OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 4, 2025

 खालिद् जमीलः भारतपादकन्दुकदलस्य परिशीलकः। 

१३ वर्षेभ्यः परं भारतीयपरिशीलकः। 

खालिद् जमीलः। 

नवदिल्ली>  परिशीलकस्थानं त्यक्तवतः मनोला मार्क्वेस् इत्यस्य स्थाने जम्षड्पुरं एफ् सि दलस्य परिशीलकः खालिद् जमीलः भारतस्य पादकन्दुकदलस्य परिशीलकरूपेण 'अखिलभारत पादकन्दुक फेडरेषन्' संस्थया नियुक्तः। १३ वर्षेभ्यः परं भारतीयः परिशीलकः भवति जमीलः। 

  एष्यन् चषकस्पर्धायां योग्यतासम्पादनमेव जमीलस्य पुरतः वर्तमानः महानभिग्रहः। योग्यतासम्पादनाय स्पर्धाद्वये अतीते एकः अङ्क एव भारतस्य संपत्। ओक्टोबरमासे सिङ्गपुरेण सह प्रतिद्वन्द्वे विजयः अनिवार्यः भवति।