इराने इस्रयेलस्य व्योमाक्रमणम्। टेहराने नैकानि स्फोटनानि।
मध्येष्या कलुषायते।
आक्रमणम् अमेरिकायाः सहयोगेनेति सूच्यते।
अयत्तोल्ला खमीनी सुरक्षितस्थानं नीतः।
इस्रयेले आपत्कालीनावस्था उद्घोषिता। जागरूकतानिर्देशः।
१३३ अफ्गानीयभीकराः हताः इति पाकिस्थानम्।
काबूल्> सीमान्तरितभीकरवादस्य प्रत्युत्तरम् इति वादरूपेण अफ्गानिस्थाने वर्तमानेषु तालिबानस्य सैनिकनिलयेषु पाकिस्थानं बोम्बवर्षमकरोत्। आक्रमणे १३३ भीकराः हताः द्विशताधिके जनाः व्रणिताः इति पाकिस्थानसेनया अभिमानितम्। पाकिस्थानस्य सैनिकस्थानानि विरुध्य अफ्गानसेनया कृतस्य आक्रमणस्य प्रत्युत्तरमासीत् पाकिस्थानस्य बोम्बाक्रमणम्।
दिल्ली।
दिल्ली मद्यनीतिक्रमप्रकरणं
अरविन्द केज्रिवालः सहापराधिनश्च अपराधविमुक्ताः।
![]() |
| अपराधविमुक्तविध्यनन्तरं माध्यमानां पुरतः भाषमाणः केज्रिवालः विकाराधीनः जायते। |
नवदिल्ली> आम् आद्मी पार्टी [ए ए पी] इति राजनैतिकदलस्य अस्तित्वप्रतिसन्धेः कारणभूते मद्यनयप्रकरणे भूतपूर्वः दिल्लीमुख्यमन्त्री अरविन्द केज्रिवालः, भूतपूर्वः उपमुख्यमन्त्री मनीष सिसोदिया, बी आर् एस् दलनेत्री के कविता इत्यादयः २३ अपराधिनः निरपराधिनः इति आदिश्य सविशेषनीतिपीठेन विनिर्मुक्ताः।
अपराधिषु एकस्मिन्नपि नाम्नि सि बी ऐ संस्थया आरोपिताः अपराधाः प्रथमदृष्ट्या अपि नावस्थाप्यन्ते इति सविशेषन्यायालयस्य न्यायाधिपः जितेन्द्र सिंहः प्रस्तुतवान्। सि बी ऐ संस्था न्यायालयस्य निशितविमर्शविधेया अभवत्।
मार्गसुरक्षायाः ५०० दिनानि - छात्राः एव सुरक्षाकर्म कृतवन्तः।
आलप्पुष़> विद्यालयस्य छात्राः मार्गसुरक्षां कुर्वन्ति। आलप्पुष़ जिलायां विद्यमानायाः सेन्ट् तेरेसास् उच्चविद्यालयाधिकारिभिः वर्षत्रयेभ्यः पूर्वं स्वेच्छया योजनेयम् आरब्धा आसीत्। पश्चात् 'सुरक्षितमार्गः' इति प्रसिद्धा SEMS School of Engineering इति संस्थायाः नेतृत्वे प्रचाल्यमानायां योजनायां संलग्ना अभवत् । इदानीम् इयं योजना कर्मकुशलतायाः ५०० दिनानि प्राप्तानि। वार्तां ज्ञात्वा आलप्पुष़ जनपदस्य अधिकारी अलक्स् वर्गीस् IAS विद्यालयम् अभिनन्दितुम् आगतवान् । विद्यालयस्य कृते अभिनन्दनफलकं दत्तवान् च। कार्यक्रमे शैक्षिकजनपदस्य अध्यक्षः (DEO) अब्दुल् सलां KAS भागं स्वीकृतवान्।
केरलस्य विविधविद्यालयेषु योजनेयं प्रचाल्यते। अस्याः योजनायै आर्थिकसाहाय्यं कुट्टूकारन् इति वाहनव्यापारसंस्थायाः CSR राशीतः लभते।
'इन्स्टग्रामे' अनुगामिसंख्यायां नरेन्द्रमोदी अग्रतमस्थाने।
नवदिल्ली> इन्स्टग्रामनामके सामाजिकमाध्यमे प्रधानमन्त्रिणः नरेन्द्रमोदिनः अनुगामिनां [Followers] संख्या दशकोटितः अतीता। विश्वस्मिन् इन्स्टग्रामे अधिकतमतया अनुगामियुक्तः विश्वनेता भवति नरेन्द्रमोदी। ४. ३२ कोटि अनुगामिभिः यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः द्वितीयस्थाने वर्तते। तृतीयस्थाने इन्डेनेष्यायाः राष्ट्रपतिः प्रबोवो सुबियान्तो अस्ति - १.५ कोटि।
भारतीयराजनैतिकनेतॄणां मध्ये अपि मोदिवर्यः प्रथमस्थाने अस्ति। द्वितीयस्थाने उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः वर्तते- १.६१ कोटि अनुगामिनः। १.२६ कोटि अनुयायिभिः विपक्षनेता राहुल गान्धी तृतीयस्थाने अस्ति।
टि-२० सूपर्८।
सिम्बाब्वेदलं विरुध्य भारतस्य विजयः।
![]() |
| विजयानन्तरं भारतदलाङ्गाः परस्परम् अभिनन्दन्ति। |
चेन्नै> पूर्वान्त्यचक्रप्रवेशस्य प्रतीक्षां प्राकट्य सूपर् ८ चक्रे सिम्बाब्वेदलं विरुध्य भारतस्य उज्वलविजयः। टि-२० विश्वचषकस्य निर्णायके प्रतिद्वन्द्वे ७२ धावनाङ्कैः आसीत् भारतस्य विजयः।
भारताय अभिषेक शर्मा [५५] हार्दिक पाण्ड्यश्च [५०*] अर्धशतकं प्राप्तवन्तौ। हार्दिक पाण्ड्यः क्रीडाप्रवीरोSभवत्। सिंबाब्वे क्रीडकः ब्रियान बेन्नटः ९७ धावनाङ्कैः अबाह्यः जातः अपि दलं पराभूतम्। सूपर् ८ मध्ये क्रीडाद्वये अपि पराजितं दलं टि-२० विश्वचषकात् बहिर्गतं च।
प्राप्ताङ्कसूचिका - प्रथमं कन्दुकताडनं कृतवत् भारतं २० क्षेपणचक्रेषु द्वारकचतुष्टयं विनश्य २५६ धावनाङ्कान् सम्प्राप। प्रत्युत्तरे सिम्बाब्वे २० क्षेपणचक्रेषु १८४/६।
टि-२० विश्वचषकः।
दक्षिणाफ्रिका पूर्वान्त्यचक्रे।
अहम्मदाबादः> टि-२० विश्वचषकस्य सूपर् ८ क्रीडायाः अन्यस्मिन् प्रतिद्वन्द्वे वेस्ट् इन्डीसं पराजित्य दक्षिणाफ्रिका पूर्वान्त्यचक्रं प्राविशत्। १७७ धावनाङ्कानां विजयलक्ष्येण कन्दुकताडनं कृतवत् दक्षिणाफ्रिकादलं २३ कन्दुकेषु अवशिष्टेषु एकस्य ताडकस्य विनष्टे लक्ष्यं प्राप। नव द्वारकाणां अनायासविजयेन पूर्वान्त्यप्रवेशः लब्धः। दक्षिणाफ्रिकानायकः एय्डन् मार्क्रमः ४६ कन्दुकैः ८२ धावनाङ्कान् सम्पादितवान्।
ईस्टर्दिने श्रीलङ्कायां भीकराक्रमणं
गुप्तान्वेषणविभागस्य भूतपूर्वः मुख्याधिकारी निगृहीतः।
कोलम्बो> २०१९ तमे वर्षे ईस्टर् दिने श्रीलङ्कायां दुरापन्नां भीकराक्रमणपरम्पराम् अनुबन्ध्य श्रीलङ्कायाः गुप्तान्वेषणविभागस्य भूतपूर्वमुख्याधिकारी मेजर् जनरल् सुरेष् साले इत्याख्यः कोलम्बोमध्ये आरक्षाधिकारिभिः निगृहीतः। भीकराक्रमणाय गूढालोचनां कृतवान्, साह्यं प्रेरणां च दत्तवान् इत्येवं निगृहणस्य हेतुः।
भारतप्रधानमन्त्रिणः इस्रयेले हृद्यं स्वीकरणम्।
नरेन्द्रमोदी केवलं न सुहृत् अपि तु सोदरः।
![]() |
| नरेन्द्रमोदिने इस्रयेलविमाननिलये दत्तं स्वीकरणम्। |
जरुसलेमः> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयसन्दर्शनाय इस्रयेलराष्ट्रं प्राप्तवान्। बुधवासरे बेन् गुरियोण् विमाननिलयं प्राप्तवन्तं मोदिनम् इस्रयेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहुः सभार्यः रक्तकम्बलं विस्तार्य स्वीकृतवान्। नरेन्द्रमोदी न केवलं सुहृत् , अपि तु सोदरः चेति नेतन्याहुः प्रस्तुतवान्।
नववर्षाभ्यन्तरे नरेन्द्रमोदिनः द्वितीयम् इस्रयेलसन्दर्शनं भवत्येतत्। परम्परागतस्वीकरणानन्तरं द्वौ प्रधानमन्त्रिणौ ह्रस्वचर्चां कृतवन्तौ। उभयपक्षसौहृदं प्रबलीकर्तुं नैकानि कार्याणि चर्चितवन्तौ इति मोदिवर्यः 'एक्स्' माध्यमेन प्रस्तुतम्।
तदनन्तरम् इस्रयेलसंसदं नरेन्द्रमोदी अभिसम्बोधनं कृतवान्। २०२३ ओक्टोबर् सप्तमदिनाङ्के हमासेन इस्रयेले कृतं "पैशाचिकं भीकराक्रमणं" मोदिना अपलपितम्। गासायाम् अनुवर्तमानं शान्तिप्रयत्नम् अनुमोदितवान् प्रधानमन्त्री नरेन्द्रमोदी पालस्तीनसमस्या परिगणनीया इत्यपि प्रोक्तवान्।
टि-२० विश्वचषकः।
इङ्लाण्टः पूर्वान्त्यचक्रे।
कान्डी> अनुस्यूततया द्वितीयविजयेन इङ्लाण्टः टि -२० विश्वचषकस्य पूर्वान्त्यचक्रं प्रविष्टवत् प्रथमदलमभवत्। पाकिस्थानं द्वारकद्वयेन पराजित्य एव पूर्वान्त्यचक्रप्रवेशः दृढीकृतः। पाकिस्थानं विरुध्य इङ्गलाण्टस्य नायकः हारी ब्रूकः शतकं प्राप्तवान्। सूपर् ८ इत्यस्य प्रथमस्पर्धायाम् इङ्गलाण्टः श्रीलङ्कां पराजापयत।
केरलम्।
राज्यनाम परं 'केरलम्'।
नामपरिष्करणाय केन्द्रप्रशासनस्य अङ्गीकारः।
नवदिल्ली> केरलराज्यस्य नामधेयः केरला [Kerala] इत्यस्य स्थाने केरलम् [Keralam] इति परिष्कर्तुं कतिपयवर्षाणि यावत् केरलसर्वकारस्य परिदेवनाय केन्द्रमन्त्रिमण्डलस्य अङ्गीकारः। २०२४ जूण्मासे केरलविधानसभया ऐककण्ठ्येन अनुमोदितमुपक्षेपमेव केन्द्रमन्त्रिमण्डलेन अङ्गीकृतम्। प्रधानमन्त्रिणः नूतने कार्यालये 'सेवातीर्था'भिधाने समाकारितस्य प्रथम मन्त्रिमण्डलस्य प्रथमनिर्णयः आसीदयम्।
रक्तदुर्गसमीपं स्फोटनभीषा
अष्ट भीकराः निगृहीताः।
नवदिल्ली> दिल्ल्यां बृहद्भीकराक्रमणाय आसूत्रणं कृतमिति सन्देहे अष्ट जनाः सुरक्षानियोक्तृभिः निगृहीताः। एषु केचन बङ्गलादेशीयाः भवन्ति। पाकिस्थानस्थस्य ऐ एस् ऐ इत्यस्य बङ्गलादेशम् आस्थानीकृत्य प्रवर्तमानस्य केषांचन भीकरसंघटनानां च निर्देशानुसारं निगृहीताः गूढालोचनां कृतवन्तः इति अन्वेषणसंस्थानां प्राथमिकाधिगमनम्।
षट् जनाः तमिलनाटतः एव निगृहीताः। द्वौ दिल्लीतः निगृहीतौ। रक्तदुर्गसमीपं स्फोटनं कर्तुं आसूत्रणं कृतमिति परिपृच्छानन्तरं अन्वेषणसंस्थया निगदितम्। लष्कर् ई तोय्बा भीकरसंघटनेन भारतस्थानि धार्मिककेन्द्राणि लक्ष्यीक्रियन्ते इति गुप्तसूचना आसीत्।
जम्मु-काश्मीरे प्रतिद्वन्द्वः
त्रयः भीकराः व्यापादिताः।
जम्मु> जेय्षे मुहम्मद् इति पाकिस्थानीयभीकरसंघटनस्य त्रयः भीकराः सुरक्षासेनया सह संघट्टने हताः। किष्त्वार् जनपदे रविवासरे प्रभाते आसीत् प्रतिद्वन्द्वः। मृतशरीराणि प्रत्यभिज्ञातुमशक्यरूपेण दग्धावस्थायामासन्। एषु एकः जेय्षे मुहम्मदस्य कमान्डर् पदीयः सेय्फुल्लााभिधानः भवतीति सूच्यते।
भारतसेना, आरक्षकसेना, सि आर् पि एफ् इत्येतेषां संयुक्तान्वेषणे आसीत् भीकराणां हत्या। ए के ४७ शतघ्नीद्वयमभिव्याप्य अनेकानि आयुधानि च अधिगतानि। अस्मिन् वर्षे अद्यावधि जम्मुक्षेत्रे सप्त भीकराः सेनया व्यापादिताः।
एस् ऐ आर् नूतनमतदान्यावलिः प्रकाशिता।
नवसु राज्येषु १. ७०कोटि मतदानिनां न्यूनता।
नवदिल्ली> नवसु राज्येषु केन्द्रप्रशासनप्रदेशेषु च समग्रमतदान्यावलीपरिष्करणं पूर्तीकृत्य नूतना मतदान्यावलिः प्रकाशिता। आहत्य मतदानिनां संख्यायां १. ७० कोटि मतदानिनां न्यूनता दृश्यते।
केरलं, गुजरात्, पुदुच्चेरी, लक्षद्वीपः, राजस्थानं, छत्तीसगढ, अन्तमान् निकोबार्, मध्यप्रदेशः, गोवा राज्येषु केन्द्रप्रशासनप्रदेशेषु च परिष्कृतमतदान्यावल्याम् आहत्य मतदानिनां संख्या १९. ७५ कोटि अस्ति। एस् ऐ आर् इत्यस्मात्पूर्वं आहत्य संख्या २१. ४५ कोटि आसीत्।
मलेष्यादेशे प्रकाशमान-मार्गरेखाः स्थापिताः, अनन्तरम् अद्भुतात्मकः प्रकाशः आगतः।
मलेष्यादेशे अन्धकारेऽपि प्रकाशमानाः मार्गरेखाः स्थापिताः, याः ग्राम्य-राजमार्गेषु विद्युत्सुविधां विना एव दीप्तिं प्रसारयन्ति। वाहनचालकाः तासु अत्यन्तं संतुष्टाः अभवन्।
मलेष्यादेशस्य सेलाङ्गोर-प्रान्ते सेमेनीय्-प्रदेशस्य समीपे मार्गे २०२३ वर्षस्य अन्त्यभागे रात्रौ वाहनचालकेभ्यः आश्चर्यकारिणी दृश्यता अभवत्। मार्गरेखाः स्वयमेव प्रकाशन्ते स्म। न तु दीपस्तम्भानां प्रकाशेन, न वा वाहनदीपप्रभायाः प्रतिस्फुरणेन, अपि तु मार्गपृष्ठात् एव। एताः रेखाः दिने सूर्यप्रकाशं सञ्चिन्वन्ति, ततः रात्रौ शनैः शनैः तम् प्रकाशं विमुञ्चन्ति।
२४५ मीटर्-दीर्घः अयं मार्गखण्डः, मलेष्यादेशस्य सार्वजनिक-निर्माण-विभागस्य (JKR) हुलु-लाङ्गत्-जनपद-शाखया जालन् सुंगै ललाङ्ग तथा जालन् सुंगै टेकाली इत्येतयोः मध्ये स्थापितः। एषः देशे प्रथमः प्रकाश-संचयी (फोटो-ल्यूमिनेसेंट्) मार्गरेखानां प्रयोगः आसीत्। एषा प्रौद्योगिकी, या दीर्घकालं मार्ग-सुरक्षा-विमर्शेषु पारम्परिक-रङ्गरेखानां तथा मार्ग-कीलकानां विकल्परूपेण चर्चिता आसीत्, मलेष्यादेशस्य ग्राम्य-प्रदेशेषु प्रकाश-सुविधा-अभावजनितां वास्तविकां समस्यां निराकर्तुं समर्था अभवत्। देशे सहस्रशः किलोमीटर-दीर्घाः ग्राम्यमार्गाः अल्पप्रकाशयुक्ताः सन्ति, तथा प्रतिसंवत्सरं षट्सहस्राधिकाः जनाः मार्ग-दुर्घटनासु प्राणान् वियोजन्ति।
महिला एष्याचषकक्रिकट्
भारतस्य किरीटप्राप्तिः। 
श्रेष्ठक्रीडिकापदं प्राप्तवती तेजल् हसाब्निस्।
बाङ्कोक्क्> महिलानां 'रैसिङ् स्टार्स् एष्या कप् क्रिकट्' [Rising stars Asia cup cricket] नामिकायां क्रिकट् स्पर्धायां भारतस्य 'ए' दलं किरीटं सम्प्राप। अन्त्यस्पर्धायां बङ्गलादेशस्य 'ए' दलं ४६ धावनाङ्कैः पराजित्य आसीत् किरीटप्राप्तिः।
प्राप्ताङ्कसूचिका - भारतं २० क्षेपणचक्रेषु १३४/७। बङ्गलादेशः १९. १ क्षेपणचक्रेषु ८८ धावनाङ्कैः सर्वाः बहिर्नीताः। ३४ कन्दुकैः ५१ धावनाङ्कान् सम्पाद्य अपराजिता जाता भारतक्रीडिका तेजल् हसाब्निस् श्रेष्ठक्रीडिकापदं प्राप्तवती।
कर्णाटकम्।
छात्राणां समर्थचलदूरवाण्युपयोगनिरोधः परिगण्यते।
बङ्गलुरु> ऊनषोडशवयस्काणां छात्राणां सामर्थ्योपेतचलदूरवाण्याः [Smartphone] उपयोगं निरोद्धुं कर्णाटकसर्वकारेण उद्दिश्यते इति मुख्यमन्त्री सिद्धरामय्यः प्रोक्तवान्। छात्रेषु वर्धमानः सामाजिकमाध्यमानां सामर्थ्ययुक्तदूरवाणीनां च उपयोगः तेषां व्यक्तित्वादि गुणान् प्रतिकूलतया बाधते इति सः प्रावोचत्। विषयेSस्मिन् विशारदानाम् उपदेशः अपेक्षितः।
अफ्गानिस्थाने पाकिस्थानस्य झटित्याक्रमणम्।
७० मरणानि। 
अफ्गानिस्थाने पाक् आक्रमणस्य दृश्यम्।
इस्लामाबादः> सीमामुल्लङ्घ्य भीकराणाम् आक्रमणस्य प्रत्युत्तररूपेण अफ्गानिस्थाने पाकिस्थानस्य सेनया विधत्ते अप्रतीक्षिताक्रमणे ७० जनाः हताः। पक्तिका, नन्गर्हरं इति प्रान्तद्वये शनिवासरे आसीदाक्रमणम्।
अफ्गानिस्थाने भीकरसंघटनानां निलीनस्थानानि एव लक्ष्यीकृतानीति पाकिस्थानसेनया निगदितम्। मृतेषु भूरिशः पाकिस्थाननागरिकाः भीकराः इति पाकिस्थानस्य गृहसहमन्त्रिणा उक्तम्। किन्तु अफ्गानिस्थानस्य सामान्यजनाः एव आक्रमणाधीनाः इति तालिबानप्रशासनेन निगदितम्।
मलेष्यायां भूकम्पः - रिक्टर् मापिन्यां ७. १ तीव्रता।
कुलालम्पूर्> मलेष्याराष्ट्रे अद्य प्रत्युषसि १२. ५७ वादने [प्रादेशिक समयः] महान् भूकम्पः दुरापन्नः। रिक्टर् मापनाङ्के ७. १ तीव्रता अङ्किता। बोर्नियो द्वीपस्थे सांबाप्रान्ते आसीत् भूकम्पः।
कोट्टा किणबालु नगरात् १०० कि मी दूरे उत्तरपूर्वीयप्रदेशः भूकम्पस्य प्रभवस्थानमिति यू एस् जियोलजिकल् सर्वे संस्थया निगदितम्। भूकम्पात् जायमानस्य जनापायस्य विनाशस्य विशदांशाः न लब्धाः।
टि-२०विश्वचषकः।
'सूपर् ८' मध्ये भारतस्य पराजयः। 
द्वारकोपलब्धौ आह्लादं प्रकाशयन्तौ दक्षिणाफ्रिकाक्रीडकौ।
अहम्मदाबादः> टि-२०विश्वचषकस्य 'सूपर् ८' नामकक्रीडायाः प्रतिद्वन्द्वे दक्षिणाफ्रिका भारतं ७६ धावनाङ्कैः पराजापयत। 'सूपर् ८' मध्ये भारतस्य प्रथमस्पर्धा आसीत्। उत्क्षेपनिर्णयम् उपलभ्य कन्दुकताडनं कृतवत् दक्षिणाफ्रिकादलं २० क्षेपणचक्रेषु ९ क्रीडकाणां विनष्टे १८६ धावनाङ्कान् सम्प्राप। प्रत्युत्तरक्रीडायां १८. ५ क्षेपणचक्रेषु १११ धावनाङ्कान् सम्पाद्य भारतस्य सर्वे क्रीडकाः बहिर्गताः।
३५ कन्दुकैः ६३ धावनाङ्कान् सम्पादितवान् डेविड् मिल्लर् नामकः दक्षिणाफ्रिकाक्रीडकः क्रीडाप्रवीरः जातः। दक्षिणाफ्रिकायै यान्सणः २२ धावनाङ्कान् विसृज्य चतुरान् द्वारकान् सम्पादितवान्।
टि-२० विश्वचषकः - सूपर् ८ आरब्धम्।
अद्य भारतं × दक्षिणाफ्रिका। 
भारतदलम्।
अहम्मदाबादः> टि-२० विश्वचषकस्य 'सूपर् ८' नामके प्रपूर्वान्त्य चक्रे अद्य अहम्मदाबादस्थे नरेन्द्रमोदी क्रीडाङ्कणे भारतं दक्षिणाफ्रिकया सह स्पर्धिष्यते।
प्राथमिकचक्रे संघप्रवीररूपेण एव भारतं दक्षिणाफ्रिका च सूपर् ८ चक्रं प्राविशताम्। एकैकस्य दलस्य विजयचतुष्टयम् उपालभत। अतः प्रतिद्वन्द्वः कठिनो भविष्यतीति मन्यते।
भारत-बङ्लादेश बस् यानसेवा पुनरारभ्यते।
अगर्तला> बङ्लादेशे जातायां राजनैतिकास्थिरतायां संवत्सरैकं यावत् स्थगयिता भारत-बङ्लादेश बस् यानसेवा पुनरारब्धुं प्रक्रमाः अभवन्। बङ्लादेशद्वारा अगर्तला - कोल्कोत्ता मार्गे अस्ति बस् यानसेवा।
परीक्षणार्थं शनिवासरे बस् यानसेवा समारब्धा। कतिपयदिनेषु अपि परीक्षणात्कसेवा अनुवर्तिष्यते। परिणामविशकलनानन्तरं सप्ताहे सेवात्रयम् इतिरीत्या सेवा विधास्यते इति अधिकृतैः निगदितम्।
षट् राज्यानाम् अन्तिमा मतदान्यावलिः प्रकाशिता।
नवदिल्ली> समग्रमतदान्यावलीपरिष्करणस्य [SIR] अनन्तरं षट् राज्यानां केन्द्रप्राशसनप्रदेशानां च नूतना मतदान्यावलिः निर्वाचनायोगेन प्रकाशिता। केरलं, गोवा, छत्तीसगढ, मध्यप्रदेशः, राजस्थानं, अन्तमान् निकोबार् इत्येतानां आवलिः प्रकाशिता।
गुजरातः, लक्षद्वीपः, पुतुच्चेरी इत्येतेषां मतदान्यावलिः पूर्वमेव प्रकाशिता आसीत्। सर्वेषु राज्येषु लक्षशः मतदानिनः प्राथमिकावलीतः बहिर्नीताः वर्तन्ते। अधिकतमाः मतदानिनः गुजराते एव निराकृताः - ६८,१२,७११।
ट्रम्पस्य गर्वे प्रहरः
एकपक्षीयः आयातशुल्कः नियमविरुद्ध इति यू एस् सर्वोच्चन्यायलयः।
![]() |
| डोनाल्ड ट्रम्पः । |
वाषिङ्टणः> शुल्कं मुख्यायुधं कारयन् यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः भौगोलिकराष्ट्राणि विरुध्य विधत्तमानं वाणिज्ययुद्धं नियमविरुद्धमिति अमेरिकायाः सर्वोच्चन्यायलयेन विहितम्। ट्रम्पस्य एकपक्षीयः आयातशुल्कविधिः संहतिसंविधानस्य [Federal] लङ्घनम् इति नीतिपीठेन आदिष्टम्। मुख्यन्यायाधिपस्य जोण् रोबर्टस्य नेतृत्वे विद्यमाने नवांगोपेतपीठे षट् न्यायाधीशाः विधिम् अनुकूलितवन्तः; अतियाथास्थितिकाः त्रयः प्रतिकूलितवन्तश्च।
यू एसस्य नीतिसंविधानानुसारं शुल्ककरादीन् विधातुमधिकारः प्रतिनिधिसभायां निक्षिप्तः अस्ति। सभायाः अनुज्ञां विना राष्ट्रपतेः विशेषाधिकारमुपयुज्य प्रक्रमान् स्वीकर्तुं राष्ट्रपतेः अधिकारः नास्तीति न्यायालयेन प्रोक्तम्।
धनदानं प्रीणनम्।
निर्वाचनवाग्दानानि कठिनतया विमृश्य सर्वोच्चन्यायालयः।
नवदिल्ली> निर्वाचनात् ईषत्पूर्वं नागरिकाणां संख्यानं प्रति धनराशिदानमभिव्याप्य राज्यानां निश्शुल्कवाग्दानानि [Freebies] सर्वोच्चन्यायालयः निशितरीत्या विमृशति। क्षेमराष्ट्रमिति स्थितिम् आलक्ष्य निष्किञ्चनानां कृते निश्शुल्कानां प्रदानम् अनुमोदितव्यम्। किन्तु धनहीनान् अतिरिच्य सर्वेषां राज्यनिवासिनां कृते समानरूपेण प्रदानोद्घोषणम् इत्येतत् प्रीणनं अर्थात् भ्रष्टाचारः एव खलु इति न्यायालयेन पृष्टम्। राष्ट्रप्रगतये हानिकारकाः एतादृशप्रक्रमाः पुनःपरिशोधनीयाः इति मुख्यन्यायाधिपः सूर्यकान्तः अध्यक्षरूपेण वर्तमानेन पीठेन निर्दिष्टम्।
आर्थिकावस्थामनादृत्य सर्वेभ्यः परिवारेभ्यः विद्युच्छक्तिं निश्शुल्कं दातुं तमिलनाट् सर्वकारस्य निर्णये तत्रत्यस्य Power distribution corporation इत्यस्य अभियाचिकायां केन्द्रसर्वकारं प्रति अधिसूचनापत्रं [notice] सम्प्रेष्य अस्ति सर्वोच्चनीतिपीठस्यायं तीव्रपरामर्शः। न केवलं तमिलनाटे अपि तु राष्ट्रे विपुलतया इयं प्रवणता दृश्यते तस्यां वयम् आशङ्काकुलाः इति नीतिपीठेन प्रस्तुतम्।
ए ऐ उच्चशिखरम्।
२५. ५ लक्षं कोटि रूप्यकाणां निक्षेपः निर्णीतः।
नवदिल्ली> दिल्ल्यां सम्पद्यमाने अन्ताराष्ट्रिय कृृत्रिमबुद्धिमत्ता [ ए ऐ] उच्चशिखरसम्मेलने २५. ५ लक्षं कोटि रूप्यकाणां निक्षेपः अस्मिन् क्षेत्रे भारताय दृढीकृतः। शिखरसम्मेलने भागं कृतवतां बहुराष्ट्रसंस्थानां राज्यानां च प्रख्यापनं भाविनि प्रतीक्षमाणान् निक्षेपांश्च अभिव्याप्य ५८. २ लक्षं कोटि रूप्यकाणां निक्षेपः स्यादिति केन्द्रप्रशासनप्रवक्तृभिः उक्तम्।
जियो रिलयन्स् संस्थया सप्तवर्षाभ्यन्तरे ए ऐ क्षेत्रे १० लक्षं कोटि रूप्यकाणां निक्षेपं करिष्यति इति मुकेष् अम्बानी उक्तवान्। अदानी ग्रूप् ९. १२ लक्षं कोटि, आमसोण् ३. १९ कोटि इत्येवं रीत्या निक्षेपः भविष्यतीति तत्तदधिकारिभिः प्रोक्तम्।
रञ्जि ट्रोफी क्रिकट्
अन्त्यस्पर्धायां कर्णाटकं जम्मु-काश्मीरं च।
लख्नौ> रञ्जि ट्रोफी नामकस्य राष्ट्रियक्रिकट् प्रतिद्वन्द्वस्य अन्त्यस्पर्धायां जम्मु-काश्मीरराज्यं कर्णाटकराज्येन सह स्पर्धिष्यते। जम्मु-काश्मीरस्य ६७ संवत्सराणां क्रीडाचरित्रे प्रथमतया एव रञ्जिट्रोफी क्रिकटस्य अन्त्यस्पर्धायां दलस्य प्रवेशः। कोल्कोत्तायां सम्पन्नायां पूर्वान्त्यक्रीडायां शक्तं वंगदलं षट् द्वारकैः पराजापयित्य अस्ति जम्मु-काश्मीरस्य पदक्षेपः।
कर्णाटकं तु उत्तराखण्डेन सह सम्पन्नायां क्रीडायां समस्थितिमभजत। किन्तु कर्णाटकेण प्रथमचरणे प्राप्तमाधिपत्यं अन्त्यप्रवेशाय सहायकमभवत्। अन्तिमस्पर्धा कुजवासरे सम्पत्स्यते।
टि-२० विश्वचषकः।
भारतम् अपराजितत्वेन 'सूपर् ८'मध्ये। 
अर्धशतकं लब्ध्वा क्रीडाप्रवीरः जातः शिवं दुबे।
अहम्मदाबादः> टि-२० विश्वचषकक्रिकट् स्पर्धायां ए संघे अन्तर्भूतं भारतं प्राथमिक चक्रे सर्वाः स्पर्धाः विजित्य संघजेता जातम्। ह्यः सम्पन्ने प्रतिद्वन्द्वे नेतर्लान्टं १७ धावनाङ्कैः पराजापयत।
प्राप्ताङ्कसूचिका - भारतं २० क्षेपणचक्रेषु १९३/६। नेतर्लान्टः २० क्षेपणचक्रेषु १७६/७। भारतक्रीडकः शिवं दुबे क्रीडाप्रवीरः अभवत्। ६६ धावनाङ्कान् द्वारकद्वयं च शिवं दुबे प्राप्तवान्।
युक्रेन-रष्या
शान्तिचर्चा पराजिता।
जनीवा> रूस-युक्रेनयुद्धस्य वर्षचतुष्टयपूर्तीकरणाय पञ्चदिनेषु अवशिष्टेषु जनीवानगरे सम्पन्ना दिनद्वयात्मिका शान्तिचर्चा निष्फला जाता। युद्धनिराकरणं, तस्य पर्यवेक्षणम् इत्यादिविषये अनुकूलनमभवत्तर्हि युद्धे निगृहीतानां भूप्रदेशानां प्रत्यर्पणविषये निर्णयः नाभवत् इति यूक्रेनस्य राष्ट्रपतिः वोलोदिमिर् सेलन्स्की अवोचत्।
युक्रेनस्य पूर्वीयस्य डोणेस्टेस्क् इति तन्त्रप्रदेशस्य नियन्त्रणं स्वस्मै भवितव्यमिति रष्यायाः वादः युक्रेनेन नाङ्गीकृतः। रष्यायाः भाविकालीनाक्रमणेभ्यः सम्पूर्णसुरक्षां अदीयमाने कस्मिन्नपि सन्धौ हस्ताक्षरं न करिष्यतीति युक्रेनेन असन्ग्धतया प्रोक्तम्।
ब्रह्मपुत्रनद्याः अधः रेल्, वीथीसुरङ्गमार्गः आगच्छति।
नवदिल्ली> राष्ट्रे प्रथमतया नद्याः अधस्तात् युगलनालिकासुरङ्गमार्गस्य निर्माणं सम्पत्स्यते। असमराज्ये ब्रह्मपुत्रनद्याः अधस्तात् १५ .७९ कि मी दैर्घ्ये वीथी-रेल् सुरङ्गमार्गः इति बृहद्विकासाभियोजना समारभ्यते।
जलस्याधः भारते प्रथमः विश्वस्मिन् द्वितीयः च वीथी-रेल् सुरङ्गः भवति एषः। असमः, अरुणाचलप्रदेशः, नागालान्टः इतरेभ्यः उत्तरपूर्वीयराज्येभ्यश्च प्रयोजकीभविष्यति इयं परियोजना। इदानीं सञ्चर्यमाणः २४० कि मी दूरं ३३. ७ कि मी इति न्यूनीकर्तुं शक्यते।
१८,६६२ कोटि रूप्यकाणि अस्याः अभियोजनायाः व्ययः भविष्यतीति वृत्तान्तमिदं वार्ताहरमेलने ब्रुवन् अश्वनीवैष्णवः उद्घोषितवान्।
टि-२० विश्वचषकः।
सप्त दलानि 'सूपर् ८' इत्यस्मिन् प्राविशन्।
भूतपूर्वप्रवीरः आस्ट्रेलिया बहिर्गता।
कोलम्बो> पुरुषाणां टि-२० क्रिकट् विश्वचषकस्पर्धापरम्परायाः चतुर्थांशश्रेणीसमानस्य सूपर् ८ स्तरस्य सप्त दलेषु निर्णीतेषु भूतपूर्वः विश्वप्रवीरः आस्ट्रेलिया संघः प्राथमिकचक्रे एव परम्परायाः बहिर्गतः। ओसीसदलान्तर्भूते बी संघे अयर्लान्ट-सिम्बाब्वे दलयोः स्पर्धा वृष्टिकारणात् न सम्पन्ना इत्यतः प्राप्ताङ्कश्रेण्यां सिम्बाब्वे आस्ट्रेलियायाः अग्रे वर्तते।
सूपर् ८ श्रेणीं प्रविष्टानि दलानि - ए संघात् भारतं, बी संघात् श्रीलङ्का, सिम्बाब्वे, सीतः वेस्ट इन्डीस्, इङ्गलाण्टः, डीतः दक्षिणाफ्रिका, न्यूसिलान्टः।
टि-२० विश्वचषकः।
सम्पूर्णविजयाय भारतम्।
नेतर्लान्टं प्रति स्पर्धा सायं सप्तवादनतः।अहम्मदाबादः> टि-२० विश्वचषकस्य ए संघे भारतं स्वस्य अन्तिमस्पर्धतया नेतर्लान्टेन स्पर्धिष्यते। बुधवासरे सायं सप्तवादने अहम्मदाबादस्थे नरेन्द्र मोदी क्रीडाङ्कणे अस्ति प्रतिद्वन्द्वः।
अद्यतनस्पर्धामपि विजित्य संघे अपराजितं विजयं भारतं लक्ष्यीकरोति। भारतस्य ११ दले कानिचन परिवर्तनानि प्रतीक्षन्ते।
पि एस् एल् वि पराजयान्वेषणाय समितिः।
हैदराबादः> इस्रो संस्थायाः अस्य वर्षस्य प्रथमविक्षेपणं पि एस् एल् वि - सि ६२ इत्यस्य पराजयकारणम् अन्वेष्टुं समितिः रूपीकृता। भूतपूर्वः केन्द्र शास्त्रोपदेष्टा प्रोफेसर् को विजयराघवः अध्यक्षः, ऐ एस् आर् ओ संस्थायाः भूतपूर्वः अध्यक्षः एस् सोमनाथः उपाध्यक्षः च भूत्वा अस्ति समितिः। प्रधानमन्त्रिणः निर्देशानुसारमेव समितिरूपीकरणमिति सूच्यते।
पि एस् एल् वि विक्षेपणदौत्यं द्विवारं पराजितमित्यतः राष्ट्रसुरक्षा उपदेष्टा अजित् डोवलस्य नेतृत्वे कश्चन संघः अनन्तपुरी वि एस् एल् वी संस्थां सन्दृश्य निदेशकादिप्रमुखैः सह मेलनमकरोत्। तदनन्तरं प्रधानमन्त्रिणे प्रतिवेदनं समर्मितम्। तस्य परिणाम एव समितिरूपीकरणमिति सूच्यते।
सि सुरेष् कुमारः 'शर्माजी'पुरस्कारेण मानितः।
संस्कृताध्यापनप्रचारणे उत्कृष्टकर्मणे दीयमानः पुरस्कारः।
कोष़िक्कोट्> संस्कृतभाषाप्रचारकः, कविः, पत्रिकाप्रवर्तकः इत्येवंरूपेण विराजितः स्वर्गीयः पण्डितरत्नं वि कृष्णशर्मा वर्यस्य नाम्नि दीयमानः शर्माजीपुरस्कारः अस्मिन् वर्षे सि सुरेष् कुमाराय दीयते। कोष़िक्कोट् नेटुवण्णूर् सर्वकारीयविद्यालये शिक्षकः सः संस्कृतभारत्याः ऊर्ज्वलः प्रवर्तकः केरल संस्कृताध्यपकफेडरेषन् इति संघटनस्य राज्याध्यक्षश्च भवति।
संस्कृतभारत्याः केरलविभागेन विश्वसंस्कृतप्रतिष्ठानेन दीयमानः भवति एषः पुरस्कारः। अतीतानि ३० वर्षाणि यावत् संस्कृतशिक्षणक्षेत्रे वर्तमानान् शिक्षकान् राजनैतिकपक्षपातित्वं विना समायोज्य तेषां छात्राणां च क्षेमाय नेतृत्वमावहन् प्रवर्तमानः अस्ति।
पुरस्कारनिर्णयसमित्या प्रोक्तं यत् संस्कृताध्यापनमण्डले प्रचरणक्षेत्रे च सुरेश कुमारेण कृतस्य महत्वपूर्णस्य प्रवर्तनस्य अङ्गीकारो भवत्येषः पुरस्कारः। महामहोपाध्यायः डो जि गङ्गाधरन् नायर्, पण्डितरत्नं डो पि के माधवः, पण्डितरत्नं डो एम् पि उण्णिकृष्णः, डो पि के शङ्करनारायणः, डो ई एन् ईश्वरः इत्येतैरुपेत्या समित्या पुरस्कारः निर्णीतः।
Latest news Latest news
टि-२० विश्वचषकः।
लङ्कावीर्ये आस्ट्रेलिया पदभ्रष्टा।
अस्य विश्वचषकस्य प्रथमशतकं पत्तुम निसाङ्काय। 
शतकं प्राप्तवान् पात्तुं निसाङ्कः।
आस्ट्रेलियायाः स्थानं प्रतिसन्धिस्तरे।
कोलम्बो> स्तोभजनकया क्रीडया क्रीडाङ्कणं रोमहर्षपुलकितं कृतवतः श्रीलङ्कीयक्रीडकस्य पत्तुम निसाङ्कस्य वीरतया आस्ट्रेलिया श्रीलङ्का आस्ट्रेलियां पराजापयत। बी संघात् श्रीलङ्का 'सूपर् ८' श्रेणीं प्राविशच्च।
अष्ट द्वारकाणां विजय एव श्रीलङ्कया स्वायत्तीकृतः। प्राप्ताङ्कसूचना- आस्ट्रेलिया २० क्षेपणचक्रेषु १८१ धावनाङ्काः। श्रीलङ्का १८ क्षेपणचक्रेषु १८४/२। प्रथमचरणे श्रीलङ्कायाः पत्तुम निसाङ्केन विपरीतदिक्धावनेन कृतं डयननिग्रहणं [flying catch] विश्वचषकस्य चरित्रे श्रेष्ठनिग्रहणेषु अन्यतममिति मन्यते, तत्तु आस्ट्रेलियायाः पतनस्य हेतुश्चाभवत्। आस्ट्रेलियायाः ग्लेन् माक्स् वेलः [२२] एव निसाङ्केन बहिर्नीतः। अनन्तरं, श्रीलङ्कायाः कन्दुकताडने प्रारम्भकक्रीडकः निसाङ्कः ५२ कन्दुकेषु १०० धावनाङ्कान् सम्पाद्य अपराजितः अभवत्। तस्य शतके १० चतुष्काणि ५ षट्कानि च सन्ति। क्रीडाप्रवीश्च पत्तुम निसाङ्कः एव।
अमेरिका–यूरोप् संघयोः वाणिज्य-सन्धयः युवजनानां कृते महान् अवसरः प्रदास्यते – प्रधानमन्त्री नरेन्द्रमोदी
नवदिल्ली> अमेरिका तथा यूरोपीयसंघेन सह भारतस्य वाणिज्य-सन्धयः देशस्य युवजनानां कृते महान् अवसरं प्रदास्यन्ति इति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। वाणिज्य-शृङ्खलानां वैश्विक-संयोजनम्, विकसित-राष्ट्राणां विपणिषु सुगम-प्रवेशः च एतासां सन्धीनां प्रमुख-विशेषताः स्तः। निर्माणक्षेत्रे, सेवाक्षेत्रे, वस्त्र-उद्योगे, पादुकनिर्माण-उद्योगे, वैद्युत-उपकरण-उद्योगे, यन्त्रविद्या-सम्बद्ध-उत्पादनेषु च नूतनाः अवसराः भविष्यन्ति।
'मेक् इन् इन्टिय' (Make in India) योजनया लघु-मध्यम-उद्योगानां मध्ये आत्मविश्वासः ऊर्जा च वर्धितौ। “निर्दोषता, निष्प्रभावता” इति अस्माकं नीति:—दोषरहितं पर्यावरणानुकूलं च उत्पादनम्। दूरभाषा-युक्ति-निर्माणात् आरभ्य विमान-यान-क्षेत्रपर्यन्तं बह्व्यः वैश्विक-संस्थाः भारतीय-लघु-मध्यम १-उद्योगान् स्वमूल्य-शृङ्खलासु समावेशयन्ति।
जैविक-औषध-क्षेत्रे, भारत-अर्धचालक-अभियाने, वैद्युत-उपकरण-अङ्ग-निर्माण-योजनायां, दुर्लभ-भूतत्त्व-मार्गेषु, रसायन-उद्यानिषु च विशेष-प्राधान्यम् प्रदत्तम्। एतेन वृत्ति-अवसराः वर्धिष्यन्ते, निवेशः अपि वर्धिष्यते, भारतस्य भविष्यं च अधिकं सुदृढं भविष्यति इति प्रधानमन्त्री उक्तवान्
आणवनिर्व्यापनं - यू एस् - इरान् द्वीतीयचर्चा अद्य।
जनीवा> यू एस् - इरानराष्ट्रयोः आणवनिर्व्यापनचर्चायाः द्वितीयचरणं मङ्गलवासरे जनीवानगरे सम्पद्यते। चर्चायै जनीवां सम्प्राप्तः इरानस्य विदेशकार्यमन्त्री अब्बास अराग्चि सोमवासरे अन्ताराष्ट्र आणवोर्जनिदेशकप्रमुखः राफेल् ग्रोसी इत्यनेन सह मिलितवान्। यू एसेन सह नीतियुक्तः सन्तुलितः च सन्धिः एव लक्ष्यमिति अराग्चिना उक्तम्।
अस्मिन् मासे षष्ठदिनाङ्के आसीत् प्रथमचर्चा सम्पन्ना। इरानस्य उपरि विधत्ताः उपरोधाः लघूकर्तुं यू एसः सज्जः तर्हि सम्पुष्टीकृतयुरेनियस्य विषये समायोगाय सज्जमिति इरानेन निगदितमासीत्।
तारिख रहमानस्य शपथक्रिया श्वः।
ओं बिर्लः भारतप्रतिनिधिः।
धाक्का> बङ्गलादेशस्य प्रधानमन्त्रिरूपेण बी एन् पी अध्यक्षः तारिख रहमानः मङ्गलवासरे शपथवाचनं करिष्यति। संसद्भवनसमुच्चयस्य 'सौत् प्लासा' इत्यत्र सम्पद्यमाने कार्यक्रमे राष्ट्रपतिः मुहम्मद षहाबुदीनः सत्यवाचनं कारयिष्यति। कार्यक्रमं प्रति बहवः विदेशराष्ट्रप्रशासननेतारः आमन्त्रिताः सन्ति। भारतस्य प्रतिनिधिरूपेण संसद् सभापतिः ओं बिर्लः भागं करिष्यतीति विदेशकार्यमन्त्रालयेन निगदितम्।
निर्वाचनं सम्पन्नेषु २९९ मण्डलेषु २१२ मण्डलानि बी एन् पी सख्येन प्राप्तानि।बी एन् पी दलेन २०९ स्थानानि लब्धानि।
टि-२० विश्वचषकः।
पाकिस्थानं ६१ धावनाङ्कैः भारतेन पराजितम्। 
क्रीडाप्रवीरः इषान किषनः।
कोलम्बो> क्रिकट् आराधकैः आकाङ्क्षया प्रतीक्षितः प्रतिद्वन्दः सम्पन्नः। टि-२० विश्वचषकस्य ए संघे भारत-पाकिस्थानयोः प्रतिद्वन्दे भारतस्य अनायासः विजयः। अनेन विजयेन भारतं 'सूपर् 8' नामकम् अनन्तरश्रेणीं प्राविशत्।
प्राप्ताङ्कसूचिका - भारतं २० क्षेपणचक्रेषु १७५/७, पाकिस्थानं १८ क्षेपणचक्रेषु ११४ धावनाङ्कैः सर्वे बहिर्नीताः। ४० कन्दुकेषु १० चतुष्काणां ३ षट्काणां साह्येन ७७ धावनाङ्कान् सम्पादितवान् इषान् किषानः क्रीडाप्रवीरः जातः।
आयव्ययपत्रसम्मेलनं - प्रथमचरणं समाप्तम्।
अनन्तरोपवेशनं मार्च् नवमे।
नवदिल्ली> भारतस्य आयव्ययपत्रसम्मेलनस्य प्रथमचरणाय शुक्रवासरे परिसमाप्तिरभवत्। राष्ट्रपतेः नयप्रख्यापनस्य कृतज्ञताप्रकाशनपत्रस्य अनुमोदनेन आयव्ययपत्रस्य उपरि सामान्यचर्चां परिसमाप्य च सभाविरामः जातः।
मार्च्मासे नवमदिनाङ्के पुनरारभ्यमाणायां संसद्सभायां आर्थिकाभ्यर्थनाः अङ्गीकृत्य सम्पूर्णायव्ययपत्रम् अनुमोदयिष्यति। एप्रिल् द्वितीयदिनाङ्के द्वितीयचरणं समाप्स्यते।
ए ऐ शिखरसम्मेलनं श्वः आरप्स्यते।
नवदिल्ली> भारतेन आतिथ्यं वह्यमानं कृत्रिमबुद्धि [A I] शिखरसम्मेलनं सोमवासरे दिल्ल्यां समारप्स्यते। फेब्रुवरि २० तमदिनाङ्कपर्यन्तम् अनुवर्तमाने शिखरसम्मेलने २० राष्ट्रनेतारः ४५ राष्ट्राणां प्रतिनिधयः च भागं करिष्यन्ति। अन्ताराष्ट्रिय 'टेक्-ए ऐ' क्षेत्रस्य बृहत्संस्थाः च भागं करिष्यन्ति।
गूगिल् सि ई ओ सुन्दरपिच्चे, ओपण् ए ऐ इत्यस्य अध्यक्षः साम् ओल्ट् मान्, इत्यादयः सम्मेलनं प्राप्स्यन्ति। फ्रान्स्, स्पेयिन्, स्विट्सर्लान्ट्, ब्रसील् राष्ट्राणां राष्ट्रपतयः, नेतर्लान्ट्, मौरीष्यसः,इत्यादिराष्ट्राणां प्रधानमन्त्रिणः , संयुक्तराष्ट्रसभायाः अध्यक्षः अन्टोणियो गुटरस् च सम्मेलने भागं करिष्यन्ति।
भारतसम्बन्धः बाङ्ग्लादेशस्य हिताधारितः भविष्यति — तारिक् रहमान्
ढाका> बाङ्ग्लादेशस्य हिताधारेण एव भारतदेशेन सह विदेशनीतिः प्रवर्तिष्यते इति बाङ्ग्लादेश-राष्ट्रिय-पक्षस्य (BNP) अध्यक्षः तारिक् रहमान् अवदत्। “बाङ्ग्लादेश्-प्रथमम्” इति अस्माकं नीति: इति सः स्पष्टतया उक्तवान्। भारत–बाङ्ग्लादेशयोः भावि-संबन्धविषये पृष्टे समये एव सः एतां स्थितिं व्यक्ततया उक्तवान्। निर्वाचनसमये बाङ्ग्लादेश-राष्ट्रिय-पक्षस्य सुनिश्चितं विजयानन्तरं प्रदत्ते प्रथमे साक्षात्कारे आसीत् अस्य एतादृशरीत्या अभिमतप्रकाशनम्।
प्रधानमन्त्रिणः नूतनः कार्यालयः - सेवातीर्थः। .webp)
नूतने कार्यालये 'सेवातीर्थे' प्रधानमन्त्री।
नवदिल्ली> प्रधानमन्त्रिणे नूतनः कार्यालयसमुच्चयः सेवातीर्थनामकः उद्घाटितः।प्रधानमन्त्रिणः कार्यालयमतिरिच्य Cabinet Secretariat, National protection council Secretariat इति कार्यालयद्वयं च अस्मिन् सेवातीर्थे प्रवर्तते।
नवदिल्ल्यां भारतस्य नूतनराजधानी १९३१ फेब्रुवरी १३ दिनाङ्के आसीत् उद्घाटिता। तस्य कार्यक्रमस्य ९३ वर्षाणि यदा सम्पन्नानि तदा आसीत् प्रधानमन्त्रिणः नूतनं कार्यालयपरिवर्तनम्। प्रधानमन्त्री नरेन्द्रमोदी उद्घाटनमकरोत्। कर्यालयपरिवर्तनानन्तरं महिलाः, कृषकाः, युवकाः, निष्किञ्चनाः इत्येतेषां क्षेममालक्षयन्त्यः आयोजनाः प्रधानमन्त्रिणा हस्ताक्षरीकृताः।
संस्कृतोत्सव-नियमसंहितायाः अपाकः परिष्कृतः भविष्यति-मन्त्री शशीन्द्रः।
केरलेषु प्राथमिकविद्यालय-छात्रेभ्यः अपि संस्कृत्तोत्सवे भागं स्वीकर्तुम् अवसरः दातव्यः। तदर्थं 'कलोत्सवस्य नियमसंहितायां परिवर्तनमानेतुं प्रयत्नं करिष्यामि' इति मन्त्री शशीन्द्रः अवदत् । केरळ संस्कृताधापक फेडरेषणस्य (KSTF D&P) ४८ तमस्य राज्यस्तरीयमेलनस्य उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। राज्यस्तरीयाध्यक्षस्य डा सि पि सनलचन्द्रः मुख्य भाषणम् अकरोत्। जिलापञ्चायत् अध्यक्षः मिलीमोहनः कार्यक्रमे अध्यक्षा आसीत् । संस्कृताध्यापक फेडरेषनस्य मुख्यसचिवः सि पि सुरेष् बाबुः तथा अन्यसघडनस्य नेतारः अपि भाषणमकुर्वन् ।
बङ्गलादेशे बी एन् पी दलं प्रशानपदं प्राप्नोति।
तारिख रह्मान् प्रधानमन्त्री भविष्यति। .jpeg)
तारिख रह्मानः।
धाक्का> गुरुवासरे सम्पन्ने बङ्गलादेशस्य संसन्निर्वाचने बङ्गलादेश नाषणलिस्ट् पार्टी [बी एन् पी] अधिकारपदं प्राप्नोति। सम्पन्ननिर्वाचनेषु २९९ स्थानेषु २०९ स्थानानि अनेन दलेन प्राप्तानि। मुख्यप्रतिद्वन्द्विदलेन जमा अत्ते इस्लामीदलेन नीयमानं सख्यं केवलं ६८ स्थानानि सम्प्राप। निर्वाचनस्य अन्तिमपरिणामः न विज्ञातः।
बी एन् पी दलस्य अध्यक्षः तारिख रह्मानः प्रधानमन्त्री भविष्यति। दशकद्वयस्य अनन्तरमेव दलस्यास्य अधिकारप्राप्तिः।
वैभव सूर्यवंशी दशमी-परीक्षां न लेखिष्यति; प्राचार्येण उक्तम्
IPL 2026 इत्यस्मिन् क्रीडिष्यति। वैभवः सूर्यवंशी दशमी-कक्षायाः परीक्षां न लिखति इति तस्य विद्यालयस्य प्राचार्येण उक्तम्।प्राचार्यः अवदत् यत् वैभवः अद्य क्रीडाक्षेत्रे अधिकं मनोयोगं दत्त्वा प्रशिक्षणं कुर्वन् अस्ति। अतः सः आगामि-काले IPL 2026 स्पर्धायां क्रीडन् दृश्यते इति सूचितम्। अस्य निर्णयस्य पश्चात् छात्रस्य क्रीडाजीवने नूतनः अध्यायः आरभ्यते इति विद्यालय-पक्षेण अपि निर्दिष्टम्।
टि-२० विश्वचषकः।
नमीबियां ९३ धावनाङ्कैः भारतम् अभ्यभावयत्।
नवदिल्ली> सञ्जु साम्सणः (२२/८), हार्दिक पाण्ड्यः (५२/२८), इषान किषन् (६१/२४) इत्येतेषां ताडनशक्त्यां २०९ धावनाङ्कान् सम्पादितवत् भारतदलं नमीबियां १८. २ क्षेपणचक्रेषु ११६ धावनाङ्कैः सर्वान् बहिर्नीत्वा विजयं प्राप। अस्मिन् विश्वचषके भारतस्य द्वितीयस्पर्धा आसीत् अतीता। भारतं प्रति यथाशक्ति प्रतिद्वन्द्य आसीत् नमीबियायाः पराभवः।
'वाट्साप्' रष्यायां निरुद्धम्।
मोस्को> यू एस् आस्थानत्वेन वर्तनमानः पारिभाषिकभीमः 'मेटा' इत्यस्य अधीनत्वे प्रवर्तमानं सन्देशतन्त्रानुविधायकं [messaging application] वाट्सापनामकं रूसराष्ट्रेण निरुद्धम्। प्रादेशिकनियमान् परिपालयितुम् असमर्थम् इत्यारोप्यास्ति निरोधः।
रष्यायां १० कोटि सजीवोपयोक्तारः वाट्सापाय सन्ति। वाट्सापस्य स्थाने तद्देशीयेन आविष्कृतं , सर्वकारस्य सहयोगेन वर्तमानं सन्देशतन्त्रानुविधायकं 'माक्स्' इत्येतत् प्रति परिवर्तयितुं सर्वकारेण जनाः निर्दिष्टाः। आराष्ट्रं वाट्साप् निरुद्धमिति वार्ता प्रशासनाधिकारिणा दिमित्रि पेस्कोवेन स्थिरीकृता।
मासान् यावत् राष्ट्रस्य डिजिटल् वेदिकाणाम् उपयोक्तृजनान् माक्सानुकूलिनः कारयितुं रष्याप्रशासनं प्रयतते। सल्लापानां सुरक्षादृढीकरणाय आयोजिता End to end encryption इति सविशेषता वाट्सापे वर्तते। किन्तु माक्स् मध्ये तादृशी न विद्यते। जनानामुपरि निरीक्षणं प्रबलीकर्तुं व्यक्तीनां निजियवृत्तान्तान् चोरयितुम् अन्तर्जालसुविधां नियन्त्रयितुं च लक्ष्यीकृत्य अस्ति सर्वकारस्य प्रक्रमः इति विमर्शः वर्तते।
नेत्रस्य दृश्यशक्तिः ८५% विनष्टा - पाकिस्थानस्य प्राक्तनः प्रधानमन्त्रिणः इम्रान खानस्य दुस्थितिः।
![]() |
| इम्रानखानस्य प्राक्तनचित्रम् |
इस्लामबादः> पाकिस्थानस्य पूर्वप्रधानमन्त्रिणः तथा तथा क्रिकट् क्रीडकस्य इम्रान खानस्य स्वास्थ्यविषये समस्या अनुभूयते इत्यस्ति प्रतिवेदनम्। पाकिस्थानस्य उच्चन्यायालयेन नियुक्ततस्य विशेषन्यायवादिनः प्रतिवेदनमिदम्। अडियालस्थे कारागृहे बन्धितस्य इम्रान खानस्य कृते मनुष्यत्वहीनया रीत्या एव पाकिस्थानप्रशासनेन चिकित्सा विहिता इत्यपि प्रितिवेदने अस्ति। कारागृहाधिकारिणा मासान् यावत् चिकित्सा विलम्बिता। अनेन तस्य दक्षिणनेत्रस्य रोगः संवर्ध्य दृशयशक्तिः नष्टप्राया जाता। बन्धुजनानां सन्दर्शनमपि निरुद्धा। अतः तस्य स्थितिः अतिदयनीया इति प्रतिवेदनेन सुव्यक्तं भवति इति पाकिस्थानप्रशासनस्य विमर्शकैः उच्यते।
केरलम्।
केरलस्य ऊर्जस्रोताः इटुक्की जलविद्युत्परियोजना @ ५०।
प्रधानमन्त्रिण्याः इन्दिरागान्धिवर्यायाः हस्तेन चालिता।
भारते बृहत्तमा भूगर्भजलविद्युन्निलयः।
![]() |
| मूलमट्टं 'पवर् हऊस्' प्रवेष्टुं निर्मितः सुरङ्गः। |
तोटुपुष़ा> अनुस्यूतम् ऊर्जं दत्वा केरलराज्यं नैकेषु मण्डलेषु समर्थं कुर्वन्ती 'इटुक्की जलवैद्युतपरियोजना' अद्य ५० वयस्का जाता। १९७६ फेब्रुवरी १२ तमे दिनाङ्के तदानीन्तना प्रधानमन्त्रिणी इन्दिरागान्धिवर्या इटुक्की जनपदे मूलमट्टम् इत्यत्र वर्तमाने विद्युदुत्पादनकेन्द्रे [Power House] Turbine roter नामकं यन्त्रं स्वहस्ताभ्यां चालयित्वा राष्ट्राय समर्पितवती। तदनन्तरं पञ्च दशकैः विस्मयावह्यः उपलब्धयः जाताः।
सामान्यतः प्रतिवर्षं २३९८ एकाङ्कं [Unit] मितस्य विद्युदुत्पादनम् अत्र प्रचलति। उत्पादनक्षमता तु ७८० मेगावाट् मितमस्ति। संवत्सरमशेषं मुवाट्टुपुष़ा, तोटुपुष़ा नदीभ्यां जलं दत्वा अनैकाभिः जलवितरणपरियोजनाभिः चतुर्णां जनपदानां दाहमपाक्रियते। कार्षिकाभिवृद्धिरपि अस्याः अन्यत् प्रयोजनमस्ति।
भूमेरन्तः विस्मयः।
भूमेरन्तर्भागे मानवेन निर्मितम् आश्चर्यमस्ति 'इटुक्की परियोजना'। भारते बृहत्तमा भूगर्भजलविद्युन्निलयः एव मूलमट्टं स्थाने वर्तते। इटुक्की जलसम्भरणीतः ४६ कि मी दूरस्थस्य 'नाटुकाणि' गिरेः अधित्यकायां सार्धैककिलोमीटर् मितं दूरं यावत् स्थूलशिलां वेधयित्वा अश्वखुरत्रस्य आकारे सप्तस्तरयुक्तेन आसीत् विद्युदुत्पादननिलयस्य निर्माणम्। ६६९. २ मीटर् उपरिष्टात् एव टर्बैन् प्रति जलं पतति।
बङ्गलादेशे अद्य निर्वाचनम्।
धाक्का> २०२४ तमे वर्षे बहुजनप्रक्षोभेण षेक् हसीनाप्रशासनस्य बहिर्नयनानन्तरं राष्ट्रस्य प्रथमं सामाजिकनिर्वाचनम् अद्य सम्पद्यते। संसदीयसदस्यान् निर्वाचयितुं १२. ९ कोटि मतदानिनः गुरुवासरे मतदानस्थानानि प्राप्स्यन्ति। ५०तः परं दलेभ्यः १९८१ स्थानाशिनः स्पर्धन्ते।
भूतपूर्वप्रशासनपक्षः 'बङ्गलादेश नाषणलिस्ट् पार्टी' [बी एन् पी], जमा अत्ते इस्लामीति धार्मिकदलेन नीयमानं सख्यं च मुख्यप्रतिद्वन्दिनौ। एन् सी पी इति युवकछात्राणां राजनैतिकदलम् अस्य सख्यस्य अंशः भवति। समीपकाले यशःशरीरा भूतपूर्वा प्रधानमन्त्रिणी खालिदा सिया इत्यस्याः पुत्रः तारिख रह्मानः अस्ति बी एन् पी दलस्य प्रधानमन्त्रिस्थानाशी।
संसदि आयव्ययपत्रमधिकृत्य चर्चा आरब्धा।
विकसितभारतं लक्ष्यीकुर्वत् आयव्ययपत्रमिति शासनपक्षः ; पराजयमिति विपक्षः।
नवदिल्ली> वित्तमन्त्रिण्या निर्मला सीतारामेण प्रस्तुतस्य आयव्ययपत्रस्य उपरि लोकसभायां राज्यसभायां च चर्चा समारब्धा। २०४७ तमे वर्षे विकसितभारतमिति लक्ष्यं प्रति सुप्रधानपदक्षेपः भवति आयव्ययपत्रमिति संसदः उभयोरपि सभयोः शासनपक्षसदस्यैः प्रकीर्तितम्।
किन्तु श्रमिकानां कृषकाणां मध्यवर्गाणां वृत्तिरहितानां च कृते कोSपि समाश्वासः अनेन आयव्ययपत्रेण न लभ्यते इति विपक्षीयसदस्यैः विमृष्टम्।
बङ्गलादेशाय आयातशुल्कः यू एसेन १९% इति न्यूनीकृतः।
धाक्का> बङ्गलादेशात् यु एस् राष्ट्रं प्रति आयातानां वस्तूनां शुल्कः २०% इत्यस्मात् १९% इति यू एसेन न्यूनीकृतः। बङ्गलादेशे उत्पाद्यमानानां कतिपयवस्त्रविशेषाणां निर्यातः शुल्करहितो भविष्यति।
वाणिज्यसन्धिः प्रवर्तनोन्मुखमागत इति बङ्गलादेशस्य अल्पकालीनसर्वकारस्य मुख्योपदेष्टा मुहम्मद यूनुसः न्यगादीत्। यू एस् तः गूधूमः भटमाषः, द्रवीकृतप्रकृतिवायुः इत्येते बङ्गलादेशेन क्रेष्यन्ते इति व्यवस्था अस्ति।
टि-२० क्रिकट् विश्वचषकः ।
भारत-पाकिस्थानस्पर्धा भवेत्।
लाहोरः> टि-२० विश्वचषके भारतेन सह न स्पर्धिष्यते इति पाकिस्थानस्य निर्णयः परिवर्तितः इति सूच्यते। २४ होराभ्यन्तरे अन्तिमनिर्णयः भविष्यतीति पाकिस्थानस्य क्रिकट् समित्याः अध्यक्षेण मोहसिन नख्विना निगदितम्।
अन्ताराष्ट्रिय क्रिकट् समितिप्रतिनिधयः , नख्वी इत्येतेषां परस्परचर्चा तथा श्रीलङ्का, यू ए ई राष्ट्रयोः क्रिकट् समित्योः व्यवहारश्च पुनर्निर्णये कारणं भवति।
मणिपुरे संघर्षः प्रवर्धते।
इम्फालः> नूतनप्रशासनस्य नेतृत्वे शान्त्युद्बोधनप्रवर्तनानि प्रचलन्त्यपि मणिपुरराज्ये संघर्षः तीव्रं वर्तते। कतिपयकालविरामानन्तरं पुनरपि नाग-कुक्किविभागयोः संघर्षे कठिने जाते राज्यं अशान्तौ वर्तते।
सोमवासरे प्रत्युषसि उक्रूलजनपदे आयुधधारिणः केचन गृहाणि अग्निसादकुर्वन्। तदनन्तरं कुक्किसायुधसंघैः भुषुण्डिप्रयोगः कृतः। उक्रूलस्थे लिटाननामके ग्रामे नागयुवकं कुक्किविभागाः ताडितवन्तः इत्यस्मात् उद्भूतः वादप्रतिवाद एव रात्रौ परस्परसंघर्षे समाप्तः। मुख्यमन्त्री युमान खें चन्द इत्यस्य नेतृत्वे शान्तिप्रवर्तनानि आरब्धानि।
वक्रयितुं भ्रामयितुं रूपान्तरं कर्तुं च सक्षमः नूतनः यन्त्रमानुषः वैज्ञानिकैः आविष्कृतः।
यन्त्रमानुषमधिवृत्य वयं चिन्तयामः चेत् यन्त्रभागसदृशानि पाणिपाद युक्तरूपाण्येव सर्वेषां मनसि आयान्ति। टेस्ला इत्यादयः तादृशान् यन्त्रमनुष्यान् निर्मान्ति। किन्तु भाविनिकाले आगम्यमानाः यन्त्रमनुष्याः समानरूपेषु भविष्यन्ति इति चिन्ता न कार्या। इच्छानुसारं वक्रयितुं रूपान्तरणं कर्तुं च सक्षमाः यन्त्रमनुष्याः अपि भाविनि काले भविष्यन्ति इत्यत्र नास्ति संशयः। वैद्युतक्षेत्रद्वारा चलितुं शक्ताः स्निग्ध द्रवपदार्थरूपाः यन्त्रमानुषाः लण्डन् क्वीन् मेरी विश्वविद्यापीठस्थैः तथा ब्रिस्टोल् विश्वविद्यालयस्थैः वैज्ञानिकैः च आविष्कृताः।
सन्तोष् ट्रोफी सर्वीससे लब्धा।
सर्वीससः अष्टमं किरीटं; केरलस्य अनुस्यूततया द्वितीयपराजयः। 
अन्तिमस्पर्धायां पराजये निराशया क्रीडाङ्कणे वर्तमानाः केरलदलाङ्गाः।
दिब्रुगढः> केरल-सर्वीससोः अन्तिमस्पर्धायां सन्तोष् ट्रोफी किरीटं सर्वीससा प्राप्तम्। अधिकसमयस्य अपरार्थे सर्वीससक्रीडकस्य अभिषेक पवारस्य लक्ष्यकन्दुकमेव विजेतृनिर्णयमभवत् [१ - ०]।
सर्वीससदलस्य अष्टमं सन्तोष् ट्रोफी किरीटं भवत्येतत्। केरलं तु अनुस्यूततया द्वितीयवारमेव अन्तिमस्पर्धायां पराजयेन प्रतिनिवर्तते।
केरलम्।
शबरी रेल् मार्गाय भूमिस्वीकारविज्ञप्तिः अचिरेण भविष्यति।
कोच्ची> दशाब्दद्वयाधिककालं यावत् स्थगिता तथा अनिश्चितत्वं प्राप्ता शबरी रेल् यानपद्धतिः पुनरुज्जीवयति। अङ्कमाली - एरुमेली रेल् मार्गाय भूमिसमार्जनविज्ञप्तिः सप्ताहाभ्यन्तरे भविष्यति। रेवन्यू विभागे एतदर्थं प्रक्रमाः पुरोगम्यन्ते।
३८१० कोटि रूप्यकाणि व्ययं प्रतीक्षमाणायै परियोजनायै नूतनसमग्रपरियोजनावेदनानुसारेण [DPR] ३०३. ५८ हेक्टर मिता भूमिः अपेक्षिता वर्तते। पेरुम्बावूर्, मूवाट्टुपुष़ा, पाला इत्येतेषु स्थानेषु भूमिसमार्जनाय कार्यालयाः उद्घाटयिष्यन्ते।
केरले विधानसभानिर्वाचनं द्वारसोपानं प्राप्नुवत् वर्तते इत्यतः निर्वाचनव्यवहारव्यवस्थायाः आगमनात्पूर्वं प्रक्रमान् पूर्तीकर्तुमुद्दिश्यते। अङ्गमालीतः कालटीपर्यन्तं रेल्निस्थानमभिव्याप्य मार्गनिर्माणं २२ वर्षेभ्यः पूर्वमेव पूर्तीकृतमस्ति।
जूण् मासात् पूर्वं युद्धं समाप्तव्यम्।
रष्या-युक्रेनराष्ट्रे प्रति ट्रम्पः।
कीव्> वर्षचतुष्टयं यावत् अनुवर्तमानं रष्या-युक्रेनयुद्धं उपजूण्मासे समापयितव्यमिति यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः। युक्रेनस्य राष्ट्रपतिः वोलोदिमिर् सेलन्स्कि इत्यनेन शनिवासरे प्रस्तुतमेतत्। उभयोरपि राष्ट्रयोः प्रतिनिधयः आगामिसप्ताहे यू एस् मध्ये फ्लोरिडायां चर्चां करिष्यन्तीति तेन प्रोक्तम्। प्रथमतया एव रष्या-युक्रेनचर्चायै यू एस् मध्ये वेदिका सज्जीक्रियते।
टि-२० विश्वचषकः।
भारतस्य जैत्रयात्रा आरब्धा।
यू एसं २९ धावनाङ्कैः अभ्यभावयत्।
![]() |
| यू एसं विरुध्य सूर्यकुमार यादवस्य कन्दुकताडनम्। |
मुम्बई> टि-२० क्रिकट् विश्वचषकस्य प्रथमेदिने भारतस्य क्रीडा विजयेन समारब्धा। प्रथमस्पर्धायां यू एस् दलं २९ धावनाङ्कैः अभ्यभावयत्। दलनायकः सूर्यकुमार यादवस्य उज्वलं प्रकटनं [४९ कन्दुकेषु ८४*] भारताय विजयं सम्मानितवत्।
उत्क्षेपनिर्णयं नष्टीभूय कन्दुकताडनाय निर्बन्धितः भारतदलः अप्रतीक्षितः ताडनक्लेशम् अनुभूय एकैके प्रतिनिवृत्ते दलनायकः सूर्यकुमारयादवः एव रक्षकोSभवत्। २० क्षेपणचक्रेषु नवताडकान् विनष्ट्य १६१ धावनाङ्काः भारतेन प्राप्ताः। प्रतिक्रीडायां २० क्षेपणचक्रेषु अष्ट ताडकान् विनश्य १३२ धावनाङ्कान् सम्पाद्य अमेरिकायाः क्रीडा समाप्ता। भारताय मुहम्मद सिराजः त्रीणि द्वारकाणि पातितवान्। अक्सर पटेलः, अर्ष दीपः इत्येतौ एकैकेन द्वे द्वे द्वारके पातितवन्तौ।
ट्रम्पशुल्कन्यूनीकरणम्
समुद्रोत्पन्ननिर्याते शुभसूचना।
आलप्पुष़ा> भारतीयसमुद्रोत्पन्नानां शुल्के अमेरिकया न्यूनीकृते तस्य प्रथमदिनादारभ्य वाणिज्यमण्डले शुभसूचनाः दृश्यन्ते। उभयोरपि राष्ट्रयोः बृहत्परिमाणव्यापारिणां मध्ये चर्चाः समारब्धाः। जनुवरि १५ तमदिनाङ्कतः अमेरिकां प्रति समुद्रोत्पन्ननिर्यातः पूर्णतया स्थगितः आसीत्।
मत्स्यानां निर्यातः एव भारतस्य सामुद्रिकायस्य मुख्यस्रोतः। विशिष्य पाठीनस्य कुलीरस्य च निर्यातः। २०२३- २४ आर्थिकवर्षे ६०,५२३ कोटि रूप्यकाणि समुद्रोत्मन्ननिर्यातेन लभन्ते स्म। तस्य ६६% पाठीरनिर्यातेन आसीत्। ३७% समुद्रोत्पन्नानि अमेरिका एव क्रीणाति। यदा करः ५०% जातः तदा अमेरिकीयव्यापारिणः भारतात् मत्स्यक्रीणनं तिरस्कृतवन्तः। अनेन भारतस्य आयः बृहद्रूपेण आकुञ्चितः इति Sea food exporter's association इत्यस्य मुख्याधिकारिणा डो के एन् राघवेण प्रोक्तम्। इदानीं शुल्के न्यूनीकृते एक्वडोर्, वियट्नामः, इन्डोनेषिया इत्यादिराष्ट्रैः सह स्पर्धितुमवसरः जातः।
ऊननवदशक्रिकट्
विश्वकिरीटं भारतस्य। 
विश्वचषकं प्राप्तवतः भारतदलस्य आह्लादः।
हरारे> सिम्बाब्वे राष्ट्रे सम्पन्ने ऊननवदशवयस्कानां विश्वचषकक्रिकट् क्रीडायाः अन्तिमप्रतिद्वन्द्वे इङ्गलान्टं शतं धावनाङ्कैः पराजित्य भारतं विश्वकिरीटं सम्प्राप। प्रारम्भकक्रीडकस्य वैभव सूर्यवंशिनः उज्वलशतकस्य [१७५] प्रबलत्वेन आसीत् भारतस्य विजयः। अन्तिमक्रीडायां परम्परायां च श्रेष्ठक्रीडकः वैभवः भवति।
प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु ४११/९। इङ्गलान्टः ४०. २ क्षेपणचक्रेषु ३११ धावनाङ्कैः सर्वे बहिर्नीताः। भारतस्य षष्ठं किरीटं भवत्येतत्।
वैभव सूर्यवंशी ८० कन्दुकेषु १७५ धावनाङ्कान् उपलब्धवान्। १५ चतुष्कानि, १५ षट्कानि च वैभवस्य लगुडात् प्रसूतानि। नायकः आयुष् मात्रे (५३), वेदान्त त्रिवेदी (३२), विहान् मल्होत्रा (३०), अभिग्यान् कुण्डु (४०), कनिष्क चौहानः (३७*) इत्येते च भारताय उज्वलेन क्रीडितवन्तः। प्रतिक्रीडायाम् इङ्गलान्टस्य कालिब फाल्कनरस्य शतकं [११५/६७) विजयाय निष्फलं जातम्।
यातायातमार्गसुरक्षा, शिरासु संवेदना - कोटद्वारपरिवहनविभागेन आधारशिला-समूहेन च सेवाया: नवकार्यं समायोजितम्।
-कुलदीपमैन्दोला
कोटद्वारम्> यातायातमार्ग-सुरक्षा-जीवन-रक्षा-मासस्य अवसरं दृष्ट्वा कोटद्वार-परिवहनविभागस्य तत्त्वावधानेन आधारशिला-रक्तदान-समूह-कोटद्वारेण तथा प्रकाश-नेत्र-परीक्षण-केन्द्रेण संयुक्तरूपेण रक्तदान-शिविरं निःशुल्क-नेत्र-परीक्षण-शिविरं च आयोजितम्।
अद्यतनं दिनं केवलं पञ्चाङ्कस्य एकां तिथिं न, अपि तु कोटद्वार-नगरे ‘संवेदनाया उत्सवः’ इव अभवत्। यत्र सामान्यतः परिवहन-विभागस्य कार्यालयात् दण्डादेश-ध्वनिः श्रूयते, तत्र अद्य “रक्तदानं महादानम्” इति संकल्पनिनादेन दिनं सेवामयं जातम्। यातायातमार्ग-सुरक्षा-सप्ताहस्य अन्तर्गतं नियमपालनस्य उपदेशः प्रदीयते; तदेव अद्य सेवाया महापर्वरूपेण रक्तदान-शिविरस्य आयोजनं सिद्धयति—प्रशासनस्य हस्ते केवलं अधिकाराः न सन्ति, अपि तु करुणया कम्पमानं हृदयम् अपि अस्ति।
सन्तोष् ट्रोफी
केरल-सर्वीससयोः अन्त्यस्पर्धा।
दिब्रुगढः> सन्तोष् ट्रोफी पादकन्दुकक्रीडायाः पूर्वान्त्यचक्रस्य एकस्मिन् प्रतिद्वन्द्वे केरलं पञ्चाबम् एकपक्षीयैः चतुर्भिः लक्ष्यकन्दुकैः अभ्यभावयत्। अन्यस्मिन् प्रतिद्वन्द्वे सर्वीससः रेल्वेसदलं प्रत्युत्युत्तरहितेन लक्ष्यकन्दुकद्वयेन पराजापयत। अन्तिमप्रतिद्वन्द्वः रविवासरे सम्पत्स्यते।
गासायां पुनरपि भुषुण्डिप्रयोगः - २१ जनाः हताः।
डेयर् अल् बला> युद्धविरामः वर्तमाने गासाप्रान्ते शान्तिसन्ध्युल्लुङ्घनं कृत्वा इस्रयेलस्य आक्रमणम्। बुधवासरे इस्रयेलसेनया कृते भुषुण्डिप्रयोगे २१ जनाः हताः। हतेषु पञ्च बालकाः सप्त महिलाश्च अन्तर्भवन्ति।
उत्तरगासायां टुफा, दक्षिणगासायां खान् यूनिस् इत्येते स्थानद्वये आसीदाक्रमणम्। स्वसैनिकान् विरुध्य 'तीव्रवादिनः' भुषुण्डिप्रयोगं कृतवन्तः इत्येव सैनिकाक्रमणस्य हेतुरिति इस्रयेलस्य न्यायवचः। सेनाक्रमणं हमासेन मध्यस्थैश्च अपलपितम्।
ऊन१९ क्रिकट् विश्वचषकः
भारतम् अन्त्यचक्रे। .jpeg)
प्राप्तशतकः आरोण जोर्जः।
हरारे> महत्प्राप्ताङ्कान् सम्पादितवन्तम् अफ्गानिस्थानदलं सप्तद्वारकैः अभिभाव्य भारतस्य कौमारसंघः ऊननवदशवयस्कानां विश्वचषकक्रिकट् क्रीडायाः अन्तिमचक्रं प्राविशत्। पूर्वान्त्यक्रीडायां प्रथमं कन्दुकताडनं कृतवान् अफ्गानिस्थानसंघः ५० क्षेपणचक्रेषु चतुर्णां ताडकानां विनष्टे ३१० धावनाङ्कान् सम्पादयामास। भारतं तु प्रत्युत्तरे ४१. १ क्षेपणचक्रेषु त्रीन् ताडकान् विनश्य ३११ धावनाङ्कान् सम्पाद्य अनायासविजयं समुपालभत। शुक्रवासरे सम्पत्स्यमानायाम् अन्त्यस्पर्धायां प्रतिद्वन्द्वी इङ्गलाण्टः अस्ति।
भारतस्य प्रारम्भकः केरलीयः आरोण् जोर्जः १०४ कन्दुकेभ्यः ११५ धावनाङ्कान् सम्पादितवान्। वैभव सूर्यवंशी ३३ कन्दुकेभ्यः ६८ धावनाङ्कान् सम्पादितवान्। नायकः आयुष् मात्रे ६२ धावनाङ्कान् सम्पादितवान्। विहान मल्होत्रा ३८ धावनाङ्कान् सम्पाद्य अबाह्यः जातः।
राष्ट्रपतिशासनं प्रत्याहृतम्।
मणिपुरे खें चन्दः मुख्यमन्त्री अभवत्।
![]() |
| शपथवेलायां मुणिपुरस्य मुख्यमन्त्री खेम चन्दः (दक्षिणे) राज्यपालः अजय भल्लश्च। |
इम्फालं> एकसंवत्सरं यावत् राष्टपतिप्रशासनात् परं मणिपुरराज्ये युं नां खें चन्द सिंहस्य [वै खें चन्दः - ६२] नेतृत्वे भाजपा मन्त्रिमण्डलं शपथवाचनं कृत्वा अधिकारं स्वीचकार। इम्फाल लोकभवने राज्यपालः अजय कुमारभल्लः शपथवाचनम् अकारयत्। मणिपुरे शान्तिम् ऐक्यं च प्रबलीकर्तुं यतिष्यते इति खेम चन्दः प्रस्तुतवान्।
कुक्कीविभागस्य नेत्री भूतपूर्वा मन्त्रिणी नेम्चा किप जेना तथा नागा पीपिल्स् फ्रन्ट् दलस्य नेता एल् दिखो च उपमुख्यमन्त्रिरूपेण कार्यभारं स्वीकृतवन्तौ। इतरौ द्वौ भाजपानेतारौ च मन्त्रिणौ स्तः।
सन्तोष् ट्रोफी
केरलं, पञ्चाब्, सर्वीसस्, रल्वेस् इत्येते पूर्वान्त्यचक्रे।
दिब्रुगड्> सन्तोष् ट्रोफी राष्ट्रियपादकन्दुकस्पर्धायाः प्रपूर्वान्त्यचक्रे आतिथेयराज्यस्य असमस्य संघः केरलदलेन पराजितः - [३-०]। गुरुवासरे सम्पद्यमाने पूर्वान्त्यद्वन्द्वे पञ्चाबेन सह स्पर्धिष्यते। तमिलनाटदलम् अभिभाव्य अस्ति पञ्चाबस्य प्रवेशः।
वर्तमानीनवीरः पश्चिमवंगः प्रपूर्वान्त्यचक्रे सर्वीससेन पातितः। त्वरितलक्ष्यवेधने आसीत् सर्वीससस्य विजयः। पूर्वान्त्यचक्रे रेल्वेसं प्रति स्पर्धिष्यते। राजस्थानं पातयित्वा अस्ति रेल्वेसस्य पूर्वान्त्यप्रवेशः।
मणिप्पुरे नूतनसर्वकारः उपायाति।
इम्फालः> मणिप्पुरराज्ये राष्ट्रपतिप्रशासनं समापयित्वा नूतनसर्वकाररूपीकरणाय भाजपादलेन प्रक्रमः आरब्धः। दिल्ल्यां केन्द्रनेतृत्वेन सह सम्पन्ने उपवेशने विधानसभानेतृरूपेण वै खेमचन्द सिंहः चितः। अचिरेण मुख्यमन्त्रिपदं स्वीकरिष्यतीति सूच्यते।
कुक्किविभागस्य महिलानेत्री तथा भूतपूर्वा मन्त्री नेम् चा किप्चेन् नामिका उपमुख्यमन्त्रिपदं वक्ष्यति। नियमानुसारं राष्ट्रपतिप्रशासनं फेब्रुवरी १२ तमे दिनाङ्के समाप्यते।