OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, March 1, 2026

      प्रधानमन्त्री नरेंद्रमोदीः चतुर्दश-वर्षीयाभ्यः कन्याभ्यः राष्ट्रव्यापिनं ह्यूमन्-पापिलोम-वैराणु (HPV) सूच्यौषधाभियानं प्रारब्धवान्।

२८ फ़ेब्रुवरी २०२६ तमे दिने अजमेर-नगरे मानव-पापिलोम-वैराणु (HPV) सूच्यौषध-अभियानस्य उद्घाटन-समये प्रधानमन्त्री नरेंद्र-मोदीस्य उपस्थितौ एकया परिचारिकया कन्यायै HPV-टीका प्रदत्ता। चित्रम्-: ANI/DPR PMO.

     राजस्थान-राज्यस्य अजमेर-नगरस्य कायड्-प्रदेशे आयोजिते कार्यक्रमे गर्भाशय-अर्बुद-रोग-निवारणार्थं अयं अभियानः प्रधानमन्त्रिणा नरोन्द्रमोदिना औपचारिकरूपेण उद्घाटितः। तस्मिन् अवसरे अनेकाभ्यः कन्याभ्यः सूच्यौषधं प्रदत्तम्, तथा प्रधानमन्त्री लाभार्थिभिः सह संवादं कृतवान्।

    अधिकारिणां वक्तव्यानुसारं “गार्डसिल् ४” (Gardasil 4) इति एक-मात्रा-युक्तं HPV- सूच्यौषधम् उपयुज्यते। इदं सूच्यौषधप्रयोगेण गर्भाशय-ग्रीवार्बुधस्य कारणभूतयोः HPV -१६ ,१८ , ६ तथा ११ -प्रकाराभ्यः वैराणुभ्यः संरक्षणं करोति