OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, August 4, 2025

 खालिद् जमीलः भारतपादकन्दुकदलस्य परिशीलकः। 

१३ वर्षेभ्यः परं भारतीयपरिशीलकः। 

खालिद् जमीलः। 

नवदिल्ली>  परिशीलकस्थानं त्यक्तवतः मनोला मार्क्वेस् इत्यस्य स्थाने जम्षड्पुरं एफ् सि दलस्य परिशीलकः खालिद् जमीलः भारतस्य पादकन्दुकदलस्य परिशीलकरूपेण 'अखिलभारत पादकन्दुक फेडरेषन्' संस्थया नियुक्तः। १३ वर्षेभ्यः परं भारतीयः परिशीलकः भवति जमीलः। 

  एष्यन् चषकस्पर्धायां योग्यतासम्पादनमेव जमीलस्य पुरतः वर्तमानः महानभिग्रहः। योग्यतासम्पादनाय स्पर्धाद्वये अतीते एकः अङ्क एव भारतस्य संपत्। ओक्टोबरमासे सिङ्गपुरेण सह प्रतिद्वन्द्वे विजयः अनिवार्यः भवति।

 समुद्रे चक्रवातगर्तः

केरले अतिवृष्टिसम्भावना। 

अनन्तपुरी> आगामिदिनेषु केरले तीव्रवृष्टिः अतितीव्रवृष्टिः वा भवेदिति केन्द्र पर्यावरणविभागेन निगदितम्। दक्षिणतमिलनाटस्य मान्नार् समुद्रान्तरालस्य चोपरि अन्तरिक्षस्य उच्चस्तरे चक्रवातगर्तः रूपीकृत इत्येव हेतुः। 

 कुजवासरपर्यन्तं केरलस्य दक्षिणमध्यभागयोः अतितीव्रा वृष्टिर्स्यात्। बुध-गुरुवासरयोः उत्तरकेरले अपि अतिवृष्टिः भवेत्।

 जम्मु काश्मीरे द्वौ भीकरौ मारितौ।

श्रीनगरं> जम्मु काश्मीरस्थे कुलगामे सुरक्षासेनया द्वौ भीकरौ मारितौ। शुक्रवासरे विधत्तायां प्रतियोगितायामासीदियं घटना।

  भीकरसान्निध्यमस्तीति गुप्तसूचनामनुसृत्य अखल् वनमण्डले कृते मार्गणे सेनया भुषुण्डिप्रयोगः कृतः।

Sunday, August 3, 2025

 श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये 

श्रीशङ्करजन्मदिनोत्सवः। 

कालटी> श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये श्रीशङ्करजन्मदिनोत्सवकार्यक्रमाणां द्वितीयसोपानम् आगस्ट् ५, ६ दिनाङ्कयोः विश्वविद्यालयपरिसरे सम्पत्स्यते। पञ्चमदिनाङ्के   श्रीशङ्कररचनाः अधिकृत्य सङ्गीतसपर्यां प्रस्तौष्यति। 

  तदनन्तरम् आयोक्ष्यमाणे उद्घाटनसमारोहे कुलपतिः प्रोफ के के गीताकुमारी आध्यक्षं वक्ष्यति। बङ्गलुरु विश्वविद्यालयस्य संस्कृतविभागाध्यक्षः एस् रङ्गनाथः मुख्यभाषणं करिष्यति। मध्याह्नानन्तरं सम्पत्स्यमाने सङ्गोष्ठीकार्यक्रमे वंगविश्वविद्यालयस्य तत्त्वदर्शनविभागे प्राचार्यः लक्ष्मीकान्तपतिः अध्यक्षपदमलङ्करिष्यति। 

 षष्ठे दिने चित्रप्रदर्शनं, नृत्ताविष्कारः,वाक्यार्थसदः, समाप्तिसम्मेलनम् इत्यादीनि भविष्यन्ति।

 १६ संख्याकेषु  सि - २९५ विमानेषु 

अन्तिममपि भारतेन स्वीकृतम्। 

लण्टनं> स्पेयिनराष्ट्रात् भारतसेनायै क्रीणातुं निर्णीतानि सर्वाण्यपि सि २९५ नामकानि सेनासामग्रीवाहकानि विमानानि भारतेन स्वूकृतानि। गतदिने स्पेयिनस्थः भारतस्थानपतिः दिनेश् के पट्नायिकः वायुसेनायाः उन्नताधिकारिणश्च मिलित्वा अन्तिमं विमानं स्वीकृतवन्तः। 

  २०२१ तमे वर्षे आसीत् ५६संख्याकानि सि - २९५ इति विमानानि क्रीणातुं भारतेन  स्पेयिनस्य Airbus Defense and Space इत्याख्यया संस्थया सह सन्धिः कृता। १६ संख्याकानि  स्पेयिनात् क्रीतानि। अवशिष्टानि ४० संख्याकानां निर्माणं भारते एव करिष्यति।

 साहित्यनिरूपकः प्रोफ. एम् के सानुः दिवंगतः। 


कोच्चि> कैरल्याः प्रख्यातः साहित्यनिरूपकः, प्रभाषकः, सांस्कृतिकप्रवर्तकः, ग्रन्थकारः वरिष्ठः अध्यापकश्च एम् के सानुवर्यः [९७] दिवंगतः। कतिपयदिनेभ्यः पूर्वमेव कर्मनिरतः आसीत्। गृहे पादस्रंसनेन जातक्षतः  सः नगरस्थे आतुरालये परिचर्यायामासीत्। शनिवासरे सायं ५. ३० वादने मृत्युरभवत्। 
  एष़ुत्तच्छन् पुरस्कारः, केन्द्र-केरलसाहित्य अकादमीपुरस्काराः, मातृभूमि-पद्मप्रभा-वयलार्-वैलोप्पिल्ली पुरस्काराः इत्यादिभिः  अनेकैः  पुरस्कारैः सानुवर्यः सम्मानितः अस्ति। श्रीनारायणगुरुः, वैक्कं मुहम्मदबषीर्, चङ्ङम्पुष़ कृष्ण पिल्ला, कुमारनाशान् इत्यादीन् प्रथितयशान् अधिकृत्य जीवनचरितानि व्यरचयत्। ३६ अधिकानां ग्रन्थानां रचयिता सः १९८७ तमे वर्षे केरलस्य विधानसभां प्रति चित आसीत्।

Saturday, August 2, 2025

 अमर्नाथ तीर्थाटनं निरुद्धम्। 

नवदिल्ली> तीव्रवृष्टिकारणात् अमर्नाथं प्रति तीर्थाटनं रविवासरपर्यन्तं प्रशासनेन निरुद्धम्। मन्दिरं प्रति मार्गद्वये अपि क्षतिनिवारणकर्माणि प्रचलन्ति इत्यतः एव  तीर्थयात्रा निरुद्धा।

 २०२३ राष्ट्रिय चलच्चित्रपुरस्काराः घोषिताः। 

नवदिल्ली> २०२३ तमवर्षस्य राष्ट्रिय चलच्चित्रपुरस्काराः उद्घोषिताः। श्रेष्ठाभिनेतृरूपेण द्वौ चितौ। 'जवान्' नामके चलच्चित्रे अभिनये षारुख् खानः, Twelfth Fail नामके चलच्चित्रे विक्रान्त मासी च श्रेष्ठाभिनेतृ पुरस्काराय अर्हतां प्राप्तवन्तौ। Mrs Chaterji v/s Norvey इत्यस्मिन् चलच्चित्रे अभिनयेन  राणी मुखर्जी श्रेष्ठनायिकारूपेण चिता। श्रेष्ठं चलच्चित्रं Twelfth Fail  भवति। 

  दि केरला स्टोरी ' इति चलच्चित्रस्य निदेशकः सुदीप्तो सेन् इत्येषः श्रेष्ठ‌निदेशकपुरस्कारं प्राप्तवान्।

 उपराष्ट्रपतिनिर्वाचनं सेप्टम्बर् नवमदिनाङ्के।

नवदिल्ली> भारतस्य १७ तमम् उपराष्ट्रपतिं विचेतुं  मतदानं मतगणना च सेप्तम्बररमासे नवमदिनाङ्के विधास्येते। 

  प्रातः ११ वादनतः सायं पञ्चवादनपर्यन्तं मतदानस्य अवकाशः अस्ति। आगस्त् सप्तमदिनाङ्के निर्वाचनस्य विज्ञप्तिः भविष्यति। तद्दिनादारभ्य २१ दिनाङ्कपर्यन्तं पत्रिकासमर्पणस्य कालः। 

  उपराष्ट्रपतेः जगदीप धन्करस्य स्थानत्यागकारणादेव नूतनोपराष्ट्रपतये निर्वाचनम् आवश्यकमभवत्।

Friday, August 1, 2025

 ट्रम्पस्य शुल्कघोषणम्। 

प्रत्याघाताः अवलोक्यमानाः सन्तीति प्रशासनम्।

नवदिल्ली> भारतीयानां निर्यातोत्पन्नानां  २५% शुल्कं द्रव्यदण्डं च विहितस्य अमेरिकाराष्ट्रस्य निर्णये प्रत्याघाताः केन्द्रप्रशासनेन अवलोक्यन्ते इति वाणिज्यमन्त्री पीयूष गोयलः निगदितवान्। संसदः सभाद्वये अपि प्रस्तुतविषये आत्मना कृते प्रस्तावे मन्त्रिणा एतदपि निगगितं यत् राष्ट्रहितं संरक्षितुं सर्वकारः  यावच्छक्यं प्रयतिष्यति।