OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 3, 2025

 श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये 

श्रीशङ्करजन्मदिनोत्सवः। 

कालटी> श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये श्रीशङ्करजन्मदिनोत्सवकार्यक्रमाणां द्वितीयसोपानम् आगस्ट् ५, ६ दिनाङ्कयोः विश्वविद्यालयपरिसरे सम्पत्स्यते। पञ्चमदिनाङ्के   श्रीशङ्कररचनाः अधिकृत्य सङ्गीतसपर्यां प्रस्तौष्यति। 

  तदनन्तरम् आयोक्ष्यमाणे उद्घाटनसमारोहे कुलपतिः प्रोफ के के गीताकुमारी आध्यक्षं वक्ष्यति। बङ्गलुरु विश्वविद्यालयस्य संस्कृतविभागाध्यक्षः एस् रङ्गनाथः मुख्यभाषणं करिष्यति। मध्याह्नानन्तरं सम्पत्स्यमाने सङ्गोष्ठीकार्यक्रमे वंगविश्वविद्यालयस्य तत्त्वदर्शनविभागे प्राचार्यः लक्ष्मीकान्तपतिः अध्यक्षपदमलङ्करिष्यति। 

 षष्ठे दिने चित्रप्रदर्शनं, नृत्ताविष्कारः,वाक्यार्थसदः, समाप्तिसम्मेलनम् इत्यादीनि भविष्यन्ति।