OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, June 18, 2025

 इरान-इस्रयेलयोः युद्धे ट्रम्पस्य हस्तक्षेपः। 

इरानेन "निरुपाधिकम् आत्मसमर्पणं" कार्यम्।

टोरन्टो> पञ्चदिनात्मकेन अनुवर्तमाने इरान-इस्रयेलयोः युद्धे अमेरिकायाः राष्ट्रपतेः डोनाल्ड ट्रम्पस्य हस्तक्षेपः। इरान-इस्रयेलसंघर्षाय यथातथं परिसमाप्तिः आवश्यकीति प्रस्तुतवान् ट्रम्पः कतिपयहोराणामनन्तरं इरानेन "निरुपाधिकम् आत्मसमर्पणं" क्रियतामिति ट्रम्पः स्वस्य 'ट्रूत् सोष्यल्' नामके सामाजिकमाध्यमे सूचितवान्। 

  इरानस्य परमोन्नतनेता अयत्तोल्ला खोमीनि वर्यः कुत्र निलीयते इति जानाति; तस्य हत्या सुकरा अपि इदानीं तदर्थं न प्रयतते इति च ट्रम्पेन उक्तम्।

 इरानतः भारतीयाः अपगन्तव्याः इति भारतस्यादेशः।

   इरान-इस्रयेलयोः युद्धे तीव्रे  इरानस्य राजधनीतः टेह्रानतः सर्वे भारतीयाः अपसरणीयाः इति भारतप्रशासनेन आदिष्टम्। इस्रयेलः टेहराने व्योमाक्रमणम् आरब्धम्। 

  ११० भारतीयछात्राः अर्मेनियां प्रति गच्छन्तीति सूच्यते।

 पलास्तिकविमुक्तकेरलाय   उच्चन्यायालयस्य आदेशः। 

पर्वतसमीपवर्तिषु विनोदपर्यटनकेन्द्रेषु आराज्यं विवाहकार्यक्रमेषु च पलास्तिकवस्तूनि निरुद्धानि। 

आदेशः गान्धिजयन्तिदिनात् प्रवृत्तिपथमानेतव्यः। 

कोच्ची> केरलराज्यमशेषं वैवाहिककार्यक्रमेषु तथा  मून्नार् अभिव्याप्य सर्वेषु पर्वतोपान्तविनोदपर्यटनकेन्द्रेषु  च एकवारम् उपयुज्यमानानि पलास्तिकवस्तूनि निरुध्य उच्चन्यायालयेन आदेशः विज्ञापितः। अस्मिन् वर्षे महात्मागान्धिनः जन्मदिनादारभ्य [ओक्टोबर् २] आदेशं प्रवृत्तिपथमानेतुं प्रक्रमाः स्वीकर्तव्याः इति न्यायाधीशौ बच्चु कुर्यन् तोमसः, पि गोपिनाथः इत्येतयोः नीतिपीठः राज्यस्य  कार्यदर्शिमुख्यं [Chief Secretary] तद्देशशासनविभागस्य कार्यदर्शिनं च प्रति निरदिशत्। 

  अधोनिर्दिष्टानामेव निरोधः आदिष्टः। 

+ऊनपञ्चलिटर् मितानां पलास्तिककूप्यः। 

+ ऊनद्विलिटर् मितानां शीतलपानीयानां पलास्तिककूप्यः।

+ पलास्तिकपलालानि [straws], स्थालिका,चषकः। 

+ भोज्यभाण्डाय उपयुज्यमानानि पलास्तिकोत्पन्नानि इत्यादीनि। 

स्वच्छः परितःस्थितिः मौलिकाधिकारः, तस्य दृढीकरणं सर्वेषां धर्मः इति नीतिपीठेन उक्तम्।

Tuesday, June 17, 2025

 इरान-इस्रयेलयुद्धं रक्तरूषितम्। 

इरानस्य देशीयदूरदर्शनास्थानम् आक्रमितम्। 

टेह्रान्> द्वयोरपि राष्ट्रयोः युद्धं सम्पूर्णताम् आप्नोतीति आशङ्कां जनयन् इरान-इस्रयेलयोः युद्धं रक्तरूषितं वर्तते। गते सायंकाले इस्रयेलेन इरानस्य राष्ट्रिय दूरदर्शनस्य आस्थानं आक्रमितम्। तत्समयवार्तासम्प्रेषणं सम्पद्यमानवेलायाम् आसीत् आक्रमणम्। 'ऐ आर् ऐ बी' इति तद्देशीयदूरदर्शनस्य आस्थानमेवाक्रमितम्। किन्तु काचित् होरानन्तरं सम्प्रेषणं पुनरारब्धम्।

 रुद्रास्त्रेण भारतं परं प्रबलीकृतम्। 

जयपुरं> भारतेन विकसितं आधुनिकड्रोण् शस्त्रस्य परीक्षणं विजयोSभवत्। पञ्चाशत् कि मी दूरे निष्ठया 'आक्रमणं' कृत्वा प्रत्यागतं रुद्रास्त्रमिति कृतनामधेयं नूतनमिदं ड्रोणशस्त्रम्। 

  प्रतिरोधक्षेत्रे निजीयसंस्थया Solar defense and Airo space Ltd इत्यनया निर्मितं रुद्रास्त्रं गतदिने राजस्थाने पोखराने परीक्षितम्। परीक्षणे सैन्यस्य बहवः मानदण्डाः अनेन अधिगताः।

कोङ्कणप्रदेशेषु  अतिवर्षः। रेल्यानानि विलम्बेन गच्छन्ति।

  कण्णूर्> अतिवर्षहेतुना कोङ्कणपथे रेल्यानानि विलम्बेन गच्छन्ति। ह्य: मध्याह्ने प्रस्थास्यमानः मङ्गुलूरु - तिरुवनन्तपुरं एक्स्प्रस् (१६३४८) द्विहोराधिकविलम्बेन ४.२६ वादने एव माङ्गलूरतः प्रस्थितः। युगलयानमिति प्रसिद्धस्य मुम्बै बाङ्गलुरु मत्स्यगन्ध एक्स्प्रस् नाम रेल्यानस्य विलम्बः एव अन्यरेल्यायानानां विलम्बकारणमिति अधिकारिणः सूचयन्ति । युगलयानानाम् आगमने विलम्बः जातः इत्यतः मङ्गलूरु - गोवा मेमू , मङ्गलूरु चत्वरं - मुम्बै अतिशीघ्रयानं, मुरुडेश्वर् - बङ्गलूरू इत्यादीनि रेल्यानानि होराद्वयविलम्बेन गच्छन्ति इति अधिकारिभिः प्रोक्तम्।

Monday, June 16, 2025

 सैप्रसे नरेन्द्रमोदिने उज्वलं स्वीकरणम्। 

सैप्रसं प्राप्तं नरे्द्रमोदिनं राष्ट्रपतिः विमाननिलयं प्राप्य स्वीकरोति। 

निकोसिया> त्रिराष्ट्रपर्यटनस्य अंशतया सैप्रसराष्ट्रं प्राप्तवते भारतप्रधानमन्त्रिणे नरेन्द्रमोदिने उज्वलं स्वीकरणं प्रदत्तम्। सैप्रसराष्ट्रपतिः निकोस् क्रिस्टो डौलिड्स् वर्यः साक्षादागत्य विमाननिलये मोदिनं स्वीकृतवान्। 

 उभयोरपि राष्ट्रयोः व्यापार-वाणिज्यभागभाक्त्वमधिकृत्य चर्चा विधास्यते। सैप्रसे भारतीयजनसमूहेन सह मोदिवर्यः संवादं कृतवान्।

 उत्तराखण्डे उदग्रयानदुर्घटनायां सप्त मरणानि। 

रुद्रप्रयागः> उत्तराखण्डे केदारनाथात् प्रतिनिवृत्तान् तीर्थाटकान् वहत् उदग्रयानं विशीर्य सप्त जनाः मृताः। मृतेषु यानचालकः, द्विवयस्का बालिका च अन्तर्भवतः। 

    'आर्यन् प्रैवट् लिमिटड्' संस्थायाः बेल् ४०७ इति उदग्रयानं रविवासरे उषसि गौरीकुण्डस्य केदारघट्टस्थस्य त्रियुगिनारायणस्य च मध्ये वनं प्रपतितमासीत्। पर्यावरणदुष्प्रभावः अस्ति दुर्घटनाहेतुरिति सूच्यते। केदारनाथतीर्थाटनस्य आरम्भात्परं पञ्चमी उदग्रयानदुर्घटना भवत्येषा।

 अग्निवर्षणे इरानः इस्रयेलश्च। 

इराने १२८ मरणानि; इस्रयेले १३। 

इस्रयेले टेल् अवीवे इरानकृते अग्निबाणप्रयोगेण जातं स्फोटनम्। 

टेल् अवीव् /टेहरान्> पश्चिमेष्याम् आशङ्कायाः कण्टकाग्रे स्थापयत् इरान-इस्रेलयोः युद्धं कठिनायते। रविवासरे इस्रयेलस्य मध्योत्तरप्रदेशेषु इरानेन कृते बालिस्टिक् अग्निबाणाक्रमणे दश जनाः हताः। तेषु पञ्च युक्रेनदेशीयाः इति सूच्यते। द्विशताधिके जनाः व्रणिताः। अनेन इस्रयेले त्रयोदश जनानां प्राणहानिरभवत्। 

  इरानस्य तैलेन्धनसम्भरणशालाः, सैनिककेन्द्राणि, आणवनिलयाः इत्येतेषु स्थानेषु गतदिने अपि इस्रयेलयुद्धविमानैः बोम्बवर्षणं कृतम्। इराने इतःपर्यन्तं १२८ जनाः मृत्युमुपगताः।

 शुभांशोः यात्रा जूण् १९ तमे। 

शुभांशु शुक्लः। 

नवदिल्ली> व्योमसेनायाः ग्रूप् केप्टन् पदीयः शुभांशु शुक्लेन सह त्रीणां अन्तरिक्षयात्रा पुनरपिपरिवर्तिता। जूण् १९ तमे दिनाङ्के तस्य यात्रा भविष्यतीति सर्वकारेण निगदितम्। दुष्टपर्यावरणेन, साङ्केतिकदोषेण च द्विवारं यात्रा परिवर्तितम्।

Sunday, June 15, 2025

 केरले अतिवृष्टिः। 

एकादश जनपदेषु विद्यालयानां प्रवृत्तिविरामः। 

कोच्ची> केरले सर्वत्र  दिनद्वयेन अतिवृष्टिः अनुवर्तते इत्यतः सोमवासरे ११ जनपदानां विद्यालयेषु प्रवृत्तिविरामः उद्घोषितः। 

बहुषु जनपदेषु अतिवृष्ट्या जनजीवनं दुस्सहमभवत्। निम्नप्रदेशाः जलनिमग्नाः जाताः। यातायातसुविधाः स्थगिताः।

 पश्चिमेष्या प्रक्षुब्धा। 

आक्रमण-प्रत्याक्रमणे इरानः इस्रयेलश्च। 

इरानस्य प्रत्याक्रमणे इस्रयेले त्रीणि मरणानि; महान् नाशः।

 इरानस्य द्वौ सेनाधिकारिणौ च निहतौ इति इस्रयेलः।

इरानस्य प्रत्याक्रमणे विशीर्णानि भवनानि वाहनानि च। दृश्यं इस्रयेलस्थे रमद् गाने। 

टेह्रान् /टेल् अवीव्> इरान-इस्रयेलयोः अनुस्यूताक्रमणप्रत्याक्रमणेषु पश्चिमेष्याभूविभागः प्रक्षुब्धः अस्ति। इस्रयेलेन शुक्रवासरे कृतस्याक्रमणस्य प्रतीकारेण इरानेन विधत्ते प्रत्याक्रमणे त्रयः जनाः मृताः। षष्ट्यधिके जनाः व्रणिताः। ड्रोण्, बालिस्टिक् आग्नेयास्त्राणि इत्यादीनि उपयुज्य आसीदाक्रमणम्। बहूनि भवनानि यानानि च विशीर्णानि। 

  प्रत्युत, इस्रयेनेन अनुवर्तिते आक्रमणे इरानस्य द्वौ जनरल् पदीयौ  सेनाधिकारिणौ अपि हताविति इरानेन स्पष्टीकृतम्। इरानस्य मुख्यानि आणवसम्पुष्टीकरणकेन्द्राणि अपि आक्रमितानि। २४ होरासु इराने १५० लक्ष्यस्थानानि आक्रमितानीति इस्रयेलेन निगदितम्।

 विश्वनिकषक्रिकट् - दक्षिणाफ्रिकाराष्ट्राय किरीटम्। 

किरीट प्राप्तवतः दक्षिणाफ्रिकादलस्य नायक टेम्बा बवूमा पुत्रेण सह विजयाह्लादे। 

लण्टनं> दक्षिणाफ्रिकाराष्ट्रं प्रथमतया विश्वक्रिकट्निकषस्पर्धापरम्परायाम् अन्तिमविजयं प्राप। प्रतिद्वन्दिनम् आस्ट्रेलिया दलं पञ्च क्रीडकैः पराजित्य आसीत् दक्षिणाफ्रिकायाः किरीटधारणम्। 

  तेम्बा बवुमा इत्यस्य नायकत्वे दक्षिणाफ्रिकादलं अन्तिमस्पर्धायाः प्रथमचरणे ७४ धावनाङ्कानां पृष्ठतः आसीत्। ततः द्वितीयचरणे ताडनप्रारम्भकस्य [Opener]एय्डन् मार्क्रमस्य १३६ धावनाङ्कैः, नायकस्य ६६ धावनाङ्कैः च विजयं प्रत्यग्रहीत्। वर्तमानीनविजेता भवति आस्ट्रेलिया । प्राप्ताङ्काः - आस्ट्रेलिया -२१२,२०७। दक्षिणाफ्रिका - १३८, २८२/५।

 'नीट्' परिणामः - प्रथमस्थानं राजस्थानीयछात्राय।

नवदिल्ली> वैद्यकीयप्रवेशाय आयोजितायाः नीट् इति (National Eligibility come Entrance Test) परीक्षायाः परिणामः प्रसिद्धीकृतः। प्रथमश्रेणीचतुष्टयं पुरुषछात्रैः प्राप्तम्। 

  राजस्थानीयः महेश् कुमारः प्रथमस्थानं प्राप्तवान्। तस्य शतमानीयाङ्कः [Percentail score] 99. 9999547 भवति। द्वितीयस्थाने मध्यप्रदेशीयः उत्कर्ष अवाध्यः वर्तते। महाराष्ट्रीयः कृष्णाङ्ग जोषी तृतीयश्रेणीं दिल्लीयः मृणाल किशोर झा चतुर्थश्रेणीं च प्राप्तवन्तौ। 

  २२,०९,३१८ छात्राः नीट् परीक्षां लिखितवन्तः। तेषु १२,३६,५३१ छात्राः योग्यतां प्रापुः। पञ्चलक्षाधिके पुरुषछात्राः सप्तलक्षाधिकाः महिलाछात्राः षट् तृतीयलिंगीयाश्च अन्तर्भवन्ति।

Saturday, June 14, 2025

 दुरन्तस्थानं आतुरालयं च सम्प्राप्य आहतान् समाश्वासयन् प्रधानमन्त्री। 

मोदिवर्यः विश्वासकुमारं छात्रावासस्थानं च सम्पश्यति। 

अहम्मदाबादः> विमानपतनेन भग्नं बि जी वैद्यकीयकलालयस्य छात्रावासम्, आहतानां  प्रवेशनं कारितम् असर्वास्थम् जनकीयातुरालयं [Civil Hospital] च प्रधानमन्त्री नरेन्द्रमोदी ह्यः सम्प्राप्तवान्। दुर्घटनास्थानं सन्दृष्टवान् प्रधानमन्त्री जनकीयातुरालयं प्राप्य दुर्घटनायाः अद्भुतरीत्या रक्षां प्राप्तवन्तं विश्वासकुमार रमेशं प्रथमं संदृष्टवान्। दुर्घटनावृत्तान्तमधिकृत्य तस्मात् अवगतवान् मोदिवर्यः  परिचर्यायां वर्तमानान् २५ आहतानपि संदृष्टवान्। 

  तदनन्तरं व्योमयानमन्त्रालयाधिकृतैः आरक्षणाधिकारिभिः च सह चर्चां कृतवान्। गुजरातस्य मुख्यमन्त्री भूपेन्द्र पटेलः, केन्द्रव्योमयानमन्त्री राममोहन नायिडुश्च प्रधानमन्त्रिणा सह आस्ताम्।

 'वान्हा' पण्यमहानौकायाम् अग्निः नियन्त्रणाधीनः। 

कोष़िक्कोट्> पञ्चदिनैः केरलतीरे समुद्रे अग्निकाण्डेन प्रवहन्त्यां  वान् हाय् ५०३ इति पण्यमहानौकायाम् अग्निः नियन्त्रणाधीनः कारितः। अग्निं पूर्णतया निर्व्यापयितुं द्वादशसहस्रं किलोमितं रासचूर्णमपि विकरीतुं निश्चयः कृतः। 

  एतदाभ्यन्तरे शक्तप्रवाहेण चलन्तीं महानौकां नियन्त्रयितुं बद्धः लोहरज्जुः भग्ना। तथापि अतिसाहसिकतया पुनरपि रज्ज्वा बद्ध्वा तीरसंरक्षणसेनया महानौका नियन्त्राधीना जाता।

 युद्धभीत्यां पश्चिमेष्या। 

इस्रयेलेन इरानः आक्रमितः।

इराने इस्रयेलस्य आक्रमणम्। 

इरानस्य सेनाधिपाः आणवशास्त्रज्ञाश्च हताः। 

टेल् अवीव्> पश्चिमेष्यां युद्धाशङ्कायाः  कण्टकाग्रे स्थापयित्वा इस्रयेलः इरानम् आक्रमत्।  इरानस्य आणवाभियोजनायाः मस्तिष्कमिति कथ्यमानः तथा च "इरान् रवलूषणरि गार्ड् कोर्" इत्यस्य अधिपः जनरल् हुसैन् सलामी, संयुक्तसेनाधिपः मेजर् जनरल् मुहम्मद बखारि, पूर्वतनः सुरक्षोपदेष्टा अलि षंखानि, अन्ये षट् आणवशास्त्रज्ञाश्च आक्रमणे निहता इति इस्रयेलेन निगदितम्। 

   शुक्रवासरस्य प्रत्युषसि प्रादेशिकसमये सार्धत्रिवादने इरानस्य विभिन्नानि आणव-सैनिककेन्द्राणि लक्ष्यीकृत्य युगपत् द्विशताधिकं मनुष्यरहितयुद्धविमानानि उपयुज्य बोम्बाक्रमणं कृतमिति इस्रयेलस्य सेनावक्ता एफि डेफ्रिनः निगदितवान्। इस्रयेलस्य आक्रमणानन्तरं इरानः अपि शताधिकानि ड्रोण् यन्त्राण्युपयुज्य प्रत्याक्रमणमकरोत्। किन्तु तत्सर्वं स्वकीयव्योमप्रतिरोधसंविधानेन भग्नमिति इस्रयेलेन अभिमानितम्। 

  विंशति मासेभ्यः पूर्वं इस्रयेलः हमासमभिव्याप्य इराननुकूलितसायुधसंघटनानि च मिथः आरब्धं युद्धम् इदानीं द्वयोः राष्ट्रयोर्मध्ये आरब्धं युद्धमिति परिणतम्।

 अहम्मदाबाद विमानदुरन्ते विश्वनेतारः  अनुशोचन्ति स्म। 

> भारते गुजरातराज्ये अहम्मदाबादे दुरापन्ने विमानदुरन्ते विश्वनेतॄणाम् आदराञ्जलयः। हृदयभेदिका दुर्घटना इति ब्रिटनस्य प्रधानमन्त्री केय्र् स्टामर् अवोचत्। स्तोभजनकमस्ति दुर्घटनाश्रवणमिति ब्रिट्टनस्य राजा चाल्स् तृतीयः उक्तवान्। 

  रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः, फ्रान्सस्य राष्ट्रपतिः इमानुवल् मक्रोणः, आस्ट्रेलियायाः प्रधानमन्त्री आन्टणी अल्बनीसः इत्यादयः मृतानां परिवाराणां दौर्भाग्ये स्वकीयदुःखं प्रकाशितवन्तः। 

  बङ्गलादेशः, मलेष्या, मालिद्वीपः इत्यादीनां राष्ट्राणां शासनकर्तारः, सर्वेषां गल्फराष्ट्राणां नेतारः च भारतस्य दुःखे भागं गृहीतवन्तः।

Friday, June 13, 2025

 अहम्मदाबाद विमानदुर्घटना 

मरणानि २९४ अभवन्। २४२ यात्रिकेषु २४१ जनाः अपि मृताः। एकः अद्भुतेन रक्षां प्राप्तः। 

मृतेषु इतरे तद्देशवासिनः। 

भग्नविमानस्य अंशः। 

अहम्मदाबादः> ह्यः अपराह्ने अहम्मदाबादस्थस्य सर्दार् वलभायि पटेल् अन्ताराष्ट्रविमाननिलयस्य आकाशे दुरापन्ने अतिदारुणे दैवनिर्घाते मृतानां संख्या २९४ इति वर्धिता। १२ विमानसेवकान् अभिव्याप्य २४२ यात्रिकेषु एकं विहाय सर्वे मृत्युमुपगताः। भारतीयवंशजः ब्रिटननागरिकः विश्वास् कुमार रमेशः अत्यद्भुतदैवेन राक्षां प्राप। आपत्कालीनद्वारसमीपम् उपविशन् सः विमाने विस्फोटिते आपत्कालीनद्वारेण बहिः पतितः आसीत्। 

   विमानस्य  उड्डयनवेलायां विमानं यदा भूतलात् ६२५ पादमितं उच्चस्थितं नियन्त्रणं विनश्य समीपस्थस्य बी जि मेडिकल् कोलिज् इति आतुरालयस्य भोजनशालां प्रपतितम्। तदनन्तरं वैद्यकावासस्य उपरि पतितम्। तत्रत्याः वैद्यकच्छात्राः इतरे समीपवर्तिन एव मृताः ५३ जनाः। षष्टि जनाः परिचर्यायां वर्तन्ते। 

 लण्टनं प्रति गम्यमानम्  एयर् इन्डिया संस्थायाः बोयिंग् 'ड्रीम् लैनर्' ७८७ - ८ इति विमानमस्ति दुर्घटितम्। उड्डयनसमये एव विमानचालकेन आपत्सन्देशः प्रेषितः। दुर्घटनाहेतुः क इति न प्रत्यभिज्ञातः। एन् ऐ ए संस्थासहिताः विविधाः अन्वेषणसंस्थाः दुर्घटनास्थानं प्राप्य मार्गणमारब्धवत्यः। गृहमन्त्री अमित शाहः अहम्मदाबादं प्राप्य आवश्यकान् निर्देशान् दत्तवान्।

 अहम्मदाबाद विमानदुरन्तः 

आराष्ट्रं जाग्रत्तानिर्देशः।

नवदिल्ली> अहम्मदाबादे यात्राविमानं प्रभञ्ज्य २४८ जनाः मृत्युमुपगताः इत्यस्य भूमिकायां भारतमशेषं विमाननिलयेषु सुरक्षापरिशोधनानि कर्कशं कर्तुं व्योमयानमन्त्रालयस्य सुरक्षाविभागेन निर्दिष्टम्। यात्रिकाः तेषां भाण्डानि च परिशोधनाधीनानि भविष्यन्ति। विमानस्य तन्त्रांशान् च कर्कशेन परिशोधयिष्यन्ति।

 द्वौ मावोवादिनौ निहतौ। 

सुक्मा> छत्तीसगढे सुक्मा जनपदे सुरक्षासेनया सह प्रतिद्वन्द्वे द्वौ मावोवादिनौ निहतौ। बुधवासरे कुक्कनार् आरक्षकाधिकारप्रदेशे आसीत् प्रतिद्वन्द्वः। ततः आयुधानि निगृहीतानि। गतदिने सुक्मास्थाने खन्यस्फोटकेन (mine) सूप्रण्ट् पदीय‌ः आरक्षकाधिकारी हत आसीत्।

Thursday, June 12, 2025

 अहम्मदाबादे आकाशदुरन्ते गुजरातस्य पूर्वतनमुख्यमन्त्री दिवंगतः। 


अहम्मदाबादः> अहम्मदाबादे अद्य अपराह्ने दुरापन्ने विमानदुरन्ते गुजरातस्य पूर्वतनमुख्यमन्त्री विजय रूपाणिवर्यः दिवंगतः। लण्टनमधिवसन्तीं स्वपुत्रीं सन्द्रष्टुं लण्टनं गच्छन्नासीत्।  भा ज पा दलनेता रूपाणिवर्यः २०१६ तः २०२१ पर्यन्तं गुजरातस्य मुख्यमन्त्री आसीत्।  

 अहम्मदाबादात् लण्टनं प्रति गच्छत् एयर् इन्डिया संस्थायाः बोयिंग् ७८७ विमानं उड्डयनमारभ्य निमेषद्वयाभ्यन्तरे महास्फोटनेन अग्निगोलाकारं भूत्वा भग्नमापतितम्। आहत्य २४२ यात्रिकेषु एकमपहाय सर्वे विनष्टप्राणाः इति सूच्यते।

 अहम्मदाबादे विमानुर्घटना - १३३ जनाः मृत्युमुपगताः।

विमानदुर्घटनायाः विदूरदृश्यम्। 

भूतपूर्वः गुजरातमुख्यमन्त्री तीव्रेण आहतः। 

उड्डीय पञ्च निमेषाभ्यन्तरे ६२५ पादमितात् उच्चतः छात्रावासभवनस्योपरि पतितम्। 

आहत्य २४२ जनाः - २३० यात्रिकाः, १२ सेवाजनाः। 

अहम्मदाबादः> गुजराते अहमदाबादस्थे  विमाननिलयात् उड्डीयमानं एयर् इन्डिया संस्थायाः बोयिंङ् ७८७ विमानं पञ्च मिनिट् समयानन्तरं महच्छब्देन अग्निकाण्डेन च सह  समीपस्थस्य छात्रावासस्य उपरि पतत् आसीत्। इतःपर्यन्तं १३३ यात्रिकाः मृताः इति सूच्यते। 

आहत्य २४२ जनाः   विमाने आसन्। २३०  यात्रिकाः १२ सेवकाश्च। १६९ भारतीयाः, ५३ ब्रिटीनीयाः, ७ पोर्गीसनागरिकाः, एकः कनेडियः च आसन्। 

  विमाने यात्रिकः गुजरातस्य भूतपूर्वः मुख्यमन्त्री विजय रूपाणी कठिनतया आहतः इति सूच्यते।

 विश्वचषकपादकन्दुकक्रीडा

ब्रसीलम् अभिव्याप्य त्रयोदश राष्ट्राणि योग्यतां प्राप्तानि। 

सर्वेषु विश्वचषकेषु योग्यतामुपस्थापितवत् एकमेव दलमिति ख्यातिः ब्रसीलाय। 

सावो पोलो > कार्लोस् आन्जलोटी नामकस्य परिशीलकस्य तन्त्रनैपुण्यात् ब्रसीलराष्ट्रस्य पादकन्दुकदलं आगामिवर्षे सम्पत्स्यमानायां  विश्वचषकपादकन्दुकक्रीडायां योग्यतां सम्पादयामास।। पराग्वे दलं पराजित्य एव ब्रसीलस्य योग्यतालब्धिः। अनेन सर्वास्वपि विश्वचषकस्पर्धासु क्षमतां प्राप्तवत् एकमेव दलमिति ख्यातिरपि ब्रसीलेन  अवस्थापिता। 

   इतःपर्यन्तं त्रयोदश दलानि विश्वचषकाय क्षमतां प्राप्तानि। अमेरिका, कानडा, मेक्सिको इत्येतानि आतिथेयराष्ट्राणि विना आस्ट्रेलिया, इरानं, जापानं, जोर्दानः, दक्षिणकोरिया, उस्बकिस्थानं, अर्जन्टीना, एक्वडोर्, न्यूसिलान्ट्, ब्रसीलः इत्येतानि दश राष्ट्राणि च क्षमतामुपालभन्त। २०२६ विश्वचषकपादकन्दुकक्रीडायाम् आहत्य अष्टचत्वारिंशत् राष्ट्राणि भागं करिष्यन्ति।

 प्रज्वलिता पण्यमहानौका नियन्त्रणाधीना। 

अग्निप्रशमनं विजयं प्राप्नोति। महानौकां सुदूरमपनेतुम् आरब्धः। 

लोहरज्जुना बन्धिता पण्यमहानौका। 

कोष़िक्कोट्> दिनत्रयात्पूर्वं केरलतीरसमीपम् अन्ताराष्टियमहानौकामार्गे अग्निकाण्डाधीना 'एम् वि वान्हाय् ५०३' नामिका पण्यमहानौका तटसंरक्षणसेनायाः नियन्त्रणे अभवत्। महानौकायाः पुरतःपार्श्वे उदग्रयानात् अतिसाहसिकतया अवतीर्य शक्तियुक्तं लोहरज्जुमुपयुज्य बद्ध्वा तीरात् सुदूरमपनेतुम् उद्यमः तटसंरक्षणसेनया आरब्धः। तदर्थं महानौकां तटसंरक्षणसेनायाः 'समुद्रप्रहरी'ति महानौकया सह बबन्ध। रक्षादौत्याय मुम्बयीतः जलयानद्वयं च समागतम्। 

    तिसृणां महानौकानां नैकानां डोणियर् विमानानां च साह्येन अदृष्टेभ्यः चतुर्भ्यः वृत्तिकरेभ्यः मार्गणमनुवर्तते। अदृष्टाः चत्वारः महानौकायामेव लग्नाः इति सन्देहः वर्तते।

 अद्य आरभ्य केरले तीव्रा वृष्टिः। 

अनन्तपुरी> कतिपयदिनानां विरामानन्तरं केरले वर्षाः तीव्राः भविष्यन्ति। गुरुवासरे चतुर्षु जनपदेषु ओरञ्च् जागरूकता घोषिता। इतरेषु पीतजागरूकता च घोषिता। 

  अस्मिन् मासे पञ्चदशतमदिनाङ्कपर्यन्तं होरायां पञ्चाशत् तः षष्टि पर्यन्तं कि मी शीघ्रतायां वातप्रवाहस्य च सम्भावना अस्ति। रविवासरपर्यन्तं केरल-कर्णाटक-लक्षद्वीपतीरेषु मत्स्यबन्धनं न कार्यमिति पर्यावरणविभागेन निगदितम्।

Wednesday, June 11, 2025

 फ्रञ्च् ओपण् - पुरुष टेन्नीस् 

कार्लोस् अल्करास् विजेता। 

चषकेन सह कार्लोस् अल्करासः। 

पारीस्>  पारीसे रोलाङ् गारेस् लानक्षेत्रे सम्पन्ने अत्युत्कृष्टे अन्तिमप्रतिद्वन्द्वे पुरुषाणां लानक्रीडायां [टेन्निस्] स्पेयिन् देशीयः कार्लोस् अल्करास् (२२ वयस्कः) विजेता अभवत्। २९ निमेषाधिक पञ्च होराः दीर्घिते प्रतिद्वन्द्वे  विश्वस्मिन् प्रथमश्रेण्युपस्थितम् इटलीयं यानिक् स्किन्नर् इत्यमुं  पराजित्य एव किरीटं धृतवान्। चतुर्थं 'ग्रान्ड् स्लाम्' किरीटमेव अल्करासेन प्राप्तम्।

 पण्यमहानौकायां विस्फोटः

समुद्रे पतितानि वस्तुधारकाणि तमिलनाट् - श्रीलङ्कयोः तीरं प्राप्तुं सम्भावना।

केरलतीरे आशङ्कायाः अवकाशः नास्तीति केन्द्रप्रशासनम्। 

अनन्तपुरी> आरबसमुद्रे सोमवासरे स्फोटनेन  प्रज्वलितायाः पण्यमहानौकायाः अग्निं प्रशमयितुम् एतावत्पर्यन्तं न शक्तम्। परन्तु अग्निना धूमेन च पूर्णायाः महानौकायाः समीपतः तटरक्षासेनायाः 'समुद्रप्रहरी', 'सचेतः' इति महानौकाद्वयस्य साह्येन अग्निशमनप्रवर्तनानि अनुवर्तन्ते। 

  एतदाभ्यन्तरे समुद्रे पतितानि वस्तुधारकाणि तमिलनाट् - श्रीलङ्कयोः तीरे अवक्षिप्तुं सम्भाव्यता विद्यते इति केन्द्रप्रशासनस्य अधिकारिभिरुक्तम्। केरलतीरे आशङ्कायाः अवकाशः नास्तीति तेषां मतम्। किन्तु महानौकायाः मारकविषांशाः समुद्रे लीनाः इत्यतः तादृशाघातस्य सम्भाव्यता न विगण्यते।

Tuesday, June 10, 2025

 आरबसमुद्रे पुनरपि महानौकादुर्घटना। 

केरले कण्णूर् समीपे पण्यमहानौका स्फोटनेन प्रज्वालिता। 


+ वस्तुधारकेषु अग्निप्रकाण्डः। + २२ वृत्तिकरेषु १८ जनाः रक्षिताः, ४ अदृष्टाः। 

कण्णूर्> अत्युग्रबोम्बस्फोटनशक्तियुक्तैः वस्तुभिः सह श्रीलङ्कायां कोलम्बो महानौकाश्रयात् मुम्बय्यां नव षेवा महानौकाश्रयं गम्यमाना 'एम् वि वान् हाय् ५०३' नामिका पण्यमहानौका आरबसमुद्रे अग्निप्रकाण्डाधीना अभवत्। कण्णूर् जनपदस्थात् अष़ीक्कल् मत्स्यबन्धननौकाश्रयात् ८१. ४९ कि मी दूरे सोमवासरे प्रभाते सार्धनववादने आसीदियं दुर्घटनायाः प्रारम्भः। 

  महानौकाधिष्ठितानि वस्तुधारकाणि प्रायेण सर्वाणि विस्फोट्य महदग्निप्रकाण्डः जातः। भारतस्य नौसेनया वायुसेनया च अग्निनिर्व्यापनप्रवर्तनानि कृतान्यपि फलप्राप्तिः नाभवत्। महानौका प्रायशः अग्निग्रस्ता जाता। 

  पण्यमहानौकायां वर्तितेषु २२ वृत्तिकरेषु  १८ जनाः तटरक्षासेनया परिरक्षिताः। ते मंगलापुरस्थे आतुरालये परिचर्यायां वर्तन्ते। द्वयोरवस्था कठिनतरा इति सूच्यते। समुद्रमुत्पतिताः चत्वारः वृत्तिकराः अदृष्टाः वर्तन्ते। 

 शुभांशोः अन्तरीक्षयात्रा श्वस्तनं परिवर्तिता। 


नवदिल्ली> भारतीयं शुभांशु शुक्लमभिव्याप्य चत्वारोपेतसंघस्य अन्तरीक्षयात्रा बुधवासरं परिवर्तिता। अद्य यात्राभविष्यतीति उद्घोषितमासीत्। किन्तु हीनपर्यावरणेन एकदिवसीयस्य विलम्बः भविष्यतीति इस्रो संस्थया निगदितम्। 

  आक्सियं ४ दौत्यस्य पेटकचालको भवति शुभांशुः। तं विना हंगरीयः टिगोर् कापुः, पोलण्टदेशीयः स्लावोस् उसन्की विनीस्की, कमान्डर् पदीयः पेग्गी विट्सण् इत्येते भवन्ति इतरे संघाङ्गाः।

Monday, June 9, 2025

 कोको गाफ् 'फ्रञ्च् ओपण्' विजेत्री। 

पुरस्कारेण सह कोको गाफ्।

पारीस्> 'फ्रञ्च् ओपण् टेन्निस्' क्रीडायां नूतनी  वीरा। गतदिने सम्पन्ने अन्तिमप्रतिद्वन्द्वे अमेरिकादेशस्य द्वितीय'सीड्' क्रीडिका कोको गाफ् बेलारसस्य प्रथम'सीड्' क्रीडिका आर्याना सबलेङ्का इत्येतां पराजित्य किरीटं धृतवती। 

  क्रीडायाः प्रथमचरणं आर्यानया क्लेशेन प्राप्तमपि अनन्तरचरणद्वयमपि कोको गाफेन विजितम्। त्रयाणामपि चरणानां परिणामः एवं - (६ - ७), (६-२), (६-४)।

 शुभांशु शुक्लः श्वः बहिराकाशं प्रति। 

शुभांशु शुक्लः, ड्रागण् पेटकं, तदूढ्यमानं फाल्कण् - ९ इति क्षेपणी च। 

फ्लोरिडा> चतुर्दशदिनात्मकस्य 'आक्सियोम् - ४' इति  बहिराकाशदौत्याय ड्रागण् नामकं यात्रायानं फ्लोरिडायां  केन्नडि बहिराकाशकेन्द्रे सिद्धमस्ति। भारतीयं शुभांशु शुक्लमभिव्याप्य चत्वारः यात्रिकाः परिशालनानि समाप्य दौत्याय सिद्धाः वर्तन्ते। कुजवासरे भारतसमयमनसृत्य सायं ५. ५२ वादने विक्षेपणं भविष्यति।

 राष्ट्रे कोविड्प्रकरणानि वर्धन्ते।


 

नवदिल्ली> अल्पकालीनविरामानन्तरं राष्ट्रे कोविड्प्रकरणानि वर्धन्ते। केन्द्रस्वास्थ्य-कल्याणमन्त्रालयस्य रविवासरस्य  गणनानुसारं षट् सहस्रं जनाः रोगावस्थायां वर्तन्ते। शनिवासरे ३७८ नूतनरोगिणः जाताः। रविवासरे ७५३ जनाः रोगमुक्तिं प्राप्ताः। 

  अधिकतमं प्रकरणानि केरले सन्ति। केरले इदानीं १९५० सजीवरोगिणः सन्ति।  गुजराते ८२२, वंगे ६९३, दिल्ल्यां ६८६, महाराष्ट्रे ५९५  - एवं प्रकार एव इतरराज्याणां कोविड्प्रकरणानि। 

  ह्यः आराष्ट्रं षट् जनाः कोविड्बाधया मृत्युमुपगताः। अनेन अस्मिन् वर्षे कोविड्रोगेण मृतानां संख्या ६५ अभवत्। बहुभूरिशः कोविड्प्रकरणानि तीव्रतारहितानीति मन्त्रालयेन सूचितम्। गृहपरिचरणमेव पर्याप्तम्। किन्तु अतीव जागरूकता आवश्यकीति राज्यानि निर्दिष्टानि।

 छत्तीसगढे पञ्च मावोवादिनः हताः। 

बीजपुरं> छत्तीसगढे बीजपुरं जनपदे इन्द्रावती राष्ट्रियोद्यानसमीपे विधत्ते प्रतिद्वन्द्वद्वये पञ्च मावोवादिनः सुरक्षासेनया निहताः। दिनत्रयं यावत् तत्र मावोवादि-सुरक्षासेना प्रतिद्वन्द्वः अनुवर्तमानः अस्ति। 

  दिनत्रयेण सप्त मावोवादिनः व्यापादिताः। सुधाकरः, भास्करः इति द्वौ मावोवादिनेतारौ अपि मृतेषु अन्तर्भवतः।

Sunday, June 8, 2025

 उपग्राधिष्ठिता अन्तर्जालसेवा  

'स्टार् लिङ्क्' संस्थायै भारते अनुज्ञा। 


ग्वालियोर्> इलोण मस्क् वर्यस्य उपग्रहाधिष्ठित अन्तर्जालीयश्रृङ्खला 'स्टार् लिङ्क्'  इत्यस्मै भारते सेवां कर्तुं टेलिकोम् मन्त्रालयस्य  अनुज्ञा लब्धा। अर्थनापत्रस्य समर्पणान्तरं विंशतिदिनाभ्यन्तरे 'परिशीलनस्पेक्ट्रं' अनुमोदयिष्यतीति अधिकृतैः निगदितम्। 

 भारते 'एयर् टेल्' इत्यस्य 'साट् वण् वेब्', जियो इत्येतयोरनन्तरम् अनुज्ञापत्रं लभमाना उपग्रहान्तर्जालसेवासंस्था भवति स्टार्लिङ्क् इति वार्तावितरणप्रक्षेपविभागस्य मन्त्री ज्योतिरादित्य सिन्ध्यः अवोचत्।

 चतसृणां  शास्त्रीयभाषाणां  विशिष्टकेन्द्राणि भविष्यन्ति।

नवदिल्ली> तेलुगु, ओडिया, मलयालं, कन्नडा इत्येतासां  शास्त्रीयभाषाणां समुन्नतिं लक्ष्यीकृत्य उत्कृष्टकेन्द्राणि [Center of Excellence] आरप्स्यन्ते इति केन्द्रसर्वकारेण प्रस्तुतम्। 

  गतदिने इन्दोरे सम्पन्ने शिक्षामन्त्रालयस्य  संसदीयसमितेः उपवेशने केन्द्र शिक्षामन्त्रालयस्य उन्नताधिकारिणा निगदितमेतत्। राष्ट्रे १३६९ मातृभाषाः विद्यन्ते ताः प्रत्यभिज्ञाताश्च। आगामिनि काले अध्ययनाय माध्यमभाषा प्राथमिकतया भारतीयभाषाः प्रादेशिकभाषाश्च भविष्यन्तीति मेलने अध्यक्षपदमलङ्कुर्वता धर्मेन्द्र प्रधानेन निगदितम्।

 बङ्गलुरु दुर्घटना

चत्वारः निगृहीताः।

मुख्यमन्त्रिणः राजनैतिककार्यदर्शिने स्थानचलनम्।

बङ्गलुरु> चिन्नस्वामि क्रीडाङ्कणे आर् सी बी क्रिकट् क्रीडाविजेतॄणां स्वीकरणसमारोहे  जनसम्मर्देन एकादश जनाः मृत्युमुपगताः इति प्रकरणे चत्वारः अधिकारिणः आरक्षकैः निगृहीताः। मुख्यमन्त्रिणः सिद्धरामय्यस्य राजनैतिककार्यदर्शी कोण्ग्रसीयसदस्यः के गोविन्दराजुः स्थानभ्रष्टः चाभवत्। 

  रोयल् चलञ्चेर्स् बङ्गलुरु [आर् सि बी] इत्यस्य 'क्रयविक्रय तथा आर्थिकविभागस्य [Marketing and Revenue] अधिकारी निखिल सोसाले, क्रीडाङ्कणे स्वीकरणसमारोहस्य संभारनिबन्धकसंस्थायाः [Event Management company] वरिष्ठप्रबन्धकः किरण् कुमारः, आर् सि बि दलस्य कार्यव्यवहारसहाध्यक्षः [Vice president of Business affairs] सुनिल् मात्यू, कार्यकर्ता सुमन्तः च निगृहीताः।

Saturday, June 7, 2025

 चेनाब सेतौ इतिहासप्रसूतिः। 

विश्वस्मिन् उच्चतमः 'रेल्मार्गस्थवक्रीकृतसेतुः' [Railway Arch bridge ] प्रधानमन्त्रिणा उद्घाटितः। 

चेनाब सेतुः। 

रियासि [जम्मु काश्मीरं]> जम्मु काश्मीरस्थे शिवालिकाधित्यकाः साक्षीकृत्य विश्वस्मिन् अत्युन्नततमः 'रेल्मार्गस्थवक्रीकृतसेतुः' [Railway Arch bridge ] - चेनाब सेतुः -  प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितः। अनेन सेतुद्वारा प्रथमतया रेल् यानस्य सेवामारभत। 

  जम्मू क्षेत्रं काश्मीरं प्रति ऋजुना संयोज्यमाने द्वे वन्देभारतरेल् याने नरेन्द्रमोदी उद्ध्वजं चालयित्वा [Flag off] प्रारम्भं कृतवान्। 

  नूतनरेल् सेवया कत्र - श्रीनगरयोः यात्रासमयः अल्पीकरोति। वीथीद्वारा सप्त होराणां स्थाने रेल् द्वारा तिस्रः होराः पर्याप्ताः। 

  एकस्मिन् स्तम्भे षण्णवति लोहरज्जूनां वीर्ये स्थीयमानः राष्ट्रस्य प्रथमः लोहरज्ज्वधिष्ठानरेल्सेतुः [cable stay railway bridge ] अन्जि खाद नामकः अपि प्रधानमन्त्रिणा उद्घाटितः। जम्मु काश्मीरे उधंपुर - श्रीनगर- बारामुला रेल्मार्ग योजनायाः अंशो भवति चेनाब - अन्जी सेतुद्वयम्।

 आरबसमुद्रे निमग्नायां पण्यमहानौकायां प्राणहारी रासवस्तु अपि। 

अनन्तपुरी> सप्ताहात् पूर्वं साङ्केतिकदोषात् आरबसमुद्रे निमग्नायाः पण्यमहानौकायाः वस्तुधारकेषु भक्ष्ययोग्यानि वस्तुभ्यः आरभ्य प्राणनाशकं 'कात्स्यं कार्बैड्' इति रासवस्तु च अन्तर्भवन्तीति सूच्यते। महानौकाधिकारिभिः कस्टम्स् अधिकारिभ्यः दत्तायामावल्याम् इयं सूचना अस्ति। 

  षट्चत्वारिंशत् धारकेषु नारिकेलं, भल्लातकबीजं [cashewnut] इत्यादीनि विशिष्टभोज्यानि, सप्ताशीति वस्तुधारकेषु दारुफलकं, षष्टि पलास्तिकनिर्माणवस्तूनि, द्वादशसु वस्तुधारकेषु 'कात्स्यं कार्बैड्' इति अत्यन्तं मरणहेतुकं रासवस्तु चान्तर्भवन्तीति सूच्यते।

Friday, June 6, 2025

 कच्च् प्रदेशे हारप्पा संस्कृतेः पूर्वीयं जनवासकेन्द्रमधिगतम्। 

धोलावीरे सम्पन्नम् उद्खननम्। 

अहम्मदाबादः> गुजरात् राज्ये कच्च् प्रदेशे हारप्पा संस्कृतेः पञ्चसहस्रं वर्षेभ्यः पूर्वमेव जनाः वसन्ति स्म इत्यस्य प्रमाणानि गान्धिनगर् ऐ ऐ टि संस्थायाः गवेषकेभ्यः लब्धानि। 

  धोलावीर इति हारप्पीयनागरिकतायाः समीपं खादिर् इति स्थानात् लब्धानां शम्बूक - शंखाद्यानां कञ्चुकानां विशकलनेन अस्तीदं निगमनम्। कालनिर्णयाय Axlerator mass spectrometry इति रीतिरुपयुक्ता। 

  ऐ ऐ टि भौमशास्त्रविभागस्य पुरावस्तुशास्त्रकेन्द्रे [Archeological Science Center]  असोसियेट् प्रोफसर् पदीयस्य वि एन् प्रभाकरस्य नेतृत्वे आसीत् गवेषणं समायोजितम्।

 तत्काल चीटिकेभ्यः आधार् सत्यापनमनिवार्यम्। 

मुम्बई> रेल् यानयात्रिकाणां 'तत्काल्' विभागस्य चीटिकानाम् आरक्षणाय आधारपत्रस्य सत्यापनम् अनिवार्यं कारयति। जूण् मासान्ततः प्राबल्ये भविष्यति। 

  ये आधारपत्रसूचनाः स्पष्टीकुर्वन्ति तेषां दश निमिषेभ्यः पूर्वं चीटिकारक्षणं कर्तुं शक्यते।

Thursday, June 5, 2025

 उत्साहोत्सवः दुरन्तोपेतः अभवत्। 

ऐ पि एल् विजेतॄणां स्वीकरणकार्यक्रमे महान् जनसम्मर्दः।

एकादशानाम् अकालमृत्युः। उपपञ्चाशत् आहताः। 


बङ्गलुरु> नगरस्थे चिन्नस्वामि क्रीडाङ्कणे ह्यः ऐ पि एल् विजेत्रे आर् सि बि दलाय (रोयल् चलञ्चेर्स् बङ्गलुरु) समायोजितः स्वीकरणोत्सवः दुरन्तपूर्णः अभवत्। विराट कोहलिनमभिव्याप्य क्रिकट् क्रीडकान् सन्द्रष्टुं सम्मिलितानां जनानां मध्ये दुरापन्ने महत्सम्मर्दे एकादश जनाः मृत्युमुपगताः। उपपञ्चाशत् जनाः क्षताः। तेषु चतुर्पञ्चानामवस्था कठिनतरा इति सूच्यते। 

 अष्टादश संवत्सरेभ्यः परं लब्धः विजयः विजयपथसञ्चलनेन संकीर्तयितुमेव आर् सि बि दलाधिकारिभिः निश्चितम्। किन्तु तदर्थं क्रमीकरणाय आरक्षकपक्षतः अनुज्ञायां निषिद्धायां विजयोत्सवः चिन्नस्वामि क्रीडाङ्कणं प्रति परिवर्तितम्।

 जातिगणनायाः कालः निर्णीतः। 

जनसंख्यागणनेन सह २०२६ ओक्टोबर् प्रथमदिने समारप्स्यते; चरणद्वयं वर्तते।

नवदिल्ली> स्वतन्त्रभारतस्य प्रथमा जात्यधिष्ठितजनसंख्यागणना षट्विंशत्यधिक द्विसहस्रतमे वर्षे ओक्टोबर् प्रथमदिनाङ्के चरणद्वयेन दशाब्दजनसंख्यागणनया सह विधास्यतीति गृहमन्त्रालयेन निगदितम्। जम्मु-काश्मीरं, लडाकः, हिमाचलप्रदेशः- उत्तराखण्डराज्ययोः हिमपातप्रदेशाः इत्येतत्स्थानेषु सेप्टम्बर् त्रिंशे अर्धरात्रानन्तरं  प्रथमचरणत्वेन जनसंख्यागणनं सम्पत्स्यते। 

  द्वितीयसोपाने सप्तविंशत्यधिकद्विसहस्रतमे वर्षे [२०२७] मार्च् प्रथमदिनाङ्के प्रप्रत्युषसः राष्ट्रमखिलं जनसंख्यागणना समारप्स्यते। इयं प्रक्रिया २०२८ पर्यन्तमनुवर्तिष्यते। जनसंख्यागणनायाः विज्ञप्तिः जूण् षोडशे दिनाङ्के प्रसिद्धीकरिष्यति।

  भारते अन्तिमा जनसंख्यागणना २०११ तमे एव संवृत्ता। तदनुसृत्य एकविंशत्यधिक एककोटिः आसीत् भारतजनसंख्या। कोविड् कारणात् २०२१ तमवर्षे परिवर्तितगणनमेव आगामिवर्षे सम्पत्स्यमानमस्ति।

 अद्य विश्वपर्यावरणदिनम्। 

पलास्तिकमालिन्यनिर्मार्जनम् इदानीन्तनसन्देशः। 


दिल्ल्यां प्रधानमन्त्री अश्वत्थं रोपयति। 

नवदिल्ली> आविश्वम् अद्य पर्यावरणसंरक्षणदिनत्वेन आमन्यते।  विश्वपर्यावरणदिनाचरणस्य अंशतया प्रधानमन्त्री नरेन्द्रमोदी अद्य दिल्लीस्थे भगवान् महावीर वनस्थली उद्याने बालकाश्वत्थसस्यं रोपयिष्यति। 'मातुः नाम्नि एको वृक्षः' इत्यायोजनायाः अंशतया बालकवृक्षरोपणम्। 

 दिल्लीतः गुजरातपर्यन्तं सप्तशतं कि मी दूरं विस्तृतस्य आरवल्लिगिरिपङ्क्तेः पुनरुज्जीवनाय सविशेषायोजना अस्य वर्षस्य पर्यावरणदिनस्य अंशतया स्वीकृता अस्ति।

Wednesday, June 4, 2025

 ओपरेषन् सिन्दूरम्।

पाकिस्थानस्य षट् युद्धविमानानि विनष्टानि। 

अधिकेषु प्रदेशेषु भारतस्य आक्रमणमभवदिति पाक् प्रशासनम्।

नवदिल्ली> ओपरेषन् सिन्दूरस्य अंशतया भारतेन विधत्ते प्रतिप्रहरे पाकिस्थानव्योमसेनाया‌ः षट् पि ए एफ् युद्धविमानानि, अन्ये द्वे विमाने, सि १३० इति प्रवहणव्योमयानं च विनष्टानीति भारतसेनाधिकारिभिः निगदितम्। दशाधिकानि मनुष्यरहिानि युद्धविमानानि च भग्नानि। एतेषां प्रमाणानि सेनया सङ्कलितानीति सूच्यते। 

  तथा च पूर्वं प्रस्तुतेभ्यः अधिकेषु स्थानेषु भारतस्य आक्रमणमभवदिति प्रमाणीकृतं पाकिस्थानस्य पत्रं च बहिरागतम्। पेषवार्, झङ्, हैदराबाद् [सिन्ध्], गुज्रात् [पञ्चाब], बहावल् , इत्यादिषु १८ स्थानेषु भारतस्याक्रमणं जातमिति तेषां पुनरुद्धारणाय पाकिस्थानस्य उद्यमोपेतं पत्रमेव बहिरागतम्। पाकिस्थाने पाक् अधीन काश्मीरे च नवसु स्थानेषु आक्रमणं विधत्तमिति भारतेन पूर्वं प्रस्तुतम्।

 भोज्यवितरणकेन्द्रसमीपे पुनरपि इस्रयेलस्य भुषुण्डिप्रयोगः - सप्तविंशति मरणानि। 

राफा> गासायाम् अन्नं प्रतीक्षमाणान् ३४ अभयार्थिजनान् अवधीत् इति प्रकरणे इस्रयेले अन्ताराष्ट्रीयस्तरे विमर्शने अभिमुखीकुर्वति समानकृत्यम् अनुवर्त्य इस्रयेलः। दक्षिणगासायां राफायां भोज्यवितरणकेन्द्रस्य समीपं इस्रयेलसेनया कृतेन भुषुण्डिप्रयोगेण  सप्तविंशति अभयार्थिनः निहताः। द्व्यशीत्यधिकशतं जनाः क्षताश्च। 

  इस्रयेलस्य अङ्गीकारेण प्रवर्तमानं 'गासा ह्युमानिटेरियन् फौण्डेशन्' [जि एछ् एफ्] इत्यस्य केन्द्रे भोज्यानि स्वीकर्तुंमागताः एव भुषुण्डिप्रयोगस्य लक्ष्यमभवन्। निर्दिष्टमार्गात् अपभ्रंश्य सैन्यं लक्ष्यीकृत्य चरन्ति स्म इत्यतः सन्देहेन भुषुण्डिः प्रयुक्तः इति इस्रयेलस्य भाष्यम्।

 ऐ पि एल् किरीटं बङ्गलुरु दलाय प्राप्तम्।


 

अहम्मदाबादः> 'इन्डियन् प्रिमीयर् लीग्' - ऐ पि एल् - नामक टि -२०  क्रिकट् स्पर्धापरम्परायाः एतत्कालीनस्य अन्तिमप्रतिद्वन्द्वे विराट कोह्लेः नायकत्वे वर्तमानं 'बङ्गलुरु रोयल् चलञ्चेर्स्' दलं किरीटं प्राप्तवत्। प्रतिद्वन्दिनं पञ्चाब किङ्स् दलं षट् धावनाङ्कानां व्यत्यये पराजयत। 

  अष्टादश वर्षाणां सहनानन्तरं प्रथमतया एव विराट कोह्लेः दलस्यायं किरीटप्राप्तिः। पञ्चत्रिंशत् कन्दुकैः त्रिचत्वारिंशत् धावनाङ्कान् प्राप्तवान् कोह्ली  दलस्य अङ्कप्रापकानां मूर्ध्नि तिष्ठति। [Top scorer]

  उत्क्षेपनिर्णये [toss] पञ्चाबदलेन  क्षेत्ररक्षणं स्वीकृते बङ्गलुरु दलेन विंशति क्षेपचक्रेषु नव क्रीडकाणां विनष्टेन नवत्यधिकशतं धावनाङ्काः प्राप्ताः। प्रत्युत्तरकन्दुकताडने पञ्चाबेन विंशति क्षेपचक्रेषु सप्त क्रीडकाणां विनष्टे केवलं चतुरशीत्यधिकशतं धावनाङ्काः प्राप्ताः।

Tuesday, June 3, 2025

 राष्ट्रे अधिकाधिकं कोविड्बाधिताः केरले। 

नवदिल्ली> केरले कोविड्वैराणुबाधितानां संख्या १४३५ अभवत्। २४ वयस्का महिला गतदिने कोविड्बाधया मृता। राष्ट्रे अधिकाधिकं कोविड्बाधिताः केरले इति स्वास्थ्यमन्त्रालयेन प्रस्तुतम्। 

  कोविड्बाधितराज्यानाम् आवल्यां महाराष्ट्रं द्वितीयस्थाने वर्तते। तत्र ५०६ जनाः कोविड्बाधिताः सन्ति। दिल्ल्यां ४८३ जनाः कोविड्बाधया परिचर्यायां वर्तन्ते। कर्णाटके २५३, तमिलनाटे १८९ च जनाः कोविड्बाधिताः सन्ति। अशेषे राष्ट्रे ३९६१ कोविड्रोगिणः सन्ति।

 गासायाम् इस्रयेलस्य आक्रमणम् - चतुर्दश मरणानि। 

डेर् अल् बला> उत्तरगासायां जबलिया इत्यत्र अभयार्थिशिबिरं प्रति इस्रयेलेन विधत्ते बोम्बाक्रमणे सप्त बालकान् अभिव्याप्य चतुर्दश जनाः मृताः। आक्रमणमधिकृत्य इस्रयेलस्य प्रतिकरणं नागतम्। गतदिने राफायां भोज्यवस्तूनि प्रतीक्षमाणाः एकत्रिंशत् पालस्तीनीयाः इस्रयेलसेनया निहताः आसन्। एतदधिकृत्य स्वतन्त्रान्वेषणमावश्यकमिति यू एन् संस्थायाः कार्यदर्शिप्रमुखः अन्टोणियो गुटरसः प्रस्तुतवान्।

Monday, June 2, 2025

 एष्यन् कायिकक्रीडा समाप्ता। 

भारतस्य द्वितीयस्थानम्। 

१०० मी स्प्रिन्ट् स्पर्धायां राष्ट्रियाभिलेखेन कांस्यं प्राप्तवतः अनिमेष् कुजूरस्य आह्लादः। 

गुमी> दक्षिणकोरियायाः गुमीनगरे समायोजिता पञ्चदिवसीया एष्यायाः कायिकक्रीडास्पर्धा शनिवासरे समाप्ता। अन्तिमदिने भारताय त्रीणि रजतानि त्रीणि कांस्यानि चोपलब्धानि। कुन्तप्रक्षेपे सच्चिन् यादवः, महिलानां पञ्चसहस्रं मीटर् मिते धावने पारुल् चौधरी,  ४ × १०० मीटर् अनुक्रामके  महिलाः च भारताय रजतपतकं प्राप्तवन्तः। वनितानां ८०० मीटर् धावने पूजया, ४०० मीटर् अन्तरायधावने [Hurdles] वितृ राम राजेन, १०० मीटर् प्रधावने [Sprint] राष्ट्रीयाभिलेखं प्राप्य अनिमेष् कुजूर् इत्यनेन च भारतं कांस्यानि चालभत। 

  आहत्य अष्ट सुवर्णानि दश रजतानि षट् कांस्यानि चोपलभ्य भारतं द्वितीयस्थानं प्राप। प्रथमे तु नवदश  सुवर्णानि, नव रजतानि, चत्वारि कांस्यानि च लब्ध्वा द्वात्रिंशत् पतकैः चीनः अस्ति।

 चत्वारिंशत् रूसीययुद्धविमानानि भञ्जितानीति युक्रेनः। 

कीव्> सैबीरियायां वर्तमानान् रूसीयव्योमनिलयान् प्रति रविवासरे युक्रेनेन कृते ड्रोणाक्रमणे रष्यायाः चत्वारिंशत् बोम्बवर्षकविमानानि भञ्जितानीति युक्रेनेन अभिमानितम्। तद्राष्ट्रस्य 'एस् बी यू' इति सुरक्षासेवासंस्थया एव वृत्तान्तमिदं निगदितम्। 

  ओपरेषन् स्पैडर् वेब् [Operation Spider Web] इति कृतनामधेये आक्रमणे मुर्मान्क् इत्यस्थं ओलन्या, इर्कुट्स् इत्यस्थं बेलाया इत्यादीनि सैबीरियायाः चत्वारि व्योमनिलयस्थानानि आक्रमितानि। रष्यायाः टि यू ९५, दीर्घदूर शब्दातिशीघ्रविमानं टि यू २२ एम् ३ एस्, ए ५० इत्येतानि युद्धविमानानि भग्नेषु अन्तर्भवन्ति।

 उत्तरपूर्वीयराज्येषु भीषणवृष्टिः।

एकत्रिंशत् प्राणहानिः। 

गुहावती> दिनद्वयेन अनुवर्तमानायाः घोरवृष्ट्याः दुष्प्रभावेण भारतस्य उत्तरपूर्वीयराज्येषु एकत्रिंशत् जनाः मृत्युमुपगताः। असमः, सिक्किमः, अरुणाचलप्रदेशः, मेघालयः, मिसोरामः, नागालान्ट् त्रिपुरम् इत्यादिषु राज्येषु एव वृष्टिदुष्प्रभावः अधिकतया दुरापन्नः।  सहस्रशः जनानां वासपरिवर्तनं विधत्तम्। बहूनि वासस्थानानि भग्नानि। 

  बहवः ग्रामाः वीथयः केदाराश्च जलसञ्चये निमग्नाः। ब्रह्मपुत्रः, बराक् इत्याद्यः नद्यः जलोपप्लवभीषायां वर्तन्ते।

Sunday, June 1, 2025

 विख्यातः व्याघ्रसंरक्षकः वाल्मीक थाप्परः दिवंगतः। 


नवदिल्ली>  व्याघ्रसंरक्षणाय स्वजीवनं समर्प्य 'व्याघ्रमानवः' [The Tiger man] इति विख्यातः पर्यावरणप्रवर्तकः वाल्मीक थाप्परः (७३) नवदिल्ल्यां दिवंगतः। अर्बुदरोगबाधितः सः संवत्सरैकं यावत् परिचर्यायामासीत्। 

  १९५२ तमे वर्षे पत्रकारदम्पत्योः रोमेष् थापर राजथापरयोः पुत्रत्वेन लब्धजन्मा वाल्मीक थापरः पञ्चाशत् संवत्सराणि वन्यजीविसंरक्षणाय स्वजीवनं निनाय। राजस्थानस्थे रणथम्भोर् व्याघ्रसङ्केतस्य संरक्षणाय १९८७ तमे वर्षे 'रणथम्भोर् फौण्टेषन्' इति संस्थां रूपीचकार। 'लान्ड् ओफ् टैगर्', भारतोपभूखण्डस्य स्वतश्चरितं, Tiger fire - 500 years of Tiger in India इत्यादयः ३२ ग्रन्थाः तेन विरचिताः।

 विरामकालः समाप्तः 

केरले विद्यालयाः श्वः उद्घाट्यन्ते। 

अनन्तपुरी> ग्रीष्मकालीनविरामानन्तरं केरले सामाजिकविद्यालयाः जूण् द्वितीये दिने सोमवासरे पुनरुद्घाट्यन्ते। प्रवेशनोत्सवैः सर्वेषु विद्यालयेषु २०२५ - २६ शैक्षिकवर्षस्य प्रवर्तनानि समारभ्यन्ते। राज्यस्तरीयं प्रवेशनोत्सवं आलप्पुष़ा कलवूर् सर्वकारीयोच्चविद्यालये मुख्यमन्त्री पिणरायि विजयः उद्घाटयिष्यति। 

  अस्माद् वर्षादारभ्य उच्चस्तरीयकक्ष्यासु  अर्धहोरायाः अधिकः शैक्षिककालः कल्पितः। प्रतिवर्षं १२०० होराणां पठनकालः इति निर्णयं दृढीकर्तुमेवायं परिष्कारः। षट् शनिवासराः अपि प्रवृत्तिदिनानि भविष्यन्ति।