OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 3, 2025

 साहित्यनिरूपकः प्रोफ. एम् के सानुः दिवंगतः। 


कोच्चि> कैरल्याः प्रख्यातः साहित्यनिरूपकः, प्रभाषकः, सांस्कृतिकप्रवर्तकः, ग्रन्थकारः वरिष्ठः अध्यापकश्च एम् के सानुवर्यः [९७] दिवंगतः। कतिपयदिनेभ्यः पूर्वमेव कर्मनिरतः आसीत्। गृहे पादस्रंसनेन जातक्षतः  सः नगरस्थे आतुरालये परिचर्यायामासीत्। शनिवासरे सायं ५. ३० वादने मृत्युरभवत्। 
  एष़ुत्तच्छन् पुरस्कारः, केन्द्र-केरलसाहित्य अकादमीपुरस्काराः, मातृभूमि-पद्मप्रभा-वयलार्-वैलोप्पिल्ली पुरस्काराः इत्यादिभिः  अनेकैः  पुरस्कारैः सानुवर्यः सम्मानितः अस्ति। श्रीनारायणगुरुः, वैक्कं मुहम्मदबषीर्, चङ्ङम्पुष़ कृष्ण पिल्ला, कुमारनाशान् इत्यादीन् प्रथितयशान् अधिकृत्य जीवनचरितानि व्यरचयत्। ३६ अधिकानां ग्रन्थानां रचयिता सः १९८७ तमे वर्षे केरलस्य विधानसभां प्रति चित आसीत्।