OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, February 1, 2026

 गासायाम् इस्रयेलस्य गणहत्या - ३२ मरणानि। 

डेयर् अल् बला> गासायां शनिवासरे इस्रयेनेन कृतायां मानवहत्यायां ३२ जनाः हताः। हमासेन युद्धविरामः उल्लङ्घितः इत्यारोप्य आसीदाक्रमणम्। 

  गासाकोट्यां सुस्थिरशान्त्यर्थं यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन शान्तिसमितिः [Board of Peace] रूपीकृता, युद्धविरामस्य द्वितीयचरणं शीघ्रं प्रबलीभविष्यतीति सूचनायां सत्यामासीत् इस्रयेलस्य व्येमाक्रमणम्।