालं यावत् गासायामनुवर्तमानस्य इस्रयेल-हमासयुद्धस्य ह्यः अहसि ११. १५ वादनतः [तद्देशीयसमयः] गासायां ४२ दिनोपेतः विरामः अभवत्। युद्धविरामसन्ध्यनुसारं चतस्रः इस्रयेलीयमहिलाः ये हमासेन निगृहीताः विमोचिताः। तत्स्थाने ९५ पालस्तीनीयाः ये इस्रालयेन बद्धाः  विमोचयितव्याः। 

  सप्ताहषट्केन अवशिष्टान् ३० बद्धान् हमासः मोचयिष्यति। निगृहीतान् ६०० पालस्तीनीयान् इस्रयेलः अपि।

  गतेषु १५ मासेषु २०,००० बालकानभिव्याप्य ५०,००० जनाः अनेन युद्धेन विगतप्राणाः अभवन्। लक्षद्वयं जनाः व्रणिताः जाताः। यू एस्, खत्तरः इत्यादिराष्ट्राणां नेतृत्वे करता शान्तिचर्चा इदानीं फलवत्ता जाता।

 जम्मुकाश्मीरेषु अज्ञातरोगबाधया १६ जनाः मृताः । सर्वकारेण वैद्यसंघाः नियुक्ताः।

श्रीनगरम्> जम्मुकाश्मीरेषु प्रसरितेषु अज्ञातरोगबाधासु १६ जनाः मृताः। रोगव्यापनं प्रतिरोद्धुं सर्वकारेण वैद्यसंधाः नियुक्ताः सन्ति। रौजौरि जनपदे बधाल ग्रामे ४५ दिनाभ्यन्तरे एव ईदृशी मृतिः अभवत्। २०२४ दिसंबर् मासस्य सप्तमे दिनाङ्के आसीत् रोगबाधया प्रथममरणम् आवेदितम्।

Saturday, January 18, 2025

 गासायुद्धविरामः - इस्रयेलस्य सुरक्षामन्त्रिमण्डलस्य अङ्गीकारः। 

गासासिटी> १५ मासान् यावत् अनुवर्तमानस्य इस्रयेल - हमासयुद्धस्य विरामाय बन्धितानां मोचनाय च मध्यस्थराष्ट्रैः कृताय शान्तिसन्धये इस्रयेलस्य सुरक्षामन्त्रिमण्डलस्य अङ्गीकारः लब्धः। प्रधानमन्त्री बञ्चमिन् नेतन्याहू इत्यस्य नेतृत्वे गतदिने आसीत् सुरक्षामन्त्रिमण्डलं सम्पन्नम्।  अचिरेणैव सम्पूर्णमन्त्रिमण्डलम् आयोज्य अन्तिमनिर्णयं करिष्यति।

 संस्कृतभारतीदेहरादूनेन  गीतशिक्षणकेन्द्रस्य  शुभारम्भो विहितः।

वार्ताहरः - धीरजमैन्दानी

     देहरादूनम्>  संस्कृतभारती देहरादून द्वारा पंचायती मंदिर घोसी गली देहरादूने गीताशिक्षण केंद्रस्य शुभारंभः कृतः।  मुख्यातिथि श्री रवि गिरी महाराजः जंगम शिवालयः, विशिष्टातिथिः श्री विकास वर्मा हनुमान चालीसा साप्ताहिक मिलन प्रांत प्रमुखः बजरंग दलं, कार्यक्रमस्य अध्यक्षः डॉ प्रदीप सेमवालः जनपदमंत्री देहरादूनम्, केंद्रशिक्षकः आचार्यः योगेशकुकरेती अथ च सहकेंद्र शिक्षकः नवनीत राजवंशी च   दीपप्रज्ज्वालनं  कृत्वा अकुर्वन्।

  कार्यक्रमे मुख्यातिथिना स्वामिना रवि गिरिणा द्वारा गीतायाः महत्वं  कथितं यत्  गीता अस्माकं भारतीय संस्कृतेः  आधारो विद्यते। अतः एव प्रत्येकं भारतीयेन प्रत्येकेन संस्कृतं पठनीयम्।

Friday, January 17, 2025

 बहिराकाशपेटकसंयोजनं विजितम्। 

भारतस्य चरित्रलब्धिः। 


बङ्गलुरु> भूमेः भ्रमणपथे भारतस्य द्वे बहिराकाशपेटके संयोजिते। एस् डि एक्स् ०१ [चेसर्] , एस् डि एक्स् ०२ [टार्गट्] इति उपग्रहपेटकद्वयस्य बहिराकाशे संयोजनं [स्पेय्स् डोकिंङ्] विजयप्रदमभवत्। अनेन  स्पेय्स् डोकिंङ् क्षेत्रे विजयीभूतं चतुर्थं राष्ट्रं भवति भारतम्। यू एस्, रष्या, चीनम् इत्येतानि अन्यानि राष्ट्राणि। 

  २०२४ डिसम्बर् ३० तमे दिनाङ्के आसीत् लघूपग्रहयोः विक्षेपः। जनुवरि सप्तमे दिनाङ्के संयोजनं कर्तुं निश्चितमासीत्तर्ह्यपि साङ्केतिकदोषात् परिवर्तितम्। विविधाः समस्याः परिहृत्य एव भारतस्य उद्दिष्टफलप्राप्तिः। 

  संयोजनसमये पेटकद्वयं भूमेः ४७५ कि मी दूरे, १० मिल्लीमीटर् प्रति सेकन्ड् प्रवेगे, परस्परस्पर्शमात्रे आसीत्। ह्यः प्रभाते ६. ३० वादने आरब्धा संयोजनप्रक्रिया ६. ४० वादने समाप्ता।

Thursday, January 16, 2025

 गासातः आश्वासवृत्तान्तः।

४२ दिनात्मकयुद्धविरामाय सम्मतिः। 

दोहा> १५ मासान् यावत् गासायाम् अनुवर्तमानस्य इस्रयेल-हमासयुद्धस्य अल्पकालिकविरामाय पक्षद्वयस्य सम्मतिर्जाता इति मध्यस्थैः निगदितम्। 'रोयिटर्' वृत्तान्तमाध्यमेनैव वृत्तान्तमिदं बहिरागतम्। 

  यू एस् राष्ट्रस्य सहयोगेन ईजिप्त्, खत्तरराष्ट्रयोः नेतृत्वे   मासैरनुवर्तितायां चर्चायामेव ४२ दिनात्मकयुद्धविरामाय इस्रयेलस्य हमासस्य च सम्मतिः जाता। इस्रयेलमन्त्रिमण्डले अद्य एतदधिकृत्य निर्णयो भविष्यति।

 डो वि नारायणः 'इस्रो' अध्यक्षपदं स्वीकृतवान्।

बङ्गलुरु> ऐ एस् आर् ओ इत्यस्य नूतनाध्यक्षः डो वि नारायणः पदं स्वीकृतवान्। अनन्तपुर्यां विक्रम साराभाय् बहिराकाशगवेषणकेन्द्रे समाकारिते कार्यक्रमे एस् सोमनाथात् भारवाहित्वं स्वीकृतवान्। वर्तमानीनः अध्यक्षःएस् सोमनाथः सेवानिवृत्तोSभवत्।

Wednesday, January 15, 2025

 अमेरिका मित्रराष्ट्राणि च शक्तिशालिनः, विपक्षाः दुर्बलाः; रष्यं चीनम् इरानं च उल्लेख्य कठोरं विमर्शनं कृत्वा बायडनस्य निवृत्तिसभाषणम्।


 निर्वाचनविजयं प्राप्य पुनः अमेरिकासंयुक्तराज्यस्य राष्ट्रपतिपदं प्रति आगन्तुं ट्रम्पः सपताहिक्यस्य समयः शेषः सन्, गतेषु विगतेषु चतुर्षु वर्षेषु अमेरिकायाः प्रगतेः उल्लेखं कृत्वा जो बायडनः निवृत्तिसभाषणं कृतवान् पश्चिमायाम् एष्यायां संघर्षाणां विषये यूक्रैनदेशस्य च आक्रमणस्य प्रसङ्गे रष्यः, चीनः, इरानः इत्येतानि राष्ट्राणि बैडनस्य भाषणे तीव्रं समालोचितानि। चीनदेशेन कथञ्चिदपि अमेरिकां पराजेतुं न शक्यते, अमेरिका च विश्वस्मिन् परमशक्तिरूपेण एव स्थितिं धारयति इति बैंडनः उक्तवान्। गज्जाप्रदेशे युद्धविरामः स्थापितः ।, बन्धिनां विमोचनं च कर्तुं इस्रायल-हमास-सन्धिः अन्तिमसोपाने स्थापितः अस्ति इति च तेन निर्दिष्टम्।

 नैजीरियायां भीकराक्रमणं - ४० कृषकाः हताः। 

डाकरः> आफ्रिक्काभूखण्डे नैजीरियाराष्ट्रस्य उत्तरपूर्वीयराज्ये बोर्णोनामके  रविवासरे विधत्ते भीकराक्रमणे ४० कृषकाः मृत्युमुपगताः। ऐ एस् इत्यनेन भीकरसंघटनेन सम्बन्धोपेतं 'बोक्कोहरामः' इति संघटनमेव आक्रमणस्य पृष्ठतः इति सूच्यते।

Tuesday, January 14, 2025

 सोनामार्ग-गगनगिरि भौमान्तर्वीथी उद्घाटितः। 

सोनामार्ग भौमान्तर्मार्गस्य कवाटः। 

श्रीनगरं> जम्मुकाश्मीरे सोनामार्गनगरं प्रति आसंवत्सरं सुगमसञ्चारसाध्यः भौमान्तर्मार्गः प्रधानमन्त्रिणा नरेन्द्रमोदिना गतदिने उद्घाटितः। सोनामार्ग-गगनगिरि सुरङ्गमार्गस्य ६. ५ कि मी दूरमस्ति। 

  २७०० कोटिरूप्यकाणां व्ययेन निर्मितः अयं युगलपङ्क्तिमार्गः कस्मिन्नपि प्रतिकूलपर्यावरणे उपयोक्तुं शक्यते। २०१५ तमे वर्षे अस्य निर्माणमारब्धम्।

 शबरिगिरौ अद्य मकरज्योतिदर्शनम्। 

लक्षशः भक्ताः उपस्थिताः। 

पन्तलं राजभवनात् प्रस्थिता विशिष्टाभरणघोषयात्रा वटशेरिक्रप्रदेशे  प्राप्ते। 

पत्तनंतिट्टा> केरले शबरिगिरौ मकरसंक्रममण्डलकालस्य समाप्तिमालेख्यमानस्य मकरज्योतिदर्शनाय सुवर्णाभरणभूषितं धर्मशास्तारं द्रष्टुं च  भगवत्सन्निधानं पूर्णसज्जम्। लक्षशः तीर्थाटकाः भक्तजनाश्च सन्निधानपरिसरे समीपप्रदेशेषु च उपस्थिताः वर्तन्ते। 

  पन्तलं राजभवनात् प्रस्थिता भगवद्विग्रहे अलङ्कार्यमाणानां विशिष्टाभरणानां घोषयात्रा अद्य सायंलन्ध्यायां सन्निधानं प्राप्स्यति। ६. ३० वादने विशिष्टाभरणानि अलंकृत्य दीपाञ्जलिं विधास्यति। तस्मिन् समये एव पोन्नम्पलमेट् इत्यत्र मकरज्योतिदर्शनं शक्यते। आकाशे मकरनक्षत्रमपि उज्वलिष्यति। आत्मनिर्वृतिदायकं पुण्यमुहूर्तं साक्षात्कर्तुं लक्षशः भक्ताः उपस्थिताः सन्ति।

लक्षशः भक्ताः उपस्थिताः। 

पत्तनंतिट्टा> केरले शबरिगिरौ मकरसंक्रममण्डलकालस्य समाप्तिमालेख्यमानस्य मकरज्योतिदर्शनाय सुवर्णाभरणभूषितं धर्मशास्तारं द्रष्टुं च  भगवत्सन्निधानं पूर्णसज्जम्। लक्षशः तीर्थाटकाः भक्तजनाश्च सन्निधानपरिसरे समीपप्रदेशेषु च उपस्थिताः वर्तन्ते। 

  पन्तलं राजभवनात् प्रस्थिता भगवद्विग्रहे अलङ्कार्यमाणानां विशिष्टाभरणानां घोषयात्रा अद्य सायंलन्ध्यायां सन्निधानं प्राप्स्यति। ६. ३० वादने विशिष्टाभरणानि अलंकृत्य दीपाञ्जलिं विधास्यति। तस्मिन् समये एव पोन्नम्पलमेट् इत्यत्र मकरज्योतिदर्शनं शक्यते। आकाशे मकरनक्षत्रमपि उज्वलिष्यति। आत्मनिर्वृतिदायकं पुण्यमुहूर्तं साक्षात्कर्तुं लक्षशः भक्ताः उपस्थिताः सन्ति।

महाकुम्भमेला - प्रथमदिने ६० लक्षं पुण्यस्नानानि। 

प्रथमे दिने त्रिवेणीसंगमस्थाने पुण्यस्नानं कुर्वन्तः भक्तजनाः। 

प्रयागराजः> ह्यः पौष्यपौर्णम्यां समारब्धायाः महाकुम्भमेलायाः प्रथमदिने शंखनादानां कीर्तनालपानाम् अनुगमनेन ६० लक्षाधिकं तीर्थाटकाः त्रिवेणीसंगमस्थाने पुण्यस्नानं कृतवन्तः। प्रत्येकं १२ वर्षाभ्यन्तरे आयोज्यमाना इदं तीर्थाटनं विश्वस्मिन् महत्तमं तीर्थाटनमिति परिगण्यते। 

  ४५ दिनात्मके महाकुम्भमेलने आहत्य ५० कोटि भक्ताः भागं करिष्यन्ति। कार्यक्रमेभ्यः सज्जं महाकुम्भनगरं १०,००० एकर् मितं विस्तृतमस्ति। एकस्मिन् काले एककोटि तीर्थाटकान् अन्तर्भावयितुं शक्यते।

 वैदिकगणभारतस्य संस्थापकाय  ‘श्रीवत्स’ देशराजाय आचार्यवशिष्ठसम्मानः प्रदास्यते।


  भारतीय-ज्ञानविज्ञानस्य ऋषिपरम्परायाः च संरक्षणे संवर्द्धने च अतिशययोगदानं करोति वैदिकगणभारतस्य संस्थापकः अध्यक्षः च ‘श्रीवत्स’ देशराजः। सः सिरमौरकलासंगमेन २८ जून २०२५ तमे दिने आचार्यवशिष्ठसम्मानेन सम्मानितः भविष्यति।


संस्कृतक्षेत्रे अद्वितीयं योगदानम्

   मूलतः हिमाचलप्रदेशस्य लघुकाश्यां (छोटी काशी मण्डी) स्थितः ‘श्रीवत्स’ देशराजः भारतीयसंस्कृतेः वेदानाम् उपनिषदां च प्रचारप्रसाराय महान्तं प्रयासं कृतवान्। तेन संस्कृतभाषायाः ज्ञानविज्ञानस्य च संवर्धनाय वैदिकगणभारतस्य संस्थानं स्थापितम्, तेन माध्यमेन सः युवानां भारतीयदर्शनेन सह सम्बद्धतां वर्धयति। 


सिरमौरकलासंगमस्य प्रशंसनीयः प्रयासः

   सिरमौरकलासंगमः भारतीयकलायाः संस्कृतेः च संवर्द्धनाय समर्पितं प्रसिद्धं संस्थानम् अस्ति। प्रतिवर्षं तेन अस्मिन् क्षेत्रे अद्वितीयं योगदानं कुर्वन्तः विद्वांसः सम्मान्यन्ते।


आचार्यवशिष्ठसम्मानस्य उद्देश्यं         भारतीयज्ञानपरम्परायाः पुनरुज्जीवनं तथा लोकेषु संस्कृतभाषायाः दर्शनस्य च महत्वस्य परिचयकरणं च भवति, समाजं संस्कृतभाषायाः दर्शनस्य च महत्वेन परिचितं करणं च अस्ति।

   श्रीवत्सदेशराजस्य सम्मानस्य घोषणा सम्पूर्णे हिमाचलप्रदेशे संस्कृतविदुषां मध्ये हर्षं उत्साहं च वितरतः। एषः सम्मानः न केवलं तस्य परिश्रमस्य फलम् अपि तु संस्कृतभाषायाः संरक्षणाय युवा वर्गं प्रेरयिष्यति।

    श्रीवत्सदेशराजाय समर्पितेयं सम्मानस्य घोषणा सम्पूर्णे हिमाचलप्रदेशस्थविदुषां समाजे महदुत्साहं वितरति। न केवलं सम्मानोऽयम् अमुष्य परिश्रमपरिपाकः अपि तु समस्ते देशे संस्कृतभाषायाः प्रसाराय प्रचाराय च प्रयतमानानाम् आधुनिकयुवकानां कृते आदर्शः एव। अयं सम्मानसमारोहः भारतीयसंस्कृतेः ऋषिपरम्परायाः च गौरवपूर्णं स्मरणं स्मारकम् भविष्यति।

Monday, January 13, 2025

 महाकुम्भमेलनाय अद्य शुभारम्भः।

 प्रयागराजः> विश्वे बृहत्तमतीर्थाटकसंगमाय उत्तरप्रदेशस्थः प्रयागराजः सिद्धः। मासाधिकं दीर्घकालिकस्य महाकुम्भमेलनस्य कार्यक्रमाः सोमवासरे आरभन्ते। १२ संवत्सरेषु एकवारं आघुष्यमाणा आत्मीय-सास्कृतिकमेलनं भवति महाकुम्भमेला। 

  ४५ दिनानि दीर्घ्यमाने अस्मिन् कुम्भमेलने ४० कोटिसंख्याकाः तीर्थाटकाः भागं करिष्यन्तीति प्रतीक्षते। ४००० हेक्टर् मिते स्थाने तीर्थाटकानां कृते आधारसुविधाः आयोजिताः सन्ति।

 कुम्भमेलायाः इतिवृत्तम् 


विशेष लेखः -  डा.रुरुकुमारमहापात्रः

 पुराणेतिहासविभागे अध्यापकः

राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः 

कुम्भमेलाविषयोपक्रमः -

     कुम्भमेला भारते आयुज्यमाना एका विशालमेला भवति, यस्मिन् प्रयाग-हरिद्वार-उज्जैन-नाशिक-स्थानेषु कस्मिंश्चित् स्थाने प्रत्येकेषु द्वादशवर्षेषु यथास्थानं यथाकालं कोटिशः भक्ताः एकत्रिताः भूयो गङ्गानद्यां पवित्रस्नानं कुर्वन्ति । प्रत्येकस्मिन् द्वादशवर्षे चाऽपि प्रयागे द्वयोः कुम्भपर्वणोः मध्ये षड्वर्षाणां व्यवधानेन तंत्र अर्धकुम्भोऽपि आयुज्यते । २०१३ तमस्य वर्षस्य कुम्भस्य समाप्तेरनन्तरं २०१९ तमे वर्षे प्रयागे पुनरेकार्धकुम्भमेलायाः आयोजनं विहितम् । अधुना २०२५ तमे वर्षे पुनरपि एकमहाकुम्भमेलायाः आयोजनं क्रियते ।

    ज्योतिषगणनानुसारम् इयं मेला पौषपूर्णिमादिने आरभ्यते तथा च मकरसङ्क्रान्तौ एतस्या मेलाया विशेषज्योतिषोत्सवः परिकल्प्यते यदा सूर्यचन्द्रौ वृश्चिकराशिं प्रविशतः,बृहस्पतिश्च मेषराशिं प्रविशतीति । मकरसङ्क्रान्तौ घटितः अयं योगः कुम्भस्नानयोग: इति कथ्यते । इयं कुम्भमेला क्रमेण प्रयाग,हरिद्वार,नासिक,उज्जैन इत्यादिषु स्थानेषु प्रत्येकेषु चतुर्वर्षेषु एकैकवारम् आयोजिता भवति । कुम्भस्नाने निम्नोक्ताः विशेषदिवसाः भवन्ति । तद्यथा - पौषपूर्णिमा,मकरसङ्क्रान्तिः,मौनी अमावस्या,वसन्तपञ्चमी,माघी पूर्णिमा एवञ्च महाशिवरात्रिरिति । कुम्भस्नानयोगदिवसः अतीव शुभः मन्यते । यतः अस्मिन् दिने पृथिव्याः उच्चक्षेत्रद्वाराणि उद्घाट्यन्ते,अतः अस्मिन् दिने स्नानं शुभमिति विश्वासः प्रवर्तते । एवम्प्रकारेण स्नानं कृत्वा मानवात्मा सहजतया उच्चतरक्षेत्राणि प्राप्तुमर्हति । अत्र स्नानं नाम स्वर्गस्य दर्शनमिति विश्वस्यते ।

Sunday, January 12, 2025

 लोसान्जलसे बडवाग्निः नियन्त्रणाधीनः। 

१६ मरणानि, १२,००० भवनानि अग्निसात्कृतानि, ३६,००० हेक्टर मितप्रदेशः अग्निग्रस्तः, १५,००० कोटि डोलर् मितस्य नाशः। 

लोस् आञ्जलिस्>  यू एस् राष्ट्रस्य मुख्यनगरेषु अन्यतमेषु लोस् आञ्जलिस् मध्ये दिनत्रयं संहारताण्डवं कृतवान् बडवाग्निः नियन्त्रणाधीनः अभवत्। 'पालिसेड्', 'ईटण्' इति कृतनामधेयेन अग्निद्वयेन इतःपर्यन्तं १६ जनाः मृत्युमुपगताः। अनेके अप्रत्यक्षाः जाताः। 

  यू एस् देशे जनाधिवासस्य संख्यायां द्वितीयस्थानमावहति १३ लक्षं जनाः अधिवसत् लोसान्जलस् नगरम्। अत्रत्यः ३६,००० हेक्टर मितप्रदेशः अग्निग्रस्तः इत्यनेन १५,००० कोटि डोलर् मितस्य नाशः अभवत्। अष्टमासान् यावत् अनावृष्टिरनुवर्तते अत्र। अतः उष्णवायोः प्रभाव एव एतादृशस्य अग्निताण्डवस्य कारणम्।

Saturday, January 11, 2025

 केरलराज्यपालः प्रधानमन्त्रिणा सह मेलितवान्। 

राज्यपालः आर्लेकरः प्रधानमन्त्रिणे केरलस्य उपहारं समर्पयति। 

"उन्नतशिक्षामण्डलस्य उत्तरदायित्वमात्मन्येव" - राज्यपालः।

नवदिल्ली> केरलस्य नूतनः राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरः दिल्यां प्रधानमन्त्रिणा नरेन्द्रमोदिना, उपराष्ट्रपतिः जगदीप धनकरेण च सह मेलनं विधत्तवान्। राज्यपालपदस्वीकरणानन्तरं प्रथममेव तस्य दिल्लीप्राप्तिः। शनिवासरे केरलं प्रतिनिवर्तयिष्यति। 

  केरले उन्नतशैक्षिकमण्डलस्य पूर्णम् उत्तरदायित्वम् आत्मनि निक्षिप्तमिति केरलहौस् मध्ये वार्ताहरान् प्रति अवोचत्। यू जि सि संस्थायाः मार्गनिर्दशं विरुध्य मुख्यमन्त्रिणः परामर्शमधिकृत्य वार्ताहराणां प्रशनस्य समाधानरूपेणैव राज्यपालस्य उक्तिः।

 भारतम् अस्मिन् वर्षे ६. ६% अभिवृद्धिं प्राप्स्यतीति यू एन्। 

मुम्बई> भारतस्य आर्थिकमण्डलं २०२५ तमेवर्षे ६. ६% अभिवृद्धिं प्राप्स्यतीति संयुक्तराष्ट्रसभायाः अनुशीलनपत्रेण प्रोच्यते। निजीयक्षेत्रेषु उपभोगस्य आधिक्यं, श्रेष्ठः निक्षेपवृद्धिश्च अस्य हेतुरिति यू एन् संस्थायाः 'विश्वार्थिकस्थितिः भविष्यत्कालः च' इत्यस्मिन्  अनुशीलनपत्रे सूच्यते।

Friday, January 10, 2025

केजरीवालः विधानसभानिर्वाचने समर्थनदातृभ्यः दलेभ्यः धन्यवादम् अयच्छत्

-पुरुषोत्तमशर्मा नवदिल्ली

 आम आदमी पार्टीति दलस्य संयोजकः अरविन्द-केजरीवालः अद्य राजधान्यां नवदिल्ल्‍यां वार्ताहरै: सह सम्‍भाषणे दिल्‍ली विधानसभानिर्वाचने समर्थन-प्रदातृ-दलेभ्यः धन्‍यवादम् अयच्छत्। तेनोक्तं यत् दिल्यां निर्वाचनम् आप-दलस्य भाजपेति-दलस्य च मध्ये वर्तते।

   आम आदमी पार्टीति दलस्य संयोजकेन उक्तं यत् तेन प्रधानमन्त्रिणे नरेन्‍द्र-मोदिने पत्रं विलिख्य निवेदितम् अस्ति यत् दिल्ल्याः जाट-समुदाय: केन्द्रस्य ओ.बी.सी. इति पश्चवर्तिजाति-सूच्यां सम्‍मेलयतु इति। अमुना चिन्ता प्रककटिता यत् केन्द्र-प्रशासनस्य संस्थाः दिल्ल्याः जाटसमुदायाय आरक्षणं नैव यच्छन्ति।

   अत्रान्तरे भाजपा-संसत्-सदस्येन मनोज-तिवारिणा आरोपितं यत् कांग्रेस- आम आदमी पार्टीति दलाभ्यां स्वस्य भ्रष्टाचारं आच्‍छादयितुं पूर्वमपि भूरिवारं हस्तमेलनं कृतमस्ति।

 नेतारः उच्चन्यायालयं प्रति साक्षादुपस्थातव्याः।

मार्गावरुद्धसम्मेलनं न्यायलयादेशविरुद्धम्।

केरलस्य प्रमुखराजनैतिकदलनेतॄन् प्रति आदेशः। 

अनन्तपुर्यां राजवीथीमवरुध्य  राजनैतिकदलसम्मेलनाय  निर्मिता वेदिका।

कोच्ची> वीथीं चलनमार्गं चातिलङ्ध्य राजनैतिकदलसम्मेलनानि प्रतिषेधान् चायोजितानि इति प्रकरणे प्रथमदृष्ट्या न्यायालयादेशलङ्घनमस्तीति केरलस्य उच्चन्यायालयस्य आदेशः। सि पि एं दलस्य राज्यसचिवः एं वि गोविन्दः, सि पि ऐ दलस्य राज्यसचिवः बिनोय् विश्वः, कोण्ग्रस् दलनेता सामाजिकश्च टि जे विनोदः इत्यादयः उच्चन्यायालयस्य नीतिपीठसमक्षं फेब्रुवरि दशमदिनाङ्के उपस्थातुं आदेशः दत्तः। प्रत्येकस्मिन् प्रकरणे ये उत्तरदायित्वं निर्वोढ्यमानाः आसन् ते  आरक्षकाधिकारिणश्च उपस्थातव्याः। 

  न्यायाधीशौ अनिल् के नरेन्द्रः, एस् मुरलीकृष्णः इत्येतयोः नीतिपीठस्यैवायमादेशः।

 भावगायकः पि जयचन्द्रः दिवंगतः। 


तृशूर्> भावगायकः इति विख्यातः दक्षिणभारते चलच्चित्र-ललितगानादिषु व्यक्तिमुद्रां पातितवान् पि जयचन्द्रः [८१] दिवंगतः। अर्बुदरोगबाधितः सः संवत्सरैकं यावत्  परिचर्यायामासीत्। 

  १९४४ तमे वर्षे कोच्चीदेशे चेन्दमङ्गलं प्रदेशस्थे पालियं भवने लब्धजन्मा जयचन्द्रः अर्धशतकाधिककालस्य गानसपर्यया मलयालं तमिल् कन्नडा हिन्दि भाषासु १६,००० गानानि अगायत्। पञ्चवारं केरलराज्यस्य श्रेष्ठगायकपुरस्कारः तस्मै दत्तः। चतुर्वारं तमिलनाटराज्यस्य अयं पुरस्कारः सम्मानितः। चलच्चित्रमण्डले समग्रयोगदानाय दीयमानः जे सि डानियेल् पुरस्कारः केरलसर्वकारेण तस्मै समर्पितः। अनश्वरगायकस्य भौतिकशरीरं  जन्मगेहे पालियं भवने आनीय श्वः अन्त्येष्टिकर्माणि विधास्यन्ति।

Thursday, January 9, 2025

 कौमारकलावसन्तस्य शुभपरिसमाप्तिः।

तृशूर् जनपदस्य सुवर्णकिरीटम्। 

किरीटजेतारः तृशूरजनपदीयाः मन्त्री के राजन् वर्येण सह।

अनन्तपुरी> केरलस्य ६३ तम राज्यस्तरीयविद्यालयकलोत्सवस्य राजधानीनगरे शुभपरिसमाप्तिः। एष्यायाः बृहत्तमः कौमारकलोत्सवः इति ख्यातिमापन्नस्य कलावसन्तस्य अन्ते तृशूरजनपदं श्रेष्ठतमजनपदाय दीयमाने सुवर्णचषके चुम्बनं समार्पयत्। आद्यन्तमुत्साहपूर्णायां स्पर्धायां तृशूरजनपदेन १००८ अङ्काः सम्प्राप्ताः। 

  पालक्काट् जनपदं १००७ अङ्कैः अनुधावन्नभवत्। गतवर्षस्य जेतारः कण्णूर् जनपदं १००३ अङ्कैः तृतीयस्थानं प्राप। 

  समाप्तिसम्मेलनं विपक्षनेता वि डि सतीशः उद्घाटनमकरोत्। शिक्षामन्त्री वि शिवन्कुट्टिः सुवर्णचषकं सम्मानितवान्। चलच्चित्राभिनेतारौ टोविनो तोमसः, आसिफ् अली च विशिष्टातिथिरूपेण भागं गृहीतवन्तौ।

 ओस्कार् पुरस्कारपट्टिकायां 

५ भारतीयचलच्चित्राणि। 

नवदिल्ली> श्रेष्ठचलच्चित्रेभ्यः दीयमानाय  पुरस्काराय परिगणयितुं ५ भारतीयचलच्चित्राणि प्रथमपरिगणनावल्यां स्थानमलभन्त। 'आटुजीवितम्' इति मलयालचलच्चित्रं, 'कङ्कुव' [तमिल्], 'पुतुल्' [बंगाली], Girls will be girls, All will imagin as light इत्येतानि चित्राणि आवल्यामन्तर्भवन्ति। २०७ चलच्चित्राणि प्रथमपरिगणना आवल्यां सन्ति।

 प्रवासी भारतीय दिवसः सम्मेलनमद्य आरभ्यते। 

भुवनेश्वरं> 'प्रवासी भारतीय दिवसः' इति कृतनामधेयं प्रवासिवर्याणां सम्मेलनं भुवनेश्वरे [ओडीशराज्ये] गुरुवासरे शुक्रवासरे च आयोज्यते। अद्य प्रधानमन्त्री नरेन्द्रमोदी सम्मेलनस्य उद्घाटनं करिष्यति। मुख्यातिथिः 'ट्रिनिडाड् आन्ड्  टुबागो' इत्यस्य अध्यक्षः क्रिस्टिन् कार्लः विदूरदृश्यमाध्यमद्वारा मेलनमभिमुखीकरिष्यति। 

  'विकसितभारताय प्रवासिनां योगदानम्' इत्येतत् सम्मेनस्यास्य विषयः। पञ्चाशदधिकेभ्यः राष्ट्रेभ्यः महान्तः उद्योगप्रमुखाः, संरम्भकाः, आर्थिककुशलाः च भागं करिष्यन्ति। शुक्रवासरे राष्ट्रपतिः द्रौपदी मुर्मू पुरस्कारवितरणं करिष्यति।

Wednesday, January 8, 2025

 वि नारायणः ऐ एस् आर् ओ अध्यक्षः भविष्यति। 


नवदिल्ली> डो वि नारायणः ऐ एस् आर् ओ संस्थायाः अध्यक्षः भविष्यति। इदानीं सः अनन्तपुर्यां वलियमला Liquid Propulsion Systems Center इत्यस्य निदेशकः भवति।  बहिराकाशविभागस्य  कार्यकर्ता, बहिराकाशायोगस्य अध्यक्षः इति स्थानद्वयमपि सः वक्ष्यति। 

  नागर्कोविल् प्रदेशीयः वि नारायणः वर्तमानीनः इस्रो अध्यक्षः एस् सोमनाथस्य सेवानिवृत्तदिने जनुवरि १४ तमे दिनाङ्के पदं स्वीकरिष्यति।

 टिबटे भूकम्पः। 

१२६ मरणानि।

बीजिंग> टिबटे भारतसीमायाः समीपं वर्तमाने विशुद्धनगरे 'षिगासे' नामके कुजवासरे प्रभाते दुरापन्ने भूकम्पे १२६ जनाः मृत्युमुपगताः। १८८ जनाः आहताः। 

  भूकम्पमापिन्यां ६. ८ अङ्कितस्यास्य प्रकम्पनानि नेपालं, भूटानं, उत्तरभारतस्य केषुचनप्रदेशेषु च अभवन्। डिंग्री प्रदेशस्थात् सोगो नगरात् १० कि मी अधः अस्ति प्रभवकेन्द्रमिति चीनस्य भूकम्पनिरीक्षणकेन्द्रात् निगदितम्।

 दिल्ली विधानसभानिर्वाचनं फेब्रुवरि ५ तमे दिनाङ्के।

द्वे उपनिर्वाचने च प्रख्यापिते। 

मुख्यनिर्वाचनायोगः राजीवकुमारः निर्वाचनं प्रख्यापयति। 

नवदिल्ली> दिल्ली विधानसभायाः ७० मण्डलेषु सामाजिकनिर्वाचनं प्रख्यापितम्। फेब्रुवरि ५ तमे दिनाङ्के एकेनैव सोपानेन मतदानं, अष्टमे दिनाङ्के मतगणना च भविष्यति। मुख्यनिर्वाचनायोगेन राजीवकुमारेण आकारिते वार्ताहरसम्मेलने आसीदिदं प्रख्यापनम्। 

  तद्दिने एव मण्डलद्वये विधानसभा उपनिर्वाचनं च विधास्यति। उत्तरप्रदेशस्य मिल्किपुरमण्डलं यत्र अयोध्यामन्दिरमपि अन्तर्भवति, तमिलनाटस्थे ईरोड् ईस्ट् मण्डले च उपनिर्वाचनं भविष्यति।

  दिल्लीविधानसभानिर्वाचनवेदिकायां प्रशासनं संस्थापयितुं आम् आद्मी दलं, परिगृहीतुं  भाजपा दलं च कठिनप्रयत्नं कुर्वते स्तः।

Tuesday, January 7, 2025

संस्कृतादेव बह्वीनां भाषाणां उत्पत्तिर्जाता - वाचस्पतिमिश्रः

    संस्कृतभाषा सर्वभाषाणां जननी इति मन्यते । एषा भाषा न केवलं भारतस्य सांस्कृतिकनिक्षेपः, अपितु तस्याः शब्दाः, व्याकरणं, संरचना च अनेकासु भाषासु प्रभावं कृतवती अस्ति। अद्यापि हिन्दी-मराठी- गुजराती-तमिल- तेलुगु, आङ्ग्ल- जर्मन -प्रभृतिषु भाषासु संस्कृतशब्दाः दृश्यन्ते ।

   संस्कृतस्य प्रभावः अस्माकं दैनन्दिनकार्यक्रमे अपि स्पष्टतया दृश्यते। सप्ताहस्य

 छत्तीसगढे मावोवादिनः आक्रमणम्।

अष्ट सैनिकानां वीरमृत्युः। 

बीजापुरं‌> छत्तीसगढे बीजापुरं‌ जनपदे मावोवादिभिः  'ऐ ई डि' नामकस्फोटकवस्तुमुपयुज्य कृते आक्रमणे अष्ट सैनिकाः  वीरमृत्युं प्रापुः। वाहनचालकः अपि हतः। वर्षद्वयाभ्यन्तरे सुरक्षासेनां लक्ष्यीकृत्य विधत्तं महत्तममाक्रमणं भवत्येतत्। 

  ६० - ७० किलोमितम् 'ऐ ई डि' स्फोटकमुपयुज्य कृते आक्रमणे वाहनं पूर्णतया भग्नम्। सर्वकार आरक्षकदलस्य डि आर् जि नामक सेनाविभागस्य सैनिकाः एव मृत्युं प्राप्तवन्तः।

 जस्टिन् ट्रूडो त्यागपत्रं समार्पयत्। 


ओट्टाव> राष्ट्रे स्वकीये राजनैतिकदले च अनभिमतः कानडायाः प्रधानमन्त्री जस्टिन् ट्रूडो त्यागपत्रं समार्पयत्। शासनदलस्य 'लिबरल् पार्टी' इत्यस्य नेतृस्थानमपि सः त्यक्तवान्। परन्तु नूतनाधिकारिणः चयनं यावत् सः द्वयेSपि अधिकारस्थाने अनुवर्तिष्यते।

  २०१३ तमे वर्षे लिबरल् पार्टेः अध्यक्षस्थानं २०१५तमे प्रधानमन्त्रिस्थानं च प्राप्तवान् ट्रूडो आरम्भकाले जनप्रियनेता आसीत्। किन्तु अधिनिवेशविषयमधिकृत्य समीपकाले उद्भूताः वाससमस्याः अन्ये प्रादेशिकविषयाश्च तमनभिमतमकुर्वन्। खलिस्थानीयभीकरः हर्दीप सिंह निज्जरः इत्यस्य हत्याप्रकरणे अपि भारतेन सह कानडायाः सम्बन्ध अपि   अभद्रः वर्तते।

Monday, January 6, 2025

 रामनगरे संस्कृतभारती उत्तराञ्चलम्  प्रान्तस्य प्रान्तसम्मेलनं प्रारब्धम्।

   संस्कृतभारती उत्तराञ्चलस्य द्विदिनात्मकं प्रान्तीयसम्मेलनं रामनगरस्य खत्रीसभाभवने आरब्धम्।   कार्यक्रमस्य आरम्भ: दीपप्रज्ज्वलेन मुख्यातिथि: रूपेण समागताः दीवानसिंह बिष्टः (विधायकः) रामनगरम् महोदयेन कृतम्।

अवसरेsस्मिन्  प्रान्तमन्त्री श्रीगिरीशतिवारी, क्षेत्रसंगठनमंत्री देवेन्द्र पण्ड्या,प्रान्तगणसदस्या श्रीमती जानकी त्रिपाठी,  इत्येभिः सहिताः अनेके विद्वांसः उपस्थिताः आसन् ।कार्यक्रमस्य संचालनं डॉ. वेदव्रतेन

 क्रीडनकविपण्यां भारतस्य प्रगतिः। 

बहिर्देशनयने २३९% वर्धनम्; ८४कोटीनां नियोगः।

नवदिल्ली> भारतस्य क्रीडनकोद्योगे महान् पुरोगतिरिति लख्नौ ऐ ऐ एम् संस्थया कृते अनुशीलने स्पष्टीकृतम्। २०१५ तमं संवत्सरमपेक्ष्य क्रीडनकाणां देशान्तरनयने  २०२२-२३ वर्षे २३९%स्य वर्धनमभवदिति गृहोद्योगप्रोत्साहनविभाय कृते अनुशीलने दृश्यते। विदेशादानयनं तु ५३% आकुञ्चितम्। 

  २०२३ तमवर्षस्य गणनानुसारं ९६०० अधिकानि क्रीडनकनिर्माणकेन्द्राणि सन्ति। समीपकाले जर्मन्यां सम्पन्ने अन्ताराष्ट्रियक्रीडनकोत्सवे भारतीयक्रीडनकनिर्मातृभ्यः ८४. ४७ कोटिरूप्यकाणां नियोगः लब्धः।

 चीने वैराणुव्यापनं - आशङ्कायाः आवश्यकता नास्ति।

नवदिल्ली> चीनदेशे व्याप्यमानस्य एछ् एम् पि वि [Human Meta Pneumo Virus] वैराणोः विषये आशङ्का मास्तु इति जनितकमण्डले गवेषकः कोष़िक्कोट् प्रदेशीयः डो विनोद् स्करिया अवदत्। एछ् एम् पि वि नूतनवैराणुः नास्ति। २००१ तमे वर्षे नेतर्लान्टे बालकेषु प्रथमतया एषः वैराणुः अधिगतः। 

  बालकान् वृद्धान् दुर्बलान् च वैराणुरयं गृह्णातीति डो विनोदेनोक्तम्।

Sunday, January 5, 2025

 केशेषु वर्णलिम्पनम् अर्बुदरोगहेतुः भविष्यति इति नूतनाध्ययनफलम्।

   केशेषु वर्णलिम्पनम् अधिकृत्य राष्ट्रिययसंस्थया (National institute) समायोजितस्य अध्ययनस्य फलं भीतिं जनयति। केशस्य वर्णलिम्पनाय (Dye) तथा केशसमीकरणाय उपयुज्यमानानि रासवस्तुयुक्तानि लेपनानि अर्बुदरोगस्य कारणं भविष्यति इत्येव अध्ययनफलम्। पुरुषानपेक्षया स्त्रीषु अर्बुदसंभ्वाव्यता अधिका इत्यपि अध्ययनं सूचयति। अध्ययनानुबन्धतया ४६,७०९ स्त्रीषु निरीक्षणं कृत्वा एव इदम् अध्ययनफलं सम्प्राप्तम्।

 म्यान्मरे ६००० कारागारबन्धिनः विमोचिता‌ः। 

आङ् सान् स्यूची न मोचिता। 

बाङ्कोक्> म्यान्मर देशस्य ७७ तम स्वतन्त्रतावार्षिकस्य अंशतया षट्सहस्राधिके कारागारबन्धिनः  सैनिकप्रशासनेन मोचिताः। 

  किन्तु २०२१ तम वर्षादरभ्य कारागारे बन्धिता म्यान्मरस्य स्वतन्त्रतान्दोलननायिका आङ् सान् स्यूची न मोचिता।

 आणवशास्त्रज्ञः राजगोपाल चिदम्बरं निर्यातः। 

पोख्रानपरीक्षणस्य चालकशक्तिः। 


मुम्बई> भारतस्य आणवशक्तिं रूपीकृतवत्सु प्रमुखः तथा च 'पोख्रान् आणवपरीक्षणस्य' चालकशक्तिरूपेण प्रवर्तितः आणवशास्त्रज्ञः राजगोपाल चिदम्बरं [८९] दिवंगतः। 

  १७ वर्षाणि केन्द्रसर्वकारस्य शास्त्रीयोपदेष्टा , भाभा अटोमिक् गवेषणकेन्द्रस्य निदेशकः, आणवोर्ज आयोगस्य अध्यक्षः इत्यादीनि बहूनि स्थानानि तेन ऊढानि। १९७५ तमे वर्षे पद्मश्री, १९९९ तमे पद्मविभूषणं च तस्मै समर्पितम्।

 उत्तरभारतं अतिशैत्येन कम्पते। 

दुर्घटनाः वर्धन्ते। 

नवदिल्ली> उत्तरभारते शैत्यं तस्य उच्चस्थायिनं प्राप्नोति। दिल्ल्यां १९ विमानानां अवतार्यं लक्ष्यं परिवर्तितम्। चतुश्शतं विमानानि विलम्बितानि। ४५  संख्याकानि निरस्तानि च। ८१ रेल् यानान्यपि विलम्बितानि। 

  राजवीथिषु हिमधूलिवर्षेण पुरोमार्गमदृष्ट्वा यानदुर्घटनाः साधारणाः वर्तन्ते। दिल्ली-मुम्बय् राजमार्गे बस् - ट्रक्यानसंघट्टने एकः मृतः; चत्वारः आहताः। 

  न केवलं दिल्ल्याम् इतरेषु प्रातिवेशिकराज्येषु च अतिशैत्यं हिमधूलिवर्षश्च अनुभूयते। राजस्थानं, हरियानं, उत्तरप्रदेशः इत्यादिराज्येष्वपि अतिशैत्यक्लेशाः सन्ति।

ब्रह्मपुत्रनद्यां चीनस्य जलबन्धनेन भूभ्रमणवेगः 0.06 क्षणं यावत् मन्दं भविष्यति - नासा।

   चीनदेशस्य तिब्बतप्रदेशे ब्रह्मपुत्रनद्यां विश्वस्य सर्वाधिकबृहत्तमं जलबन्धं निर्मास्यति इति चीनस्य प्रस्तावः।  प्रस्तावं प्रति भारतस्य प्रतिक्रिया।

   भारतस्य विदेशकार्यविभागेन उक्तं यत् भारतस्य स्वार्थानां रक्षणं सुनिश्चितं भविष्यति योजना सूक्ष्मतया निरीक्ष्यते च। चीनदेशात् सुस्पष्टतां अपेक्ष्य, नदीजलसम्बन्धिनः अधिकारान् स्मारयित्वा, आवश्यके समये उचितानां कार्याणाम् आदानं भविष्यति, इति अपि भारतेन प्रोक्तम्।  एतत् बन्धं ‘थ्री गॉर्जेस् डॅम’ इत्यस्मात् अपि विशालं भविष्यति। नासायाः गणनानुसारं, इदं बन्धं पृथिव्याः भ्रमणं 0.06 क्षणं यावत् मन्दं करिष्यति इति प्रतिवेदनम् अस्ति। तथा च पर्यावरणस्य लोले हिमालयप्रदेशे तस्य निर्माणं महतीं चिन्तां जनयति।

प्रधानचिन्ताः:

1. पर्यावरणीयप्रभावः - बन्धनिर्माणेन पर्यावरणे महती हानिः सम्भाव्यते।

2. भूविज्ञानदुर्बलता - तद् क्षेत्रं भूचलसम्भावनया उच्चं सन्दिग्धं च अस्ति।

3. नदीप्रवाहे व्यवधानम्- ब्रह्मपुत्रस्य प्रवाहं तथा नदीतटं प्रतिकूलतया प्रभावितुं शक्यते।

4. भारतस्य दुष्प्रभावः - योजनया भारतस्य दशलक्षाधिकजनानाम् अत्यन्तं कठिनं जलसङ्कटं तथा अतिवृष्टिजन्यं महाप्रलयं च सम्भविष्यति इति चिन्ता वर्तते।

Saturday, January 4, 2025

 चीनदेशे वैराणोः प्रसरणे भीतिः न आवश्यकं भारतीय स्वास्थ्य  संस्था।

   चीनदेशे ह्युमन् मेटाप् न्यूमोनो वैराणोः प्रसरणे भारतजनानाम् आशङ्कायाः आवश्यकता नास्ति, इति भारतीयस्वास्थ्यसंस्थया स्वास्थ्यसेवया उक्तम्। केन्द्रसर्वकारस्य गृहमन्त्रालयः स्थितिं यथायथं निरीक्षते इति स्वास्थ्यसेवायाः महानिर्देशकः (डी जी एच् एस्) डॉ० अतुल् जोयलः अवदत्। ह्युमन् मेटाप् न्यूमोनो वैराणोः प्रतिरोधाय औषधानि अद्यापि उपलब्धानि न सन्ति, तथापि सर्वाणि श्वाससम्बन्धिरोगाणि निवारयितुं साधारणनिर्देशाः पालनियाः इति चीनदेशेन विचार्यते। भारतदेशं प्रति काचन आशङ्कायाः आवश्यकता नास्ति इत्यपि तेनोक्तम्।

संस्कृतभारती-उत्तराञ्चलस्य भाषाप्रबोधनवर्गस्य भव्यारम्भः

वार्ताहर:-कुलदीपमैन्दोला।

 उत्तराखण्डस्य नैनीतालजनपदे रामनगरे संस्कृतभारत्याः उत्तराञ्चलप्रान्तस्य सप्तदिनात्मक: आवासीय: भाषाप्रबोधनवर्गः दीपप्रज्वलनेन सरस्वतीवन्दनया च आरम्भः अभवत् । अतिथीनां परिचयं स्वागतं च श्रीमान् राकेशः सेमवालः अकरोत्। प्रान्तशिक्षणप्रमुखः डॉ. राघवः झा संस्कृतभार -त्याः विविधकार्याणां विषये सर्वान् परिचितान् अकरोत्। उद्घाटनसत्रे मुख्यातिथिः सेवानिवृत्तप्रधानाचार्यः डॉ. सत्यप्रकाशः मिश्रः शिबरे आगतान् छात्रान् संस्कृतभाषायाः महत्वविषये

 तमिलनाटे सहस्रकोटिरूप्यकाणां वञ्चनापहारः।

 वंगदेशे अष्टस्थानेषु ई डि परिशोधनम्। 

कोल्कोत्ता> तमिलनाटराज्ये विविधप्रदेशेभ्यः सहस्रकोट्यधिकरूप्यकाणि छलैः  'सैबर्'व्यवहारैः अपहृतानीति प्रकरणे ई डि संस्थया [Enforcement Directorate] वंगदेशस्य अष्टसु  स्थानेषु परिशोधनं कृतम्। कोल्कोत्तायां पार्क् स्ट्रीट्, साल्ट् लेक्, बागिहाटि प्रदेशेषु पञ्च स्थानेषु, इतरस्मिन् स्थानत्रये च एकस्मिन्नेव काले आसीत् परिशोधनम्। एकः निगृहीतः इति सूच्यते। 

  भारतस्य पूर्वीयराज्यानि केन्द्रीकृत्य छलात्मकसैबर् व्यवहारः अनुवर्तते इति ई डि अधिकारिभिः सूचितम्। केरले अपि बहवः विद्यासम्पन्नाः अपि सैबर् अत्याचारे लग्नाः सन्तः विनष्टवित्ताः जाताः।

 एष्यायाः बृहत्तमकौमारकलोत्सवाय अद्य अनन्तपुर्यां ध्वजारोहः। 

संस्कृतोत्सवे १९ प्रकरणानि। 

कलोत्सवस्य मुख्यवेदिका। 

अनन्तपुरी> एष्यायाः बृहत्तमः कौमारकलोत्सवः इति प्रसिद्धिमाप्तः केरल विद्यालयकलोत्सवः अद्य राजधानीनगरे अनन्तपुर्यां समारभते। अष्टमदिनाङ्कपर्यन्तम् आयोज्यमाने कलोत्सवे केरलस्य १४ जनपदेभ्यः १५,००० कौमारछात्राः विविधासु कला-साहित्यस्पर्धासु स्वस्वप्रतिभाः अवतारयिष्यन्ति। 

  २५ वेदिकासु २४९ प्रकरणानि निकषायन्ते। १९ प्रकरणानि संस्कृतोत्सवे सन्ति। जनुवरि षष्ठे दिने अन्ताराष्ट्रियसम्गोष्ठी अपि संस्कृतोत्सवस्य अंशतया सम्पत्स्यते। 

  अद्य प्रभाते मुख्यमन्त्री पिणरायि विजयः कलोत्सवस्य उद्घाटनं सेन्ट्रल् क्रीडाङ्कणे निर्वक्ष्यति।

 केरले बिहारे च नूतनराज्यपालौ पदं स्वीकृतवन्तौ। 

आर् वि आर्लेकरः[मध्ये] मुख्यन्यायाधिपस्य  पुरतः शपथं करोति। समीपे पत्नी अनघा आर्लेकरः। 

कोच्ची> केरलस्य २३तम राज्यपालरूपेण  राजेन्द्र विश्वनाथ आर्लेकरः गुरुवासरे शपथवाचनं कृत्वा पदं स्वीकृतवान्। केरलस्य उच्चन्यायालयस्य मुख्यन्यायाधिपः नितिन् मधुकर जाम्दारः शपथवाचनमकारयत्। मुख्यमन्त्री पिणरायि विजयः, विपक्षनेता वि डि सतीशः, मन्त्रिणः इत्यादयः कार्यक्रमे भागं गृहीतवन्तः।

  बिहारस्य नूतनः राज्यपालः आरिफ् मुहम्मद खानः तत्रत्यस्य मुख्यन्यायाधिपस्य के विनोदचन्द्रस्य पुरतः शपथवाचनमकरोत्। केरलस्य राज्यपालस्थानात् भवति तस्य बिहारस्य पदप्राप्तिः।

Friday, January 3, 2025

 उत्तरभारते अतिशैत्यं - जनाः क्लेशमनुभवन्ति। 

नगरेषु भवनरहितानां कृते अभयशिबिराणि आरब्धानि। 

नवदिल्ली> उत्तरभारते दिल्ली, हरियानम्, उत्तरप्रदेशः, मध्यप्रदेशः इत्यादिषु राज्येषु शैत्यं कठिनतरं वर्तते। प्रभाते तापमानं ६ डिग्री सेल्ष्यस् पर्यन्तमाकुञ्चितम्। अत एव  जनाः बहुक्लेशमनुभवन्ति। 

  दिल्ल्यां रेल् यानसेवायां बहुविलम्बः जातः। हिमपातेन वीथीदृश्येषु क्लेशः अनुभूयते। वीथीयात्रा क्लिष्टा अभवत्। 

  नगरेषु बहवः भवनरहिताः जनाः अतिशैत्येन दुरितपूर्णजीवनं यापयन्ति। तादृशानां कृते समाजसेवासंघटनानां नेतृत्वे अभयशिबिराणि आरब्धानि।  कुटीराणि निर्माय शीतप्रतिरोधकवस्त्राणि इत्यादिकं दत्वा एव आश्वासप्रवर्तनानि आयोजितानि।

 महाराष्ट्रे गणतन्त्रदिवसे विद्यालयविरामः निरुद्धः। 

आदिनस्पर्धाः। 

मुम्बई> महाराष्ट्रे विद्यालयेषु अस्मात्  वर्षादारभ्य राष्ट्रगणतन्त्रदिवसे [जनवरी २६] विरामः न भविष्यति। तद्दिनमाहत्य छात्राणां कृते राष्ट्रियप्राधान्ययुक्ताः स्पर्धाः आयोजनीयाः  इत्यादिश्य  शिक्षाविभागेन विज्ञप्तिः बहिर्नीता। 

  छात्राणां राष्ट्रियावबोधवर्धनाय चरित्र-पैतृक-संस्कृतिविषयेषु स्पर्धाः आयोजनीयाः। परन्तु सर्वकारस्य निर्णये विमर्शाः जाताः।

 वाहनसम्मर्दक्लेशे बङ्गुलुरु नगरं एष्यायां प्रथमस्थाने। 

बङ्गुलुरु> एष्यायां यानानां गमनागमनक्लेशमनुभूयमानेषु नगरेषु प्रथमस्थाने बङ्गुलुरु वर्तते इति निजीयसंस्थया कृते अनुशीलने स्पष्टम्। दश कि मी दूरतरणाय २८ मिनिट् १० सेकन्ड् मितसमयः आवश्यकः इति नेतर्लान्ट आस्थानीभूतया 'टोम् टोम्' इति लोकेषन् टेकनोलजी संस्थया प्रकाशिते ट्राफिक् इन्डक्से आवेदनपत्रे स्पष्टीकृतम्। 

  इदमावेदनमनुसृत्य बङ्गुलुरु नगरवासिनः प्रतिवर्षं १३२ होराः अधिकतया वाहनसम्मर्दक्लेशमनुभवन्ति। पूणे नगरं द्वितीयस्थाने वर्तते। १० कि मी दूरतरणाय २७ मिनिट् ५० सेकन्ड् समयः आवश्यकः। तृतीयस्थाने मनिलानगरं [फिलिप्पीन्स्], अनन्तरं तायिचुङ् नगरं [तय्वान्] च वर्तेते।

 खेल् रत्नपुरस्काराः प्रख्यापिताः। 

मनु भाकरः, डि गुकेशः, हर्मन् प्रीतसिंहः, प्रवीणकुमारश्च खेलरत्नानि। 

३२ कायिकतारेभ्यः अर्जुनपुरस्कारः, त्रिभ्यः द्रोणाचार्यपुरस्कारश्च। 

डि गुकेशः 

नवदिल्ली> चत्वारः कायिककुशलाः राष्ट्रस्य परमोन्नतकायिकपुरस्काराय खेलरत्नाय अर्हाः अभवन्। अतीते ओलिम्क्से युगलपतकं प्राप्तवती गोलिकाप्रक्षेपिका मनु भाकरः, विश्वचतुरङ्गविजेता डि गुकेशः, यष्टिक्रीडानायकः हर्मन् प्रीतसिंहः, ऊनाङ्गानाम्  ओलिम्पिक्स् मध्ये क्रीडकः  प्रवीण कुमारः इत्येते गतवर्षस्य खेलरत्नपुरस्काराय अर्हाः अभवन्। 

  जनुवरि १७ तमे दिनाङ्के राष्ट्रपतिभवने सम्पत्स्यमाने समारोहे पुरस्कारसमर्पणं भविष्यतीति केन्द्र युवजन-कायिकमन्त्रालयेन निगदितम्।

Thursday, January 2, 2025

रष्य देशे अभयं प्राप्तवन्तं सिरियस्य पूर्वतनं राष्ट्रपतिं विषप्रयोगेण हन्तुं श्रमः अभवत्।

  मोस्को> सिरियातः पलायनं कृतं सिरियस्य राष्ट्रपतिं बासर् अल् असत् इति नामकं विषप्रयोगेण हन्तुम् उद्युक्तः इति प्रतिवेदनमागच्छति। जनरल् एक्स् वि आर् इति एक्स्लेखे उच्यते।

 सन्तोष् ट्रोफी किरीटं वंगदेशाय। 

हैदराबादः> सन्तोष् ट्रोफी पादकन्दुकक्रीडायां पश्चिमवंगदलः विजेता। अन्तिमस्पर्धायां  १ - ० इति क्रमेण केरलदलं पराजयत। स्पर्धायाः अन्त्यनिमिषे वंगस्य रोबिन् हन्सडेनैव लक्ष्यकन्दुकं प्राप्तम्।

Wednesday, January 1, 2025

 मुण्टक्कै-चूरल्मला भूस्खलनम् अतितीव्रमिति केन्द्रसर्वकारस्य सम्मतिः।

नवदिल्ली>  २०२४ आगस्ट् मासे  केरले वयनाट्जनपदे दुरापन्नः भूस्खलनदुरन्तः अतितीव्रस्वभावयुक्तः इति दुरन्तस्य १५६ तमे दिने केन्द्रसर्वकारस्य सम्मतिः। विषयमिदं केन्द्रगृहमन्त्रालयः राज्यसर्वकारम् औद्योगिकरीत्या न्यवेदयत्। 

  अनेन केन्द्रसर्वकारात् अधिकसाहाय्यं लब्धुं मार्गः जातः। केरलं पुरस्कृत्य केन्द्रसर्वकारस्य इदं प्रख्यापनं महतः आश्वासस्य विषयः अस्ति। विविधाभ्यः  पुनरधिवासप्रक्रियाभ्यः ऊर्जप्रदायकं  भवति।

 चीनदेशेन विश्वस्य शीघ्रतमम् बुल्लेट्-रेल्यानम् समारब्धम्।


   चीनदेशेन समारब्धं बुल्लेट् रेल्यानं होरायां ४५० किलोमीटर् वेगेन गमनं कर्तुं समर्थं CR ४५० इत्यस्य प्रोटोटाइप्- स्वरूपः लोकार्पितः। नवीनः एषः बुलेट्-रेल्यानं न केवलं यात्राकालं न्यूनं करोति अपि च इतरयोः देशयोः सम्बन्धने गुणवत्ताम् अपि वर्धयति।

    यद्यपि उच्चगतिरेल्यानानि चीनाय आर्थिकदृष्ट्या लाभजनकानि न सन्ति, एतावता केवलेन बीजिङ्-शाङ्घाय-रे ल्यानसेवा एव लाभं प्रदत्तवती। तथापि, चीनादेशः वदति यत् लाभात् परम् एतानि बुलेट्-रेल्यानानि राष्ट्रस्य आर्थिकसामाजिकविकासे महत्त्वपूर्णं योगदानं कुर्वन्ति इति।