OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, December 20, 2024

 डिङ्क डिङ्क नाम नूतनरोगबाधया ३०० अधिकजनाः चिकित्सायां वर्तन्ते।

 उगाण्ड देशे डिङ्क डिङ्क नाम रोगः सर्वत्र प्रसरति। त्रिसहस्राधिकाः  (३००)  जनाः रोगस्य चिकित्सायां वर्तन्ते इत्यस्ति प्रतिवेदनम्। बण्डिबुग्यो नाम जनपदे बहवः रोगिणः परिचर्यायां वर्तन्ते। स्त्रीषु बालिकासु च रोगः प्रसरति। ज्वरः, शरीरकम्पनम् इत्यादीनि रोगलक्षणानि भवन्ति। आन्टिबयोडिक् औषधानि एव इदानीं रोगशमनाय रोगिभ्यः दीयन्ते इति स्वास्थ्यमन्त्रालयाधिकारिणा डो. कियिट्टा क्रिस्टफर् महोदयेन उक्तम्।

 सन्तोष् ट्रोफी - केरलं चतुर्धांशं प्राविशत्। 

हैदराबादः> सन्तोष् ट्रोफी पादकन्दुकस्पर्धापरम्परायाः बी संघस्य तृतीये प्रतिद्वन्द्वे केरलं ओडीशां प्रत्युत्तरहीनेन लक्ष्यकन्दुकद्वयेन पराजयत।  अनेन विजयेन केरलं चतुर्धांशचक्रं प्राविशत्। 

  ए, बी संघयोः स्पर्धात्रयचक्रं सम्पूर्णम्। चक्रद्वयमवशिष्यते। २२,२४ दिनाङ्कयोः यथाक्रमं दिल्ली, तमिलनाट् दले च पराजित्य संघवीरता प्रदर्शनीया इति केरलस्य लक्ष्यम्।

 जम्मु-काश्मीरे पञ्च भीकरवादिनः व्यापादिताः। 

श्रीनगरं> जम्मु-काश्मीरे कुलगाम् जनपदे सुरक्षासेनया सह प्रतिद्वन्द्वे पञ्च हिस्बुल् मुजाहिदीनीयाः भीकरवादिनः  व्यापादिताः। हताः के के इति प्रत्यभिज्ञाताः। तेष्वेकः संघटनस्य कमान्डर् पदीयः फरूख् अहम्मद भट्टः अस्ति। 

  द्वौ सैनिकावपि व्रणितौ। बुधवासरे रात्रौ बहिबागसमीपे भीकराः निलीनाःवर्तन्ते इति वृत्तान्तस्य आधारे कृते मार्गणे आसीत् प्रतिद्वन्द्वः।

Thursday, December 19, 2024

 ओस्कार् - 'लाप्त लेडीस्' निरस्तम्। 

लोसाञ्जलस्> ओस्कार् चलच्चित्रपुरस्काय परिगण्यमानायाः संक्षिप्तावल्याः भारतस्य 'लाप्त लेडीस्' इति चलच्चित्रं बहिर्नीतम्।  भारतस्य  औद्योगिकसमर्पणमासीत् किरण् रावस्य निदेशकत्वे साक्षाकृतमिदं चित्रम्। 

  प्रत्युत, गुनीत् मोङ्क कपूरेण निर्मितं चलच्चित्रम् 'अनूजा' नामकं ह्रस्वचित्रविभागस्य संक्षिप्तावल्याम् अन्तर्भूतम्। आदं जे ग्रीव्स्, सुचित्रा मत्तायी इत्येतौ अस्य निदेशकौ।

 न्याय. यादवाय वाग्दण्डः। 

न्याय.शेखरकुमार यादवः। 

नवदिल्ली> विश्वहिन्दुपरिषदः कार्यक्रमे इस्लामविभागं विरुध्य विवादपरामर्शं कृतवते अलहबाद उच्चन्यायालयस्य  न्यायमूर्तिः शेखरकुमार यादव इत्यस्मै सर्वोच्चन्यायालयस्य न्यायाधिपवृन्देन प्रबोधनपूर्वकः वाग्दण्डः विहितः। न्यायमूर्तिपदस्य आभिजात्यं परिपालयितव्यमिति यादवः उपदिष्टः। सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः सञ्जीव खन्नः इत्यस्य नेतृत्वे पञ्चाङ्गयुक्तेन न्यायमूर्तिवृन्देनैव प्रबोधनात्मकः उपालम्भः विहितः।

 अर्बुदरोगनिरोधकं वाक्सिनः  रष्येण निर्मितः । 2025 तमे वर्षे निःशुल्कं वितरणं भविष्यति।

  अर्बुदरोगनिरोधकं वाक्सिनम् आविकृतमिति रष्यस्य  स्वास्थ्यमन्त्रालयेन घोषितम्। अर्बुदरोगं विरुद्ध्य एम्-आर्-एन्-ए वाक्सिनं निर्मितमिति विज्ञापनं कृतम्। रष्यस्य स्वास्थ्य-मन्त्रालयाधीनस्य रडियोलजी मेडिकल् रिसर्च् केन्द्रस्य सामान्यनिदेशकः आन्द्रियः कप्रिनः इत्यनेन एतद्विषये सूचितम्। वाक्सिनं 2025 तमे वर्षस्य आरम्भे एव रोगिणः प्रति निःशुल्कं वितरिष्यते इति घोषणं कृतम्। अर्बुदरोग-वाक्सिनानां शीघ्रं विकासं भविष्यति इति रष्यस्य राष्ट्रपतिना व्लादिमीर पुतिनेन पूर्वं ज्ञापितम्।

 नाविकसेनायन्त्रनौका-यात्रानौकाघट्टनं - १३ मरणानि। 

रक्षाप्रवर्तनस्य दृश्यम्। 

१०१ जनाः रक्षिताः। 

मुम्बई> 'गेट् वे ओफ् इन्डिया' इत्यस्मात् विनोदयात्रिकैः सह 'एलिफन्ट् केव्' स्थानं प्रति गतवत्यां यन्त्रनौकां नौसेनायाः यन्त्रनौकाघट्टनेन दुरापन्नायां दुर्घटनायां १३ जनाः जले निमज्य मृताः। एषु त्रयः नौसेनाङ्गाः, इतरे उल्लासयात्रिकाश्च। बुधवासरे सायं चतुर्वादने उरानतटसमीपमासीत् दुर्घटना।

  उल्लासनौकायां ११० अधिकाः जनाः आसन्। १०१ जनाः रक्षिताः। यात्रिकेषु विदेशिनः अपि सन्तीति सूच्यते। 

  आहतेषु चतुर्णामवस्था तीव्रा भवतीत्यकः मृत्युसंख्यायां वर्धनं सम्भाव्यते।

Wednesday, December 18, 2024

 आफ्रिकस्य फ्रान्स् -द्वीपः मयोट्  चक्रवातेन धूलीकृतः ।

चक्रवातात् पूर्वम् - अनन्तरं च

   चिडो नाम चक्रवातेन फ्रान्स् राष्ट्रान्तर्गते मयोट्-द्वीपः धूलीकृतः। २०० कि.मी. वेगेन आसीत् वातवीचनम्। सर्वकारस्य कार्यालयानि, आतुरालयानि च भग्नानि। नारिकेलवृक्षाः मूलबन्धं विच्छित्य गृहाणाम् उपरि पतिताः। ९० संवत्सराणाम् अभ्यन्तरे जायमानेषु चक्रवातेषु घोरतमः भवति अयम्।

  फ्रान्स् राष्ट्रस्य १८ मण्डलेषु एकः अस्ति मयोट्। ३९ कि.मी. दीर्घता, २२ कि.मी. आयतिः च अस्य अस्ति। यूरोप्-संयुक्तराष्ट्रान्तर्गतः दूरस्थदेशः भवति इति अस्य विशेषता। © https://www.samprativartah.in

सम्पादकस्य सूचना - वार्ताः यथेच्छं स्वीकरोतु । यथेच्छं प्रसारयतु । किन्तु प्रसारणे https://www.samprativartah.in इति अन्तर्जालसूत्रमपि निश्चयेन देयम् ।

 एकराष्ट्रम्; एकनिर्वाचनं - विधेयकं संसदि अवतारितम्। 

विधेयकं संयुक्तसमित्याः परिशोधनाय समर्पितम्। 

नवदिल्ली>  विपक्षदलानां प्रतिषेधे वर्तमाने एकराष्ट्रम्; एकनिर्वाचनम् इति विधेयकं लोकसभायां सर्वकारेण अवतारितम्। विपक्षस्य आवश्यमनुसृत्य मतदानप्रक्रियया एव अवतरणानुमतिः लब्धा। विधेयकावतरणमनुकूल्य २६९ सदस्याः, प्रतिकूल्य १९८ सदस्याश्च मतदानम् अङ्कितवन्तः। 

  केन्द्रनियममन्त्री अर्जुन मेघवालः विधेयकमवतारितवान्। विधेयकं संयुक्तसभासमित्यै [जे पि सि] समर्पणीयमिति आदेशः सर्वकारेण अङ्गीकृतः। सभाद्वयस्य अङ्गान् अन्तर्भाव्य सभापतिः जे पि सि समितिं रूपीकरिष्यति।

 रष्यायाः आणवसेनाधिकारी युक्रेनेन व्यापादितः। 

मोस्को> रष्यायाः आणव-जैव-रासायुधसंरक्षणसेनायाः अधिकारी लेफ. जनरल् इगोर् किरिलोवः [५४] मोस्को मध्ये आयोजितेन द्विचक्रिकायानस्फोटनेन हतः। गतदिने प्रभाते किरिलोवस्य भवनसमीपमासीत् स्फोटनम्। विदूरनियन्त्रितयन्त्रेण कृतस्य  स्फोटनस्य पृष्ठतः युक्रेन इति सूच्यते। 

  रष्यायाः युद्घे रासायुधप्रयोगमालक्ष्य किरिलोवस्य उपरि दण्ड्यपराधाः युक्रेनेन विहिताः आसन्। इतः पूर्वमपि रष्यायाः सेनाप्रमुखाः रष्यायां युक्रेनेन हताः आसन्।

Tuesday, December 17, 2024

 दिसनायके-नरेन्द्रमोदी मेलनं सम्पन्नम्। 

विविधमण्डलेषु परस्परसहयोगवर्धनाय निर्णयः। 


नवदिल्ली> श्रीलङ्कायाः राष्ट्रपतिः अनुर कुमार दिसनायकः भारतस्य प्रधामन्त्रिणं नरेन्द्रमोदिनं  सोमवासरे सम्मिलितवान्। राष्ट्ररक्षा ऊर्ज व्यापार समुद्रगतागत डिजिटल मण्डलेषु परस्परसहयोगं संवर्धयितुं उभयोरपि राष्ट्रनेतारयोः मध्ये सम्मतिः जाता। 

  रामेश्वरात् तलैमान्नारं प्रति यन्त्रनौकासेवाम् आरब्धुं निश्चिकाय। धीवराणां प्रकरणेषु मानविकमूल्ययुक्तं व्यवहारं स्वीकरिष्यति। 

  दिल्ल्यां हैदराबादभवने सम्पन्नस्य मेलनानन्तरं कृते पत्रकारमेलने  भाविनी मार्गरेखा उभाभ्यां राष्ट्राभ्याम् अङ्गीकृतमिति निगदितम्।

 भारतीयाः ११ कर्मकराः जोर्जियायां मृताः। 

टिबिलिसि> जोर्जियायाराष्ट्रस्य पर्वतप्रदेशस्थे सुखवासकेन्द्रे १२ कर्मकराः मृताः। एषु ११ जनाः भारतीयाः भवन्ति। 

  समुद्रतलात् २२००मीटर्मिते  उच्चस्तरे वर्तमाने गुडौरिनामकनगरे 'स्की' इति सुखवासकेन्द्रस्य भोजनशालायामेव एते मृतरूपेण दृष्टाः। कार्बण् मोणोक्सैड् इति विषवायोः श्वसनात् स्यात् मृत्युरभवदिति मन्यते।

Monday, December 16, 2024

 त्रिदिवसीयसन्दर्शनाय श्रीलङ्काराष्ट्रपतिः भारतं प्राप्तवान्। 

भारतं प्राप्तं श्रीलङ्काराष्ट्रपतिं अनुर कुमार दिसनायके वर्यं [वामे] केन्द्रमन्त्री एल् मुरुगः स्वीकरोति। 

नवदिल्ली> दिनत्रयात्मकसन्दर्शनाय श्रीलङ्कायाः राष्ट्रपतिः अनुर कुमार दिसनायके वर्यः ह्यः सायं भारतं प्राप्तवान्। सेप्तम्बरमासे राष्ट्रपतिरूपेण चयनानन्तरं प्रथममेव तस्य भारतसन्दर्शनम्। केन्द्रमन्त्री एल् मुरुगः  नयतन्त्राधिकारिणः च मिलित्वा तं स्वीकृतवन्तः। 

  राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी इत्यादिभिः सह तस्य मेलनं भविष्यति। दिसनायकेन सह  श्रीलङ्कायाः विदेशकार्यमन्त्री उप वित्तकार्यमन्त्री च तमनुगच्छतः।

 महाराष्ट्रे मन्त्रिमण्डलं विकसितम्। 

३९ मन्त्रिणः ; महिलामन्त्रिणः ४। 

 नागपुरम्> मुख्यमन्त्री, द्वौ उपमुख्यमन्त्रिणौ इत्येतेषां शपथवाचनस्य दशदिनानन्तरं महाराष्ट्रे देवेन्द्र फड्नविसस्य नेतृत्वे विद्यमानस्य  मन्त्रिमण्डलस्य विकासः सम्पन्नः। चतस्रः महिलाः अभिव्याप्य ३९ मन्त्रिणः रविवासरे शपथवाचनं कृतवन्तः। 

   नागपुरे राजभवने आयोजिते कार्यक्रमे राज्यपालः सि पि राधाकृष्णः सत्यशपथं कारितवान्। अनेन देवेन्द्र फड्नविसस्य मन्त्रिमण्डलस्य अङ्गबलं ४२ अभवत्। भाजपा - २०, शिवसेना - १२, एन् सि पि - १० एवमेव मन्त्रिमण्डले राजनैतिकदलानां मन्त्रिसंख्या। तेषु ३३ केबिनट्पदीयाः मन्त्रिणः, ६ सहमन्त्रिणश्च भवन्ति।

 सन्तोष् ट्रोफी पादकन्दुकस्पर्धा - केरलस्य विजयः। 

  हैदराबादः> हैदराबादे रविवासरे आरब्धायाः सन्तोष ट्रोफीपादकन्दुकस्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे केरलदलं विजयश्रीलालितमभवत्। प्रतियोगिनं गोवादलं ४ - ३ इति लक्ष्यकन्दुकक्रमेण पराभवं चकार।

 सिरियायां विद्यालयाः उद्घाटिताः। 

     डमास्कसः> सप्ताहद्वयं यावत् दीर्घितस्य सायुधान्दोलनस्यानन्तरं सिरियायां जनजीवनं पूर्वावस्थां प्राप। राष्ट्रे विद्यालयाः कलालयाश्च गतदिने उद्घाटिताः। उच्च-उच्चतरछात्राणां कृते कक्ष्याः आरब्धाः। किन्तु उपस्थितिः बहुन्यूनमासीत् - ३०%। अतीतपञ्चदिनाभ्यन्तरे तुर्की सीमाद्वारा ७६०० सिरियीयाः अभयार्थिनः स्वराष्ट्रं प्रति न्यवर्तन्त इति सूच्यते।

Sunday, December 15, 2024

 तबल-विद्वान् पद्मविभूषणः जाकीरहुसैनः दिवंगतः। 

      उध्वर्क(तबल)विद्वान् पद्मश्री जाकीरहुसैनः दिवंगतः। अमेरिका-राष्ट्रस्य सान्-फ्रान्सिस्को-नगरस्थे आतुरालये हृदयाघातेन तस्य निधनम् अभवत्।


 गासायाम् इस्रयेलस्य आक्रमणं - नगरसभापिता हतः। 

गासासिटि> गासायाः विविधस्थानेषु शनिवासरे इस्रयेलेन कृते आक्रमणे नगरसभापितरमभिव्याप्य १७ जनाः हताः। मध्यगासायां डयर् अल् बला नामके स्थाने प्रवृत्ते बोम्बाक्रमणे नगरसभापिता डयिब् अल् जारो इत्येषः मृतः। 

  अभयार्थिशिबिररूपेण प्रवर्तमाने विद्यालये बोम्बाक्रमणेन  सप्त जनाः मृत्युमुपगताः। 

  प्रत्युत, लबनने, सिरियायां च इस्रयेलः आक्रमणं तीव्रमकरोत्। लबनने एकः हतः।

Saturday, December 14, 2024

 ट्रम्पस्य विवासभीषायाम् अयुतशः भारतीयाः। 

वाषिङ्टणः> जनुवरिमासे यदा राष्ट्रपतिपदं प्राप्स्यति, अचिरेणैव अमेरिक्काचरित्रे महत्तमस्य विवासप्रक्रमस्य राष्ट्रं साक्षी भविष्यतीति नियुक्तराष्ट्रपतेः डोनाल्ड ट्रम्पस्य भीषा। एषा १७,९४० भारतीयानां विपरीताय भविष्यति। 

   अव्यवस्थापितरूपेण यू एस् राष्ट्रमधिवसन्तः १५ लक्षं   विदेशीयाः सन्तीति राष्ट्रस्य Immigration and Customs Enforcement संस्थया निर्णीतं, तेषां गणनावली नवम्बरमासे बहिर्नीता च। तेषु १७,९४० भारतीयाः अन्तर्भवन्ति। बहवः गुजरात्, पञ्चाब् , आन्ध्रप्रदेशराज्येभ्यः सन्ति।

 अल्लु अर्जुनः निगृहीतः ; अविलम्बेन प्रातिभाव्यं च। 

अद्य प्रभाते कारागारात् मुक्तिः। 

अल्लु अर्जुनः। 

 हैदराबादः> 'पुष्प २' इति चलच्चित्रस्य प्रथमप्रदर्शने जातेन जनसम्मर्देन युवती मृता इत्यस्मिन् प्रकरणे चलच्चित्रस्य नायकनटः अल्लु अर्जुनः हैदराबाद आरक्षकैः निगृहीतः तथापि तेलङ्काना उच्चन्यायालयस्य प्रातिभाव्यात् शनिवासरे प्रभाते विमोचितः।

  प्रकरणेSस्मिन् नम्पिल्लि धर्माध्यक्षन्यायालयेन १४ दिनात्मककारागारवासः विहितः च। किन्तु होराणामाभ्यन्तरे तेलङ्कानस्य उच्चन्यायालयेन प्रातिभाव्यं विहितम्। चलच्चित्रस्य  प्रथमप्रदर्शने अल्लु अर्जुनस्य सान्निध्यं तत्रासीदिति कारणेन मृत्योः उत्तरदायित्वं प्रथमदृष्ट्या तस्मै  दातुं न शक्यते इति उच्चन्यायालयेन निरीक्षितम्।

 कर्षकनेतुः निराहारे परिहारः आवश्यकः - सर्वोच्चन्यायालयः। 

नवदिल्ली> पञ्चाब-हरियानसीमायां १८ दिनानि यावत् अनशनान्दोलनं क्रियमाणस्य कृषकनेतुः विषये परिहारप्रक्रियाः अवलम्बनीयाः इति सर्वोच्चन्यायालयेन केन्द्रसर्वकारं पञ्चाबसर्वकारं च आदिष्टम्। पञ्चाबस्य कृषकनेता जगजीत सिंह दल्लेवालः खनोरिसीमायां नवम्बर् २६ तमदिनाङ्कतः अनशनान्दोलनं क्रियमाणस्य  प्राणाः अमूल्याः इति न्यायाधीशौ सूर्यकान्तः उज्जल् भूमनः च निगदितवन्तौ।

Friday, December 13, 2024

 तमिल् नाट् राज्ये अतिवृष्टिः अनुवर्तते।

    चेन्नै> बङ्गसमुद्रभागे जायमानेन न्यूनमर्दस्य प्रभावेन तमिलनाट् राज्ये वृष्टिः अनुवर्तते। निम्नप्रदेशाः जलेन आप्लाविताः वर्तन्ते। श्रीपेरुम्बत्तूर् पेरुवण्णामलै आदि प्रदेशे जलोपलवः अत्यधिकः अस्ति। तिरुनेल्वेली तेङ्काशि जनपदयोः व्यापकनाशः अभवत् ।

 विश्वविजयी गुकेशः तरुणराजः।

    स्वस्य अष्टादशतमे वयसि विश्वचतुरङ्गवीरतास्पर्धायां धैर्येण आत्मविश्वासेन च प्रतियोगिनं पराजित्य चतुरङ्गकिरीटं शिरसि धृतवानस्ति भारतपुत्रः दोम्मराजु गुकेशः।  आद्यन्तमुद्वेगभरितस्य आकाङ्क्षापूर्णस्य स्पर्धाचक्रस्य अन्ते गुकेशस्य विजयः कोटिशः भारतीयानामभिमानं संवर्धयति। न्यूनातिन्यूनवयस्कः विश्ववीरः अभवत् गुकेशः। 

  २२ तमे वयसि विश्वकिरीटं धृतवतः गारि कास्परोवस्य [रूसीयः]  'रिकोड्' एव गुकेशेन भञ्जितम्।

  "गतदशवर्षाणि यावत् विश्वकिरीटमिति  मम स्वप्नं साक्षात्कर्तुं उद्योगी आसम्। अन्तिमप्रतियोगितायाम् आकस्मिकविजयः मां विकाराधीनमकारयत्। प्रतियोगी मह्यमेकं सन्दर्भमदात्। तमहं सम्यक् उपयुक्तवान्। डिङ् लिरनः वस्तुतया वीर एव। यथार्थवीर इव सः क्रीडितवान्। प्रतियोगिनमधिकृत्य  आदरेण गुकेशः  उक्तवान्।

विजयानन्तरं गुकेशस्य आह्लादः। 

 उत्तराखण्डे संस्कृतशिक्षकाणां त्रिदिवसीयप्रशिक्षणशिबिरम् आयोक्ष्यते।

कुलदीपमैन्दोला। हरिद्वारम्।

 उत्तराखण्डराज्ये संस्कृतशिक्षायाः विकासं प्रति समर्पितं त्रिदिवसीयं विशेषप्रशिक्षणशिबिरं १३, १४, १५ दिसम्बरदिनाङ्केषु उत्तराखण्डसंस्कृत-अकादम्यां हरिद्वारे आयोज्यते। अयं कार्यक्रमः संस्कृतशिक्षामन्त्रिणः माननीयधनसिंहरावतस्य निर्देशनस्य अन्तर्गतं क्रियते।

   अस्मिन् प्रथमचरणे प्रदेशस्य पञ्चाशत् (५०) संस्कृतशिक्षकाणां शिक्षणकौशलविकसनाय, आधुनिकशिक्षणप्रणालीभ्यः

 भारवाहकदुर्घटना - चतस्रः छात्राः मृताः। 

पालक्काट्> केरले पालक्काट् - कोष़िक्कोट् राजवीथ्यां भारवाहकयानं शरीरं पतित्वा परीक्षानन्तरं गृहं प्रतिगच्छन्त्यः चतस्रः बालिकाः मृत्युमुपगताः।  गतदिने सायं ३. ४५ वादने करिम्पनयंपाटमिति स्थाने  आसीदियं दुर्घटना। 

  करिम्पा सर्वकार उच्चतरविद्यालये अष्टमी कक्ष्याछात्राः रिदा फातिमा, इर्फाना षेरिन्, निता फातिमा, अयिषा इत्येताः वीथीपार्श्वेण चलन्त्यः भारवाहकं नियन्त्रणं विनष्ट्य एतासां उपरि अपतत्। बहुदुष्करेणैव बालिकाः बहिर्नीताः। आतुरालयप्राप्तेः प्रागेव सर्वेषां मृत्युरभवत्।

  तदा वर्षः वर्षन्नासीत्। अत एव वाहनस्य नियन्त्रणं विनष्टमिति सूच्यते।  वीथीनिर्माणे अपाक एव दुर्घटनाकारणमित्यारोप्य तद्देशवासिनः जनाः मार्गोपरोधमकुर्वन्।