OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 6, 2026

 अद्य भारत-युरग्वाय् पादकन्दुकस्पर्धा।

कोल्कोत्ता> ब्रसीलेन सह पादकन्दुकक्रीडायाः अनन्तरं मंगलवासरे रात्रौ भारतं चरित्रे प्रथमविश्ववीरेण युरग्वायराष्ट्रेण सह क्रीडति। कोल्कोत्तायां साल्ट् लेक् क्रीडाङ्कणे सार्धसप्तवीदने अस्ति स्पर्धा। 

  द्वितीयवारमेव भारतं युरग्वायम् अभिमुखीकरोति। प्रथमस्पर्धा १९८२ तमे वर्षे नेहरू चषके आसीत्। तदानीं ३-१ इति क्रमे युरग्वायः विजितः। फिफायाः श्रेणीकरणे युरग्वायः २० तमस्थाने अस्ति। भारतं तु १३८ तमे स्थाने च।

 वैद्यशास्त्रनोबेल् पुरस्काराय त्रयः  उद्घोषिताः। 

पुस्कारोद्घोषणम्।

स्टोक होमः> अस्य वर्षस्य वैद्यशास्त्रनोबेल् पुरस्कारः उद्घोषितः। त्रयः अर्हाः अभवन्। यू एस् - जर्मन् गवाषकाः नाम्ना काल् डेय्स् रोत् (५४), पीटर् हेग्मान् ७१), जोर्ज् नगेल् (७३) इत्येते पुरस्कृताः। मस्तिष्कस्थानां वैयक्तिकनाडीकोशानां प्रवर्तनं प्रकाशम् उपयुज्य  नियन्त्रणविधेयं सुसाध्यमाने अनुशीलने [Optogenetics] अस्ति पुरस्कारः।

 प्रकाशेन मस्तिष्कीयनाडीकोशिकानां नियन्त्रणम्; कार्ल-डीसेरोथ्, पीतर्-हेगेमन्, जोर्ज्-नागेल् इत्येतेभ्यः २०२६ वर्षे वैद्यशास्त्रे नोबेल्-पुरस्कारः

​स्टाक्होम्> (Stockholm) — २०२६ तमस्य वर्षस्य वैद्यशास्त्राय (Medicine) नोबेल्-पुरस्कारः (Nobel Prize) त्रिभ्यः वैज्ञानिकेभ्यः उद्घोषितः। कार्ल्-डीसेरोथ् (Karl Deisseroth), पीतर्-हेगेमन् (Peter Hegemann), जोर्जज्-नागेल् (Georg Nagel) इत्येते वैज्ञानिकाः अस्य पुरस्कारस्य भागिनः अभवन्। एतेभ्यः प्रकाश-नियन्त्रित- आयस-प्रणालीनां (light-gated ion channels) अन्वेषणाय, प्रकाश-आनुवंशिकी-प्रविधेः (Optogenetics) विकासाय च संयुक्तरूपेण एषः पुरस्कारः समर्पितः। स्वीडन् (Sweden) देशस्य कैरोलिन्स्का-संस्थायाः (Karolinska Institute) नोबेल्-समित्या एषा विज्ञप्तिः कृता।

 ब्रिटीषविमानं २८,००० पादमितम् अधः निपतितम्। 

लण्टनं> फ्लै दुबाय् विमानघटनायाः जातस्य प्रकम्पनस्य विमोचनात्पूर्वं तादृशी इतरा घटना अपि ब्रिटनादागच्छति। 

  लण्टने हीत्रो विमाननिलयात् षिकागोस्थं 'ओहेयर्' विमाननिलयं प्रति डयमानं ब्रिटिश एयर्वेस् संस्थायाः बोयिंग् ७७७ विमानं आपत्कालीनरीत्या हीत्रोविमाननिलये प्रत्यवतरणं कारितम्। हेतुः क इति न स्पष्टीकृतः। विमानं यदा अयर्लान्डस्य उपरि प्राप्तं तदा ३७,००० पादमितात् उच्चात् अधः निपत्य क्षणाभ्यन्तरे ९००० पदमितम् उच्चावस्थां प्राप्तमासीत्। अस्मिन् समये विमानात् 'स्क्वाक् 7700' इति आपत्कालीनसन्देशः बहिरागतः। भारलघूकरणाय इन्धनविसर्जनं कृतमिति वृत्तान्तीक्रियते। 'अप्रतीक्षितं प्रवर्तनदोष' एव यात्रासमापनाय कारणमिति कतिपयैः ब्रिटीषीयमाध्यमैः वृत्तान्तीकृतम्।

Monday, October 5, 2026

 एष्यन् गयिंस् क्रीडायै वर्णोज्वलपरिसमाप्तिः।

आगामि गयिंस् खत्तरे। 

गयिंस् समाप्तिकार्यक्रमात्।

नगोया> जापाने 'एची-नगोया' नामकं नगरं केन्द्रीकृत्य अतीतानि पञ्चदशदिनानि यावत् आयोजिताः एष्यन् गयिंस् स्पर्धाः वर्णशबलैः कार्यक्रमैः परिसमाप्ताः। २०३० तमे वर्षे सम्पत्स्यमानस्य गयिंस् महोत्सवस्य आतिथेयराष्ट्रेण खत्तरेण गयिंस् दीपशिखा पताकया सह स्वीकृता।

  नगोयायां 'मिसुहो पलामो' इति कायिकक्रीडाङ्कणे जापानस्य राजकुमारः फुमिहि तो, तस्य पत्नी किको इत्यादीनां सान्निध्ये एष्यायाः ओलिम्पिक्स् कौण्सिल् संस्थायाः अध्यक्षः षेक् जोवान् वर्यः समाप्तिघोषणं कृतवान्।

 युक्रैने रष्यायाः आक्रमणमनुवर्तते।

कीव्> युद्धविरामाय अन्ताराष्ट्रनयतन्त्रप्रक्रमेषु पुरोगच्छत्सु युक्रैनं प्रति रष्यायाः तीव्रमाक्रमणम्।  जर्मन्याः चान्सलर् पदीयः फ्रेडरिक् मेर्सन् वर्यस्य युक्रैनसन्दर्शनमध्ये आसीत् गतदिनस्य आक्रमणम्। कीव् नगरस्थः मुख्यसेतुः आक्रमणे भग्नः। 

  सामान्यजनान् विरुध्य रष्यया क्रियमाणं युद्धं मेर्स् वर्येण अपलपितम्। इदानीं युक्रैनं विरुध्य क्रियमाणं युद्धम् अचिरात् यूरोपं प्रतिभवेदिति सः पूर्वसूचनामदात्। युक्रैनाय शताधिककोटि डोलर् मूल्यमितस्य सैनिकसाहाय्यं जर्मन्या उद्घोषितम्। 

 रष्य-यूक्रेन-युद्धे भारतस्य मध्यस्थता

     नवदिल्ली> वैदेशिककार्यमन्त्री एस्. जयशङ्करः म्यूख-नेतृसम्मेलने (Munich Leaders Meeting) अवदत् यत् रष्य-यूक्रेन-युद्धस्य समापनाय भारतम् सम्प्रति सक्रियतया मध्यस्थतां करोति। भारतम् केवलं शान्तेः आह्वानं न करोति, अपि तु द्वयोः देशयोः मध्ये महत्वपूर्णसन्धीनां स्थापनाय यतते।

तेन उक्तं यत् १९५० तः भारत-रष्य-देशयोः मैत्रीपूर्णाः सम्बन्धाः सन्ति। यदा भारतस्य सुरक्षायाः संकटः आसीत्, तदा सोवियत-सङ्घः अस्माकं साह्यम् अकरोत्। अद्य एषः सम्बन्धः आर्थिक-सैन्य-ऊर्जा-अन्तरीक्ष-क्षेत्रेषु सुदृढः अस्ति।

जयशङ्करः स्पष्टीकृतवान् यत् कृष्णसमुद्रे नौकायानसुरक्षायै, अन्न-ऊर्जा-निर्यातविषये, परस्परम् आक्रमणाभावाय च भारतम् उभाभ्यां देशाभ्यां सह वार्तां कुर्वत् अस्ति। एताः चर्चाः सम्प्रति प्रचलन्त्यः सन्ति।

Sunday, October 4, 2026

 ग्यानेष् कुमारं विरुध्य केरले दक्षताविभगस्यान्वेषणम्।


अनन्तपुरी> मुख्यनिर्वाचनायुक्तं ग्यानेष् कुमारं विरुध्य राज्य दक्षताविभागेन [Department of Vigilance] पुनरन्वेषणं विहितम्। केरले यदा सः सार्वजनीननिर्माणविभागस्य [Public Work Department - PWD-] कार्यदर्शिपदे स्थिते  २००६ तमे तं विरुध्य दक्षताविभागेन विधत्तं प्रकरणं पुनरन्वेष्टुं गृहमन्त्री रमेश चेन्नित्तला निरदिशत्। 

  अङ्कमाली - अनन्तपुरी 'एम् सी रोड्' देशीयमार्गस्य विकसनाय   निर्माणसन्धिं स्वीकृतवत्याः मलेष्यीयसंस्थायाः तन्त्रज्ञः लीसी बिन् इत्यस्य आत्महत्यायां ग्यानेष कुमारस्या अविहितः व्यवहारः अपि कारणमासीदिति आरोपः एव प्रकरणस्य आधारः। मन्त्रिणः निर्देशमनुसृत्य दक्षताविभागेन प्राथमिकान्वेषणमारब्धम्।

 तन्त्रज्ञस्य आत्माहुतिलेखे ग्यानेष कुमारस्य नाम परामृष्टमासीदिति तदानीन्तनवित्तमन्त्री डा तोमस् ऐसकः समीपकाले उक्तवानासीत्। किन्तु तन्त्रज्ञस्य आत्माहुतिलेखस्य केरलं प्रति हस्तान्तरीकरणाय सर्वकारस्य पक्षतः उद्यमो नाभवत्। ग्यानेषस्य स्थानान्तरमासीत् एक एव दण्डप्रक्रमः। सः अचिरादेव deputation  प्रकारेण केन्द्रसर्वकारसेवार्थं गतवान् च।

 रष्या-युक्रेन् युद्धविरामाय भारतस्य दौत्यम्। 

शान्तिनिर्देशान् प्रति युक्रेनस्य अनुकूलनम्। 

नरेन्द्र मोदी युक्रेनस्य राष्ट्रपतिः वोलोदिमिर् सेलन्स्की च।

कीव्> सार्धवर्षातीतस्य रष्या-युक्रेन् युद्धस्य सम्पूर्णविरामाय समग्रनिर्देशान् प्रस्तूय भारतस्य अन्ताराष्ट्रियनयतन्त्रोद्यमः। युद्धविरामाय भारतेन समर्पिताः निर्देशाः, अमेरिका तुर्की ईजिप्तः इत्येतेषां निर्देशेभ्यः समग्राः विशालहितयुक्ताः चेति युक्रेनस्य विदेशकार्यमन्त्री आन्द्री सिबिहा वर्येण प्रस्तुतम्। 

  ऊर्जाक्षेत्रेषु सम्पूर्णः आक्रमणविरामः, कृष्णसमुद्रे युद्धविरामः - एतयोः  युगपत् प्रवृत्तिपथम् आनयनम्  इत्येव भारतनिर्देशानां सारः इति सूच्यते।

  युद्धविरामदौत्ये व्यवहाराय भारतस्य प्रक्रमान् रष्यायाः राष्ट्रपतिः व्लादिमीर पुतिनः प्रशशंस। शान्तिपुनःस्थापनाय नरेन्द्र मोदिनः  हस्ते श्रेष्ठाः आशयाः वर्तन्ते इति पुतिनेन प्रोक्तम्।

 एष्यन् गयिंस्

क्रिकेट,होकी क्रीडाद्वये सुवर्णम्।

होकीस्पर्धायां सुवर्णं प्राप्तवतः भारतगणस्य आह्लादः। 

नगोया> पुरुष क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वे पाकिस्थानं १९ धावनाङ्कैः पराजित्य भारतं सुवर्णपदकमलभत। अनुस्यूततया द्वितीयवारमेव एष्यन् गयिंस् मध्ये भारतस्य सुवर्ण प्राप्तिः। 

 होकिस्पर्धायां पञ्चमवारमपि सुवर्णं सम्प्राप्य भारतीयपुरुषाः २०२८ तमवर्षस्य  ओलिम्पिक्स् स्पर्धायै योग्यतां सम्पादयामास। अन्तिमचक्रे मलेष्यां ५ - १ इति लक्ष्यक्रमेण पराजित्य एव सुवर्णप्राप्तिः। गतदिने महिलाविभागे अपि भारतं सुवर्णाभिषिक्तमासीत्। प्रथमतया एव पुरुष-महिलाविभागयोः होकिस्पर्धायां सुवर्णप्राप्तिः।

 'फ्लै दुबाय्' विमाने सञ्जातं भीकरप्रवर्तनमिति यू ए ई । 

स्मित् मच्चाराय अभिनन्दनप्रवाहः।

दुबाय्> गतदिने यू ए ई राष्ट्रस्य विमाने मुख्यवैमानिकः आक्रान्तः इति दुर्घटना भीकरप्रवर्तनमिति राष्ट्रस्य राजनीतितन्त्रोपदेष्टा अन्वर् गर्गाष् इत्यनेन प्रोक्तम्। गुरुतरेण क्षतोSपि यात्रिकानां प्राणरक्षणाय प्रययितवान् भारतीयः मुख्यवैमानिकः स्मित मच्चारः अभिनन्दनमर्हतीति तेन प्रस्तुतम्।

  भारतप्रधानमन्त्री नरेन्द्र मोदी तं दृश्यप्रणालिकया आहूय राष्ट्रस्य कृतज्ञताम् अभिनन्दनं च प्राकाशयत्। मच्चारस्य स्वास्थ्यावस्थामधिकृत्य च मोदी मार्गितवान्।  तथा च यू एस् राष्ट्रपति डोनाल्ड ट्रम्पः , इस्रयेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहुः, इतरे राष्ट्रनेतारश्च स्मित मच्चारस्य विपदिधैर्यं, साहसिकतां चानुमोदितवन्तः।

Saturday, October 3, 2026

 एस् ऐ आर् - सविशेषप्रवर्तनेन निष्कासिताः प्रत्यानेष्यन्ते।

नवदिल्ली> समग्र मतदानावलीपरिष्करणे [SIR] सञ्जातानां विवादानां विमर्शनानां समाश्वासाय केन्द्रनिर्वाचनायोगस्य 'रक्षाप्रवर्तनम्'। अस्य प्रक्रमस्य अंशतया, येषु राज्येषु SIR प्रक्रिया सम्पूर्णा तत्र निष्कासितान् नूतनया अन्तर्भवितुमिच्छून् च पुनरानेतुं सविशेष प्रवर्तनं [special drive] सञ्चालयितुं केन्द्रनिर्वाचनायोगेन आयोजिते राज्यस्थानां मुख्यनिर्वाचनाध्कारिणाम् उपवेशने निश्चितम्। 

  तदर्थं मार्गनिर्देशाः उद्घोषिताः। प्रदेशस्थाः बी एल् ओ पदीयाः गृहसम्पर्कं कृत्वा नूतनान् अन्तर्भावयितुं प्रयततिव्याः।

 सहवैमानिकः मुख्यवैमानिकम् आक्रम्य विमानं सन्निपात्य भञ्जितुमुद्यमः। 

भारतीयवैमानिकस्य विपदिधैर्येण सर्वे यात्रिकाः सुरक्षिताः। 

विमानं सौद्यां झटिति  अवतारितम्। 

अनुविद्धः मुख्यवैमानिकः स्मित मच्चारः। 

टेल् अवीव्>  दुबाय् तः इस्रयेलं प्रति डयमानस्य 'फ्लै दुबाय्' विमानस्य वैमानिकप्रकोष्ठे [Cockpit] वैमानिकसंघट्टनम्। ओमानीयः सहवैमानिकः भारतीयं मुख्यवैमानिकं - नाम्ना स्मित् मच्चार् - निशितेनायुधेन विव्याध। तीव्रेण क्षतः मुख्यवैमानिकः विपदिधैर्यमवलम्ब्य प्रकोष्ठद्वारमुद्घाटितवान्। भयचकितेषु  यात्रिकेषु केचन धैर्मवलम्ब्य विमानचालकप्रकोष्ठं प्रविश्य आक्रमणकारिणं सहवैमानिकम् अभिभाव्य बबन्धुः। 

  ओमानीयस्य सहवैमानिकस्य नामादिकं न लब्धम्। तस्य भीकरसम्बन्धमारोप्य इस्रयेलस्य प्रधानमन्त्रिणः  बञ्चमिन् नेतन्याहोः प्रस्तावः आगतः। लोकनेतारः भारतीयवैमानिकं मच्चार् वर्यं अभिनन्दनैः प्रशंसावचनैः अनुमोदितवन्तः।

 भारताय महिला यष्टिक्रीडायां ४४ वर्षेभ्यः परं सुवर्णम्, ओलिम्पिक्स् योग्यता।

सुवर्णं प्राप्तः भारतस्य महिलागणः। 

नगोया> एष्यन् गयिंस् क्रीडायां महिलानां यष्टिक्रीडायां [Hockey] ४४ वर्षेभ्यः परं भारतस्य सुवर्णप्राप्तिः। चीनराष्ट्रं प्रत्युत्तररहितेन एकेन लक्ष्यकन्दुकेन पराजित्य आसीत् भारतीयमहिलानाम् अविस्मरणीयविजयः। अनेन विजयेन भारतम् ओलिम्पिक्स् स्पर्धायै योग्यतामपि स्वायत्तीचकार। इतः पूर्वं १९८२ तमे वर्षे आसीत् अस्मिन् विभागे भारतस्य सुवर्णप्राप्तिः।

Friday, October 2, 2026

International Day of Peace

 महात्मागान्धिनः जन्मजयन्ती – अहिंसायाः सत्यस्य च शाश्वतप्रकाशः

    अद्य महात्मागान्धिनः जन्मवार्षिकोत्सवः वर्तते, यः अहिंसां सत्याग्रहञ्च आयुधत्वेन स्वीकृत्य आङ्ग्लसाम्राज्यमपि अवनतमकरोत्। एषः दिवसः जगति सर्वत्र 'अन्ताराष्ट्रियाहिंसादिनम्' इति रूपेण आचर्यते।

'मम जीवनमेव मम सन्देशः' इति उद्घोषितवान् गान्धीमहोदयः सत्यम्, अहिंसाम्, समताम्, भ्रातृभावञ्च आधारीकृत्य जीवनं कृतवान्। विश्वासी, तर्कनिष्ठः, धर्मनिरपेक्षश्च भूत्वा सः पारम्परिकानि आधुनिकानि च मूल्यानि एकीकृत्य आचरत्।

दक्षिणआफ़्रिकादेशे वर्णभेदविरुद्धात् निरायुध-युद्धात् परं १९१५ तमे वर्षे भारतं प्रत्यागतः सः चम्पारण-सत्याग्रहः, असहयोगसमरः, लवणसत्याग्रहः, 'भारतं त्यजत' (क्विट् इण्डिया) इत्यादि रक्तरहितविप्रतिषेधैः भारतीयस्वातन्त्र्यसंग्रामस्य नेतृत्वमकरोत्। सः सामाजिकदुराचाराणाम् उन्मूलनार्थं प्रायतत, भारतविभाजनसमये च शान्तिदूतः भूत्वा जनानां मध्ये सञ्चारमकरोत्। मार्टिन् लूथर् किङ्ग् जू नियर्, नेल्सन् मण्डेलः इत्यादयः विश्वनेतारः गान्धिदर्शनेन प्रभाविताः अभवन्। अद्यतनयुगे अपि गान्धीयाशयानां प्रासंगिकता अनवरतं प्रवर्धते।

 अद्य अन्ताराष्ट्र अहिंसादिनम्। 

आराष्ट्रं महात्मागान्धिने श्रद्धाञ्जलिः। 


नवदिल्ली> ओक्टोबर् २ भारतस्य राष्ट्रपितुः महात्मागान्धिनः जन्मदिनम्। तस्य १५८ तमे जन्मदिने राष्ट्रे सर्वत्र विविधैः कार्यक्रमैः भारतस्य स्वतन्त्रतायै समर्पितं गान्धिमहाभागस्य अहिंसाधिष्ठितं त्यागोज्वलं च जीवितम् अनुस्मर्यते। संयुक्तराष्ट्रसभया दिनमिदं अन्ताराष्ट्रिय अहिंसादिनत्वेन आचर्यते च।

 एष्यन् गयिंस् ।

चीनस्य अग्रगामित्वम् अनुवर्तते।

जापानः, दक्षिणकोरिया च पृष्ठतः। भारतम् अष्टमस्थाने। 


नगोया> २० तमे एष्यन् गयिंस् प्रतिद्वन्द्वे चीनराष्ट्रं क्रीडासु तस्य अप्रमादित्वम् अनुवर्तते। पदकसूचिकायां आहत्य २८८ पदकैः चीनः प्रथमस्थाने तिष्ठति। तेषु १५४ सुवर्णानि सन्ति। रजतानि ७१, कास्यानि ६९ च भवन्ति। द्वितीयस्थाने वर्तमानस्य जापानस्य पदकोपलब्धिः आहत्य २१७ अस्ति। ५९ सुवर्णानि, ७९ रजतानि,७९ कांस्यानि च। दक्षिणकोरिया ३० सुवर्णानि,३० रजतानि, ५३ कांस्यानीत्येवं क्रमे आहत्य ११३ पदकानि सम्पाद्य तृतीयस्थाने वर्तते। भारतं तु अष्टमस्थाने अस्ति। सुवर्णानि दश, रजतानि २३, कांस्यानि ३३। आहत्य ६६ पदकानि।

 भारत-ब्रसीलयोः सौहृदपादकन्दुकस्पर्धा श्वः।

ब्रसीलदलः कोल्कोत्तां प्राप्तः। 

कोल्कोत्ता>  विश्वपादकन्दुकमण्डले चरित्रपुरुषाणां नूतनपरम्परा भारतं सम्प्राप्ता। 'सांबातालं, पीतसेना' इत्यादिविशेषणैः आराध्यमानः ब्रसीलीयपादकन्दुकक्रीडासंघः गुरुवासरे रात्रौ कोल्कोत्तां सम्प्राप्तः। प्रथमतया एव क्रीडार्थं ब्रसीलस्य भारतागमनम्। 

  शनिवासरे रात्रौ सार्धसप्तवादने 'साल्ट् लेक्' क्रीडाङ्कणे अस्ति भारत-ब्रसीलयोः सौहृदस्पर्धा। ब्रसीलगणे विनीष्यसः, ब्रूणो गिमारस्, रयान्, डानिलो, एन्ड्रिक्, एस्तावो, पेड्रो इत्यादयः क्रीडकश्रेष्ठाः सन्ति। 

  भारतगणः अपि कोल्कोत्तायां तीव्रपरिशीलने वर्तते। खालिद् जमीलः एव परिशीलकः। आस्त्रेलियावंशजः रयान् विल्यंसः, आशिक करुणियः, सहल् अब्दु समदः इत्यादयः भारताय क्रीडिष्यन्ति। लक्ष्यरक्षकः गुरु प्रीत सिंहसन्धुः भवेत् भारतस्य नायकः।

 इराखतः यू एस् सेना सम्पूर्णतया अपसृता। 

१२ वर्षाणां दौत्याय समाप्तिः। 

बाग्दादः> इराखे अवशिष्टान् सैनिकानपि अपाकरोदिति यू एस् सेनाधिकारिणा निगदितम्। ऐ एस् ऐ भीकरान् विरुध्य योद्धुं १२ वर्षेभ्यः पूर्वमारब्धः अन्ताराष्ट्रियसैनिकप्रक्रमः औद्योगिकतया समाप्तः। इराख-अमेरिकयोः उभयपक्षसन्धेः आधारेण , उत्तरइराखस्य कुर्दिष् प्रान्तीयात् इर्बिल् व्योमनिलयात् अन्तिमः यू एस् सैनिकसंघ अपि सुरक्षितेन प्रतिन्यवर्तत। 

  २००३ तमे वर्षे सद्दाम हुसैनप्रशासनं निष्कासयितुमासीत् यू एस् सैन्येन इराखम् अधिनिविष्टः। २०११ तमे प्रतिनिवृत्तमपि २०१४ तमे वर्षे ऐ एस् ऐ भीकरसंघैः इराखस्य भूरिशः प्रदेशाः निगृहीताः। अस्मिन् सन्दर्भे सर्वकारस्य आमन्त्रणमनुसृत्य यू एस् सेना पुनरपि आगच्छत्।

Thursday, October 1, 2026

 एष्यन् गयिंस् ।

दिनेनैकेन चत्वारि सुवर्णानि।

भारतम् अष्टमस्थाने। 

नगोया> अस्त्राभ्यात् लब्धानि त्रीणि सुवर्णानि अभिव्याप्य ह्यः भारताय चत्वारि सुवर्णानि लब्धानि। गोलिका प्रक्षेपे अस्ति अन्यत्सुवर्णम्। एकेनैव दिनेन एतावती सुवर्णोपलब्धिः प्रथमतया अस्ति। त्रीणि कांस्यान्यपि बुधवासरे लब्धानि। अनेन भारतं पदकावल्याम् अष्टमस्थानं प्राप।

 अरबसमुद्रे ३००० कोटि रूप्यकाणां मादकद्रव्यनिग्रहणम्।

५ पाकिस्थानीयाः निगृहीताः।

निगृहीताः पाक् नागरिकाः मादकद्रव्यैः सह।

कोच्ची> लक्षद्वीपानां समीपे आरबसमुद्रे कस्माच्चित् इरानीयसमुद्रयानात् त्रिसहस्राधिककोटि रूप्यकाणि मूल्योपेतानि ५२६ किलो मितानि मादकद्रव्यानि निगृहीतानि। घटनायां पञ्च पाकिस्थाननागरिकाः तटरक्षासेनया गुजरातस्य भीकरविरुद्धसेनया च निगृहीताः। २५ तमे दिनाङ्के आपन्ना इयं घटना गतदिने एव अधिकृतैः बहिर्नीता। 

  'हेरोयिन्, मेथांफिटामिन्' इति मादकद्रव्यमस्ति निगृहीतम्। मुम्बय्यां नीतवन्तः अपराधिनः केन्द्र गुप्तान्वेषणसंस्थायाः परिपृच्छाधीनाः वर्तन्ते।

संयुक्तराष्ट्रसङ्घस्य जालपुटे षोडशसहस्राधिकवारम् 'ए.ऐ' यन्त्रांशानाम् अतिक्रमणम्

 संयुक्तराष्ट्रसङ्घस्य जालपुटे षोडशसहस्राधिकवारम् 'ए.ऐ' यन्त्रांशानाम् अतिक्रमणम्
AI created Image

       संयुक्तराष्ट्रसङ्घस्य व्यापार-विकास-विभागस्य (UN Trade and Development) जालपुटे 'ओपन्-ए.ऐ' (OpenAI) संस्थायाः कृत्रिमबुद्धि-यन्त्रांशैः (AI Agents) षोडशसहस्राधिकवारम् प्रविश्य सुरक्षाव्यवस्थायै आव्यूहनिग्रहः (Security Filters) कृत इति नूतनविज्ञापने स्पष्टीकृतम्।

       मुख्यविषयाः -

  • अनधिकृतप्रवेशः: २०२६ तमे वर्षे एप्रिलमासात् जूण्मासपर्यन्तं जालपुटस्य सुरक्षाप्रतिबन्धान् अङ्गीकृत्य उत्पादकशक्तिसूचकाङ्क-सम्बद्धाः (Productive Capacities Index) दत्तांशाः गृहीतुम् एतैः यन्त्रांशैः यतितम्।
  •  सुरक्षातिक्रमणम्: सामान्‍यमार्गेण दत्तांशानाम् अप्राप्त्या सुरक्षापरीक्षणानि (Bot Filters) वञ्चयित्वा आत्मानं गोपयितुम् एतैः प्रयतितमिति सुरक्षागवेषकः रोवन्-होवार्ड्-जोन्स् (Rowan Howard-Jones) अवदत्।
  •  तन्त्रज्ञानप्रयोगः: 'क्रांस्-सैट्-स्कैनिङ्ग्' (XSS) सदृशीः सुरक्षात्रुटीः परीक्षितुम् अपि एतैः प्रयासः कृतः इति प्रतिवेद्यते।
  •  'ओपण्-ए.ऐ' संस्थायाः प्रतिक्रिया इत्यस्मिन् विषये अन्वेषणम् आरब्धम् इति संस्थाधिकारिभिः स्पष्टीकृतम्। सामान्यगवेषणाय एव दत्तांशसङ्ग्रहः कृतः तथापि सुरक्षाविषयाः इतःपरं गौरवेण गृह्यन्ते इति तया उद्घोषितम्।
  • यद्यपि गोप्यविज्ञापनानि न नष्टानि इति स्थिरीकृता, तथापि कृत्रिमबुद्धेः ईदृशाः स्वायत्तप्रयत्नाः जगति महतीं चिन्ताम् जनयन्ति।

 एकदिनपरम्परा।

विन्डीसस्य विश्वकीर्त्यमानप्राप्ताङ्कम् अनुगम्य

भारतस्य चरित्रविजयः। 

👉 शुभमान गिलाय युगलशतकं (२२३*)

👉 रोहितशर्मणे शतकं (१०१)

👉 एकदिने भारतस्य अभिलेख्यमानं धावनाङ्कानुगमनम् 

युगलशतकं प्राप्तवान् शुभमान गिलः। 

गुवाहटी>  शुभमानगिलस्य ताडनझंझावातेन वेस्ट् इन्डीसेन विरचितः धावनाङ्कप्राकारः भग्नः। युगलशतकेन (२२३*) भारतगणनायकेन शुभमानगिलेन, तथा  शतकेन (१०१) रोहित शर्मणा च ताडनताण्डवे कृते धावनाङ्कानुगमने नूतनं विश्वकीर्तिं विरच्य विन्डीसं  विजित्य एकदिनक्रिकट्परम्परा भारतेन स्वायत्तीकृता। स्पर्धात्रयात्मिकायाः परम्परायाः द्वितीये प्रतिद्वन्द्वे अष्ट द्वारकाणां विजयः आसीत् भारतस्य।

  प्रथमं कन्दुकताडनं कृतवतः विन्डीसदलस्य प्रारम्भताडकः जोण् कांबलः १०१ धावनाङ्कान्, नायकः षाय होपः १०४ धावनाङ्कान्, अमिर् जाङ्को ११४ धावनाङ्कान् च सम्पाद्य ते ५० क्षेपणचक्रेषु सप्त द्वारकाणां विनष्टे ४०५ धावनाङ्काः इति महत् विजयलक्ष्यं भारताय दत्तवन्तः। 

  प्रत्युत्तरताडने प्रारम्भताडकः शुभमान गिलः केवलं ६२ कन्दुकैः प्रथमं शतकं सम्पादितवान्। ततः रोहित शर्मा अपि शतकं [१०१] प्राप्य बहिर्गतः। तस्य स्थाने ताडनमारब्धवतः विराटकोलिनः [१९ कन्दुकेषु २९]सहयोगेन नायकः गिलः २२३ धावनाङ्कान् सम्पाद्य अबाह्यः अभवत्। ११३ कन्दुकैः एव तस्य २२३ धावनाङ्कोपलब्धिः।

Wednesday, September 30, 2026

 एष्यन् गयिंस्

गतदिने भारताय सुवर्णद्वयं, रजतैकं, कांस्यपञ्चकम्। 

नगोया> एष्यन् गयिंस् अत्लटिक्स् क्षेत्रात् भारताय प्रथमसुवर्णं लब्धम्। महिलानां 4 ×400 मीटर् रिले स्पर्धायामासीत् सुवर्णोपलब्धिः। तदतिरिच्य गोलिकाक्षेपणे महिलानां वैयक्तिकस्पर्धायां भारतस्य नीरु दण्डा एष्यन् अभिलेखेन सुवर्णं प्राप्तवती। 

  ५,००० मीटर् धावने गुल् वीरसिंहः कांस्यं प्राप्तवान्। अनया उपलब्ध्या सः पदकत्रयं लब्धवान्। १५००, १०,००० मीटर् स्पर्धाभ्यां रजतपदकं प्राप्तवानासीत्। पदकसूचिकायां ६ सुवर्णानि,२१ रजतानि, २५ कांस्यीनीति क्रमे आहत्य ५२ पदकानि सम्पाद्य भारतं दशमस्थाने वर्तते।

छात्रायाः परीक्षा-उद्वेगमुक्ति-अभियानस्य विश्वकीर्तिः

 छात्रायाः परीक्षा-उद्वेगमुक्ति-अभियानस्य विश्वकीर्तिः

Author: Harikumar
Vishnupriya Pai Golden Book of World Records Sanskrit News
Vishnupriya Pai Golden Book of World Records Sanskrit News

   मङ्गलूरु:> मङ्गलूरुनगरसमीपस्थ-मूडबिद्रि-अल्वास्-केंद्रीय-विद्यालयस्य दशमश्रेण्याः छात्रा विष्णुप्रिया पै परीक्षाहेतुकाम् आशङ्काम् उद्वेगञ्च दूरीकर्तुं विशिष्टम् अभियानम् आचरितवती। सा १५ दिनेषु कर्णाटकस्य पञ्चसु मण्डलेषु स्थितानाम् ५१ विद्यालयानाम् ४,५०० तः अधिकान् छात्रान् सम्बोध्य विश्वकीर्तिम् (Golden Book of World Records) प्राप्तवती।

    षष्ठकक्षातः एव मनोविज्ञान-परामर्शविषयेषु अभिरुचिं दधाना विष्णुप्रिया अन्तर्जाल-वर्गैः ज्ञानमर्जयित्वा तत् स्वसहपाठिभ्यः वितरति स्म। सा स्वसत्रेषु परीक्षा-मनोभारस्य प्रबन्धनानि, समयस्य सदुपयोगम्, सुलभपठनरीतीश्च सम्यक् विशदीकृतवती।

    अन्यैः प्रौढैः विशेषज्ञैः वा स्थाने एकया छात्रया एव एतादृशस्य कार्यक्रमस्य नेतृत्वं कृतम् इति हेतोः एषः प्रयासः सर्वैः भृशं प्रशंसितः। अक्टोबर्-मासस्य प्रथमे दिनाङ्के अल्वास्-शिक्षण-प्रतिष्ठानस्य अध्यक्षस्य विद्वान् एम. मोहन-अल्वा-महोदयस्य उपस्थितौ तस्यै आधिकारिकं प्रमाणपत्रं प्रदास्यते।

 भारत-विन्डीसयोः द्वितीयम् एकदिनमद्य। 

परम्पराप्राप्तिः भारतलक्ष्यम्। 

गुवाहट्टी> वेस्ट् इन्डीसं विरुध्य भारतस्य द्वितीया एकदिनस्पर्धा बुधवासरे असमराज्ये  गुवाहट्टीक्रीडाङ्कणे सम्पत्स्यते। अनन्तपुर्यां सम्पन्नायां प्रथमस्पर्धायां भारतं विजितमासीत्। अतः स्पर्धात्रयात्मिका परम्परा प्राप्तव्या इत्यस्ति भारतस्य लक्ष्यम्। 

  अपराह्णे द्विवादनतः अहोरात्रप्रतियोगिता भविष्यति। विराट कोली, रोहित शर्मा, शुभमान गिलः इत्यादयः क्रीडन्तीत्यतः भारतस्य विजयप्रतीक्षा अस्ति।

Tuesday, September 29, 2026

 एष्यन् गयिंस् क्षेत्रे  चक्रवातभीषा। 

वृष्ट्या स्रंसन्ते पदकानि।

नगोया> एष्यन् गयिंस् क्रीडायाः अन्तिमदिनेषु उपगच्छत्सु वृष्टिरेव क्रीडति। अत्लटिक्स् नामककायिकक्रीडास्पर्धाः वृष्ट्या क्लिन्ने  क्षेत्रे एव प्रचलन्ति। ताराणां प्रकटने प्रतिकूलेन बाधते च। 

  गतदिने ४ ×१०० मीटर् संयुक्त रिले स्पर्धायां (4×100m mixed Relay) भारतक्रीडकः अनिमेष कुजूरः सीदनेन पतितः। पुरुषाणां दीर्घप्लुते एम् श्रीशङ्करः  चतुर्थे प्लुते पादस्रंसितः पतित्वा क्षतो जातः। सुवर्णं प्रतीक्ष्यमाणः सः भारतीयाश्च  रजतेन तृप्ताः अभूवन्। 

  एष्यन् गयिंस् क्रिकटस्पर्धाश्च वृष्टिः प्रायेण पूर्णतया अबाधत। संघीयस्पर्धासु कतिपयाः निरस्ताः। भारत-अफ्गानिस्थानयोः प्रपूर्वान्त्यस्पर्धा निरस्ता। लब्धप्राप्ताङ्कस्य आधारे अग्रगामी भारतं पूर्वान्त्याय योग्यतां विधत्तम्।

  जापानस्य उत्तरपूर्वदिशं लक्ष्यीकृत्य चलतः सुगाय् नामकचक्रवातस्य प्रभावेण एव नगोयायां वृष्टिः। समुद्रोSपि प्रक्षुब्धः इत्यतः 'सर्फिंग्' नामकसमुद्रक्रीडाः अपि अपसृताः।

 तमिलनाट्।

नवजातशिशुभ्यः मुख्यमन्त्रिणः सुवर्णाङ्गुलीयकोपहारः। 

'ताय् मामन् तङ्कमोतिरं तिट्टम्' इति  अभियोजना समारब्धा। 

अभियोजनायाः उद्घाटनवेलायां मुख्यमन्त्री विजयः। 

चेन्नै> तमिलनाटे सर्वकारातुरालये जन्म लब्धानां नवजातशिशूनां कृते एक ग्राममितस्य सुवर्णाङ्गुलीयकम् उपहारत्वेन दीयमानं 'ताय् मामन् तङ्कमोतिरं तिट्टं' नामिका अभियोजना राज्ये समारब्धा। सोमवासरे मधुरायां राजाजी सर्वकारातुरालयस्थानां शिशूनाम् अङ्गुलीषु अङ्गुलीयकं धारयित्वा लालयित्वा च मुख्यमन्त्री विजय जोसफः अभियोजनायाः उद्घाटनं निरवहत्। 

  जनैः प्रसूत्यर्थं सर्वकारीयातुरालयाः आश्रयणीयाः इत्येव अभियोजनायाः लक्ष्यम्।  मुख्यमन्त्रिणः जन्मदिनादारभ्य [जूण् २२] सर्वकारीयातुरालयेषु लब्धजन्मानः शिशवः अस्य गुणभोक्तारः भविष्यन्ति।

 एष्यन् गयिंस्

४०० मीटर् हर्डिल्स् मध्ये भारतस्य कांस्यम्। 

पी टी उषायाः राष्ट्रियकीर्तिमानं विद्या रामराजेन भग्नम्।

विद्या रामराजः। 

नगोया> एष्यन् गयिंस् क्षेत्रक्रीडायां महिलानां ४०० मीटर् हर्डिल्स्  प्रतिद्वन्द्वे भारतस्य कांस्यपदकम्। तमिलनाट् निवासिनी विद्या रामराजः नूतनेन राष्ट्रियकीर्तिमानेन तृतीयस्थानमलभत। १९८४ तमे वर्षे पी टी उषया संस्थापितं ५५.४२ सेकन्ड इति कीर्तिमानं ५३.७५ सेकन्ट् इति नूतनेन समयेन पुरावृत्तमभवत्। ४२ वर्षेभ्यः परं स्वस्य कीर्तिमानं भञ्जितवतीं विद्यां पी टी उषा अभिनन्दितवती। उषायाः समक्षे आसीत् विद्यायाः अतुल्यं प्रकटनम्।

Monday, September 28, 2026

 'ओपरेषन् तूफान्' - द्वितीयचरणम् अद्य आरभ्य। 

तूफान ग्रामसभा, जनजागरण समितयः। 

अनन्तपुरी> राष्ट्रे विश्वस्मिन् च प्राधान्येन वीक्षमाणा केरलस्य उन्मादकनिर्मार्जनाभियोजना 'ओपरेषन् तूफान्' इत्यस्याः द्वितीयचरणं सोमवासरतः आरभ्यते इति राज्यगृहमन्त्रिणा रमेश चेन्नित्तला वर्येण निगदितम्। मादकवस्तुवितरणशृङ्खलानां भञ्जनाय मादक'माफिया'संघानाम् आर्थिकस्रोतजडीकरणाय च प्रथमसोपाने प्राधान्यं दत्तमिति तेन प्रोक्तम्। १०० दिनाभ्यन्तरे उपदशसहस्रं अपराधिनः निगृहीताः। मादकोपयोगः ३०% यावत् न्यूनीकृतः च। 

  द्वितीयचरणे, ये मादकवस्त्वधीनाः जाताः तेषां पुनरधिवासः कार्यः। उन्मादकविरुद्धान्दोलनं ग्रामस्तरमण्डलेषु [wards],गृहेषु, कर्मस्थानेषु च व्यापयितव्यः। तदर्थं ग्रामसभासु जनजागरणसमितीः रूपीकृत्य प्रवर्तनानि संयोजयितव्यानि।

 उत्तरखण्डे वृष्टिदुष्प्रभावः।

तीर्थाटकसंघाः लग्नाः।केदारनाथ तीर्थाटनं स्थगितम्।

रुद्रप्रयागः> अतिवृष्ट्या उत्तरखण्डराज्ये बहुत्र मृत्प्रपातः अभवत् इत्यतः तीर्थाटकसंघाः मार्गे लग्नाः। उपसहस्रं जनाः विविधप्रदेशेषु स्तम्भितमार्गाः वर्तन्ते। तत्र एकः संघः ५० संख्योपेतः केरलीयसंघः अस्ति। शनिवासरे  केदारनाथदर्शनं कृत्वा  प्रतिनिवर्तमानाः एते इति सूच्यते। 

  वृष्टिदुष्प्रभावेण केदारनाथतीर्थाटनं दिनद्वयं यावत् निरुद्धमिति राज्यप्रशासनेन निगदितम्।

 एष्यन् गयिंस् ।

दीर्घप्लुते आन्सी सोजः, उत्प्लुते सर्वेश कुशारे च रजतं सम्प्रापतुः।

स्क्वाष् क्रीडायामपि रजतयुगलम्। 

रजतं प्राप्तवत्याः आन्स्याः प्रकटनम्। 

नगोया> सुवर्णप्रतीक्षया क्रीडाङ्कणं प्राप्तवती भारतस्य दीर्घप्लुतक्रीडका [Long jump] केरलीया आन्सी सोजः रजतपदकेन तृप्ता जाता। ६.५३ मीटर् प्लुत्वा अस्ति रजतोपलब्धिः। ६.५५ प्लुतवती चीनस्य यिङ् यिङ् हुवाङ् सुवर्णं प्राप्तवती। 

  पुरुषविभागे उत्प्लुते सर्वेश कुशारे भारताय रजतं प्राप्तवान्। २.२५ मीटर् अनेन प्लुतम्। अत्रापि सुवर्णं स्खलितम्। चीनक्रीडकेनैव सुवर्णप्राप्तिः। स्वाष् नामकक्रीडायां विभागद्वये अपि भारतं रजतं प्राप। पुरुषविभागे अभय सिंहः, महिलाविभागे अनाहता सिंहश्च। 

  रविवासरे चत्वारि रजतानि, त्रीणि कांस्यानि च भारतेन सम्प्राप्तानि। अत्लटिक्स् विभागे सुवर्णपदकाय प्रतीक्षा अनुवर्तते, भारतेन।

 विन्डीसं विरुध्य भारतस्य विजयः। 

कोलि-गिलयोः शतकम्। कुलदीपः श्रेष्ठक्रीडकः।

शतकं प्राप्तवतः विराट कोह्लिनः आह्लादः।

अनन्तपुरी> वेस्ट् इन्डीसं विरुध्य एकदिन क्रिकटपरम्परायाः प्रथमस्पर्धायां भारतस्य अविस्मरणीयविजयः। आगामिविश्वचषके  अनिषेध्य इति उद्घोषयन्  १३९ धावनाङ्कान् सम्पाद्य विराट कोह्लिः आराधकान् रोमाञ्चपुलकितान् कृतवान्। कोह्लिनं विना शुभमान गिलः अपि शतकं सम्प्राप्तवान्। 

  अष्ट द्वारकाणां महाविजयः आसीत् ग्रीन् फील्ड् क्रीडाङ्कणे भारतगणेन प्राप्तः। विन्डीसगणः ५० क्षेपणचक्रे ७ ताडकानां विनष्टे २९५ धावनाङ्कान् सम्प्राप। प्रत्युत्तरक्रीडायां ४१.१ क्षेपणचक्रे केवलं द्वारकद्वयस्य विनष्टे ३०० धावनाङ्कान्  सम्पाद्य भारतं विजयं प्राप। ८८ कन्दुकैः ९ षट्काणि, १०  चतुष्काणि च सम्पाद्य आसीत् कोह्लेः १३९ धावनाङ्कसम्पादनम्। तस्य ५५ तमं शतकम्, एकदिने १५,००० धावनाङ्काः इति सविशेषता अपि 'विराटपर्वणि' विद्यते।

   शुभमान गिलः ११० धावनाङ्कान् सम्प्राप्तवान्।१० क्षेपणचक्रेषु ४० धावनाङ्कान् प्रदाय चतुरान् विन्डीसताडकान् बहिर्नीतवान् भारतस्य क्षेपकः कुलदीप सिंहः श्रेष्ठक्रीडकपदं प्राप्तवान्।

Sunday, September 27, 2026

 भारत-वेस्ट् इन्डीस् एकदिनपरम्परा अद्य आरभ्यते।

प्रथमस्पर्धा अनन्तपुर्यां; रोहित-विराटौ क्रीडिष्यतः।

अनन्तपुरी> संवत्सरैकस्य दूरे वर्तमानाय विश्वचषकक्रिकटाय भारतगणस्य सज्जतारूपेण  वेस्ट् इन्डीसं विरुध्य एकदिनपरम्परा रविवासरे अपराह्णे आरभ्यते। अनन्तपुर्यां ग्रीन् फील्ड् क्रीडाङ्कणे अस्ति क्रीडा। क्रीडात्रयोपेतपरम्परा अस्ति। 

  वरिष्ठक्रीडकौ रोहित शर्मा, विराट कोली च २०२७ विश्वचषकानन्तरं निवर्तिष्यतः इति अभ्यूहः अस्तीत्यतः अनन्तपुर्याम् तयोः अन्तिमक्रीडा इति गण्यते। शुभमान गिलः संघनायकः अस्ति।

 जतुकानाम् उत्पत्तिः यूरोपे!


> सस्तनिवर्गे अन्तर्भूतः जतुका [वल्गुलः] इति पक्षिवर्गः यूरोपभूखण्डे उद्भूताः इति नूतनः अधिगमः। एषामुत्पत्तिः आफ्रिका, एष्या, आस्ट्रेलिया भूखण्डेषु अन्यतमे स्यादिति शास्त्रज्ञैः अनुमीयते स्म। किन्तु विभिन्नजतुकवर्गेाणां डि एन् ए संगृह्य  कृते अनुसन्धाने एव यूरोपः एवोत्पत्तिस्थानमिति निर्णीतम्। 

  अधिगममिदं 'नेय्चर्' इति शास्त्रशोधपत्रिकायां प्रकाशितम्। विभिन्नराष्ट्रेभ्यः १३० शास्त्रज्ञाः अस्मिन् गवेषणे भागं कृतवन्तः। तेषामनुसन्धानानुसारं ६.५ कोटि संवत्सरेभ्यः पूर्वं यूरोपे आसीत् जतुकानामुद्भवः। परं इतरेषु भूखण्डेषु व्याप्यते स्म।

 एष्यन् गयिंस् कबडिक्रीडा- भारताय सुवर्णयुगलम्।

कबडिक्रीडायां सुवर्णं प्राप्तवन्तौ पुरुष-महिलाविभागौ।

 

नगोया> एष्यन् गयिंस् कायिकमहोत्सवे शनिवासरे भारतं सुवर्णपदकद्वयेन अभिषिक्तम्। कायिकक्रीडासु भारतस्य  श्रेष्ठाधिकरणम् [masterpiece] इति प्रख्यातायां कबडिक्रीडायां राष्ट्रम् अजय्यमिति पुनरेकवारमपि प्रमाणीभूतम्। क्रीडायाः पुरुषमहिलाविभागयोरपि सुवर्णप्राप्त्या भारतस्य अपराजितत्वं प्रशोभितम्। 

  पुरुषविभागे इरानं ३९-३७ इति प्राप्ताङ्कैः पराजापयत। अस्मिन्नधिकरणे भारतस्य नवमः सुवर्णोपलब्धिर्भवति ऐषमः। महिलाविभागे अपि इरानमेव पराजित्य भारतस्य सुवर्णप्राप्तिः। ३७-३४ इति प्राप्ताङ्कैः आसीत् विजयः। 

  भारतमिदानीं पदकसूचिकायां दशमस्थानमावहति। ४ सुवर्णानि, ११ रजतानि, १३ कांस्यानि च लब्धानि।

Saturday, September 26, 2026

 "चिरपुरातनमपि नित्यनूतनम् संस्कृतम्" — प्रो. के. उण्णिकृष्णन्

         तृप्पूणित्तुरा> तृप्पूणित्तुरा-शासकीय-संस्कृतमहाविद्यालये 'आई.क्यू.ए.सी' (IQAC) विभागेन आयोजितस्य संस्कृतसप्ताहस्य प्रदर्शिन्याश्च समापनोत्सवः सम्पन्नः। कार्यक्रमस्य मुख्यभाषणं कुर्वन् बालुश्शेरि-आदर्शसंस्कृतमहाविद्यालयस्य प्राचार्यः प्रो. के. उन्णीकृष्णन् महोदयः अवदत् यत् — "'चिरपुरातनमपि नित्यनूतनम्' अस्ति संस्कृतम्। भाषायाः प्रामाणिकाध्ययनेन सह आधुनिक-प्रौद्योगिकी-युगे अस्याः अतिजीवनाय आवश्यकानि प्रौद्योगिकज्ञानान्यपि छात्राः अध्यापकाश्च स्वायत्तीकुर्युः।"

      कार्यक्रमस्य उद्घाटनं कुर्वन् माननीयः विधायकः (MLA) दीपक जोय् महोदयः अवदत् — "संस्कृतम् एका प्राचीना भाषा चेदपि आधुनिकयुगेऽपि अस्याः महती प्रासङ्गिकता अस्ति। महाविद्यालयस्य विकासाय शासकीयस्तरे सम्भाव्यं सर्वं साहाय्यं विधास्यते।"

 गोलिकाप्रयोगे सुवर्णम्। 

सुरुची सिंह, कमलजितश्च। 

नगोया> एष्यन् गयिंस् क्रीडायां भारतस्य द्वितीयसिवर्णोपलब्धिः। १० मीटर् एयर् पिस्टल् संयोजितगणे [mixed team] आसीत् द्वितीयं सुवर्णम्। गोलिकाप्रक्षेपणे प्रथमतया एव सुवर्णप्राप्तिः। कमल् जीत्, सुरुची इन्द्र सिंह फोगट् इत्येतयोः गणः ४८४.६ अङ्कान् सम्पाद्य एव सुवर्णं प्राप। 

 गतदिने द्वे रजते, त्रीणि कांस्यान्यपि भारतस्य प्राप्ताङ्कसूचिकायाम् अवकाशं सम्प्रापुः। तदा सुवर्णद्वयं, रजतनवकं, कांस्यद्वादशं च सम्पाद्य २३ पदकैः भारतं १२ तमस्थाने वर्तते।

 भारतस्य अर्धाधिकः भूभागः अनावृष्ट्या दुष्प्रभावितः; कृषेः उत्पादनं न्यूनं भविष्यति, मूल्यानि वर्धिष्यन्ते।

        अनावृष्टिसङ्कटः-> दक्षिण-पश्चिम-मण्सूण्-वायोः निवर्त्तनेन सह भारतस्य ५२.५ प्रतिशतं भूभागः अनावृष्ट्याः (शुष्कतायाः) दुष्प्रभावे अस्ति। 'आई.आई.टी. गान्धीनगर' संस्थायाः भारत-शुष्कता-सूचकाङ्कस्य प्रतिवेदनानुसारम् एषा स्थितिः तीव्रतया वर्धमाना अस्ति इत्यपि सूच्यते।

       २०२६-२७ वर्षस्य भीषणता: 'ऐ. ऐ.टी. बोम्बे' संस्थास्थ शोधकर्तृणाम् अभिप्रायेण २०१५-१६ वर्षस्य अनावृष्टि दुरन्तापेक्षया २६ - २७ तमे  संवत्सरे अतितीव्रा कष्टा च भविष्यति। अस्मिन् वर्षे वर्षायाः अनिरन्तरता, दीर्घकालात्मकः शुष्कसमयः च अस्य मुख्यं कारणम् अस्ति।

एल् निनो (El Niño) दुष्प्रप्रभावः ->  विश्व- ऋतुविज्ञानीय-सङ्गठनेन (WMO) पूर्वसूचना दत्ता यत् प्रशान्त-महासागरे 'एल नीनो' प्रभावः पूर्णतया सक्रियः अभवत्। एषा स्थितिः २०२७ तमस्य वर्षस्य कुम्भमासं यावत् निरन्तरं स्थास्यति।

  •  दुष्परिणामः-> अनेन कारणेन देशस्य कृषेः उत्पादने महती हानिः भविष्यति, फलतः खाद्यान्नानां मूल्यानि अत्यधिकं वर्धिष्यन्ते।
    https://proud.mybhaarat.com

 यु एन् मध्ये नेतन्याहुं प्रति अपहासः। 

इस्रयेलस्य सैनिकप्रक्रमान् साधूकृत्य नेतन्याहुः। 

यु एन् मध्ये प्रतिनिधयः नेतन्याहुं बहिष्कृत्य सभां त्यजति। 

न्यूयोर्क्> इरानं, हमासः, हिस्बुल्ला इत्येतेन् विरुध्य कृतान् सैनिकप्रक्रमान् इस्रयेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहुः संयुक्तराष्ट्रसभायाः ८१ तम सामान्यसभासम्मेलने साधूचकार। इरानस्य आणवायुधविकासः प्रतिरोध्य इत्येव इस्रयेलस्य तथा अमेरिकायाः च लक्ष्यमिति तेन सूचितम्। 

 यदा नेतन्याहुः प्रभाषणाय वेदिकां प्राप्तवान् तदा प्रतिनिधिषु बह्वंशः प्रभाषणं निरस्य सभायाः निष्चक्राम। अपस्वराणि, प्रतिषेधवाक्यानि च उद्घोषयन्तः सन्तः प्रतिनिधयः सभां बहिष्कृतवन्तः।  ये बहिष्कृतवन्तः ते धार्मिकभीरवः इति प्रभाषणमध्ये नेतन्याहुना   प्रभाषणमध्ये  प्रोक्तवान्।



   

Friday, September 25, 2026

 एष्यन् गयिंस्।

प्रथम त्रिषु स्थानेषु चीनः, जपानः, कोरिया राष्ट्राणि।

भारतं १५ तमे स्थाने।

नगोया> एष्यन् गयिंस् क्रीडानां पञ्च दिनेषु अतीतेषु आहत्य १३० पदकैः चीनराष्ट्रं बहुदूरम् अग्रे वर्तते। ८० सुवर्णानि, ३० रजतानि, २० कांस्यानि च चीनेन प्राप्तानि। 

  द्वितीयस्थाने वर्तमानः जपानः आहत्य ९१ पदकानि सम्प्राप। २० सुवर्णानि, ३४ रजतानि, ३७ कांस्यानि च जपानेन सम्पादितानि। १० सुवर्णानि, १२ रजतानि, २८ कांस्यानि इति क्रमेण ५० पदकानि संहृत्य कोरिया ततीयस्थाने वर्तते। 

  भारतं तु इदानीं १५ तमे स्थाने अस्ति। एकं सुवर्णं, ७ रजतानि, ९ कांस्यानीति आहत्य १७ पदकानि भारतेन प्राप्तानि।

 निर्वाचनायोगे आभ्यन्तरकलहः। 

मुख्यनिर्वाचनायुक्तं विरुध्य विपक्षः। 

ग्यानेष कुमारः। 

नवदिल्ली> समग्र निर्वाचनावलीपरिष्करणम् [SIR] अधिकृत्य केन्द्र निर्वाचनायोगे कतिपयकालेन वर्तमानः आभ्यन्तरकलहः गतदिने बहिरागतः। सदस्यत्रयोपेते निर्वाचनायोगे मुख्यायुक्तस्य ग्यानेषकुमारस्य सदस्यान्तरयोः निर्देशान् अवगणय्य कृतेषु प्रक्रमेषु बहुवारम् इतरौ सदस्यौ - सुख वीर सिंह सन्धुः, विवेक जोशी च - विप्रतिपत्तिं विलिखितवन्तौ इति वृत्तान्तः बहिरागतः। २०२५ वर्षादारभ्य विसम्मतप्रतिकरणानि अजायन्त इति सप्रमाणं माध्यमैः वृत्तान्तीकृतम्। ३० राज्येषु १३ कोटि जनानां नामानि संक्षिप्तमतदानावलीतः निष्कासितानीति SIR प्रक्रियायाः विश्वास्यता प्रश्न्यमाना इति सूच्यते। 

  सहायुक्तयोः विमतौ बहिरागते मुख्यायुक्तः ग्यानेष कुमारः निष्कासितव्यः इति विपक्षनेतृभिः प्रोक्तम्। संसदः सभाद्वयेSपि एतदर्थं याचिकां प्रस्तोतुम् उद्यमः आरब्धः।

 ओडीषायाम् अतिवृष्टिः। 

८००० जनाः सुरक्षितस्थानं नीताः। 

भुवनेश्वरं> आन्ध्रप्रदेशे भूतलस्पर्शितस्य तीव्रन्यूनमर्दस्य प्रभावेण ओडीषायाम् अतिवृष्टिः अनुवर्तते। निम्नप्रदेशान् मृद्स्खलनभीषाप्रदेशान् चाधिवसन्तः उपाष्टसहस्रं जनाः सुरक्षितस्थानं नीताः। 

  राज्यस्य दक्षिणजनपदेषु जलोपप्लवस्य मृत्स्खलनस्य च संभावना अस्तीत्यतः तद्प्रदेशीयशासनैः आपत्कालीनप्रक्रमाः आरब्धाः। गञ्चाम्, गजपति, मल्कनगिरिः, कोरापुट, रायगड, नबरंगपुरम् इत्येताः जनपदाः एव वृष्टिदुष्प्रभाविताः जाताः।

 भारत-बङ्गलादेशसीमायां सुवर्णस्य गुप्तवहनं साधारणम्। 

१७ कोटि रूप्यकाणां १२ किलो सुवर्णं निगृहीतम्। 

निगृहीतः सुवर्णसञ्चयः। 

नवदिल्ली> भारत-बङ्गलादेशयोः सीमाप्रदेशेषु सुवर्णस्य अवैधिकं गुप्तवहनं साधारणेन प्रचाल्यते इति अधिगतम्। बुधवासरे पश्चिमवंग बिहारराज्ययोः बंगलादेशसीमायां Revenue Department of Intelligence (RDI) संस्थया सीमारक्षणसेनया [BSF] च संयुक्तेन कृते अन्वेषणे १७ कोटि रूप्यकाणां १२ किलो सुवर्णं निगृहीतम्। कश्चन पुरुषः निगृहीतश्च। वृतौ निलीनावस्थायां तथा रेल् यानयात्रिकाच्च एव सुवर्णमधिगतम्।

Thursday, September 24, 2026

 अयोध्या मन्दिरधनचोरणं

अपराधपत्रे ७०,००० पुटाः। 

लख्नौ> अयोध्यायां राममन्दिरे लब्धानां समर्पितधनानां चोरणेे अन्वेषणाय सर्वोच्च न्यायालयेन नियुक्तेन संघेन अपराधपत्रं समर्पितम्। अपराधपत्रे अनुबन्धान् अभिव्याप्य सप्ततिसहस्रं पुटाः विद्यन्ते। 

  समर्पितराशेः गणनाप्रकोष्ठात् धनापहरणस्य १०५ प्रकरणानि सि सि टि वि द्वारा अधिगतानीति अपराधपत्रे सूचितम्। ८ अपराधिनः आरक्षकैः निगृहीताः आसन्।

 कलासूर्यः अस्तं गतः। 

 सूर्य कृष्णमूर्तिः दिवंगतः। 


अनन्तपुरी> भारतीयश्रेष्ठकलानां प्रचारकः, सांस्कृतिक- नाटकप्रवर्तकः च सूर्य कृष्णमूर्तिः बुधवासरे सायं दिवंगतः। ७८ वयस्कः सः वार्धक्यसहजेन रोगोण नगरस्थे निजीयातुरालये परिचर्यायामासीत्। केरल संगीत नाटक अकाडमी संस्थायाः पूर्वीयाध्यक्षः आसीत्। 

  ऐ एस् आर् ओ [इस्रो] संस्थायां शास्त्रज्ञरूपेण वृत्तिं कुर्वति सति वृत्तिमुपेक्ष्य कलाप्रवर्तनाय स्वजीवनं समर्पितवान्। अनन्तपुरीं केन्द्रीकृत्य सूर्या स्टेज् आन्ड् फिलिं सोसैटी [Surya Stage and Film Society] इति संस्थां संस्थाप्य आकेरलं  'सूर्यकलोत्सवः' [Surya Festival] नाम्ना कला-सांस्कृतिकसंघाटनेन राष्ट्रस्य विदेशानां च श्रेष्ठकलानां प्रस्तुतिः अस्य नेतृत्वे कारिता। कैरल्यां प्रथमतया दीपशब्दविन्यासानां समन्वयेन कलाप्रदर्शनं Theater of Freedom नामिकां मञ्चरङ्गकलां च आयोजितम्।   नटराज कृष्णमूर्तिनामकः अयं 'सूर्य कृष्ण मूर्तिरिति प्रथितोSभवत्। राष्ट्रस्य अन्ततः बाह्यतश्च प्रशस्ताः बहवः कलाकाराः सांस्कृतिकनायकाश्च सूर्यवेदिकाम् अलङ्कृतवन्तः।

  चलच्चित्र-नाटकादीनां विभिन्नानां देशीयराज्यसंस्थानां अध्यक्षपदमूढवान् कृष्णमूर्तिः बह्विषु संस्थासु समितिषु च सदस्यः अप्यासीत्। केरलं, तमिलनाट्,पोण्टिच्चेरि सर्वकाराणां परमोच्चबहुमतीः लब्धवानयं २००३ तमे वर्षे 'लिंका बुक्स्' इत्यस्य Man of the year पुरस्कारेण सम्मानितः आसीत्। 

  अस्य भौतिकशरीरं स्वगृहे 'सूर्यचैतन्ये' सामाजिकदर्शनाय संस्थापयिष्यति। ततः अद्य सायं पञ्चवादने 'शान्तिकवाट'नामके श्मशाने अन्त्येष्टिकर्माणि विधास्यन्ते।

Wednesday, September 23, 2026

 अद्य 'ब्रसील-भारत' प्रदर्शनपादकन्दुकक्रीडा कोच्ची नगरे।

कोच्ची> ब्रसीलस्य इतिहासतारौ रोणाल्डीञ्ञो, रिवाल्डो इत्येताभ्याम्  अन्तर्भूतः 'ब्रसील् लजन्ड्स्' [Brazil Legends] गणः तथा भारतस्य भूतपूर्वः देशीयतारः केरलीयः ऐ एम् विजयः इत्यनेन नीयमानः इन्डिया ओल् स्टार्स् [India All-stars] गणश्च मिथः आयोज्यमाना प्रदर्शनपादकन्दुकस्पर्धा बुधवासरे सायं सार्धसप्तवादने कलूर् जवाहरलाल नेहरू अन्ताराष्ट्रियक्रीडाङ्कणे सम्पद्यते। 

  उभयोरपि गणयोः Return of the Titans नामक प्रदर्शनस्पर्धापरम्परायाः द्वितीयस्पर्धा अस्ति कोच्ची नगरे सम्पद्यमानः। चेन्नैनगरे सम्पन्ने प्रथमप्रतिद्वन्द्वे ब्रसीलः २-१ लक्ष्यक्रमेण विजितः आसीत्। रोणाल्डीञो वर्यस्य नेतृत्वे २० अंगोपेतः संघः गतदिने कोच्चीं प्राप्तः।

 राष्ट्रीयचलच्चित्रपुरस्काराः वितरीताः।

मम्मूट्टिः पुरस्कारं स्वीकरोति। 

केवादिया> ७२ तमं राष्ट्रीयचलच्चित्रपुरस्काराणां वितरणं गुजराते केवादिया इत्यत्र सज्जीकृते एकतानगरे आयोजिते प्रौढगम्भीरे कार्यक्रमे राष्ट्रपतिः  द्रौपदी मुर्मू वर्या निरवहत्। 

  दादा साहिब फाल्के पुरस्कारजेता अनन्तनागः, श्रेष्ठाभिनेतृपुरस्कारः कैरलीतः मम्मूट्टिः, तथा बोलिवुडाभिनेता कार्तिक आर्यः च, श्रेष्ठगायिका वैक्कं विजयलक्ष्मी इत्यादयः पुरस्काराः स्वीकृतवन्तः।

 भारताय सुवर्णद्वारमुद्घाट्य महिलाः। 

टि-२० क्रिकटक्रीडया प्रथमसुवर्णम्। 

श्रीलङ्कां पराजापितवतः भारतीयमहिलागणस्य आह्लादः। 

नगोया> हर्मन् प्रीत कौर् इत्यस्याः नायकत्वे भारतीयमहिलानां समुज्वलक्रीडायां २० तमे एष्यन् गयिंस् मध्ये भारतस्य प्रथमसुवर्णप्राप्तिः। महिलानां टि-२० क्रिकटक्रीडायाः अन्तिमस्पर्धायां श्रीलङ्कां १४७ धावनाङ्कैः पराजित्य भारतं सुवर्णपदकं सम्प्राप। २०२२ तमस्य एष्यन् कायिकक्रीडायामपि श्रीलङ्कामेव पराजित्य भारतस्य एवासीत्  सुवर्णप्राप्तिः। अनेन आहत्य सप्त पदकानां लाभेन भारतं पदकसूचिकायाम् अष्टमस्थाने वर्तते। 

  २० क्षेपणचक्रैः त्रीणि द्वारकाणि विनश्य भारतं २१६ धावनाङ्कान् सम्प्राप। स्मृति मन्थाना [७९], रिच्चा घोषः [४९*], षेफाली वर्मा इत्येताः श्रेष्ठक्रीडां क्रीडयामासुः। प्रत्युत्तरक्रीडायां श्रीलङ्का १५. ४ क्षेपणचक्रेषु ६९ धावनाङ्कान् सम्पाद्य सर्वाः बहिरानीताः।

Tuesday, September 22, 2026

 एष्यन् गयिंस्

गतदिनमपि पदकसम्पन्नं- भारताय पदकचतुष्कम्। 

रजतं प्राप्तः भारतगणः। 

नगोया> एष्यन् गयिंस् क्रीडायां भारतेन गतदिने चत्वारि पदकानि सम्पादितानि - रजतद्वयं, कांस्यद्वयं च। आहत्य षट् पदकानि सम्प्राप्य पदकसूचिकायां १२ स्थानमावहति भारतम्। 

  पुरुषविभागस्य १० मीटर् एयर् रैफिल् भुषुण्डिप्रयोगे रुद्राक्षपाटीलः, हिमांशु धिल्लः, पार्थ राकेश माने इत्येतयोः संघः भारताय रजतं सम्प्राप। वैयक्तिक स्पर्धायां १० मीटर् एयर् रैफिल् भुषुण्डिप्रयोगे हिमांशु धिल्लः रजतपदकं प्राप्तवान्। रूद्राक्षपाटीलः अस्मिन् विभागस्य कांस्यपदकं संप्राप्तवान् च।

 अयोध्या - १०५ चौर्याणि 'सि सि टि वि' मध्ये स्पष्टीकृतानि।

नवदिल्ली>  अयोध्या राममन्दिरे समर्पणराशिचौर्यप्रकरणे सर्वोच्चन्यायालये वर्तमानीनस्थितिविवरणपत्रं सविशेषान्वेषणसंघेन [SIT] समर्पितम्। सोलिसिटर् जनरल पदीयः तुषार मेत्ता इत्यनेन समर्पिते आवेदनपत्रे १०५ चौर्याणि प्रत्यभिज्ञातानीति प्रस्तूयते। सेप्टम्बर् २५ तमदिनाङ्कात् पूर्वं अपराधारोपणपत्रं समर्पयिष्यते।

 वृष्टिः अनुवर्तिष्यते।

'अर्णब्' चक्रवातस्य साध्यता।

अनन्तपुरी> केरले आगामिदिनेषु वृष्टिः अनुवर्तिष्यते। । २४ तमदिनाङ्कादारभ्य वृष्टिः शक्ता भविष्यति। उत्तरान्तमानसमुद्रे रूपीकृतस्य न्यूनमर्दस्य प्रभाव एव वृष्टे‌ः कारणम्। 

  २२ तमे दिनाङ्के अतितीव्रन्यूनमर्दः भविष्यति। २३तमे दिनाङ्के आन्ध्रप्रदेशस्य उत्तरतीरं ओडीषायाः दक्षिणतीरं च प्राप्स्यति। एष न्यूनमर्दः चक्रवातरूपेण परिणमते चेत् अर्णब् [अर्णवः] इतिनाम्ना व्यवहरिष्यते।

Monday, September 21, 2026

 सकारात्मकशक्त्यैव शैक्षिकवातावरणस्य निर्माणम् - "डा. शैलपुत्री" 

वार्ताहर:- कुलदीपमैन्दोला 

     श्रीनगरस्थे हेमवतीनन्दनबहुगुणागढवालविश्वविद्यालयस्य सीनेटसभागारे १८ सितम्बर २०२६ तमे दिने छात्रपरामर्शसमितेः तथा नवनिर्वाचितछात्रसङ्घपदाधिकरिणां प्रतिनिधीनां च मध्ये संवादात्मकगोष्ठ्या: आयोजनम् अभवत्। अस्याः संगोष्ठ्याः मुख्योद्देश्यः नवनिर्वाचितप्रतिनिधीनां स्वागतं, तेषां विचाराणां प्राधान्यानां च श्रवणं तथा विश्वविद्यालयस्य शैक्षिकवातावरणे, छात्रकल्याणे, आधारभूतसौविध्येसु विद्यार्थिसम्बद्धसमस्यासु च विमर्शः आसीत्।

 केरले अप्रतीक्षितः वृष्टिदुष्प्रभावः।

षट् मरणानि, चत्वारः अदृष्टाः। 

मलप्पुरं जनपदे दुरापन्नः आकस्मिकप्रलयः, प्रलये लग्नः युवक च।

कोच्ची> केरले मासैकानन्तरं दुरापन्ने वृष्टिदुष्प्रभावे त्रिषु प्रदेशेषु षट् जनाः मृत्युमुपगताः। अप्रतीक्षितया प्रवृष्टे वर्षे जलप्रवाहे निपत्य, मृत्स्खलने च दुरन्तः अभवत्। 

  मलप्पुरं जनपदे टि के कोलनी स्थाने कोट्टप्पुष़ा नद्यां रविवासरे सायम् आकस्मिकेन जाते जलप्रपाते निपत्य द्वौ मृतौ। चत्वारः तिरोभूताः।  जलोत्पाते अभिज्ञाते प्रदेशवासिभिः वनविभागोद्योगस्थैः च कृते व्यवधाने बहवः जनाः रक्षां प्राप्ताः। 

  ह्यः सार्धचतुर्वादने इटुक्की जनपदे मून्नार् प्रदेशे केदारस्थस्य पटगृहस्य उपरि मत्खण्डं पतित्वा द्वौ मृतौ। अस्मिन्नेव जनपदे ईराट्टुपेट्टा-वागमण् वीथ्यां केदारस्य संरक्षणभित्तिका वीथीं निपत्य द्विचक्रिकायां सञ्चरन्ती चेन्नै निवासिनी मृता। 

  कोट्टयं जनपदे पूञ्ञार् प्रदेशे गृहस्य उपरि मृत्स्खलनेन वयोSधिकः मृतः। मृदन्तर्गतौ द्वौ आतुरालयं प्रवेशितौ च।

 रष्यां विरुध्य युक्रेनस्य महाड्रोण् आक्रमणम्। 

६ मरणानि, २० जनाः क्षताः। 

मोस्को>  रष्यायाः राजधानीं मोस्को नगरं लक्ष्यीकृत्य युक्रेनस्य महत् ड्रोण् आक्रमणमभवत्। आक्रमणे न्यूनातिन्यूनं षट् जनाः मृताः, २० जनाः व्रणिताः जाताः इति अन्ताराष्ट्रियवार्तामाध्यमैः वृत्तान्तीकृतम्। मोस्कोनगरस्था प्रमुखा तैलशुद्धीकरणशाला अपि आक्रमणे दुष्टाः जाताः। 

  प्रत्युत, १६०० तः अधिकानि ड्रोणानि स्वस्य प्रतिरोधसंविधानम् उपयुज्य विनाशितानीति रष्यया निगदितम्। तेषु ४५० ड्रोणानि मोस्कोनगरं लक्ष्यीकृत्य आसन्निति मेजर् पदीयः सेर्जी सोबियानिन् इत्येषः अवोचत्। भग्नं ड्रोणं पतित्वा २१ स्तरीयं भवनम् अग्निबद्धं जातम्। किन्तु  तत्पूर्वं ४०० जनाः तत्स्थानात्  संरक्षिताः।


   

 एष्यन् गयिंस् ।

भुषुण्डिप्रयोगे भारताय रजतद्वयम्।

भुषुण्डिप्रयोगे रजतं प्राप्त वा ने भारतगणः। 

महिलाक्रिकटे भारतम् अन्तिमस्पर्धायाम्।

नगोया> एष्यन् कायिकक्रीडायां '१० मीटर् एयर् रैफिल्' विभागे भारतगणः रजतपदकं स्वायत्तीचकार। केरलीया विदर्शा के विनोदः, तमिलनाटप्रान्तीया इलवेनिल् वालरिवन्, महाराष्ट्रीया सोनम् उत्तं मस्कर्  इत्येताः आसन् भारतगणे। अस्मिन् प्रतिद्वन्द्वे सुवर्णं चीनेन प्राप्तम्।

  '१० मीटर् एयर् रैफिल्' वैयक्तिकविभागे इलवेनिल् वालरिवन् रजतपदकं प्राप्तवती। अनेन ह्यः भारतस्य प्राप्तिः द्वे रजते अभवताम्। 

  महिलानां टि-२० क्रिकट् स्पर्धायाः पूर्वान्त्यस्पर्धायां बंगलादेशं विरुध्य ११४ धावनाङ्कानां विजयेन भारतम् अन्त्यस्पर्धां प्राविशत्। षेफाली वर्मा भारताय शतकं प्राप्तवती  - ४९ कन्दुकैः १००। अन्तिमप्रतिद्वन्द्वे श्रीलङ्का अस्ति भारतस्य प्रतियोगी।

Sunday, September 20, 2026

 एष्यन् गयिंस् क्रीडाभ्यः वर्णाभः प्रारम्भः। 

प्रौढोज्वलः उद्घाटनसमारोहः।

पथसंचलने भारतसंघ। 

नगोया> जापनीयहृदयनगरे नगोयाख्ये प्रेमस्य मुद्राभिः एशीयजनततिं जापानं हृदयपूर्वं स्वागतीचकार। प्रौद्योगिकी-कला-रुचिवैविध्य-विनोद-सांस्कृतिकपारम्पर्याणां च समञ्जससम्मेलनेन प्रस्तुतानां कलाकार्यक्रमाणाम् अनुगमनेन २० तमं एष्यन् गयिंस् कायिकोत्सवः प्रौढगम्भीरेण समारब्धः। 

  प्रौढ्या भारतसंघः पथसंचलने भागमकरोत्। भारतस्य षूट्टिंग् क्रीडकः मनु भाकरः, कबडि तारं पवन सेहरावतश्च पताकां वहतः स्म। 

  जापानस्य चक्रवर्ती नारुहितो क्रीडामहोत्सवः उद्घाट्तः इति उद्घोषणं कृतवान्। राजपरिवारसदस्याः साक्षिणः आसन्। रविवासरादारभ्य पदकसम्पादनमारभ्यते। ३१ सुवर्णपदकेषु रविवासरे निश्चयो भविष्यति।

Saturday, September 19, 2026

 दिल्ल्यां पुनरपि संघटितबलात्कारः।

१६ वयस्कां जघान; मृतशरीरं शुनकैः खादितम्।

नवदील्ली> राष्ट्रराजधानीनगरसमीपस्थे प्रदेशे १६ वयस्का बालिका संघटितबलात्काराधीना भूत्वा हता विजनस्थाने परित्यक्ता। अधिगतं मृतशरीरं शुनकैः भुक्तावस्थायमासीत्। घटनायां चत्वारः अपराधिनः आरक्षकैः निगृहीताः। एषु त्रयः अपक्ववयस्काः भवन्ति। 

  बाह्यदिल्ल्यां स्वरूपनगरे सेप्तम्बर दशमदिनाङ्के आसीदियं दारुणघटना। अपराधिषु अन्यतमः बालिकायाः सखा इति सूच्यते। तं द्रष्टुं गृहात्  प्रस्थितां बालिकां एषः सुहृत् तस्य अन्यानि मित्राणि चाहूय केनचित् पण्यवाहनेन विजनप्रदेशं प्रापयित्वा मद्यपानं कृत्वा संघटितबलात्कारं चक्रुः। 

  ततः बालिकां कुट्टनेन मारयित्वा मृतशरीरमुपेक्ष्य ते प्रस्थिताः। १३ तमे दिनाङ्के शुनकैः खाद्यमानं मृतशरीरं दृष्ट्वा प्रदेशवासिनः पुलीसदलं न्यवेदयन्। अन्वेषणे चत्वारः निगृहीताः। १९ वयस्कः शिवं नामकः एव अपराधिषु पक्ववयस्कः।

 एष्यन् गयिंस् - अद्य उद्घाटनम्।

उद्घाटनवेदी पलोमा मिसुहो क्रीडाङ्कणम्। 

नगोया> एशिया भूखण्डस्य बृहत्तमः कायिकोत्सवः - एष्यन् गयिंस् - शनिवासरे सार्धद्विवादने [भारतीयसमयः] जापानस्थे नगोयानगरे उद्घाट्यते। एष्यन् गयिंस् कायिकोत्सवस्य २० तमं संस्करणमेव अत्र सम्पद्यते। जापानराष्ट्रस्य  चक्रवर्ती नारुहितो उद्घाटनं करिष्यति। चक्रवर्तिनी मसाको, राजकुमारः अकिषिनो, राजकुमारी किको इत्येते राजपरिवारसदस्याः अपि कार्यक्रमे भागं करिष्यन्ति।

  नगोया नामके महानौकाश्रयनगरस्थे 'पलोमा मिसुहो' इति अत्लटिक् क्रीडाङ्कणे अस्ति उद्घाटनकार्यक्रमाः। जापानस्य चरित्र-कला-सांस्कृतिकपारम्पर्यम् अभिव्यक्तमानाः भविष्यन्ति कार्यक्रमाः। 

  तृतीयवारमस्ति एशियायाः  कायिकोत्सवे जापानदेशस्य आतिथ्यम्। जापानीयपारम्पर्ये पौराणिकजीविषु अन्यतमः , जापानीयवास्तुशास्त्रे संरक्षणस्य प्रतीकरूपेण मन्यमानः 'षचिहोको' इत्यस्मात् प्रचोदितः 'होनोहोनः' [Honohon] भवति कायिकोत्सवस्य भाग्यचिह्नम्। ऊर्जोत्साहस्पर्धावीर्याणां द्योदकं भवति।

 अल् ख्वायिदा सम्बन्धः

यू पि प्रान्तीयः कोयम्पुत्तूरे निगृहीतः।

कोयम्पुत्तूर्> अल् ख्वायिदा नामकेन भीकरवादसंघटनेन सम्बन्धमारोप्य उत्तरप्रदेशीयः १९ वयस्कः तमिलनाटे कोयम्पुत्तूरे निगृहीतः।  सित्तारनगरजनपदनिवासी मक्सूद अलिनामकः एव उत्तरप्रदेशस्य भीकरवादविरुद्धसेना कोयम्पुत्तूर् आरक्षकसेनायाः साहाय्येन निगृहीतः। 

  सामाजिकमाध्यमैः प्रचरणं कृत्वा जनान् तीव्रवादसंघटनं योजयित्वा राष्ट्रविरुद्धप्रवर्तनाय परिशीलनं च करोति मक्सूदः इति आरक्षकाधिकारिणा उक्तम्। कतिपयकालेन एषः यू पि आरक्षकसेनायाः निरीक्षणे आसीत्।

Friday, September 18, 2026

 भारत-अफ्गानिस्थान टि-२० परम्परायां भारतस्य सम्पूर्णविजयः। 

तृतीयस्पर्धायां भारतस्य १२७ धावनाङ्कानां विजयः। 

योगासनेन अभिषेकशर्मणः  शतकविजयाह्लादः। 

नवदिल्ली> ताडनोद्घाटकस्य  अभिषेक शर्मणः शतकयुक्ते  अत्युज्वलताडनपाटवे तृतीयस्पर्धायामपि भारतस्य विजयः। अनेन अफ्गानिस्थानं विरुध्य टि-२० क्रिकट् परम्परायां भारतस्य ३-० क्रमेण सम्पूर्णविजयः। 

  प्रथमं कन्दुकताडनं कृतवता भारतगणेन २० क्षेपणचक्रेषु सप्त ताडकानां विनष्टे २२१ धावनाङ्काः प्राप्ताः। तत्र  ३० कन्दुकैः शतकं प्राप्य परं ४ कन्दुकानपि अभिमुखीकृत्य आहत्य १०८ धावनाङ्कान् सम्पाद्य बहिर्गतस्य अभिषेक शर्मणः क्रीडा विशिष्टा वर्तते। केरलीयः सञ्जू सांसणः ५० धावनाङ्कान् सम्प्राप्तवान्। प्रत्युत्तरक्रीडायाम् अफ्गानिस्थानं ९४ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीताः।

 हूतयः मक्कानगरम् आक्रमणलक्ष्यमकरोत् - सौदी।

निषिध्य हूतयः।

रियादः> इस्लामधर्मविश्वासिनां विशुद्धनगरं मक्कां प्रति यमनस्थाः हूतयः ड्रोणाक्रमणाय प्रयतितवन्त इति सौदी अरेबियया आरोपितम्। मंगलवासरे सायं दक्षिणतः आगतं ड्रोणायुधं मक्कायाः व्योममण्डलप्रवेशात् पूर्वमेव  प्रतिरोधसंविधानेन भञ्जितमिति सौद्याः नेतृत्वे वर्तमानस्य सख्यबलस्य वक्ता मेजर् जनरल् तुर्की अल् मालिकी न्यगादीत्। 

  किन्तु आरोपणमिदं व्याजमिति हूतिभिः निरस्तम्। मक्कां वा इतराणि इस्लामिकविशुद्धकेन्द्राणि वा न लक्ष्यीकृतानीति तैः निगदितम्।

 आरबसागरे पाकिस्थानस्य नौका भारतीययुद्धनौकया सह संघट्टिता।

नवदिल्ली> अरबसागरे प्रतिदिननिरीक्षणे वर्त्तमानायां भारतीययुद्धनौकायां पाकिस्तानस्य नौसेनानौका संघट्टिता। घटनायामस्यां विदेशकार्यमन्त्रालयेन पाकिस्तानस्य नयतन्त्रज्ञं साद्-अहमदमाहूय प्रतिषेधः प्रकटितः। अन्तर्राष्ट्रियसमुद्रसीमायां सञ्जाता एषा घटना पाकिस्तानस्य नौसेनायाः असावधानतापूर्णं कृत्यं भवति। एतदङ्गीकर्तुं नार्हमिति भारतेन सूचितम्।

Thursday, September 17, 2026

 अनन्तनागाय फाल्के पुरस्कारः। 


नवदिल्ली> भारतीयचलच्चित्रमण्डलस्य विशिष्टयोगदानाय दीयमानः २०२४ तमवर्षस्य दादा साहिब फाल्के पुरस्कारः  कन्नडस्य विख्यातः चलच्चित्राभिनेता अनन्त नागः इत्यस्मै दीयते। अस्मिन् मासे २२ तमदिनाङ्के गुजराते केवाडिया इत्यत्र सम्पत्स्यमाने राष्ट्रिय चलच्चित्रपुरस्कारकार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू पुरस्कारं दास्यति। 

  मुम्बैय्यां कोङ्कणी, कन्नडभाषयोः नाटकाभिनयेन चलच्चित्रमण्डलं प्रविष्टवान् अनन्त नागः विभिन्नभाषासु ३००तः अधिकेषु चलच्चित्रेषु अभिनीय स्वप्रतिभां प्रकाशयति स्म। 

  एतत्कालाभ्यन्तरे राजनैतिकक्षेत्रम् अपि प्रविष्टवान् अनन्तनागः कर्णाटकविधानसभायां सदस्यः भूत्वा प्रशासने नगरविकसनमन्त्री आसीत्। २०२५ तमे वर्षे पद्मभूषणपुरस्कारेण समादृतः अभवत्।