उपराष्ट्रपतिनिर्वाचनं सेप्टम्बर् नवमदिनाङ्के।
नवदिल्ली> भारतस्य १७ तमम् उपराष्ट्रपतिं निर्वक्तुं मतदानं मतदणना च सेप्तम्बररमासे नवमदिनाङ्के विधास्येते।
प्रातः ११ वादनतः सायं पञ्चवादनपर्यन्तं मतदानस्य अवसरः अस्ति। आगस्त् सप्तमदिनाङ्के निर्वाचनस्य विज्ञप्तिः भविष्यति। तद्दिनादारभ्य २१ दिनाङ्कपर्यन्तं पत्रिकासमर्पणस्य कालः।
उपराष्ट्रपतेः जगदीप धन्करस्य स्थानत्यागकारणादेव नूतनोपराष्ट्रपतये निर्वाचनम् आवश्यकमभवत्।