गासायाम् इस्रयेलस्य गणहत्या - ३२ मरणानि।
डेयर् अल् बला> गासायां शनिवासरे इस्रयेनेन कृतायां मानवहत्यायां ३२ जनाः हताः। हमासेन युद्धविरामः उल्लङ्घितः इत्यारोप्य आसीदाक्रमणम्।
गासाकोट्यां सुस्थिरशान्त्यर्थं यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन शान्तिसमितिः [Board of Peace] रूपीकृता, युद्धविरामस्य द्वितीयचरणं शीघ्रं प्रबलीभविष्यतीति सूचनायां सत्यामासीत् इस्रयेलस्य व्येमाक्रमणम्।