आत्मनः अनन्तरगामी भविष्यतीति दलैलामः।
धर्मशाला (हिमाचलप्रदेशः)> विश्वासिनां दीर्घकालीयाशङ्कां परिहृत्य , आत्मनः अनन्तरगामी भविष्यतीति टिबटस्य आत्मीयाचार्येण दलैलामवर्येण उद्घोषितम्। दलैलामा गुरुपरम्परा अनुवर्तिष्यते, २०११ तमे वर्षे धर्मशालायां रूपीकृतः 'गाडन् फ्रोद्राङ्' नामकः प्रवासि सर्वकारः एव दलैलामानिर्वाचनस्य अधिकारीति गतदिने दलैलामावर्येण निगदितम्। दलैलामानिर्वाचने व्यवधातुं चीनप्रशासनस्य उद्यमस्य प्रत्युत्तररूपेणैव तेन एतत् सबलं स्पष्टीकृतम्।
१४ तम दलैलामस्य ९०तमं जन्मदिनं आगामि रविवासरे अस्ति। तद्दिने नूतनः दलैलामः उद्घोषयिष्यते इति प्रतीक्षा वर्तते।