OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, February 8, 2025

 केरलस्य आयव्ययपत्रं अवतारितम्। 

राज्यस्य आधारसुविधाविकासः परमलक्ष्यम्।

शुल्कभारः वर्धते; सर्वकारसेवकेभ्यः समाश्वासः। आर्थिकसङ्कटः  परिहृतः इति वित्तमन्त्री।

अनन्तपुरी> केरले  द्वितीय वामदलपक्षसर्वकारस्य अन्तिमं सम्पूर्णम् आयव्ययपत्रं वित्तमन्त्रिणा के एन् बालगोपालेन विधानसभायामवतारितम्। जनप्रियतामपेक्ष्य आयमनुसृत्य व्ययं कर्तुं, कतिपयक्षेत्रेषु शुल्कमानं वर्धयित्वा आधारसुविधाविकासं विधातुं चोद्दिश्यमानम् आयव्ययपत्रमेव धनकार्यमन्त्रिणा अवतारितम्। राज्यस्य उन्नयनस्य प्रारम्भः इति बालगोपालेन अभिमानितम्।  सम्मिश्रप्रतिकरणमेव विविधमण्डलेभ्यः आगतम्। 

  भूशुल्कः ५०% संवर्धितः। 'इलक्ट्रिक्' वाहनानां शुल्कोSपि वर्धितः। सर्वकारसेवकेभ्यः सेवानिवृत्तेभ्यश्च दातव्यं क्षेमराशेः देयावशिष्टं [D A Arrear] प्रत्यर्पयितुं राशिं प्रकल्पितमस्ति।

 भारतीयप्राशासनिकवित्तकोशेन 'रिप्पो'मानं न्यूनीकृतम्।

मुम्बई>  पञ्चवर्षेभ्यः पश्चात् प्रथमतः भारतीयप्राशासनिकवित्तकोशेन [ Reserve Bank of India] वित्तकोशेभ्यः दीयमानानाम् ऋणानां वृद्धिमानं [Rippo rate] न्यूनीकृतम्। शुक्रवासरे समाप्ते आर् बि ऐ संस्थायाः मुद्रानयोपवेशने आसीत् अयं निर्णयः। रिपोमानं ६. ५०% इत्यस्मात् ६. २५% इति न्यूनीकृतम्। 

 निर्णयोSयं ये वित्तकोशेभ्यः ऋणं स्वीकुर्वन्ति तेभ्यः सहायको भविष्यति। भवननिर्माणक्षेत्रे उपभोगवर्धनं प्रतीक्षते।

 काश्याम् अन्नपूर्णेश्वरिमन्दिरे प्राणप्रतिष्ठा महाकुम्भाभिषेकः सम्पन्नः।

विधुशेखरभारती स्नामिनः कुम्भाभिषेकं कुर्वन्ति। 

 

वाराणसी> जगद्गुरुणा श्रीशङ्कराचार्येण प्रतिष्ठा कृता इति विश्वास्यमाने काश्याम् अन्नपूर्णेश्वरिमन्दिरे प्राणप्रतिष्ठा महाकुम्भाभिषेकः सम्पन्नः। श्रृङ्गेरी मठाधिपतेः शङ्कराचार्यस्य  भारतीतीर्थस्य सान्निध्ये अनन्तरगामी विधुशेखरभारती प्रतिष्ठा महाकुम्भाभिषेकं निरवहत्। 

  पञ्चशतं वेदपण्डितानां भागभागित्वे सहस्रचण्डिमहायज्ञः, कोटिकुङ्कुमार्चना, महारुद्रयज्ञः इत्यादयः कार्यक्रमाः अपि सम्पन्नाः। कुम्भाभिषेकोत्सवः रविवासरे समाप्स्यते।

Friday, February 7, 2025

 गासायाम् अधिवासनिराकरणं - ट्रम्पं विरुध्य आगोलप्रतिषेधः। 

नाशितस्य गासानगरवीथेः दृश्यम्। 

वाषिङ्टणः> गासायां पालस्तीनीयान् अपसृत्य गासाप्रदेशं पुनर्निर्मास्यतीति यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य प्रख्यापनं विरुध्य अन्ताराष्ट्रस्तरे प्रतिषेधः शक्तोSभवत्। ईजिप्त्, जोर्दानमित्यादीनि राष्ट्राणि, अमेरिकायाः इतराणि सख्यराष्ट्राण्यपि ट्रम्पस्य प्रक्रमे आशङ्कां प्राकट्य अग्रे आगतवन्ति सन्ति। 

  किन्तु गासायामधिनिवेशं कर्तुमुद्दिश्य ट्रम्पस्य निगूढलक्ष्यमेव गासापुनर्निर्माणप्रख्यापने निलीनमिति हमासेन प्रस्तुतम्। शीघ्रमेव अरब उच्चशिखरसम्मेलनमाहूय गासानिवासिनामपाकर्तुम् अमेरिकायाः प्रक्रमः निरोद्धव्य इति च हमासेन निर्दिष्टम्।

 बङ्गलादेशे राष्ट्रपितुः भवनं भञ्जितम्। 

धाक्का> बङ्गलादेशस्य राष्ट्रपतिः षैक् मुजिबुर् रह्मानः इत्यस्य वासगृहं तत्रत्यैः प्रक्षोभकैः भञ्जितम्। राष्ट्रात् पलायितायाः भूतपूर्वप्रधानमन्त्रिण्याः षैक् हसीनायाः राजनैतिकदलनेतॄणां वासगृहाणि च भञ्जितानि। षैक् हसीनायाः गृहम् अग्निसात्कृतम्। हसीनां विरुध्य प्रक्षोभं नीतवत् विद्यार्थिसंघटनमेव अक्रमाणां नेतृत्वमावहदिति सूच्यते।

 निगडबन्धनेन निष्कासनं - भारते ट्रम्पं विरुध्य प्रतिषेधः शक्तः। 

संसद पुरतः विपक्षदलीयसदस्यैः कृतमान्दोलनम्। 

नवदिल्ली> १०४ अनधिकृताधिनिवेशितान् भारतीयान् हस्तपादबन्धनेन अमेरिकायाः सेनाविमाने निष्करुणं  निष्कासितवानिति प्रकरणे डोनाल्ड ट्रम्पं विरुध्य भारते प्रतिषेधः शक्तः अभवत्। मनुष्यत्वयुक्तं प्रतिनिवर्तनं विधातुं प्रधानमन्त्रिणा नरेन्द्रमोदिना कोSपि प्रक्रमः न कृतः इत्यारोप्य विपक्षदलीयाः सदस्याः संसदस्य उभयसभयोरपि कोलाहलमकुर्वन्। ट्रम्पस्य उत्तममित्रमिति अभिमानी नरेन्द्रमोदी अमेरिकायाः मनुष्यत्वरहितं प्रक्रमं प्रतिरोद्धुं किमपि न कृतवानिति संसदः पुरतः आन्दोलनं कृत्वा 'इन्डिया'सख्यसदस्यैः आरोपितम्। 

   किन्तु महिलाः बालकाश्च न बन्धिताः इति भारतस्य विदेशकार्यमन्त्रिणा  एस् जयशङ्करेण निगदितम्।

Thursday, February 6, 2025

 राष्ट्रियक्रीडा 

पादकन्दुके केरलम् अन्तिमस्पर्धां प्राविशत्।

अन्तिमस्पर्धां प्रविष्टः केरलदलः आह्लादे।

हल्द्वानी> राष्ट्रियक्रीडास्पर्धायां पादकन्दुकस्पर्धापरम्परायाः पूर्वान्त्यचक्रे असमराज्यं 'पेनाल्टी षूटौट्' प्रकरणे ३ - २ इति लक्ष्यकन्दुकक्रमेण पराजित्य केरलम् अन्तिमस्पर्धां प्राविशत्। निश्चितसमये युगलदलमपि लक्ष्यरहितसमस्थितौ अवर्तत। राष्ट्रियक्रीडापादकन्दुके अधिकसमयस्पर्धा न विहिता इत्यतः षूटौट् स्पर्धायां ३ - २ इति क्रमेण केरलस्य विजयः। 

  राष्ट्रियक्रीडायां केरलं नवमस्थाने वर्तते। ९ सुवर्णानि, ९ रजतानि, ६ कांस्यानि इति क्रमेण २४ पतकानि प्राप्तानि।

 राष्ट्रियक्रीडा - प्रथमस्थाने कर्णाटकम्। 

सर्वीसस् मध्यप्रदेशश्च द्वितीय तृतीयस्थानयोः। 


हल्द्वानी> उत्तराखण्डे दशदिनानि यावत् अनुवर्तमाने राष्ट्रियक्रीडाप्रतिद्वन्द्वे ५४ अङ्कान् सम्प्राप्य कर्णाटकराज्यं प्रथमस्थाने विराजते। २८ सुवर्णानि, ११ रजतानि, १५ कांस्यानि च पतकरूपेण तैः सम्प्राप्तानि। 

  ४६ पतकान् सम्प्राप्य सर्वीसस् दलं द्वितीयस्थाने अस्ति। सुवर्णानि -२७, रजतानि - १०, कांस्यानि - ९। तृतीये तु मध्यप्रदेशः। सुवर्णानि -१७, रजतानि - ७, कांस्यानि - १० इति क्रमेण ३४ अङ्काः तैः सम्पादिताः।

Wednesday, February 5, 2025

 अनधिकृताधिनिवेशः - २०५ भारतीयाः यू एस् तः निष्कासिताः। 

वाषिङ्टणः>  'रोयिटेर्स्' वार्तासंस्थया वृत्तान्तीकृतं यत् भारतात् अनधिकृतेन अमेरिकाममधिनिविष्टाः २०५ जनाः यू एस् सेनाविमानेन प्रतिनिवर्तिताः।  व्योमसेनायाः सि - 7 इति विमानम् एतानधिनिविष्टान् ऊढ्वा टेक्ससस्थात् सान् अन्टोणियो निलयात् मङ्गलवासरे पञ्चाबस्थं अमृसरं लक्ष्यीकृत्य प्रस्थितम्।

  अनधिकृताधिनिविष्टाः निष्कासितव्याः इति निर्वाचनप्रचारणकाले ट्रम्पेण प्रस्तुतमासीत्। यू एसस्य प्रक्रमः विंशतिसहस्राधिकान् भारतीयान् प्रतिकूल्यते इति चिन्ता वर्तते।

 ट्रम्पः श्लथयति।

आयकरविधिः जडीकरोति। 

वाषिङ्टणः> मेक्सिको, कानडा इत्येतत्  निकटराष्ट्रद्वयं प्रति अमेरिकया आदिष्टः आयकरग्रहणनिर्णयः ट्रम्पेण मासैककालं यावत् जडीकृतम्। आदेशः मङ्गलवासरे प्रवृत्तिपथमागन्तव्यमासीत्। किन्तु सीमारक्षणं उन्मादकवस्तूनां गोप्यतरणमित्यादिविषयेषु ट्रम्पस्य अभिलाषानुसारं प्रक्रमान् स्वीकर्तुं राष्ट्रद्वयमपि सज्जमभवत्। अतः एव आयकरग्रहणे ट्रम्पस्य मनः शिथिलीभतम्। 

 ट्रम्पः मेक्सिकोराष्ट्रपतिः क्लोडिया षेन् बोमश्च सोमवासरे चर्चां कृतवन्तौ। अनधिकृताधिनिवेशं प्रतिरोद्धुं मेक्सिकोसीमायां दशसहस्रं सैनिकान् विन्यस्तुं क्लोडियः सम्मतोSभवत्।

Tuesday, February 4, 2025

 दिल्लीविधानसभानिर्वाचनं श्वः - सघोषप्रचारणं समाप्तम्। 

नवदिल्ली> दिल्लीविधानसभायाः जनविधिः बुधवासरे सम्पत्स्यते। सघोषप्रचारणं सोमवासरे समाप्तम्। विधिफलं शनिवासरे अवगमिष्यते। 

  ए ए पी, कोण्ग्रस्, भा ज पा दलानि तेषां बलं सर्वमुपयुज्य प्रचरणयुद्धं विधत्तम्। निर्वाचनं सुगमं सुरक्षितं च कर्तुं १५० कम्पनि परिमितं अर्धसेनां, ३००० रक्षिपुरुषान् च न्ययुज्यत।

 जेवार् विमाननिलयः एप्रिल् मासे प्रवर्तनमारप्स्यते। 

नवदिल्ली> एष्याभूखण्डे बृहत्तमः विमाननिलयः इति विकासमापद्यमानः जेवार् विमाननिलयः एप्रिल् मासे सामान्यरीत्या प्रवर्तनमारप्स्यते इति व्योमयानमन्त्री राममोहननायिडुः राज्यसभायाम् अवोचत्। 

  दिल्लीतः ७० कि मी दूरे नोयिडाप्रदेशस्य अंशतया एव जेवार् विमाननिलयस्य विकसनप्रवर्तनानि प्रचलन्ति। नोयिडा अतिशीघ्रवीथेः समीपमेवास्य स्थानम्। नायिडुवर्येणोक्तं यत् डिसम्बरमासे परीक्षणविमानमवतारितं, समयबद्धानुसारं सर्वं प्रचलदस्ति।

Monday, February 3, 2025

 व्यापारे कर्कशव्यवहारेण ट्रम्पः। 

चीनं, कानडा, मेक्सिको राज्याणाम् आयातकरः विहितः। 

वाषिङ्टणः> अमेरिकायाः व्यापारनये कर्कशव्यवहारेण  राष्ट्रपतिः डोनाल्ड ट्रम्पः। चीनं, कानडा, मेक्सिको राज्येभ्यः आयातानामुत्पन्नानां करं विधाय भौगोलिकव्यापारयुद्धम् आरब्धवान्। 

  चीनतः उत्पन्नानां १०%, कानडा, मेक्सिको राज्याभ्यामुत्पन्नानां २५% च आयातकरः विहितः।

Sunday, February 2, 2025

 राज्येभ्यः ५० संवत्सराणि यावत् वृद्धिरहितम् ऋणम्। 

नवदिल्ली> आधारसुविधाविकासाय उपयोक्तुं राज्येभ्यः ५० वर्षाणि प्रत्यर्पणकालपरिधियुक्तं वृद्धिरहितम् ऋणं दास्यत इति केन्द्रवित्तमन्त्री निर्मला सीतारामः। एतदर्थं सार्धैकलक्षं कोटि रूप्यकाणि परिकल्पितानि। आधारसुविधापरियोजनाः निर्वोढुं विहिताः मन्त्रालयाः समाजीय-निजीयभागभागित्वेन वर्षत्रयात्मिकाः परियोजनाः आसूत्रणीयाः इति वित्तमन्त्रिणा उक्तम्। राज्यानि पूर्वोक्तपरियोजनाधनसञ्चयात् ऋणस्वीकाराय अर्हतां लभन्ते।

 औषधानां ३६ अधिकरणानां मूल्यं न्यूनं करिष्यति। 

नवदिल्ली> अर्बुदः, अपूर्वरोगाः इत्यादीनि ३६ प्रणरक्षौषधानि 'कस्टम्स करात्' निष्कास्य केन्द्रायव्ययपत्रम्। अतः तेषां  मूल्यं न्यूनं करिष्यति। इतरेषां  षडौषधानां करः ५% इति न्यूनीकृतम्।

 आयकरे आश्वासं प्रदाय केन्द्रसर्वकारस्य वित्तपरिकल्पनापत्रम्।

नवदिल्ली> मध्यवर्तिजनेभ्यः महान्तमाश्वासं  प्रदाय केन्द्रसर्वकारस्य आयव्ययपत्रे आयकरस्य न्यूनीकरणं विहितम्। तृतीयस्य नरेन्द्रमोदीसर्वकारस्य प्रथमे सम्पूर्णवित्तपरिकल्पनापत्रे   वित्तमन्त्री निर्मला सीतारामः येषां प्रतिवर्षं १२ लक्षरूप्यकाणि पर्यन्तं आयः अस्ति ते आयकरसमर्पणात् मोचयिष्यन्ति। एतत्तु मासवेतनवतां मध्यवर्तिजनानाम् अतीव आश्वासाय भविष्यति। 

  निर्मलासीतारामेण अवतारितमिदमायव्यपत्रकं सामान्यजनानामायव्ययपत्रकमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रस्तुतम्।

Saturday, February 1, 2025

 भारतं प्रवर्धत इति आर्थिकसमीक्षणम्।

नवदिल्ली> भौगोलिकस्तरे राजनैतिक-आर्थिकानिश्चितत्वानि वर्तन्ते तथापि भारतस्य आर्थिकव्यवस्था प्रवर्धमानां रीतिमवलम्बते इति सूच्यते। गतदिने राष्ट्रस्य आयव्ययपत्रावतरणस्य अंशतया संसदि वित्तमन्त्रिण्या निर्मला सीतारामेण समर्पिते आर्थिकान्वीक्षणपत्रे अस्त्ययं मूल्यनिर्णयः। 

  २०२४ - '२५ आर्थिकसंवत्सरे राष्ट्रस्य आभ्यन्तरार्थिकाभिवृद्धिः [जी डी पी] ६. ३ - ६. ८ प्रतिशतमिति प्रतीक्षते। जी डी पी वर्धनाय बहवः उपायाः अपि आर्थिकान्वीक्षणपत्रे निर्दिश्यन्ते।

Friday, January 31, 2025

 संसद् सम्मेलनमारब्धम्। 

आयव्ययपत्रकावतारणं श्वः। 

नवदिल्ली> भारतीयसंसदः आयव्ययपत्रकसम्मेलनम् अद्य राष्ट्रपतेः नयख्यापनभाषणेन समारब्धम्। नूतनसंसदीयभवनस्य लोकसभागारे सभाद्वयमपि राष्ट्रपतिः द्रौपदी मुर्मू अभ्यसंबोधयत्। 

  राष्ट्रस्य सम्पूर्णमायव्ययपत्रकं  वित्तमन्त्रिण्या निर्मला सीतारामेण शनिवासरे अवतारयिष्यति। आयव्ययपत्रकसम्मेलनस्य प्रथमचरणं फेब्रुवरि १३ तमे दिनाङ्के समाप्स्यते।

 बहिराकाशनिलयं प्रति प्रथमो भारतीयः - सुधांशु शुक्लः।

सुधांशु शक्ला

न्यूयोर्क्> अन्तर्राष्ट्रीय बहिराकाशनिलयं [ऐ एस् एस्] गन्तुं चित‌ः  प्रथमो भारतीयः इति ख्यातिॆ स्वायत्तीकर्तुं सुधांशु शुक्लनामकः व्योमसेनायाः केप्टन् पदीयः सिद्धो जातः। सः अस्मिन् वर्षे भविष्यमाणस्य 'आक्सियों मिषन् 4' इति अभियोजनायां विमानचालकरूपेण चितः। नासा, 'इस्रो', निजीयसंस्था 'आक्सियों स्पेस्' इति संस्थात्रयस्य  युगपत् दौत्यमेतत्। अस्मिन् वर्षे फ्लोरिडातः 'आक्सियों मिषन् 4' इत्यस्य विक्षेपणं विधास्यति। सुधांशुवर्यस्य संघः १४ दिनानि ऐ एस् एस् मध्ये यापयिष्यति। 

  ३९ वयस्कः उत्तरप्रदेशे लख्नौ निवासी च सुधांशु शुक्लः वायुसेनायां युद्धविमानचालको भवति। २०१९ तमे वर्षे इस्रो संस्थायाः गगनयानाभियोजनां चितः आसीत्।

 यू एस् आकाशे यानसंघट्टनम्

 ६७ मरणानीति सन्देहः; २८ मृतशरीराणि अधिगतानि। 

विमानोदग्रयानसंघट्टनानन्तरं पोटोमाकनदीं पतित्वा  अप्रत्यक्षाणां कृते अनुवर्तमानमन्वेषणम्। 

वाषिङ्टणः> यू एस् राष्ट्रस्य आकाशे यात्राविमानम् उदग्रयानेन सह संघट्य नदीं पतित्वा ६७ जनाः अप्रत्यक्षाः अभवन्। एषु २८ मृतशरीराणि अधिगतानि। नद्यामतिशैत्यः इत्यतः ६७ जनाः अपि विनष्टप्राणाः इति सन्दिह्यते। 

  बुधवासरे प्रादेशिकसमयानुसारं रात्रौ नववादने [भारतीयसमयः गुरुवासरे प्रभाते ७. ३०] रोणाल्ड् रीगन् राष्ट्रियविमाननिलयस्य समीपं 'अमेरिकन् ईगिल्' इत्यस्य CRJ 700 इति यात्राविमानं वायुसेनायाः उदग्रयानेन सह आकाशे घट्टितमासीत्। विमाने ६० यात्रिकाः ४ सेवकाः  चासन्। उदग्रयाने डयनपरिशीलने व्यापृताः त्रयश्चासन्।

बाह्याकाशनिलयात् स्वीकृतं कुम्भमेला नाम महाद्भुतस्य चित्रं त्वरितप्रसरमभवत्। 

   प्रयागराज्> जनुवरिमासस्य१३ तमे दिनाङ्के समारब्धायाः कुम्भमेलायाः त्रयोदशतमदिनाङ्कस्य दृश्यमेव डोण् पेट्टिट् नाम बाह्याकाशसञ्चारिणा समाजमाध्यमेषु प्रकाशितम्। गङ्गातीरस्थस्य दीपालङ्काराणां प्रभा एव चित्रे अस्ति। विश्वस्मिन् अधिकजनानां एकात्मकमेलनस्य प्रकाशः भवति चित्रमेतत् इति डोण् पेट्टिट् महाभागेन उदीरितम्।

Wednesday, January 29, 2025

 शततमः विक्षेपणः विजयपथं प्रविष्टवान् NVS 02

    ऐ एस् आर् ओ संस्थायाः NVS 02 इति गति निर्णयोपग्रहः परीक्षणे विजयं प्राप्तवान्। GPS सौविध्यम् उद्दिश्य विक्षिप्तेषु प्रवर्तमानेषु उपग्रहेषु पञ्चमः भवति अयम्। अन्ध्राप्रदेशस्य श्रीहरिकोट्टा इत्यत्र भवति भारतस्य अभिमानसंवर्धकं विक्षेपणनिलयम्

 वर्धमानं समुद्रतापमानं वातावरणव्यवस्थाव्यत्ययस्य सूचना।

निर्मतबुद्धिम् उपयुज्य रचितं चित्रम्

   समुद्रतापमाने वर्धना पुनः अनुवर्तिष्यते इति वैज्ञानिकाः अभिप्रयन्ति। वर्धमानं समुद्रतापमानं वातावरणव्यत्ययस्य शीघ्रगत्यः अभिज्ञानं भवति इति वैज्ञानिकाः प्रवदन्ति। आगोलतापमानं पूर्वकालापेक्षया उन्नतस्थानं प्राप्तम्। एल् निनो इति विशेषघटना ( phenomenon ) एव अस्य हेतुः।  समुद्रतापस्य  ४४%   सूर्यतापः समुद्राः अतिशीघ्रम् आगीरणं करोति इत्येतदेव इति यु के यूणिवेर्सिट्टि ओफ् रीडिंङ् इति संस्थायाः वैज्ञानिकः क्रिस् मर्चन्ट् अभिप्रयति।

 तेलुङ्काने अधोषोडशवयस्कानां चलच्चित्रशालां प्रवेशनियन्त्रणम्।

हैदराबादः> तेलुङ्कानराज्ये प्रभाते ११ वादनात् प्राक् रात्रौ ११ वादनात् परं च ऊनषोडशवयस्कानां बालकानां चलच्चित्रप्रदर्शनशालां प्रवेष्टुं राज्योच्चन्यायालयेन निरोधः विहितः। प्रत्युषसि अर्धरात्रे च चलच्चित्रदर्शनं बालकानां मानसिकशारीरिकस्वस्थ्याय प्रतिकूलं भविष्यतीति निरीक्ष्य न्यायमूर्तेः विजयसेनरेड्डिवर्यस्यायमादेशः। निरोधे अन्तिमनिर्णयाय राज्यसर्वकारं निरदिशत्।

Tuesday, January 28, 2025

 वखफ् परिष्करणविधेयकं जे पि सि समित्या अङ्गीकृतम्। 

विपक्षनिर्देशाः निरस्ताः; शासकपक्षीयाः अङ्गीकृताः। 

आयव्ययपत्रकसम्मेलने परिगणयिष्यते। 

नवदिल्ली> केन्द्रप्रशासनेन आनीतं वखफपरिष्करणविधेयकं संयुक्तसंसदीयसमित्या [जे पि सि] परिष्करणैः सह अङ्गीकृतम्। विपक्षसदस्यैः निर्दिष्टानि ४४ परिष्करणानि निरस्य, शासकपक्षीयाङ्गैः आनीतेषु २२ निर्देशेषु १४ संख्याकानि स्वीकृत्य च जेपिसी समित्या विधेयकम् अङ्गीकृतम्। 

  विपक्षाङ्गानां प्रातिकूल्यमतीत्य १०विरुध्य १६ मतदानैरेव विधेयकस्य अङ्गीकारप्राप्तिः। ३१ तमे दिनाङ्के आरप्स्यमाणे संसदः आयव्ययपत्रकसम्मेलने विधेयकमवतारयिष्यति।