प्रधानमन्त्री नरेंद्रमोदीः चतुर्दश-वर्षीयाभ्यः कन्याभ्यः राष्ट्रव्यापिनं ह्यूमन्-पापिलोम-वैराणु (HPV) सूच्यौषधाभियानं प्रारब्धवान्।
![]() |
राजस्थान-राज्यस्य अजमेर-नगरस्य कायड्-प्रदेशे आयोजिते कार्यक्रमे गर्भाशय-अर्बुद-रोग-निवारणार्थं अयं अभियानः प्रधानमन्त्रिणा नरोन्द्रमोदिना औपचारिकरूपेण उद्घाटितः। तस्मिन् अवसरे अनेकाभ्यः कन्याभ्यः सूच्यौषधं प्रदत्तम्, तथा प्रधानमन्त्री लाभार्थिभिः सह संवादं कृतवान्।
अधिकारिणां वक्तव्यानुसारं “गार्डसिल् ४” (Gardasil 4) इति एक-मात्रा-युक्तं HPV- सूच्यौषधम् उपयुज्यते। अनेन सूच्यौषधप्रयोगेण गर्भाशय-ग्रीवार्बुदस्य कारणभूतेभ्यः HPV -१६ ,१८ , ६ तथा ११ -प्रकारेभ्यः वैराणुभ्यः संरक्षणं करोति
षोडश अष्टदश षट् तथा एकादश
