भारतीयसंसदः वर्षाकालसम्मेलनं श्वः आरभ्यते।
नवदिल्ली> भारतीयसंसदः वर्षाकालीयसम्मेलनं जूलय् २१ तमदिनाङ्कतः आगस्ट् २२ दिनाङ्कपर्यन्तं सम्पत्स्यते। एतेषु दिनेषु आहत्य २१ उपवेशनानि भविष्यन्ति।
सम्मेलनस्य समीचीनप्रचालनाय अद्य सर्वपक्षीयस्मेलनं सम्पन्नम्।
तिब्बते ब्रह्मपुत्रायाः उपरि महा सेतुबन्धनिर्माणम् आरब्धम्, भारतस्य चिन्ता वर्धिता।
तिब्बतप्रदेशे यार्लुंग्त्साङ्पो इत्याख्यायाम् ब्रह्मपुत्रानद्याम् चीनदेशेन जगति अतीव महद् जलविद्युत्प्रकल्पः आरब्धः अस्ति। अस्य प्रकल्पस्य सामर्थ्यम् ६० GW अस्ति, यः प्रसिद्धस्य त्रैणगर्जपरियोजनायाः त्रैगुण्यम् अतिक्रामति।
एषः बन्धः भारतस्य पूर्वोत्तरभागे जलप्रवाहम्, कृषि-व्यवस्थां च गम्भीरेण प्रकारेण प्रबाधयितुं शक्नोति। अतः भारतदेशेन अयं प्रकल्पः "जलबोम्ब्" इत्याख्यया विशेषं चिन्तनीयः इति घोष्यते। यः प्रदेशः भूकम्पप्रभवकेन्द्रः अस्ति, तस्मिन् एषः निर्माणकार्यं पर्यावरणदृष्ट्या अपि विवादास्पदम् अभवत्।
भारतदेशेन चीनं प्रति निवेदनं कृतम्— "नीचगामिनां राज्यानां हिताय परियोजना निर्माणं करणीयम्" इति। परन्तु चीनदेशः एतद् परियोजनां स्वस्य ऊर्जा-स्वावलम्बनाय तथा 'कार्बण्-न्यूट्रल्' लक्ष्यसिद्ध्यै आवश्यकं मन्यते।
१२०० कि.मी अनुस्यूततया डयमानः विस्फोटकग्राही विमानः।
भारतीयः नूतनविमानः १२०० कि मी दूरम् अनुस्यूततया डयमानः भविष्यति। अयं १२ टण् भारं वोढुं क्षमः भविष्यति।
अपि च विश्वस्य कमपि प्रदेशम् अतिक्रम्य विस्फोटक-वस्तूनां विक्षेपणाय क्षमतायुक्तः च भविष्यति। इदानीम् एतादृशाः शक्नियुक्ताः विमानाः यू एस्, रष्यः ,चीनराष्ट्राणां पार्श्वे एव वर्तन्ते। भरतमपि विना विलम्बम् एतादृश-विमानेन शक्तिशाली भविष्यति।
विधेयकनिर्णये समयक्रमः -
राष्ट्रपतेः प्रश्नान् परिगणयितुं शासनसंविधानपीठम्।
नवदिल्ली> विधानसभाभिः अनुमोद्य राज्यपालान् प्रति प्रेष्यमानानां विधेयकानां निर्णयाय समयक्रमं निश्चितवतः सर्वोच्चन्यायालयस्य विधिमधिकृत्य राष्ट्रपतिना उन्नीतान् प्रश्नान् परिगणयितुं शासनसंविधानपीठं निश्चिकाय। मुख्यन्यायाधिपः बी आर् गवाय् वर्येण आध्यक्षम् ऊढ्यमानेन पञ्चाङ्गोपेतनीतिपीठेन जूलाय् २२ तमे दिनाङ्के परिगणयिष्यते।
१४ नियमप्रश्नाः राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उन्नीताः। प्रशसनसंविधानस्य १४३ (१) इत्यनुच्छेदानुसारमेव राष्ट्रपतेः प्रश्नाः।
पूर्वभार्यायै भरणपोषणार्थदण्डं प्रदातुं कश्चिन्निरुद्योगो नरः कण्ठसूत्रचौर्यं वृत्तिं कृत्वा बहुष्वपराधेषु लिप्तः सन्नन्ततो निगृहीतः।
द्विवर्षव्यापिना अवृत्तित्वेन न्यायालयनिर्दिष्टेन भरणपोषणभारेण च पीडितो नागपुरस्थः पुरुषोऽयं सुवर्णकण्ठसूत्रचौरकर्मणि बहुशः प्रवृत्तः। नागपुरस्य माणकापुरान्तर्गते गणपतिनगरे निवसन् द्विचत्वारिंशद्वर्षीयः कन्हैयानारायणबौराशीत्याख्यो निरुद्योगः पुरुषः स्वपूर्वपत्न्याः कृते न्यायालयनिर्दिष्टं षट्सहस्ररूप्यकाणां मासिकं भरणपोषणधनं दातुं पुनः पुनश्चौर्यकर्मण्यभियुक्तो निगृहीतः। इदं प्रकरणं तदा प्रकाशमागतं यदाऽस्य कृष्टाब्दस्य द्वितीये मासे द्वाविंशतितमे दिनाङ्के चतुस्सप्ततिवर्षीया गाडेकुलीनजयकुमारपत्नी वृद्धा जयश्रीर्मनीषनगरे द्विचक्रिकायानेनागतेन केनचित् तस्करेण तस्याः सुवर्णसूत्रमपहृतमिति न्यवेदयत्।
विद्युदाघातेन छात्रस्य मरणम्।
मिथुनाय सहस्राणाम् अन्त्याञ्जलिः।
माता विदेशादागता।
कोल्लं> अधिकृतानां उत्तरदायित्वराहित्यात् विद्यालयस्थात् विद्युत्तन्त्रिणः विद्युदाघातेन विनष्टप्राणस्य मिथुन् नामकस्य त्रयोदशवयस्कस्य अन्त्येष्टिकर्माणि विधत्तानि।
परिवारस्य आर्थिकक्लेशपरिहारार्थं गृहपरिचारिकारूपेण वृत्तिं कर्तुं मासद्वयात्पूर्वं विदेशं गतवती माता सुजा ह्यः मध्याह्ने गृहं प्राप्तवती। पुत्रस्य निश्चेतनं शीतीकरणीसंरक्षितं च शरीरं दृष्ट्वा तस्याः विलापः हृदयभेदक आसीत्। सायं सार्धचतुर्वादने मिथुनस्य अनुजः चिताम् अग्निज्वलनमकरोत्।
प्रभाते दशवादनतः मिथुनस्य विद्यालये तस्य शरीरं सामाजिकदर्शनाय स्थापितमासीत्। सहस्रशः जनाः तस्मै अन्त्योपचारान् समार्पयन्।
वायुसेनायै षट् 'अवाक्स्' विमानानि अचिरेण प्राप्स्यन्ति।
नवदिल्ली> भारतस्य प्रतिरोध गवेषणसंस्थया [DRDO] विकसितानि अत्याधुनिकानि अवाक्स् नामकानि विमानानि अचिरेण वायुसेनायाः अंशः भविष्यति। २०,००० कोटि रूप्यकाण्येवास्य व्ययः।
संवेदनक्षमं संविधानमुपयुज्य शत्रुविमानानि दूरतः एव अधिगम्य प्रतिरोद्धुं शक्यते। 'ओपरेषन् सिन्दूर्' दौत्ये Airborne Warning And Control Systems इति अवाक्स् विमानानां सेवा महत्तरा आसीत्। शत्रुनिरीक्षणाय प्रतिरोधाय च निर्णायकस्थानमावहन्ति।
अनेन सह उत्तरप्रदेशे अमेठ्यां रष्या-भारतसंयुक्तसंरम्भेण निर्मिताः ७००० 'कलानिष्कोव् ए के २०३' इति शतघ्नयश्च सेनायाः भागमावक्ष्यन्ति।
राष्ट्रियस्वच्छ सर्वेक्षणे केरलनगराणि प्रथमशतके अन्तर्भूतानि।
नवदिल्ली> राष्ट्रस्य उत्कृष्टस्वच्छनगराणामावल्यां केरलस्य अष्ट नगराणि प्रथमशतके अन्तर्भूतानि। इदंप्रथममेव केरलस्य इयमुपलब्धिः।
कोच्ची [५० तमश्रेणी], तृश्शूर् [५८], कोष़िक्कोट् [७०], तिरुवनन्तपुरं [८९], कोल्लं [९३] इत्येतानि महानगराणि, गुरुवायूर् [८२], मट्टन्नूर् [५३], आलप्पुष़ा [८०] इत्येतानि नगराणि च स्वच्छतापालने उत्कृष्टताम् आवहन्ति।
गतवर्षे केरलस्य नगराणां स्थानं सहस्रादधः आसीत्। किन्तु ततःपरं मालिन्यसंस्करणादिविषयेषु केरलस्य प्रगतिरजायत इति अनेन सूचितमस्ति।
बिहारे १२५ अङ्कमितां विद्युतं निश्शुल्केन दास्यति।
पट्ना> विधानसभानिर्वाचनाय मासेषु शिष्टेषु महदानुकूल्यप्रख्यापनेन बिहारस्य मुख्यमन्त्री नितीष् कुमारः। राज्ये गार्हिकोपभोक्तृभिः ओगस्ट् प्रथमदिनाङ्कतः १२५ अङ्कमिता [Unit] विद्युच्छक्तिः निश्शुल्केन लभ्यते। 'एक्स्' इति सामाजिकमाध्यमेन आसीत् मुख्यमन्त्रिणः उद्घोषणम्।
ग्रामीणक्षेत्राणाम् अभिवृद्धिं लक्ष्यीकृत्य २१,४०६ कोटि रूप्यकाणां अभियोजनाः अपि आरब्धाः। ११,३४६ वीथीनां, ७३० लघुसेतूनां निर्माणानि च एतासु अभियोजनासु अन्तर्भवन्ति।
राष्ट्रस्य स्वच्छ सर्वेक्षणपरिणामः उद्घोषितः।
इन्दोर्, सूरट्, नवि मुम्बई नगराणि यथाक्रमं प्रथम द्वितीय तृतीयस्थानेषु।
नवदिल्ली> भारते सर्वोत्कृष्टानि स्वच्छतापूर्णनगराणि निर्णेतुमुद्दिश्यमानस्य स्वच्छसर्वेक्षणस्य परिणामः उद्घोषितः। जनसंख्याधारितमासीत् सर्वेक्षणम्। दशलक्षाधिकजनसंख्यायुतेषु नगरेषु प्रथमस्थानं मध्यप्रदेशस्थेन इन्दोरनगरेण स्वायत्तीकृतम्। द्वितीयस्थानं सूरट् [गुजरात्] नगरेण प्राप्तम्। तृतीयस्थाने महाराष्ट्रस्य नवि मुम्बई अस्ति।
३ - १० लक्षं जनसंख्याविभागे यू पि राज्यस्थं नोय्डा नगरं प्रथमस्थानं प्राप। द्वितीयं तु चण्डीगड् नगराय, तृतीयं मैसुरु नगराय च लब्धम्।
नवदिल्ली, तिरुप्पती, अम्बिकापुरं नगराणि अर्धलक्षतः त्रिलक्षपर्यन्तं इति विभागे यथाक्रमस्थानानि प्रापुः। जैवाजैवमालिन्यानां विभजनं, संग्रहणं, संस्करणं, बोधवत्करणं, जलस्रोतसां परिपालनम् इत्यादीनि सूचकानि मूल्यनिर्णये परिगणितानि।
अनवधानतायाः बलिदानी।
विद्यालये विद्युदाघातेन अष्टमकक्ष्याछात्रस्य दारुणान्त्यम्। विद्युदाघातेन मृत मिथुनः, दुर्घटनास्थानं च।
कोल्लम्> विद्यालये कक्ष्याप्रकोष्ठस्य समीपे वर्तमानायाः द्विचक्रिकाशालायाः उपरिष्ठात् उपगच्छतः विद्युद्वाहकात् लोहसूत्रात् वैद्युताघातेन त्रयोदशवयस्कः बालः मृतः। कोल्लं जनपदे तेवलक्करा बालकोच्चविद्यालये अष्टमकक्ष्यायां पठन् समीपप्रदेशीयः मिथुन् नामक एव अतिदारुणेन मृत्युवशं गतः।
प्रभाते साधारणतया विद्यालयं प्राप्तः मिथुनः मित्रैः सह क्रीडावसरे तस्य पादरक्षा कक्ष्यायाः बहिः द्विचक्रिकाशालायाः उपरि पतिता। पादरक्षासंग्रहणाय शालोपरि आरूढस्य मिथुनस्य पादे स्रंसिते हस्तः विद्युद्वाहकरज्जौ पस्पर्श। विद्युदाघातेन पतितं मिथुनं लोहसूत्रात् पृथक्कृत्वा आतुरालयमनयदपि प्राणरक्षां नाशक्नोत्।
निस्वपरिवारीयस्य मिथुनस्य पिता मनोजः निर्माणश्रमिकः अस्ति। माता सुजा स्वकुटुम्बस्य आर्थिकक्लेशं परिहर्तुं कुवैट् राष्ट्रे गृहपरिचारिकावृत्तिं कर्तुं मासद्वयात् पूर्वमेव गतवती।
विद्यालयाधिकारिणां तथा के एस् ई बी इति वैद्युतिविभागस्य च अनवधानता एव दुर्घटनाकारणमिति स्पष्टमस्ति। ग्रामसभासमित्याः, विद्युत्विभागस्य च अनुज्ञां विनैव कतिपयवर्षेभ्यः पूर्वं छात्रेभ्यः द्विचक्रिकासंरक्षणशाला निर्मिता। विद्यालयस्य परिसरान्तर्भागेन विद्यालयाय इतरस्मै निजीयपरिवाराय च विद्युद्दानार्थम् उपगच्छतः लोहरज्जुपटलस्य स्थाने कवचिततन्त्राणि उपयेक्तुं के एस् ई बी संस्थया च अनवधानता प्रदर्शिता। प्रकरणेSस्मिन् बहुजनानां प्रतिषेधान्दोलनं प्रचलति।
बङ्गलादेशे संघर्षः - त्रयः मृताः।
गोपालगञ्जः> बङ्गलादेशे पुनरपि अन्तर्राष्ट्रसंघर्षः। बहिर्नीता राष्ट्रनेत्री षेख् हसीना इत्यस्यायाः राजनैतिकदलम् अवामी लीग् इत्यस्य प्रवर्तकाः नाषणल् सिटिसण्स् पार्टी [एन् सि पी] इत्यस्य प्रवर्तकाः च मिथः जाते संघर्षे सुरक्षासेनायाः व्यवहारेण त्रयः जनाः मृताः।एन् सि पी दलेन आयोजितं राजनैतिपथसञ्चलनं शिथिलीकर्तुं अवामीलीगीयाः उद्युक्तवन्तः इत्यनेन सुरक्षासेनया भुषुण्डिप्रयोगः कृतः। १७ जनाः व्रणिताश्च।
गासायां भक्ष्यवितरणकेन्द्रे अभिसम्पातः -
१९ मरणानि।
गासासिटी> गासायां इस्रयेल-अमेरिकयोः सहयोगेन प्रवर्तमानस्य सन्नद्धसंघटनस्य भक्ष्यवितरणकेन्द्रे बुधवासरे आपन्नेन अन्योन्यसम्मर्देन १९ जनाः मृत्युमुपगताः। जि एछ् एफ् इति गासा ह्युमानटेरियन् फौण्टेषन् इत्यस्य खान् यूनिसस्थे वितरणस्थाने आसीदियं दुर्घटना।
यू एन् संस्थायाः भोज्यवितरणसंविधानस्य उपकल्पनरूपेण मेय् मासे आसीत् जि एछ् एफ् इत्यस्य प्रवर्तनमारब्धम्। ततः प्रभृति तत्र भोज्यार्थमागम्यमानान् विरुध्य आक्रमणानि भुषुण्डिप्रयोगाश्च साधारणं दृश्यन्ते। अद्यावधि ८५० जनाः मृत्युमुपगताः इति यू एन् संस्थायाः गणना।
योगाय केरलपाठ्यक्रमे प्राधान्यं दातव्यम्।
कोच्ची> सि बी एस् सि विद्यालयेषु योगानुष्ठानाय दीयमानं प्राधान्यं केरलपाठ्यक्रमे अपि दातव्यमिति भारतीय योग फेडरेषन् इत्यस्य उपाध्यक्षेण वार्ताहरसम्मेलने अभ्यर्थितम्। छात्राणां सर्वतोमुखम् उन्नमनं लक्ष्यीकृत्य विश्वविद्यालयेषु योगाध्ययनम् अन्तर्भाव्यमिति यू जि सी संस्थायाः निर्देशोSपि वर्तते।
केरले पारम्पर्येण योगानुष्ठानं कुर्वन्तः कारयन्तश्च वरिष्ठाः योगाचार्याः सन्ति। तेषां नेतृत्वे प्रवर्तनानि समायोजनीयानि। वार्ताहरसम्मेलने संघटनस्य देशीयोपाध्यक्षः के पि भास्करमेनोन् , योग-कायिक असोसियेषन् इत्यस्य एरणाकुलं जनपदीयाध्यक्षः षाजन् पोल् इत्यादयः भागमकुर्वन्।
पहल्गाम आक्रमणम् -
भीकराः आकाशं प्रति भुषुण्डिप्रयोगेण तोषयामासुः।
नवदिल्ली> जम्मु काश्मीरे पहल्गामे भुषुण्डिप्रयोगेण २६ पर्यटकानां प्राणापहरणानन्तरं भीकराः आकाशं प्रति भुषुण्डिप्रयोगं कृत्वा आत्महर्षं प्रकटयामासुः इति वृत्तान्तमस्ति। बैसरण् अधित्यकायाम् आक्रमणानन्तरं त्रयः भीकराः आकाशं प्रति चतुर्वारं भुषुण्डिप्रयोगमकुर्वन्निति एन् ऐ ए संस्थायाः पुरतः घटनां विशदीकृतवता दृक्साक्षिणा उक्तमिति राष्ट्रियमाध्यमैः सूच्यते।
दृक्साक्षिणः वचनस्याधारे परिशोधनां कृतवता अन्वेषणसंघेन उक्तस्थानात् चत्वारि गोलिकाशस्त्राणि अधिगतानि। भीकरेभ्यः अभयः दत्तः इति कारणात् गतमासे द्वौ एन् ऐ ए संस्थया निगृहीतौ। तौ लष्कर् ई तोय्बा सम्बन्धिनौ पाकिस्थाननागरिकौ इति अधिकृतैः निगदितम्।
परम्परागतविज्ञानेन सह एन् सि ई आर् टि संस्थायाः नूतनः अष्टमीकक्ष्यापाठ्यग्रन्थः।
नवदिल्ली> एन् सि ई आर् टि संस्थया आविष्कृते अष्टमीकक्ष्यायाः नूतनं शास्त्रपुस्तकं भारतस्य परम्परागतशास्त्रविज्ञानेन संयुक्तं भवति। क्रिस्तोः पूर्वं जीवितवान् इति मन्यमानस्य कणादमहर्षेः परमाणुसङ्कल्पः, आयुर्वेदीयचिकित्सासम्प्रदायश्च पुस्तके परामृष्टः अस्ति। भास्करस्य द्वितीयस्य ज्योतिशास्त्रतत्त्वमपि पाठपुस्तके प्रतिपादितमस्ति।
ब्रिटनस्य युद्धविमानम् आगामि सप्ताहे प्रतिनिवर्तिष्यते।
![]() |
ब्रिटीषनौसेनायाः एफ् ३५ बी युद्धविमानम्। |
अनन्तपुरी> ब्रिटीषनौसेनायाः एफ् ३५ बी इति युद्धविमानस्य साङ्केतिकदोषाः परिहृताः। ब्रिटनस्य नौसेनाधिकारिणः अनुज्ञालब्धिमनुसृत्य विमानं अनन्तपुरीतः उड्डायित्वा एव प्रतिनेष्यति।
आरबसमुद्रे सैनिकाभ्यासे क्रियमाणे इन्धनशोषणेन जूण् २४ तमे दिनाङ्के आसीत् विमानस्य अनन्तपुर्यामवतरणम्। अनन्तरं यन्त्रक्षमतायामपि न्यूनता अस्तीत्यवगतम्।
केरले अतितीव्रवृष्टिः।
सर्वेषु जनपदेषु जाग्रत्तानिर्देशः।
श्वः पञ्चसु जनपदस्थेषु विद्यालयेषु अनध्ययनं विहितम्।
कोच्चि> केरलमशेषं द्वित्राणि दिनानि यावत् तीव्रा वृष्टिरनुवर्तते। श्वः सर्वेषु जनपदेषु जाग्रत्तानिर्देशः विहितः। मध्योत्तरकेरले नवसु जनपदेषु अतितीव्रवर्षायाः 'ओरञ्च्' जाग्रत्ता विहिता। दक्षिणकेरले पीतजागरूकता च घोषिता।
कण्णूर्, कासरगोड्, तृश्शूर्, कोष़िक्कोट्, वयनाट् जनपदस्थेषु विद्यालयेषु गुरुवासरे अनध्ययनम् उद्घोषितम्। आगामि दिनत्रयमपि आकेरलं तीव्रवृष्टिः भवेदिति पर्यावरणविभागेन निगदितम्।
शुभांशोः सहयात्रिकाणां च परं सप्तदिवसीयः पुनरधिवासः। अन्ताराष्टबहिराकाशनिलयात् 'ग्रेय्स्' पेटकं प्रतिनिवर्तनयात्रा आरभ्यते।
हूस्टण्> अष्टादशदिनानि बहिराकाशनिलये विविधेषु परीक्षणेषु व्यापृत्य कुजवासरे सायं वसुधां प्रत्यागतवन्तः चत्वारः बहिराकाशयात्रिकाः सप्तदिनात्मकाय पुनरधिवासाय विहिताः। इदानीं चत्वारः अपि हूस्टणस्थं जोण्सण् बहिराकाशकेन्द्रम् अधिवसन्तः सन्ति। भूमेः गुरुत्वाकर्षणेन सह तादात्म्यं प्राप्तुमेवायम् एकान्तवासः।
भारतीयवायुसेनायां ग्रूप् केप्टन् पदीयः शुभांशुः आसीत् आक्सियं - ४ दौत्यस्य मार्गदर्शी। तं विना पेग्गि विट्सण्, स्लावोस् उस्नन् स्की, टिबोर् कापु इत्येते च दौत्यस्य अंशतया बहिराकाशनिलयं गतवन्तः।
जूण् पञ्चविंशे दिनाङ्के ते ऐ एस् एस् प्रति प्रस्थितवन्तः। ऐ एस् एस् मध्ये स्थित्वा अष्टाशीत्यधिक द्विशतवारं भूमिं प्रदक्षिणं कृतवन्तः। त्रयस्त्रिंशदधिक चतुश्शतं होराः ते परीक्षणाय यापितवन्तः।
बालानाम् 'आधार्' नवीकर्तुं यू ऐ डि ए ऐ संस्थायाः निर्देशः।
नवदिल्ली> पञ्च - सप्त वयःप्रमाणानां बालानाम् आधारपत्रं नवीकर्तुं यू ऐ डि ए ऐ संस्थायाः निर्देशः आगतः। विद्यालयप्रवेशः, प्रवेशनपरीक्षाः, छात्राणाम् आर्थिकोपायनं [scholarship], वित्तकोशीयानुमोदनानि इत्यादीनाम् अनर्गलसेवायै नवीकृतमाधारपत्रमावश्यमिति संस्थया निगदितम्।
बालानां पितरौ, रक्षितारः इत्येतेषां कस्मिंश्चित् आधारसेवाकेन्द्रे निश्चिताधारकेन्द्रे वा बालानां सूचनाः निश्शुल्केन नवीकर्तुं शक्यन्ते। ऊनपञ्चवयस्कानां छायाचित्रम्, नाम, जन्मदिवसः, लिङ्गभेदः, सङ्केतः, प्रमाणपत्राणि इत्येतानि एव आधारपत्रे युज्यन्ते। यदा पञ्चवयः प्राप्नोति तदा अङ्गुलीरेखाः, नेत्रमण्डलमित्यादीनि अवश्यं योजनीयानि। सप्तवयःपर्यन्तम् एताः सेवाः निश्शुल्केन कर्तुं शक्यते।
विम्बिल्डण्
पुरुषकिरीटं यानिक् सिन्नराय।
लण्टनं> पुरुषाणां विम्बिल्डण् लानक्रीडाचषकं इटलीदेशीयः यानिक् सिन्नर् इत्येषः प्राप्तवान्। अन्तिमप्रतिद्वन्द्वे कार्लोस् अल्करास् इत्यमुमेव सिन्नरः पराजयत। पञ्चसप्ताहात् पूर्वं फ्रञ्च् ओपण् अन्तिमप्रतिद्वन्द्वे स्वीकृतस्य पराजयस्य प्रतीकारो भवति सिन्नरस्य अयं विजयः।
अन्तिमक्रीडायाः प्रथमकुलकं [Set] नष्टीभूय उज्वलप्रभावेण आसीत् यानिक् सिन्नरस्य अनन्तरक्रीडाः - (४-६, ६-४, ६-४, ६-४)
तृतीया निकषस्पर्धा भारतात् विनष्टा।
अग्रेसराणामालस्यस्य स्थाने कृतः पृष्ठगामिनां प्रयत्नोSपि विफलः।
लोर्ड्स्> एकैकं कन्दुकमपि पक्षद्वयाय अमृततुल्यं मूल्यवदासीत्। इङ्गलण्टेन सम्मानितस्य १९३ इति विजयलक्ष्यस्य सार्थकाय अग्रेसरताडकानाम् अलसतया रविवासरे ५८/४ इति प्राप्ताङ्कसूचिका भारतेन प्राप्ता आसीत्। ततः ह्यः अष्टसु क्षेपणचक्रेषु त्रयः ताडकाः अपि बहिर्गत्वा ८२/७ इति परितापकरीम् अवस्थाम् अपतत्। अनेन पराजयः सुनिश्चितः। किन्तु ततः पुच्छस्थितैः ताडकैः रक्षाप्रवर्तनमारब्धम्। रवीन्द्र जडेजः तस्य नेतृत्वमवहत्। सः १८१ कन्दुकेभ्यः ६१ धावनाङ्कैः अपराजितः जातः। निधीशकुमार रड्डिः [५३ कन्दुकैः १३ धावनाङ्काः], जस्प्रीत बुम्रा (५४/५), मुहम्मद सिराजः (३०/४) इत्येवंप्रकारेण सहयोगं कृतवन्तः। किन्तु ७६ तमे क्षेपणचक्रे इङ्गलण्डदलीयस्य षोयिब् बषीर् इत्यस्य 'ओफ् स्पिन्' कन्दुकं सिराजेन प्रतिरुद्धमपि भ्रमणं कृत्वा द्वारकमपातयत्। सिराजस्य द्वारकपतनेन भारतस्यापि पतनं सम्पूर्णमभवत्। २२ धावनाङ्कानां न्यूनत्वे एव पराजयः!
प्राप्ताङ्कसूचिका - इङ्गलण्डः ३८७, १९२। भारतं ३८७, १७०। अनेन पञ्चप्रकरणात्मिकायां परम्परायाम् इङ्गलण्डः २-१ इति अग्रे अस्ति।
शुभाशुः ससंघम् अद्य प्रत्यागमिष्यति। शुभांशुः सहयात्रिकाश्च ग्रेय्स् इत्यस्मिन् पेटके प्रतिनिवर्तनवेलायाम्।
नवदिल्ली> नासायाः बहिराकाशनिलये १८ दिनानि यावत् परीक्षणनिरीक्षणानि समाप्य भारतस्य बहिराकाशसञ्चारी शुभांशु शुक्लः त्रिभिः संघाङ्गैः सह सोमवासरे पृथ्विं प्रतिनिवर्तनयात्रां समारभत। आक्सियं - ४ इति दौत्यस्य 'ग्रेय्स्' इति पेटकं ह्यः सायं ४. ४५ वादने [भारतीयसमयः] बहिराकाशनिलयेन सह बन्धं विच्छिद्य भूमिं प्रति यात्रा आरभत।
अद्य अपराह्ने त्रिवादने कालिफोर्णियायां शान्तसमुद्रे पेटकम् अवतरिष्यतीति प्रतीक्षते। अवतरणानन्तरं भूमेः गुरुत्वाकर्षणेन सह समीकर्तुं सप्ताहं यावत् तेभ्यः एकान्तवासः विहितः।
पाकिस्थाने रामायणं नाटकरूपेण प्रस्तुतम्।
![]() |
पाकिस्थाने प्रस्तुतस्य रामायणनाटकस्य दृश्यानि। |
कराच्ची> पाकिस्थाने रामायणं नाटकरूपेण प्रस्तूय प्रेक्षकाणां अभिनन्दनानि स्वीकृतानि। कराची आर्ट्स् कौण्सिल् इत्यत्र 'मौज्' नामकेन नाटकसंघेनैव नाटकं प्रस्तुतम्। कृतकबुद्धेः साह्यमपि उपयुज्य प्रस्तुतं नाटकं कला-चलच्चित्रनिरूपकैः अभिनन्दितम्।
नाटकस्य नाम्नि अतृप्तिः भीषा वा नाजायत इति नाटकस्य निदेशकः योहेश्वर करेरा इत्येषः अवोचत्। राणा कास्मी इत्येषा अस्ति नाटकस्य निर्मात्री। नाटके सीतावेषः तया एव कृतः।
राज्यसभां प्रति चतुर्णां नामानि निर्दिष्टानि।
नवदिल्ली> आराष्ट्रं समाजे विविधक्षेत्रेषु सेवां कुर्वन्तः चत्वारः राष्ट्रपतिना राज्यसभां प्रति निर्दिष्टाः।
भूतपूर्वः विदेशकार्यसचिवः हर्षवर्धन श्रृङ्लः, मुम्बई भीकराक्रमणप्रकरणे सर्वकारस्य नीतिज्ञरूपेण [Public prosecutor] उपस्थितवान् उज्वल निकमः, दिल्लीस्था चित्रकारी मीनाक्षी जेय्नः, कृतकपादयोः साह्येन केरले समाजसेवया अध्यापनवृत्या च वरिष्ठत्वं प्राप्तवान् कण्णूर् प्रदेशीयः सि सदानन्दः इत्येते चत्वारः एव राज्यसभासदस्यरूपेण आमान्यमानाः।
गासायुद्धम्।
अनुरञ्जनचर्चा स्थगिता।
गासा सिटी> गासायां २१ मासान् यावत् अनुवर्तमानं युद्धम् अचिरेण समाप्स्यतीति प्रतीक्षा अस्तं गच्छति। गासातः सेनाबलं पूर्णतया न अपाकरिष्यतीति इस्रयेलस्य मतेन युद्धविरामचर्चा स्थगिता। मध्यस्थराष्ट्रे खत्तरे जुलाई षष्ठे दिनाङ्के आरब्धया चर्चया युद्धविरामं प्रतीक्षते स्म।
भारतेङ्गलण्टयोः प्रथमचरणे कौतुकपूर्वसमाप्तिः।
भारतमपि ३८७ धावनाङ्कैः बहिर्नीतम्।
के एल् राहुलाय शतकम्।
लोर्ड्स्> भारतेङ्गलण्टयोः तृतीयनिकषस्पर्धायाः प्रथमचरणस्य कौतुकोपेतसमाप्तिः। प्रथमं कन्दुकताडनं कृतवति इङ्लण्टदले ३८७ धावनाङ्कैः बहिर्नीते अनुताडनं कृतवान् भारतदलोSपि ३८७ धावनाङ्कैः बहिर्गतवान्।
भारतस्य ताडकेषु के एल् राहुलः शतकं प्राप्तवान्। १०० धावनाङ्कान् सः सम्पादयामास। तं विना ऋषभपन्तः [७४] रवीन्द्र जडेजः च ताडनक्रियायां शशुभतुः।
दिल्ल्यां बहुस्तरीयभवनं प्रभञ्ज्य षट् मरणानि।
नवदिल्ली> उत्तरपूर्वदिल्ल्यां चतुस्तरीयः भवनसमुच्चयः प्रभञ्ज्य षट् जनाः मृत्युमुपगताः। अष्ट जनाः आहताः। मृतेषु चत्वारः एकपरिवारीयाः भवन्ति।
वेल्कं जे जे क्षेत्रे शनिवासरे उषसि सप्तवादने आसीत् दुर्घटना। भवनस्य स्वामी, पत्नी, तयोः अपत्यद्वयं, इतरौ द्वौ वासकौ - एवं षट् जनाः मृत्युमुपगताः।
अहम्मदाबाद विमानदुर्घटना
प्राथमिकम् आवेदनपत्रं बहिरागतम्।
उड्डयनात्परं इन्धनवितरणपिञ्जः अपगतः।
नवदिल्ली> अतीते जूण् १२ तमे दिनाङ्के अहम्मदाबादे उड्डयनवेलायां भग्नस्य एयरिन्डिया बोयिंग् विमानस्य 'एञ्जिनं' [Engine] प्रति इन्धनदायकपिञ्जद्वयं प्रवर्तनरहितमासीत् [switched off] इति प्राथमिके अनुसन्धानावेदनपत्रे सूच्यते। उड्डयनानन्तरं कतिपयसेकन्ड् समयावधौ सेकन्ड्द्वयस्य आभ्यन्तरे पिञ्जद्वयमपि अपगतं, तत्तु विमानचालकयोर्मध्ये सम्भ्रमस्य कारणमभवदिति च आवेदनपत्रे सूचितम्। विमानस्य 'ब्लाक् बोक्स्' इत्यस्मिन् विद्यमानानां सूचकानां विशकलनानन्तरमेव इदं आवेदनं सज्जीकृतम्।
इगा स्विया टेक् विम्बल्डण् महिलाकिरीटं प्राप्तवती।
लण्टनं> महिलानां विम्बिल्डण् लानक्रीडाकिरीटं [Tennis] पोलण्ट् देशीया इगा स्विया टेक् प्राप्तवती। अन्तिमस्पर्धायां प्रतिद्वन्द्विनी अमेरिकायाः अमन्डा अनिसिमोवा इत्यस्यै एकामपि क्रीडामदत्वा आसीत् इगायाः अपूर्वविजयः - [६-०, ६-०]।
पुरुषाणां विम्बिल्डण् अन्तिमप्रतिद्वन्द्वः अद्य सम्पत्स्यते। फ्रञ्च् ओपण् अन्तिमस्पर्धायाः क्रीडकौ यानिक् सिन्नर् , कार्लोस् अल्करासः च प्रतिद्वन्दिनौ।
ब्रिटनस्य भूतपूर्वः प्रधानमन्त्री स्ववृत्तिं पुनःप्रविष्टः। ऋषि सुनकः।
लण्टनं> ब्रिटनस्य भूतपूर्वः प्रधानमन्त्री ऋषि सुनकः पूर्वं भूतां वित्तकोशवृत्तिं पुनःप्रविष्टवान्। यू एस् राष्ट्रम् आस्थानत्वेन वर्तमाने 'गोल्ड् मान् साक्स्' इति वित्तकोशालये [Bank] वरिष्ठोपदेशकरूपेण वृत्तिं पुनःप्राविशत्।
राजनैतिकसेवाम् आरब्धात् पूर्वम् ऋषि सुनकः यू एस् आस्थानत्वेन वर्तमाने 'गोल्ड् मान् साक्स्' इत्यत्र 'अनलिस्ट्' पदीयः सन् वृत्तिं कृतवानासीत्। निर्वाचने पराभूय वर्षैकानन्तरमेव सः वृत्तिं प्रत्यागच्छति।
ब्रिटनस्य नियमानुसारं प्रशासनकाराः स्थानत्यागानन्तरं वर्षद्वयाभ्यन्तरे वृत्तिप्रवेशमिच्छन्तः तर्हि तेभ्यः 'बिसिनस् अपोयिन्ट्मेन्ट्स्' [Business appointments] उपदेशकसमित्याः अनुज्ञा आवश्यकी। बह्व्यः व्यवस्थाः परिपाल्य एव सुनकाय अनुज्ञा दत्ता।
भारत-इङ्गलण्ट निकषस्पर्धा।
इङ्गलण्टः ३८७, भारतं १४५/३
लोर्ड्स्> भारत-इङ्गलण्टयोः तृतीयनिकषस्पर्धायाः द्वितीयदिने क्रीडासमाप्तौ इङ्गलण्टस्य ३८७ इति धावनाङ्कानां प्रत्युत्तररूपेण भारतेन ताडकत्रयस्य विनष्टे १४५ धावनाङ्कानि प्राप्तानि।
प्रथमं कन्दुकताडनं कृतवान् इङ्गलण्टदलः जो रूट् इत्यस्य शतकेन [१०४]जामि स्मित् [५१], ब्रैडन् कार्स् [५६], बेन् स्टोक्स् [४४] इत्येतेषां साह्येनैव ३८७ धावनाङ्कान् सम्प्राप। भारतस्य जस्प्रीत बुम्रः पञ्च ताडकान् बहिर्नीतवान्। मुहम्मद सिराजः, नितीष् कुमार रड्डी इत्येतौ एकैकेन द्वौ द्वारकौ इति सम्प्राप्तवन्तौ।
भारतस्य कन्दुकताडने यशस्वी जयस्वालः [१३], करुण नायर् [४०], नायकः शुभमान गिलः [१६] च बहिर्नीताः। के एल् राहुलः [५३*], ऋषभ पन्तः [१९*] च ताडकक्षेत्रमधितिष्ठतः।
वर्षाकालदुष्प्रभावः
राज्येभ्यः १०६६. ८ कोटि रूप्यकाणि अनुमोदितानि।
नवदिल्ली> प्रलयः भूस्खलनम् इत्यादिवर्षाकालदुष्प्रभावैः क्लेशमनुभूयमानानां राज्याणां कृते १०६६. ८ कोटि रूप्यकाणि केन्द्रप्रशासनेन अनुमोदितानि। असमः, मणिपुरं, मेघालयः, मिसोरामः, उत्तराखण्डः, केरलम् इत्येतेभ्यः राज्येभ्यः एव इदमार्थिकसाहाय्यम्।
असमाय ३७५. ६ कोटि, उत्तराखण्डाय ४५५. ६कोटि रूप्यकाणि अनुमोदितानि। इतरेभ्यः राज्येभ्यः एवंप्रकारेण - मणिपुरं २९. २कोटि, मेघालयः ३०. ४ कोटि, केरलं १५३. २ कोटि, मिसोरामः २२. ८कोटि रूप्यकाणि।
क्रिकटे भारतीयमहिलानाम् अपूर्वोपलब्धिः।
![]() |
टि - २० परम्परां प्राप्तवतः भारतीयमहिलादलस्य आह्लादः। |
इङ्लण्टं विरुध्य टि - २० परम्पराप्राप्तिः।
माञ्चेस्टर्> इङ्लण्टं विरुध्य टि - २० क्रिकट्परम्परायाः चतुर्थः प्रतिद्वन्द्वः यदा भारतेन विजितः तदा हर्मन् प्रीतकौर् इत्यस्याः नायिकात्वे भारतीयदलेन ऐतिहासिकविजयः स्वायत्तीकृतः। ऐदंप्राथम्येन इङ्लण्टं विरुध्य टि - २० परम्पराप्राप्तिः (३-१)। गतदिने सम्पन्ने चतुर्थे प्रतिद्वन्द्वे भारतस्य षट् द्वारकाणां विजयः।
पञ्चस्पर्धात्मिकायां परम्परायां तिस्रः स्पर्धाः भारतेन विजिताः, एका तु इङ्गलण्टेन च। पञ्चमी स्पर्धा रविवासरे सम्पत्स्यते।
नरेन्द्रमोदिना नमीबिया सन्द्रष्टा।
तत्रत्येन परमोन्नतनागरिकपुरस्कारेण अनुगृृहीतः।
![]() |
नमीबियायाः परमोच्चपुरस्कारः मोदिना स्वीक्रियते। |
विन्डूक्> पञ्चराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी गतदिने दक्षिणाफ्रिकीयराष्ट्रं, नमीबियानामकं सन्दृष्टवान्। भारतेन बहुगरिमया कल्प्यमानं विश्वस्थं सहयोगराष्ट्रं भवति नमीबिया इति मोदिवर्यः प्रस्तुतवान्।
राष्ट्रस्य परमोन्नतः नागरिकपुरस्कारः Order of the most Ancient welwitschia Mirabils' नामकः राष्ट्रपतिना नेतुम्बो नन्डि -एन्डै त्वाहुर् इत्यनेन मोदिने प्रदत्तः। नमीबियां सम्पश्यन् तृतीयः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी।
उष्णतरङ्गः
यूरोपे दशदिनाभ्यन्तरे २३०० मरणानि।
कोपन् हेगन्> जूलाय् द्वितीयदिनाङ्कं यावत्सु दशदिनेषु यूरोपभूखण्डे जाते अत्युष्णतरङ्गे २३०० जनाः मृत्युमुपगताः इति पर्यावरणशास्त्रज्ञाः। लण्टनस्थः 'इम्पीरियल् कलालयः', London school of hygiene and tropical medicine नामिका संस्था च युगपत् कृते अनुसन्धाने अस्त्ययमधिगमः।
१२ नगरेषु एव एतावन्ति मरणानि दुरापन्नानि। स्पेयिने तापमानं ४० डिग्री सेल्ष्यस् पर्यन्तं वर्धितम्। फ्रान्से अरण्याग्निरभवत्। बार्सिलोना, मड्रिड्, लण्टनं, मिलान् इत्यादिषु नगरेषु उष्णतरङ्गसमये सामान्यकालादधिकतया चतुर्डिग्री सेल्ष्यस् यावत् तापमानमुन्नीतम्। अतः प्रस्तुतेषु दशदिनेषु जातानि मरणानि विशकलनं कृत्वा उष्णतरङ्गमेव कारणमिति प्रत्यभिज्ञातम्।
वडोदरायां सेतुः विशीर्य ११ मरणानि।
वाहनानि नदीं अपतन्। विशीर्णः सेतुः, रक्षाप्रवर्तनं च।
वडोदरा> गुजरातराज्ये वडोदरायां मुजपुरमित्यत्र ४० वर्षाणां पुरातनत्वं कल्प्यमानः 'गम्भीरा सेतुः' विशीर्य महिसागरनदीं पपात। षट् वाहनानि नदीं पतित्वा वाहनान्तर्भूताः ११ जनाः मृताः। सेतोः मध्यभागस्थः १५ मीटर्मितं दीर्घोपेतः अंशः एव भग्नः।
मुजपुरं आनन्दजनपदस्थां 'गम्भीरां' च मिथः सम्बध्यमानस्य सेतोरस्य ९०० मीटर दीर्घः ४० मीटर मितम् उन्नतिश्चास्ति। गम्भीरासेतोः शक्तिक्षयमधिकृत्य पूर्वसूचनाः दत्ताः आसन्। अन्वेषणाय मुख्यमन्त्रिणा भूपेन्द्र पटेलेन षडङ्गोपेता समितिः नियुक्ता।
भारतेङ्गलण्टयोः तृतीयनिकषः श्वः।
लोर्ड्स्> भारतस्य इङ्गलण्टं विरुध्य तृतीया क्रिकट् निकषस्पर्धा गुरुवासरे लोर्ड्स् क्रीडाङ्कणे समारभ्यते। अत्र क्षिप्यक्षेत्रं [Pitch] 'पेस्' तथा 'बौण्स्' [bounce] इत्याख्ययोः अनुकूलं भवेदिति सूच्यते।
लोर्ड्स् क्रीडाङ्कणे आहत्य क्रीडितासु १९ क्रीडासु ३ विजयाः, १२ पराजयाः,४ समस्थितयः - एवमस्ति भारतस्य सूचिका। इदानीं पञ्चसंख्याके प्रतिद्वन्द्वे १ - १इति उभयदलमपि समस्थितिं पालयति।
भारतेन सह व्यापारसन्धिम् उपगच्छतीति ट्रम्पः।
न्यूयोर्क्> भारतेन सह प्रचाल्यमानं व्यापार-वाणिज्यकरविषयकसन्धिः विज्ञप्तिप्रायमस्तीति यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः अवदत्। गतदिने १४ राष्ट्राणां विभिन्नमानेन आयातकरं विधाय अनन्तरमासीत् ट्रम्पस्य प्रस्तावः।
बङ्गलादेशः, बोस्निया, कम्बोडिया, इन्डोनेष्या, जपानं, मलेष्या, दक्षिणाफ्रिका इत्यादिनां १४ राष्ट्राणामुपरि २५% तः ४०% पर्यन्तं प्रतिराष्ट्रं विभिन्नस्तरेषु अस्ति आयातकरविधानम्।
इस्रयेलेन सह युद्धे १०६० जनाः हताः इति इरानः।
दुबाय्> इस्रयेलेन सह प्रवृत्ते युद्धे १०६० इरानीयाः हता इति इरानसर्वकारेण निगदितम्। सर्वकारस्य वयोजनकल्याणविभागस्याधिकारी सयीद् ओहादी इत्यनेन इरानस्य राष्ट्रियदूरदर्शनप्रणालिकायै दत्ता अभिमुखे एवमुक्तम्। मृत्युसंख्या ११०० यावत् प्राप्स्येत इति च तेनोक्तम्।
जूण् १३ दिनाङ्के आरभ्य १२ दिनानि यावत् दीर्घिते युद्धे इराने जातस्य विनाशः कियदिति सर्वकारेण इतःपर्यन्तं न प्रकाशितमासीत्। सेनाविनाशः कियदिति एतावदपि न स्पष्टीकृतम्।
अन्ताराष्ट्रिय बहिराकाश-निलयात् नूतनानि चित्राणि प्रकाशितवन्तः।
आक्सियम्-चत्वारि (४) अभियानेन गताः शुभांशुशुक्ल प्रभृतयाः अन्तरिक्षयात्रिकाः अन्ताराष्ट्रिय बहिराकाशनिलये (ISS) स्थित्वा नूतनचित्राणि चित्राणि प्रकाशितवन्तः। पृथिव्याः बहिः दृश्येषु विभिन्नकालेषु गृहीतानि रूपाणि ते छायाग्राहकैः ग्रहीतवन्तः। एषः दलः अन्तरिक्षनिलयम् प्राप्य दश दिनानि अतीतानि। तत्रैव विभिन्नपरिक्षणानि, अवलोकनानि च सततं क्रियन्ते।
हिमाचलप्रदेशे अतिवृष्टिदुष्प्रभावेण ८२ मरणानि।
षिंला> हिमाचलप्रदेशे अतिवृष्टिरनुवर्तते। राज्ये बहुत्र मेघविस्फोटनानि आकस्मिकप्रलयाश्च दुरापन्नानि। जूणमासस्य विंशदिनाङ्कात् जूलाय् षष्ठदिनपर्यन्तं ८२ जनाः मृत्युमुपगताः इति सर्वकारेण निगदितम्।
१९ मेघविस्फोटनानि, २३ आकस्मिकप्रलयाश्च जातानीति सूच्यते। अतिवृष्टिदुष्प्रभावेण २७९ मार्गाः विनाशमुपगताः। जनजीवनं क्लेशपूर्णं दुस्सहं च वर्तते। बुधवासरं यावत् अतिजागरूकता निर्दिष्टा।
केरलस्य 'निधिः' परं झार्खण्डस्य निधिः!
केरले त्यक्ता झार्खण्डीयदम्पत्योः शिशुः तद्राज्ये एव वर्धिष्यते।निध्या सह के वि सिनि वर्यायाः नेतृत्वे शिशुक्षेमसमितिसंघः रेल् निस्थाने।
कोच्ची> षण्मासेभ्यः पूर्वं केरले झार्खण्डीययुवत्या जन्मलब्धः शिशुः पितृभ्यः परित्यक्तः सन्, केरलस्य शिशुसंरक्षणसमित्या [CWC - Child Welfare Committee] परिपालितः, इदानीं झार्खण्डस्य शिशुसंरक्षणसमितेः परिपालनाय समर्पितः अस्ति। यदि झार्खण्डीयदम्पती 'निधिः' इति कृतनामधेयं शिशुं परिपालयितुं सन्नद्धौ भविष्यतः तर्हि निर्णयः झार्खण्डीयशिशुसंरक्षणसमित्याः अधिकाराधीनः भवति।
गते जनुवरिमासे केरले वृत्यर्थमागतवती झार्खण्डीया युवती एरणाकुलं सर्वकारीयातुरालये बालिकाशिशवे जन्म अदात्। शिशोः स्वास्थ्यस्थितौ तीव्रे जाते परिचरणं निजीयातुराये विहिता। किन्तु दम्पती शिशुं परित्यज्य स्वराज्यं गतवन्तौ। आरक्षकैः दम्पतीः विरुध्य प्रकरणं पञ्जीकृतम्। शिशोः संरक्षण परिचर्यादिकं केरलस्य CWC संस्थया स्वीकृतम्। तं बालिकापोतं निधिरिति नाम कृत्वा निधिवत् समवर्धत च।
एप्रिल् मासे पितरौ झार्खण्डतः केरलं प्रत्यागत्य तौ निर्धनौ इत्यतः शिशुं परिपालयितुमशक्यौ , अत एव त्यक्तवन्तौ इति उक्तवन्तौ। अनन्तरं आरक्षकैः CWC अधिकृतैः च विधत्ते अन्वेषणे प्रमाणसमाहरणे च तयोरुक्तिः सत्यमित्यवबुध्य तौ विमोचितौ।
ततः गतमासे शिशोः उपसंक्रमणमधिकृत्य झार्खण्डीय CWC संस्थां प्रति चर्चा संवृत्ता। शिशोः अभिवर्धनं तस्याः राज्ये, स्वकीयभाषायां संस्कृत्यां स्वजनानां परिरक्षणे एव भवितव्यमिति निर्णयस्याधारे झार्खण्डीय CWC संस्थायै उपसंक्रमितुं निर्णयोSभवत्।
तदनुसृत्य सोमवासरे प्रभाते एरणाकुलं रेल् निस्थानात् जनपदीय शिशुक्षेमसमित्यधिकारिणी के एस् सिनि इत्यस्याः नेतृत्वे कश्चन संघः बालनिध्या सह प्रस्थितः। षण्मासं यावत् परिचर्यायाः अन्ते पूर्णारोग्यवती भवति निधिः। मृत्युवक्त्रात् केरलेन परिरक्षिता निधिः झार्खण्डस्य निधिरूपेण अभिवर्धतामिति प्रत्याशा।
महाराष्ट्रे गुज्राते च कठिना वृष्टिः।
मुम्बई> महाराष्ट्र गुजरातयोः समुद्रोपान्तप्रदेशेषु कठिना वृृष्टिः आरब्धा। तटप्रदेशेषु जागरूकता विज्ञापिता। पूर्णा कावेरी नद्यौ जलाप्लाविते प्रवहत्यौ। जनैः जाग्रत्ता पालनीया इति तत्तत्प्रशसनेन विज्ञापितम्।
दिल्ल्यामपि दिनद्वयं यावत् महती वृष्टिरस्ति। व्योम-स्थलयातायातसुविधा क्लेशतरा वर्तते।
माषिचीकाष्ठैः प्रतिकृतिं जीवयन् उत्तराखण्डस्य लालः पवनसुन्दरियाल:
2021 वर्षत: 2022 वर्षपर्यन्तं निरन्तरं द्विःवारं "इण्डिया बुक ओफ् रेकोर्ड् इत्यतु नामाङ्कनं प्राप्तवान्
वार्ताहर:- कुलदीपमैन्दोला। उत्तराखण्डं।
उत्तराखण्डस्य पुण्यभूमौ समये समये अद्भुतानि व्यक्तित्वानि जातानि यैः मानवजातिः विस्मयचकितं भूत्वा करद्वयं मुखे स्थापयति। तादृश: एव कश्चन् प्रतिभावान् पुरुषः अद्य अस्माकं समक्षं परिचयाय उपस्थाप्यते। यः माषिचीकाष्ठैः निर्मिताभिः प्रतिकृतिभिः सर्वेषां मनांसि मोहयति। एषः प्रतिभावान् पुरुषः पंकजसुन्दरियाल: इति प्रसिद्धः अस्ति।
पंकजसुन्दरियालमहोदयस्य जन्म
द्वितीये निकषप्रतिद्वन्द्वे भारतस्य ऐतिहासिकविजयः।
+ 'एड्ज् बास्टणे' भारतस्य प्रथमविजयः।
+शुभ मान गिलस्य नायकत्वे प्रथमविजयः।
+ आकाशदीपस्य १० द्वारकाणामुपलब्धिः।
बर्मिङ्हामः> 'एड्ज् बास्टण्' क्रीडाङ्कणस्य आकाशम् अस्मिन् वारे भारताय प्रकाशितम्। अत्र आहत्य क्रीडितेषु अष्टसु क्रीडासु एकस्यामपि विजयमधुरं भारतेन न सम्प्राप्तमासीत्। सप्तसु पराजयः, एकस्मिन् समस्थितिः इत्यपमानात् स्वगणस्य साहाय्येन शुभ मान गिलः भारतम् अत्युज्वलविजयेन अभिमानतीरमानयत्।
भारत-इङ्लण्टयोः द्वितीयनिकषस्पर्धायां भारतस्य विजयः ३३६ धावनाङ्कानामसीत्। द्वितीयचरणे ९९ धावनाङ्कान् प्रदाय ६ कन्दुकताडकान् क्रीडाक्षेत्रात् बहिः नीयमानः गेन्दकः [Bowler] आकाश दीपः एव भारतस्य विजयदीपं प्रज्वालितवान्। प्रथमचरणे सः चत्वारि द्वारकाणि सम्पादितवान्। प्रथमचरणे शतकद्वयं द्वितीयचरणे शतकं च सम्प्राप्तवान् दलनायकः शुभमानगिलः एव श्रेष्ठक्रीडकः।
६०८ धावनाङ्काः विजयलक्ष्यं प्रापणीयः इङ्लण्टदलः २७१ धावनाङ्कान् सम्पाद्य बहिर्गताः। पञ्चसंख्याकनिकषपरम्परायाम् इदानीं भारतं १ - १ इति समस्थितिं पर्यपालयत्। तृतीयनिकषः जूलाय् १० दिनाङ्कतः लोर्ड् क्रीडाङ्कणे सम्पत्स्यते।
अमेरिकायाम् इलोण मस्कस्य नेतृत्वे तृतीयं राजनैतिकदलम् -
'दि अमेरिका पार्टी'।
![]() |
मस्कः ट्रम्पश्च। |
न्यूयोर्क्> अमेरिकायाः जनाधिपत्यव्यवस्थायां द्विपक्षसम्प्रदायस्य दमनमुद्घोषयन् नूतनं राजनैतिकदलं रूपीकुर्वन् टेस्ला-स्पेय्स् एक्स् इत्यस्य अधिपः, यू एस् राष्ट्रस्य कार्यक्षमताविभागस्य (डोज्) भूतपूर्वाधिकारी, उद्योगप्रमुखश्च इलोण मस्कः। 'दि अमेरिका पार्टी' इति नाम्ना नूतनदलं रूपीकृतमिति शनिवासरे 'एक्स्' समाजमाध्यमेन सः उद्घोषितवान्।
अमेरिकीयजनसमुदायाय तेषां स्वातन्त्र्यं प्रतिदातुमेव नूतनदलस्य रूपीकरणमिति सः एक्स्' मध्ये लिखितवान्। यदि यू एन् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य 'Big beautiful' नामकम् आयव्ययपत्रविधेयकं सभायाम् अनुमोदयिष्येत् तर्हि आत्मना स्वकीयं नूतनं राजनैतिकदलं रूपीकरिष्यते इति मस्केन विज्ञप्तमासीत्। पूर्वम् आत्ममित्रे मस्कः ट्रम्पश्च परं बद्धवैरिणौ जातौ।
उपराष्ट्रपतिः केरलं सम्प्राप्तवान्।
ह्यः कोच्ची बोल्गाट्टीस्थे आडम्बरभवने उषितवान् उपराष्ट्रपतिः अद्य प्रभाते गुरुवायूर् श्रीकृष्णमन्दिरे पत्नीसमेतः सन् दर्शनं विधास्यति। तदनन्दरं कोच्चीं प्रतिनिवृत्तमाणः सः १०. ५५ वादने 'नुवाल्स्' इति National University of Advanced Legal Studies संस्थायां छात्रैः शिक्षकैश्च संवादं करिष्यति। मध्याह्नानन्तरं दिल्लीं प्रतिगमिष्यति च।
उत्तरभारते अतिवृष्टिः।
हिमाचले ७५ मरणानि; ओडीशायां १२ ग्रामेषु जलोपप्लवः।उत्तरभारते विभिन्नस्थानेषु अतिवृष्टिदुष्प्रभावस्य दृश्यम्।
दिल्ली> उत्तरभारते व्यापकतया अतिवृष्टिः। बहुत्र महान् विनाशः जातः। नवमदिनाङ्कपर्यन्तम् अतिवृष्टिः भविष्यति।
हिमाचलप्रदेशे अतिवृष्टिदुष्प्रभावेण ७५ जनाः मृत्युमुपगताः। विंशत्यधिकाः जनाः अप्रत्यक्षाः अभवन्। हिमाचले पञ्चाबे च रक्तजाग्रत्ता उद्घोषिता।
ओडीशायां द्वित्राणि दिनानि यावत् अनुवर्तमानया तीव्रवृष्ट्या १० ग्रामाः जलनिमग्नाः जाताः। मध्यप्रदेश्, दिल्ली, हरियानम् इत्यादिषु राज्येषु महती वृष्टिरारब्धा। २५० अधिके मार्गाः जलनिमग्नाः अभवन्। यात्रासुविधा बहुत्र निश्चला जाता।
नरेन्द्रमोदी अर्जन्टीनां प्राप्तवान्।
ब्यूणस् ऐरिस्> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे सायं [प्रादेशिकसमयः] अर्जन्टीनां सम्प्राप्तवान्। पञ्चराष्ट्रपर्यटनस्य अंशतया राजनगरीं ब्यूणस् ऐरिस् प्राप्तवन्तं मोदिनं कलाकार्यक्रमैः तत्रत्यः भारतीयसमाजः स्वीकृतवान्। अर्जन्टीनायाः राष्ट्रपतिः हावियर् मिले इत्यनेन सह तस्य मेलनं सम्पत्स्यते।
गासा शान्तिमधिगच्छति!
गासा सिटी> गासायां ६० दिनात्मकस्य भुषुण्डिप्रयोगविराम इति यू एस् राष्ट्रस्य निर्देशं प्रति हमासस्य अनुकूलं प्रतिस्पन्दनम्। क्रियात्मकं प्रतिवचनं मध्यस्थेभ्यः समर्पितमिति हमासेन निगदितम्। युद्धविरामं प्रवृत्तिपथमानेतुं प्रक्रमानधिकृत्य चर्चाः अचिरेण भविष्यन्तीति च प्रोक्तम्।
युद्धस्थगनसन्धेः प्राग्रूपः इस्रयेलेन अङ्गीकृतः आसीत्। आगामि सप्ताहे युद्धविरामः भविष्यतीति अमेरिकाराष्ट्रपतिः डोनाल्ड ट्रम्पश्च प्रोक्तवान्।
दलैलामावर्यस्य नवतिः समाचरिता।
धर्मशाला> टिबट् राष्ट्रस्य आत्मीयाचार्यस्य दलैलामावर्यस्य नवतितमं जन्मदिनं रविवासरे हिमाचलप्रदेशस्थे धर्मशाला इत्यत्र समाचरितम्।
शनिवासरे दलैलामावर्यस्य दीर्घायुषे समायोजिते प्रार्थनासमारोहे सान्निध्यं कृत्वा परं त्रिंशत्-चत्वारिंशत् वर्षाणि यावत् आत्मनः आयुः प्रतीक्षते इति तेन प्रोक्तम्। अतः गुरुपरम्परायाः अनन्तरगामिनम् अधिकृत्य चर्चायाः विरामः अभवत्।
तरुणानाम् एकदिनक्रिकट् परम्परा भारतेन स्वायत्तीकृता। वैभव सूर्यवंशी।
लण्टनं> इङ्गलाण्टं विरुध्य ऊनैकोनविंशतिवयस्कानां [Under 19] एकदिनक्रिकट् परम्परायाः पञ्चसु प्रतिद्वन्द्वेषु संख्यात्रयं विजित्य भारतेन परम्परा स्वायत्तीकृता। गतदिने सम्पन्नः चतुर्थः प्रतिद्वन्द्वः भारतेन विजितः। इङ्गलाण्टं पञ्चपञ्चाशत् धावनाङ्कैः भारतं पराजयत।
वैभव सूर्यवंशेः उज्वलशतकं [७८ कन्दुकैः १४३ धावनाङ्काः], विहान मल्होत्रस्य शतकं च [१२१ कन्दुकैः १२९ धावनाङ्काः] भारतविजयस्य आधारशिलाद्वयमभवत्। प्रथमं कन्दुकताडनं कृतवता भारतेन नव ताडकानां विनष्टे ३६३ धावनाङ्काः प्राप्ताः। इङ्गलाण्टे तु ३०८ धावनाङ्केषु सम्पादितेषु सर्वे बहिर्नीताः।
अमेरिकादेशस्य टेक्सास्-राज्ये आकस्मिक-जलप्रलयः
चतुर्विंशतिः जनाः मृताः, त्रयोविंशतिः बालिकाः अप्रत्यक्षाः।
अमेरिकादेशस्य टेक्सास्-राज्ये दुरापन्नेन तीव्रेण वर्षेण सह आकस्मिकजलप्रलयः अभवत्। चतुर्विंशतिः जनाः मृत्युमुपगताः। त्रयोविंशतिः बालिकाः अप्रत्यक्षाः च।
ओल्- गेल्स् क्रिस्ट्यन् समर्- क्याम्प्" नाम्नि आयोज्यमानायाः एकस्याः बालिकामण्डल्याः त्रयोविंशतिः सदस्याः अप्रत्यक्षाः अभवन्। एतासां घटनानां कारणात् टेक्सास्-राज्ये आयोज्यमानाः स्वतंत्रतादिनस्य महोत्सवाः स्थगिताः। केर्-कौण्टी इत्यस्मिन्नेव प्रान्ते शुक्रवासरे सायं अति वृष्टिः आसीत्। तेनैव कारणेन ग्वाडलूप्-नद्याः तीरे आकस्मिकः जलप्रलयः अभवत्। विद्युत्स्फु लिङ्गेन सह जलप्रवाहः जातः, तथा च तस्याः नद्याः कूलप्रदेशे एव आयोजितः आसीत् ओल्- गेल्स् क्रिस्ट्यन् समर्- क्याम्प्" इति ज्ञायते।
टेक्सास्-राज्यस्य राज्यपालः ग्रेग् अबोट् इत्यनेन प्रतिपादितं यत् रक्षा-कार्यम् अत्यन्तं तीव्रगत्या प्रचलति। दुर्घटनायाः सन्दर्भे सर्वकारेण धनसाहायः घोषितः। राष्ट्रपति डोनाल्ड् ट्रम्पः घटनेऽयं भयकरी इति उक्तवान् सः टेक्सास्-राज्यस्य राज्यपालेन सह सततम् सम्पर्कं कुर्वन् अस्ति इति च उक्तवान्।
इङ्गलण्ट-भारतनिकषस्पर्धा
क्रीडासूत्रं भारतस्य हस्ते। प्रथमचरणे भारतस्य १८० धावनाङ्कानामाधिपत्यम्। शतकयुगलं प्राप्तवान् शुभमान गिलः।
बर्बिङामः> भारतेङ्गलण्टयोः द्वितीयायाः क्रिकट् निकषस्पर्धायाः प्रथमचरणे भारतस्य आधिपत्यम्। इङ्गलण्टस्य कन्दुकताडनं ४०७ धावनाङ्कप्राप्तौ समाप्तम्। पूर्वं भारतेन शुभमान् गिलस्य शतकयुगलस्य [२६९] प्रभावेण ५८७ धावनाङ्कानि सम्प्राप्तानि। अतः १८० धावनाङ्कानामाधिपत्यं भारतेन प्राप्तम्।
द्वितीयचरणे कन्दुकताडनम् आरब्धवता भारतदलेन, तृतीयदिनक्रीडायां समाप्तायां ताडकैकस्य विनष्टे ६४ धावनाङ्कानि प्राप्तानि। इदानीं भारतस्य २४४ धावनाङ्कानाम् आधिपत्यमस्ति।
वान्हाय् पण्यमहानौकायां पुनरपि अग्निकाण्डः।
कोच्ची> आरबसमुद्रे अग्निबाधया विशीर्णप्राया वान्हाय् पण्यमहानौका पुनरपि अग्निग्रस्ता जाता। तत्र अग्निनिर्व्यापनाय महान्तमुद्यमम् अनुवर्तमानमानमासीत्। अग्निं पूर्णतया निर्व्याप्य महानौकां श्रीलङ्कायां हम्पन् टोटा नौकाश्रयं नेतुं परिश्रमः सन्दिग्धतां प्राप।
इतः पर्यन्तं १२,००० लिटर् मितं रासमिश्रितं अग्निनिर्व्यापनाय उपयुक्तम्। ३००० लिटर् मितं रासमिश्रितं अवशिष्यते च।
नरेन्द्रमोदी 'ट्रिनिडाड् आन्ड् टोबैगो' राष्ट्रे।
पोर्ट् आफ् स्पेयिन्> विदेशराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी गतदिने 'ट्रिनिडाड् आन्ड् टोबैगो' नामके करीबियाद्वीपराष्ट्रं सम्प्राप्तवान्। ट्रिनिडाडस्य प्रधानमन्त्री कमला पेर्साद् इत्यस्याः नेतृत्वे उज्वलं स्वीकरणं मोदिने दत्तम्।
ततःपरं पोर्ट् आफ् स्पेयिन् इति राजधानीनगरे नरेन्द्रमोदी भारतीयजनसमाजम् अभिसम्बुध्यते स्म। तद्राष्टस्य प्रधानमन्त्रिणः कमला पेर्सादस्य पूर्विकाः भारते बिहारस्थाः आसन् इत्यतः बिहारस्य राजनैतिक-सांस्कृतिकविषयेषु औन्नत्यं मोदिना प्रशंसितम्।
गर्भस्थशिशोः मस्तिष्कपर्यन्तं सूक्ष्मप्लास्टिकद्रव्याणि नवीनम् अनुसन्धान फलम् ।
गर्भिण्याः शरीरात् गर्भस्थशिशुं प्रति सूक्ष्मप्लास्टिकद्रव्याणि सञ्चरन्ति, तानि तस्य मस्तिष्कं, हृदयम्, श्वासकोशम् इत्यादीनि महत्त्वपूर्णाङ्गान् अपि बाधन्ते इति अध्ययनस्य निष्कर्षः।
न्यू-जर्सी-प्रदेशे रट्गर्स्-नाम्नी अमेरिकायाः विश्वविद्यालये सम्पन्ने अनुसन्धाने एव एषा विस्मयजनका
भीतिप्रदा च सूचना लब्धा। माइक्रोप्लास्टिक् इति सूक्ष्मप्लास्टिकशेषद्रव्याणि मातुः गर्भाशयं, प्लासेण्टम् च अतिक्रम्य, गर्भस्थशिशोः मस्तिष्कं, हृदयम्, यकृत्, वृक्का, श्वासकशः इत्यादिषु भागेषु व्याप्नुवन्ति इति प्रतिपादितम्।
विशेषतया पोलिमाइड्-१२ (PA-12) इति सूक्ष्मप्लास्टिकद्रव्येण परेक्षणे संपर्कं दत्तः गर्भिण्यः मूषिकायाः गर्भस्थशिशोः समस्ताङ्गेषु उक्तद्रव्यस्य उपस्थितिः दृष्टा।
एते माइक्रोप्लास्टिकद्रव्याणि पंचमिलिमिटरतः अपि लघूनि सन्ति। वायौ, जले, आहारद्रव्येषु च तेषां उपस्थितिः सम्भविता अस्ति। श्वसनमार्गेण, पाचनमार्गेण च शरीरं प्रविशन्ति। ततः कोशझिल्लिकाः अतिक्रम्य रक्तधारया सह गत्वा अत्यावश्यकानि आन्तराङ्गानि बाधयन्ति।
विशेषतः बालानां शरीरविकासकालदशायां एते द्रव्याणि कोशविकासं, अंगक्रियाम्, सम्यग्वृद्धिं च प्रतिकूलतया प्रभावितुम् अर्हन्ति।
निष्कर्षः — प्लास्टिकस्य अतीव सूक्ष्मद्रव्याणां शरीरे प्रवेशः बालशरीरविकासाय घातकः अस्ति। अतः लोकः स्वस्य पर्यावरणे सूक्ष्मप्लास्टिकद्रव्यवर्जनाय सजगः स्यात्।
यदि त्वम् इच्छसि, तर्हि अयं लेखः लघुपत्रिकायाम् (bulletin), वाचिकप्रस्तावनायाम् वा उपयोगाय अनुकूलतया परिवर्तयitum शक्यते।
केरले वैद्यककलालयस्य भवनं भग्नं - एका महिला मृता।
![]() |
दुर्घटनायां मृतीभूता बिन्दू, दुर्घटनाधीनं भवनं च। |
कोट्टयं> केरले कोट्टयं नगरे विद्यमानस्य वैद्यककलालयस्य [Medical College] ६८ वर्षाणां पुरातनत्वं कल्प्यमानस्य भवनसमुच्चयस्य कञ्चन अंशं भग्नीभूय एका महिला मृता। वैद्यककलालये चिकित्सार्थं प्रविष्टमानायाः युवत्याः माता तलयोलप्परम्प निवासिनी बिन्दू [५४] अस्ति एषा दुर्योगाधीना।
ह्यः प्रभाते १०. ५० वादने आसीदियं दुर्घटना। प्रस्तुतभवनम् उपयोगरहितमासीत् इति कथ्यतेSपि अत्रत्याः शौचालयाः रोगिभिः तेषां परिचारकैश्च उपयुज्यमानाः आसन्। भवने भग्ने बिन्दू तत्रत्ये शौचालये लग्ना अभवत्। समीपस्थाः द्वित्राः अल्पव्रणिताः सन्तः रक्षिताः।
दुर्घटनावृत्तान्तं ज्ञात्वा स्वास्थ्यमन्त्री वीणा जोर्जः, सांस्कृतिकमन्त्री वि एन् वासवश्च दुर्घटनास्थानं प्राप्तवन्तौ। किन्तु उपयोगरहितं भवनमित्यतः जनापायः न घटितः इति आतुरालयाधिकारिणां सूचनामवलम्ब्य मन्त्रिभ्यां प्रस्तुतं च। किन्तु स्वस्य माता तत्र शौचार्थं गतवतीति आतुरालयं प्रविष्टायाः नवमीत्यस्याः युवत्याः परिदेवने श्रुते रक्षाप्रवर्तनं समारब्धम्। तावता होराद्वयस्य विलम्बः जातः आसीत्। नवम्याः मातुः मृतदेह एव समधिगतः।
नरेन्द्रमोदिने घानाराष्ट्रस्य परमोच्चबहुमतिः। घानाराष्ट्रस्य परमोन्नतपुरस्कारः मोदिवर्याय दीयते।
अक्र> पश्चिमाफ्रिक्कीयराष्ट्रस्य घानस्य परमोच्चबहुमतिः 'The Officer of the Order of the Star of Ghana' नामिका भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने सम्मानिता। बुधवासरे सम्पन्ने कार्यक्रमे घानस्य राष्ट्रपतिः जोण् द्रमाणि महामः पुरस्कारं समदात्।
आगोलस्तरे नरेन्द्रमोदिनः प्रभावं, विशिष्टां राष्ट्रतन्त्रज्ञतां च पुरस्कृत्य एवायं पुरस्कार इति राष्ट्रपतिना उक्तम्। भारतस्य १४० कोटिमितेभ्यः जनेभ्यः पुरस्कारः स्वीक्रियते इति मोदिवर्यः अवोचत्।
प्रधानमन्त्री घानाराष्ट्रं सम्प्राप्तवान्।
ब्रिक्स् उच्चशिखरे भागं करिष्यति।
अक्र> दिनद्वयात्मकसन्दर्शनाय भारत प्रधानमन्त्री नरेन्द्रमोदी घाना इति आफ्रिकाराष्ट्रं सम्प्राप्तवान्। घानाराष्ट्रपतेः जोण् द्रमनि महाम इत्यस्य आमन्त्रणं स्वीकृत्य आसीत् मोदिवर्यस्य घानासन्दर्शनम्।
उभयोरपि राष्ट्रयोः सौहार्दं सम्पुष्टीकर्तुं चर्चाः भविष्यन्ति। जूलाय् ६, ७ दिनीङ्कयोः ब्रसीलस्थे रियो डि जनैरो इत्यत्र सम्पद्यमाने ब्रिक्स् राष्ट्राणाम् उच्चशिखरसम्मेलने प्रधानमन्त्री भागं वक्ष्यति।
आत्मनः अनन्तरगामी भविष्यतीति दलैलामः।
धर्मशाला (हिमाचलप्रदेशः) > विश्वासिनां दीर्घकालीयाशङ्कां परिहृत्य, आत्मनः अनन्तरगामी भविष्यतीति टिबटस्य आत्मीयाचार्येण दलैलामवर्येण उद्घोषितम्। दलैलामा गुरुपरम्परा अनुवर्तिष्यते, २०११ तमे वर्षे धर्मशालायां रूपीकृतः 'गाडन् फ्रोद्राङ्' नामकः प्रवासि सर्वकारः एव दलैलामानिर्वाचनस्य अधिकारीति गतदिने दलैलामावर्येण निगदितम्। दलैलामानिर्वाचने व्यवधातुं चीनप्रशासनस्य उद्यमस्य प्रत्युत्तररूपेणैव तेन एतत् सबलं स्पष्टीकृतम्।
१४ तम दलैलामस्य ९०तमं जन्मदिनं आगामि रविवासरे अस्ति। तद्दिने नूतनः दलैलामः उद्घोषयिष्यते इति प्रतीक्षा वर्तते।
शुभांशुः मित्रैः सह 'मैक्रो आल्गे' परीक्षणेषु व्यापृतः वर्तते।
बङ्गलुरु> अन्ताराष्ट्र बहिराकाशनिलये शुभांशु शुक्लः सहप्रवर्तकाश्च अतिमुख्यानि परीक्षणानि आरभन्त। इस्रो संस्थया नियुक्तानि परीक्षणानि च शुभांशोः कार्यभारे अन्तर्भवन्ति।
मैक्रो आल्गे नामकान् सूक्ष्मजीविनाम् अधिकृत्य परीक्षणानि शुभांशुना आरब्धानि। दीर्घकालं यावत् बहिराकाशदौत्यार्थं गच्छद्भ्यः सुस्थिरं पोषकसमृद्धं च भोज्यं परिकल्पयितुमस्ति मैक्रो आल्गे परीक्षणानि।
जलभल्लूकः [Water beer] नामकः जलसूक्षजीवी मैक्रो ग्राविटी इत्यवस्थायां कथं प्रतिस्पन्दते, सयनोबाक्टीरिया इति प्रकाशसंश्लेषणशेषीयुक्तस्य जलजीविनः प्रवर्तनं, षट्वर्गीयाणां बीजानां वृद्धिः, तेषां पत्राणां विकासः, बीजानाम् अङ्कुरणम् इत्यादयः इस्रो संस्थायैः शुभांशोः परीक्षणानि सन्ति।
तेलङ्काने औषधनिर्माणशालायां स्फोटनम्
३६ मरणानि।
![]() |
औषधनिर्माण शालायां दुरापन्ने स्फोटने विधत्तं रक्षाप्रवर्तनम्। |
हैदराबादः> तेलङ्कानराज्ये पषामैलारम् इत्यत्र औषधनिर्माणशालायां सोमवासरे दुरापन्ने स्फोटने मृतानां संख्या ३६ अभवत्। मरणसंख्या वर्धिष्यते इति सूच्यते।
' सिगाच्ची फार्मा कम्पनी' संस्थायाः रियाक्टर् मध्ये आसीत् स्फोटनम्। मृतेषु अधिके ओडीषा- पश्चिमवंग- बिहारराज्यीयाः भवन्ति। मृतानां प्रत्यभिज्ञानं दुष्करमित्यतः डि एन् ए [D N A] परिशोधनेन प्रत्यभिज्ञातुं प्रक्रमाः आरब्धाः। अद्यावधि नव मृतशरीराणि प्रत्यभिज्ञातानि।
दक्षिणभारतस्फोटनानि
द्वौ निष्ठुरभीकरवादिनौ निगृहीतौ।
चेन्नई> केरलं, तमिलनाड् इत्यादिषु दक्षिणभारतराज्येषु विधत्तानां स्फोटनानां सूत्रधारौ, विंशतिवर्षाधिकं यावत् निलीय वर्तमानौ, द्वौ निष्ठुरौ भीकरौ तमिलनाड् आरक्षकसेनायाः भीकरविरुद्धसेनया 'क्यू ब्राञ्च्' इत्यनया आन्ध्रप्रदेशतः निगृहीतौ।
तमिलनाडस्थे नागूर् प्रदेशीयः अबूबकर् सिद्दिखः, तिरुनेलवेली प्रदेशीयः मुहम्मद अलिः इत्येतौ केरलं, तमिलनाड् राज्ययोः आरक्षकस्थानानि, भूतपूर्वः उपप्रधानमन्त्री एल् के अड्वाणिवर्येण विधत्ता रथयात्रा, चेन्नैयां हिन्दुसभाकार्यालयम् इत्यादीनि लक्ष्यीकृत्य जातानां स्फोटनानां सूत्रधारौ आस्तामेतौ।
रवाडा चन्द्रशेखरः केरलस्य आरक्षकसेनायाः सर्वाधिकारी।
अनन्तपुरी> डि जि पि पदीयः रवाडा आसाद् चन्द्रशेखरः केरलराज्यस्य आरक्षकसेनायाः सर्वाधिकारिरूपेण नियुक्तः। केन्द्रप्रशासने सेवामनुष्ठीयमानः सः ततः विमोचितः सन् अद्य केरले कार्यभारं स्वीकरिष्यति।
आन्ध्रप्रदेशीयः रवाडा इदानीं सि ऐ बी संस्थायां सविशेष निदेशकरूपेण [Special Director] सेवां कुर्वन्नस्ति। वर्तमानीनः डि जि पि पदीयः डो षेय्ख् दर्वेश साहिबः सेवानिवृत्तः इत्यनेनैव रवाडा चन्द्रशेखरस्य स्थानलब्धिः।
वर्धापितं रेल् यानयात्रावेतनम् अद्य आरभ्य।
चेन्नई> रेल् यानयात्रायाः वर्धापितं वेतनमानम् अद्य प्रवृत्तिपथमायाति इति रेल् मन्त्रालयेन निगदितम्। पञ्चवर्षेभ्यः परमेव यात्रामूल्यं वर्धते। मेयिल्, एक्स्प्रेस् वातानुकूलरहितचीटिकानां एककिलोमीटर् दूराय पैसैकस्य वर्धनमस्ति। वातानुकूलितचीटिकाभ्यः पैसाद्वयं किलोमीटर्दूराय वर्धते। सामान्यस्तररेल् यानेषु प्रथम ५०० कि मी दूराय वर्धनं नास्ति। ततःपरं किलोमीटर्दूराय पैसार्धस्य वर्धनमस्ति।
भारत-इङ्गलाण्ट क्रिकट्
द्वितीया निकषस्पर्धा श्वः आरभ्य।भारतदलम्।
बिर्मिङामः> भारत-इङ्गलाण्टयोर्मध्ये द्वितीया क्रिकट् निकषस्पर्धा बुधवासरे 'एड्ज् बास्टण्' क्रीडाङ्कणे आरप्स्यते। प्रथमस्पर्धायां भारतं पराजितमासीत्।
यदि 'एड्ज् बास्टण्' क्रीडाङ्कणे भारतं विजयते तर्हि तत् चरित्रपरमिति मन्यते। यतः तस्मिन् क्रीडाङ्कणे भारतम् इतःपर्यन्तं न विजयीभूतम्। तत्र क्रीडितेषु अष्ट क्रीडासु सप्तसु पराजयमन्वभवत्। एकस्मिन् प्रतिद्वन्द्वे समस्थितिरासीत्। अतः एतां स्पर्धां भारतीयाः क्रिकट्प्रेमिणः आकाङ्क्षापूर्वं प्रतीक्षन्ते।
जनसंख्यागणना - गृहगणना एप्रिल् मासे आरप्स्यते।
नवदिल्ली> भारतीयजनसंख्यागणनाप्रवर्तनस्य प्रथमसोपानरूपेण गृहाणां सम्पत्तीनां च गणना एप्रिल् मासस्य प्रथमदिनाङ्कतः आरप्स्यते इति भारतस्य रजिस्ट्रार् जनरल् पदीयः गणनायोजनायाः आयोजिता च मृत्युञ्जय कुमार नारायणः निगदितवान्।
जनसंख्यगणनाप्रवृत्तेः सोपानद्वयमस्ति। प्रथमसोपाने वासगृहाणां संख्या, प्रत्येकं गृहस्य अवस्थाः, धनविभवाः, सुविधाश्च समाकरिष्यन्ति। द्वितीयसोपाने प्रतिगृहं प्राप्य वैयक्तिक सामाजिक सांस्कृतिक आर्थिक शैक्षितस्तराणां वृत्तान्ताः सङ्गृहीष्यन्ते। अनेन सह जातिवृत्तान्तमपि समाहरिष्यन्ति।