OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, February 1, 2026

 आर्तवकालस्वास्थ्यं मौलिकाधिकारः - सर्वोच्चन्यायालयः।


 

नवदिल्ली> महिलानां आर्तवकालस्वास्थ्यं संविधानानुशानानुसारं जीवनाधिकारस्य अंशः मौलिकाधिकारः इति सर्वोच्चन्यायालयेन आदिष्टम्। 

  सर्वेषु विद्यालयेषु छात्राभ्यः निश्शुल्केन स्वास्थ्यसंरक्षकाणि मृदूपधानानि [Sanitary pads] दातव्यानि, पुरुषमहिलाछात्रेभ्यः पृथक् पृथक् शौचालयाः भवितव्याः इति च सर्वोच्चन्यायालयेन निर्दिष्टम्। न्यायाधिपौ जे बी पर्दीवाला, आर् महादेवः इत्येतयोः नीतिपीठस्यास्ति प्रधाननिरीक्षणोपेतः अयं विधिः। 

  राष्ट्रियस्तरे विद्यालयीयछात्राभ्यः आर्तवकालशुचित्वमार्गं विधातुं अपेक्षिते सामान्यहितयाचिकायाम् आसीत् सर्वोच्चन्यायालयस्य सुप्रधानविधिः।