OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, August 17, 2017

लडाक् प्रदेशे चीनस्य अधिनिवेशः - अज्ञात्वा चीनस्य विदेशकार्य-मन्त्रालयः।
सिक्किं> लडाक् प्रदेशस्थे पान् गोङ् सरोवरस्य समीपे चीनस्य सैन्यस्य अधिनिवेशमधिकृत्य किमपि न ज्ञायते इति चीनराष्ट्रस्य विदेश-कार्य-मन्त्रलयस्य वक्त्रा हु चुनैङ्ङेन उक्तम्। भारत चीनयो: सीमायां शान्तिः भवतु इति भवति चीनस्य अभिलाषः इत्यपि तेन उक्तम्। भारतस्य स्वतन्त्रतादिने प्रातः षट्वादन-नववादनयोः मध्ये द्विवारम् अतिक्रम्य अन्तःप्रवेष्टुं प्रयतितवन्तः। लिबरेषन् आर्मि सैनिकाः एव एवं उद्यताः फिंगर् चत्वारि फिंगर् पञ्च नाम प्रदेशेयोः आसीत् आक्रमःI अनन्तरं भारतसैनिकाः मनुष्यभित्तिं निर्मीय प्रतिरोधः कृताः । तदनन्तरं मिथः सञ्जाते पाषाण प्रहारे उभयोः पक्षयोः सैनिकाः व्रणिताः च। इदानीं सिक्किं देक्ला संघर्षाः आरभ्य मासद्वयम् अतीतम्।
धनपत्रनिरोधनं जि. एस्. टि. इत्येतच्च प्रशंसयन् राष्ट्रपतिः।
नवदेहली>राष्ट्रपतित्वेन स्वस्य प्रथमस्वातन्त्र्यदिनप्रभाषणे रामनाथकोविन्द: धनपत्रनिरोधनं जि. एस् . टि इत्येतच्च प्रशंसितवान् । सप्ततितमे स्वतन्त्रतादिने सः राष्ट्रम् अभिसंबोध्य स्वच्छभारतपद्धतिं च श्लाघित्वा अभाषत। असहिष्णुताम् आक्रमणं च विरुद्ध्य गतवर्षे स्वतन्त्रतादिने भूतपूर्वराष्ट्रपतेः प्रणब् मुखर्जिमहाशयस्य भाषणं वार्तैवासीत् ।

सप्ततितमस्वतन्त्रतादिनाच रणवेलायां राष्ट्रस्य दरिद्राणां ग्रामाणां च विकासः इति लक्ष्यमेव स्वतन्त्रभारतम् इत्याशयप्रेरकम् अभवत्I राष्ट्रस्वतन्त्रतायै स्वजीवदातृ़न् प्रति वयं सदा ऋणीभूता: स्म:I सर्वकारेण स्वच्छभारतम् इति पद्धतिराविष्कृतापि परिसरशुचीकरणम्  अस्माकं प्रत्येकं जनानामुत्तरदायित्वमेव၊ सर्वकार: केवलं नियमनिर्माणं प्रबलीकरणं चैव साधयति। तन्नियमपालनं प्रत्येकं पौरस्यैव। सङ्कीर्णकरसंविधानपरिष्करणेनैव सर्वकार: जि. एस्. टि. इति प्रायोगीकृतवान्၊ जि. एस्. टि. अस्माकंदैनन्दिनजीवनस्य अंशीकरणं सर्वेषामस्माकम् उत्तरदायित्वमेव၊ नियतरूपेण  करनिक्षेपेण राष्ट्रनिर्माणे भागभाक्वं सर्वैः साध्यते၊

भ्रष्टाचारम्  अविहितधनं च विरुद्ध्य समरे सर्वेषां सहकार: अनिवार्यः एव। सत्ययुक्तस्य एकस्य समाजस्य सृजनस्य यत्नान् प्रबलीकर्तुम् धनपत्रनिरोध: उपकारकः अभवत्၊ अद्य भारतस्य लोकाङ्गीकारे धनपत्रनिरोधः एकं कारणमेव၊ सर्वकारपद्धतिगुणफलानि समाजे सर्वैः प्राप्तानीति निश्चेतुं सर्वे वयम् उत्तरदायिनः एवI २०२० तमे भविष्यमाणे टोक्यो ओलिंपिक्स् मध्ये लोकानां पुरतः अस्माकं शक्ति प्रकटनाय अन्यः अवसरः भवति। नूतनभारतस्य निर्माणम् अस्माकं सर्वेर्षां लक्ष्यमेव၊ तत्र दारिद्रयमिति एका अवस्था न स्यादित्यपि सः स्वभाषणे बोधयामास၊
सूप्पर् बैक् याने अमितवेग: - युवकस्य मृत्यु:
देहली> मान्डि हौस् मेन्ट्रो निस्थानस्य समीपे अमितवेगेन गम्यमाने सन्दर्भे नियन्त्रणाधीनो भूत्वा द्विचक्रिकायानम् मार्गभित्त्यां घट्टितम्। चालक: युवक: तस्मिन् क्षणे एव मृत:। चतुर्विंशति वर्षदेशीय: हिमन् षू बन्साल: एव मृत:। विवेक् विहार् स्वदेशीय: अयं सुहृद्भि: साकं मेलनं कृत्वा प्रत्यागमनवेलायाम् आसीत् अपघात:। सूपर् बैक् याने पुरत: गम्यमानं यानं पारंगमनसमये पथिकस्योपरि प्रथमं घट्टितम्। एतस्य आघातेन उद्पतित्वा एव मृति:। पञ्चलक्षरुप्यकमितं इदं यानस्य वेगपरिधि: द्विशतं किलोमीट्टर् भवति इति आरक्षकै: उक्तम्।

Wednesday, August 16, 2017

Episode-55
धनपत्रनिरोधनं जि. एस्. टि. इत्येतच्च प्रशंसयन् राष्ट्रपतिः।
नवदेहली > राष्ट्रपतित्वेन स्वस्य प्रथमस्वातन्त्र्यदिनप्रभाषणे रामनाथकोविन्द: धनपत्रनिरोधनं जि. एस् . टि इत्येतच्च प्रशंसितवान् । सप्ततितमे स्वतन्त्रतादिने सः राष्ट्रम् अभिसंबोध्य स्वच्छभारतपद्धतिं च श्लाघित्वा अभाषत। असहिष्णुताम् आक्रमणं च विरुद्ध्य गतवर्षे स्वतन्त्रतादिने भूतपूर्वराष्ट्रपतेः प्रणब् मुखर्जिमहाशयस्य भाषणं वार्तैवासीत् ।
सप्ततितमस्वतन्त्रतादिनाच रणवेलायां राष्ट्रस्य दरिद्राणां ग्रामाणां च विकासः इति लक्ष्यमेव स्वतन्त्रभारतम् इत्याशयप्रेरकम् अभवत्I राष्ट्रस्वतन्त्रतायै स्वजीवदातृ़न् प्रति वयं सदा ऋणीभूता: स्म:I सर्वकारेण स्वच्छभारतम् इति पद्धतिराविष्कृतापि परिसरशुचीकरणम्  अस्माकं प्रत्येकं जनानामुत्तरदायित्वमेव၊ सर्वकार: केवलं नियमनिर्माणं प्रबलीकरणं चैव साधयति। तन्नियमपालनं प्रत्येकं पौरस्यैव। सङ्कीर्णकरसंविधानपरिष्करणेनैव सर्वकार: जि. एस्. टि. इति प्रायोगीकृतवान्၊ जि. एस्. टि. अस्माकं दैनन्दिनजीवनस्य अंशीकरणं सर्वेषामस्माकम् उत्तरदायित्वमेव၊ नियतरूपेण  करनिक्षेपेण राष्ट्रनिर्माणे भागभाक्वं सर्वैः साध्यते၊
भ्रष्टाचारम्  अविहितधनं च विरुद्ध्य समरे सर्वेषां सहकार: अनिवार्यः एव। सत्ययुक्तस्य एकस्य समाजस्य सृजनस्य यत्नान् प्रबलीकर्तुम् धनपत्रनिरोध: उपकारकः अभवत्၊ अद्य भारतस्य लोकाङ्गीकारे धनपत्रनिरोधः एकं कारणमेव၊ सर्वकारपद्धतिगुणफलानि समाजे सर्वैः प्राप्तानीति निश्चेतुं सर्वे वयम् उत्तरदायिनः एवI २०२० तमे भविष्यमाणे टोक्यो ओलिंपिक्स् मध्ये लोकानां पुरतः अस्माकं शक्ति प्रकटनाय अन्यः अवसरः भवति। नूतनभारतस्य निर्माणम् अस्माकं सर्वेर्षां लक्ष्यमेव၊ तत्र दारिद्रयमिति एका अवस्था न स्यादित्यपि सः स्वभाषणे बोधयामास၊
बीहार राज्ये प्रलयबाधिताः सप्तति लक्षजनाः। षट्पञ्चाशत् मृतवन्तः।
पाट्ना> बीहारराज्ये दुरिते निमग्ने प्रलये मृतानां संख्या षट्पञ्चाशत् जाता। त्रयोदश जनपदेषु ६९.८१ जनाः दुरितं अनुभूयन्ते। नेप्पाले तथा बीहारराज्यस्य उत्तरजनपदेषु जातया अतिवृष्ट्या प्रलयः जातः। बीहारराज्यस्य प्रमुखाः नद्यः कूलङ्कषा: प्रवहन्ति।
      प्रलयबाधितक्षेत्राणां तत्स्थितिं अवगन्तुम् मुख्यमन्त्रिणा नितीष् कुमारेण ह्यः द्विवारं व्योमनिरीक्षणं कृतम्। १.६२ लक्षं जनान् सुरक्षितेषु स्थानेषु अनयदिति राज्य दुरन्तनिवारण विभाग विशिष्टाधिकारिणा अनिरुद्धकुमारेण उक्तम्।

Tuesday, August 15, 2017

भारतेन एकसप्ततितमम्  स्वतन्त्रतादिनम् अद्य आघुष्यते। 
राष्ट्रान्तरेषु अपि भारतीयैः सामोदं स्वतन्त्रतादिनं आघुष्यते।  मधुरभक्ष्यानि वितीर्य आसीत् आघोषः।  स्वतन्त्रतादिनस्य सन्देशः भारतस्य राष्ट्रपतिना रामनाथ कोविन्देन राष्ट्राय समर्पितः। विद्यालयेषु विविधाः स्पर्धाः आयोजिताः च। विविधेषु मण्डलेषु विद्यमानाः जनाः यावच्छक्यं तावत् भागभाजः अभवन्।

वीरतापुरस्काराणां घोषणा 
 नवदिल्ली >आतंक्याक्रमणेषु निजदेहस्य चिन्ता विहाय देशरक्षायै  पञ्चसैन्यकर्मिणः कीर्ति-चक्रेण सम्मानिताः। एतेषु  सीआरपीएफ इति केन्द्रीयरक्षितारक्षिबलस्य अधिकारी चेतनकुमारचीता अपि सम्मिलितो वर्तते । भटत्रयेभ्यः कीर्तिचक्रम् वीरतानन्तरं प्रदीयते ।

  राष्ट्रपतिना रामनाथकोविंदेन स्वतंत्रतादिवसस्य पूर्वसंध्यायां द्वादशोत्तरैकशतं वीरता पुरस्काराणां घोषणा कृता। गोरखाराइफ़िल्  इत्यस्य हवलदार्  गिरीशगौरांगः नागारेजीमेंट इत्यस्य मेजर डेविडमेन्लमः अपि च सीआर् पी एफ़्  इत्यस्य कमांडेंट् प्रमोदकुमारः  वीरतानन्तरं पुरस्कारम्  अधिगतवन्तः । गढ़वालराइफल इत्यस्य मेजर प्रीतमसिंहः सी आर पीएफ इत्यस्य कमांडेंट् चेतनकुमारचीता च  अद्भुतरणकौशलाय  सम्मानिताः ।
   राष्ट्रपतिना पञ्च  कीर्तिचक्राणि सप्तदश शौर्यचक्राणि पञ्चाशीति सैन्यपदकानि  (वीरतायै ), त्रिणि नौसैन्यपदकानि द्वौ वायुसैन्यपदकनि समुद्घोषितानि । सममेव राष्ट्रपतितटरक्षकपदकमपि समुद्घोषितम् ।

Monday, August 14, 2017

पाकिस्थाने बोम्बस्फोटनम्; सैनिकै: सह आहत्य पञ्चदश मरणम्।।
      कराची>पाकिस्थाने बलूचिस्थानप्रविश्याया:राजधान्याम् क्वट्टायां सम्मर्द्दपूर्णाया:विपण्या: समीपे शनिवारे सञ्जाते अतिशक्ते बोम्बस्फोटने सैनिकैस्सह पञ्चदशजना: मृतवन्त:। चत्वारिंशत् जना: व्रणिता:। एतेषु दश जना: सैनिका: एव। व्रणितेषु सप्त जनानां अवस्था गुरुतरा। मार्गेण गम्यमानं सैनिकट्रक् यानम् पूर्णतया भग्नं जातम्। महता सुरक्षावलयेन आवृत: क्वट्टा। अत्र निरीक्षणं कुर्वत् ट्रक् यानमेव भग्नमभवत्। स्फोटनस्य उत्तरदायित्वम् एतावता केनापि न स्वीकृतम्। श्व: प्रचाल्यमानान् स्वतन्त्रतादिनाघोषान् भञ्जयितुम् भीरुभि: कृत: श्रमोयमिति पाक् सेनामेधावीनायक: जनरल् खमर जावेद: बजवा अवदत्। तीव्रवादविरुद्धप्रचारणे मग्ना: सैनिका: एतेन आक्रमणेन प्रतिगमयितुं न शक्यन्ते इत्यपि जनरल् अवदत्।