आर्तवकालस्वास्थ्यं मौलिकाधिकारः - सर्वोच्चन्यायालयः।
नवदिल्ली> महिलानां आर्तवकालस्वास्थ्यं संविधानानुशानानुसारं जीवनाधिकारस्य अंशः मौलिकाधिकारः इति सर्वोच्चन्यायालयेन आदिष्टम्।
सर्वेषु विद्यालयेषु छात्राभ्यः निश्शुल्केन स्वास्थ्यसंरक्षकाणि मृदूपधानानि [Sanitary pads] दातव्यानि, पुरुषमहिलाछात्रेभ्यः पृथक् पृथक् शौचालयाः भवितव्याः इति च सर्वोच्चन्यायालयेन निर्दिष्टम्। न्यायाधिपौ जे बी पर्दीवाला, आर् महादेवः इत्येतयोः नीतिपीठस्यास्ति प्रधाननिरीक्षणोपेतः अयं विधिः।
राष्ट्रियस्तरे विद्यालयीयछात्राभ्यः आर्तवकालशुचित्वमार्गं विधातुं अपेक्षिते सामान्यहितयाचिकायाम् आसीत् सर्वोच्चन्यायालयस्य सुप्रधानविधिः।
.jpeg)