OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, April 22, 2026

 'तृश्शूर् पूरं' स्फोटकनिर्माणशालायां महास्फोटनम्।

२४ कर्मकराः दग्धाः। 

दुरन्तस्थानम्।

तृश्शूर्> तृश्शूर् पूरं' नामकस्य प्रसिद्धोत्सवस्य अंशतया 'तिरुवम्पाटी'विभागाय स्फोटकसामग्रीणां निर्माणं कुर्वन्त्यां स्फोटकशालायां दुरापन्ने महाविस्फोटने १४ जनाः मृताः।  कुजवासरे अपराह्ने मुण्टत्तिक्कोट् इत्यत्र प्रवर्तमाना निर्माणशाला अत्युग्रशब्देन विस्फोटिता दग्धा च आसीत्। ३. ३० वादने प्रथस्फोटनं श्रुत्वा ५. ३० वादनपर्यन्तं अनुस्यूतस्फोटनानि जातानि। अत एव तदनन्तरमासीत् रक्षाप्रवर्तनं प्रारब्धम्। 

  तृश्शूर् नगरात् १८ कि मी दूरे सार्धपञ्च एकर् मितं विजने स्थाने आसीत् स्फोटकनिर्माणशाला।

  स्फोटने कर्मकराणां शरीराणि भग्नानि सन्ति सुदूरं विकीर्णानि च। मृतेषु दश जनानां शरीराणि प्रत्यभिज्ञातानि। स्फोटनकारणं न स्पष्टीकृतम्। दुरन्ते अन्वेषणमारब्धम्।

 श्रीशङ्करजयन्ति। 

कालट्यां विभिन्नकार्यक्रमाः सम्पन्नाः। 

कालट्यां सम्पन्नः महापरिक्रमः। 

कालटी> जगद्गुरोः श्रीशङ्कराचार्यस्य जयन्तिमहोत्सवः कालट्यां  परिसमाप्तः। जयन्तिदिने कुजवासरे आदिशङ्कर जन्मदेश विकसनसमित्याः नेतृत्वे  कालट्यां "हर हर शङ्कर, जय जय शङ्कर" ध्वनिपूरेण  महापरिक्रमः सम्पन्नः। काञ्ची श्रीशङ्कर कीर्तिस्तम्भात् आरब्धे महापरिक्रमे सहस्रशः संन्यासिनः शङ्करभक्ताश्च भागं कृतवन्तः। विश्वहिन्दु परिषत् संघटनस्य अन्ताराष्ट्राध्यक्षः न्यायवादी अलोक कुमारः महापरिक्रमस्य  उद्घाटनं निरवहत्। 

  जुन अखाडा महामण्डलेश्वरः स्वामी आनन्दवनं भारती, श्रीरामदासमिषन् इत्यस्याध्यक्षः स्वामी शक्तिशान्तानन्दमहर्षिः, स्वामी प्रज्ञानन्द तीर्थपादः (वाष़ूर् तीर्थपादाश्रमः), कृष्णात्मानन्द सरस्वती (दयानन्दाश्रमः पालक्काट्), श्रीनारायणतीर्थः (शिवगिरिमठम्) इत्यादयः संन्यासिश्रेष्ठाः विभिन्नसामाजिकप्रमुखाश्च परिक्रमेSस्मिन् भागमूढवन्तः। 

   पूर्णानद्यां गङ्गा-आरत्याः समाना आरती सम्पन्ना। पञ्च काश्मीरपण्डिताः नेतृत्वं कृतवन्तः। श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य नेतृत्वे आयोजितं शङ्करजयन्त्युत्सवं केरलस्य राज्यपालः आर् वि आर्लेकरः उदघाटयत्। श्रीशङ्करजयन्ती राज्योत्सवरूपेण भवितव्या इति राज्यपालेन प्रोक्तम्।

Tuesday, April 21, 2026

 बस् यानं प्रपातं पतित्वा जम्मु-काश्मीरे २१ मृत्यवः। 

जम्मू> जम्मु-काश्मीरे उधंपुरे विनष्टनियन्त्रणं बस् यानं गभीरगर्तं पतित्वा २१ यात्रिकाः मृताः; २९ जनाः आहताश्च।

  सोमवासरे प्रभाते आसीदियं दुर्घटना। याने ५० यात्रिकाः आसन्। १०० मीटर् अधस्तात् आसीत् पतनम्। मृतानां प्रतिपरिवारं प्रधानमन्त्री द्विलक्षं रूप्यकाणि साहाय्यधनम् उदघोषयत्।

 तमिलनाट्,पश्चिमवंगनिर्वाचनम्।

सघोषप्रचारणम् अद्य समाप्यते। 

कोच्ची> पश्चिमवंगस्य १५२ विधानसभामण्डलेषु तमिलनाटे समेषु २३४ मण्डलेषु च निर्वाचनाय सघोषप्रचारणं कुजवासरे सायं ६ वादने समाप्यते। एतेषु मण्डलेषु गुरुवासरे मतदानं विधास्यति। 

 तमिलनाटे एकैनैव चरणेन निर्वाचनं सम्पत्स्यते। तत्र ४०२३ स्थानाशिनः स्पर्धावेदिकायां सन्ति। मुख्यमन्त्री एं के स्टालिनस्य नेतृत्वे विद्यमानं डि एम के दलं,विपक्षनेता एडप्पाटि पलनिस्वामी इत्यस्य नेतृत्वे वर्तमानं एन् डि ए सख्यं तथा प्रथमतया किञ्चित् निर्वाचनम् अभिमुखीक्रियमाणं 'तमिलक वेट्री कष़कम्' [टि वि के] इति चलच्चित्रनायकनटेन विजयेन नेतृत्वावहत् दलं च त्रिकोणस्पर्धां अभिदृशीकुर्वन्ति।

  पश्चिमवंगराज्ये तु तृणमूल् कोण्ग्रस् - भाजपा दलयोः प्रतिद्वन्द्व एव प्रचलति। आहत्य १४७८ स्थानाशिनः प्रथमचरणे स्पर्धन्ते।

 इरानीयमहानौका यू एसेन निगृहीता। 

टेहरानं> पश्चिमेष्यसंघर्षस्य परिसमाप्तिचर्चासु अनिश्चितत्वे वर्तमानासु समुद्रे यू एस्-इरानयोः परस्पराक्रमणम्। होर्मुस् समुद्रसन्धिसमीपं यू एसेन उद्घोषितमुपरोधम् उल्लङ्घयितुं यतिता इरानीयध्वजं वहन्तीं पण्यमहानौकां यू एस् नाविकसेना आक्रमणेन अग्रहीत्। इरानस्य 'तौस्का' नामिका पण्यमहानौका 'यू एस् एस् स्प्रूवन्स्' इत्येतां युद्घनौकामुपयुज्य 

  यू एसस्य प्रक्रमः सामुद्रिकलुण्ठनं तथा युद्धविरामसन्धेः उल्लङ्घनं चेति प्रोक्तवान्  इरानः प्रत्याघातः भविष्यतीति भीषामकरोत्। ओमानस्य समुद्रान्तराले वर्तमानाः यू एसस्य युद्धनौकाः इरानः ड्रोण् उपयुज्य आक्रामतदिति वार्ता अस्ति। पाकिस्थानस्य मध्यस्थतायां यू एस्-इरानयोः युद्धविरामकालपरिधिः बुधवासरे समाप्यते।

Monday, April 20, 2026

 होर्मुस् समुद्रसन्धिः पिहितरूपेणैव वर्तिष्यते इति इरानः।

केय्रो> इरानीयसम्बन्धमहानौकाः विरुध्य अमेरिकायाः उपरोधः यावत् नापसरति, तावत् होर्मुसे विधत्तं पिधानम् अनुवर्तिष्यते इति इरानस्य संसदध्यक्षः मुहम्मद बागर् खालिबाफः प्रस्तौत्। इरानीयवार्तामाध्यमाय दत्ते अभिमुखे आसीदस्य निश्चयप्रस्तावः। यू एसस्य उपरोधं युद्धविरामोल्लङ्घनमिति तेन प्रस्तुतम्। 

  होमुस्समुद्रसङ्कोचः पूर्णतया इरानस्य नियन्त्रणे एव वर्तते इति खालिबाफः अवोचत्। इस्लामबादे सम्पन्ने शान्तिसंवादे इरानसंघस्य नायकः एषः आसीत्।

 तमिलनाटे स्फोटकनिर्माणशालायां विस्फोटनं

२३ मरणानि। 

दुरन्तस्थाने प्रवृत्तं रक्षाप्रवर्तनम्। 



चेन्नई> तमिलनाटे विरुदुनगरजनपदे कट्टनार्पट्टि इत्यत्र स्फोटकनिर्माणशालायां दुरापन्ने विस्फोटने २३ कर्मकराः मृताः। षट्जनाः तीव्रतया आहताः। रक्षाप्रवर्तनवेलायां पुनरपि जातेन स्फोटकस्फोटनेन अग्निरक्षासेनाङ्गेषु एकः अन्ये त्रयः रक्षाप्रवर्तकाश्च व्रणिताः जाताः। दुर्घटनास्थाने वर्तमानः जनपदाधिकारी नामतः सुखपुत्रः अद्भुतकरेण अव्रणितः सन् रक्षितः। 

     Vanaja Fire works  इति निजीयस्फोटकनिर्माणसंस्थायां रविवासरे अपराह्ने आसीत् प्रदेशप्रकम्पितं स्फोटनं जातम्। ५० कर्मकराः संस्थायाः दशाधिकेषु प्रकोष्ठेषु स्फोटकनिर्माणे व्यापृताः आसन्। चत्वारः प्रकोष्ठाः पूर्णतया भग्नाः। 

  वर्धितवीर्याणि रासवस्तूनि  उपयुज्य मनोलौल्यस्फोटकानां [Fancy fire cracker] निर्माणवेलायामासीत् स्फोटनमिति आरक्षकैः उक्तम्। स्फोटनस्य प्रकम्पनं दश कि मी दूरपर्यन्तमनुभूतम्। 

  दुरन्ते प्रधानमन्त्री नरेन्द्र मोदी, राष्ट्रपतिः द्रौपदी मुर्मू, राज्यमुख्यमन्त्री एं के स्टालिन् इत्यादयः अन्वशोचन्।

Sunday, April 19, 2026

 भारतीयमहानौकाः इरानेनाक्रमिताः।

होर्मुस् पुनरपि पिहितम्। 

होर्मुस् सामुद्रिकधुनी।

टेहरानं> यू एसेन युद्धविरामसन्धिः उल्लङ्घितः इत्यारोप्य तन्त्रप्रधानः पण्यगमनमार्गः  होर्मुस् सामुद्रिकसन्धिः इरानेन पुनरपि पिहितः। होर्मुस् समुद्रधुनिं तरितुं प्राप्तं भारतध्वजं वहत् महानौकाद्वयं विरुध्य इरानस्य रवलूषनरि गार्ड्स् सेना भुषुण्डिप्रयोगमकरोत्। 

  पण्यवस्तुभिः गम्यमानानां १४ महानौकानां संघे अन्तर्भूतासु सप्तसु भारतीयमहानौकासु द्वे विरुध्य आसीत् आक्रमणम्। १३ महानौकाः प्रतिनिवृत्ताः। किन्तु असंस्कृततैलेन्धनोपेता भारतमहानौका होर्मुस् तरणं कर्तुमशक्यत इति पि टि ऐ वार्तासंस्थया निगदितम्।

 तमिलनाटे यानं प्रपत्य विनोदयात्रासंघस्य ९ जनाः मृताः। 

वाहनदुर्घटनायाः दृश्यम्। 

पोल्लाच्ची> तमिलनाटे वाल्प्पारा कन्दरे केरलात् विनोदयात्रार्थं प्रस्थितं 'टेम्पो ट्रावलर्' यानं ३०० पादपरिमितम् अधः पतित्वा ९ यात्रिकाः मृताः। केरले मलप्पुरं जनपदस्थे वलाञ्चेरी पाङ् इत्यस्मिन् स्थाने सर्वकारीय प्राथमिकविद्यालये सेवां कुर्वन्तः अध्यापकाः सेवकाश्च १३ जनाः एव दुर्घटनाधीनाः जाताः। ९ जनाः दुर्घटनास्थाने एव विनष्टप्राणाः अभवन्। इतरे ४ जनाः आतुरालयं प्रवेशिताः। 

  शुक्रवासरे सायं सार्धपञ्चवादने आसीत् दुर्घटना। कोयम्पुत्तूर् जनपदे पश्चिमघट्टपर्वतेषु आनमला गिरिषु अस्ति वाल्पारा कन्दरः। तत्र १३तमात्  'केशसूच्याकारवक्रात्'  [ Hair pin curve] मार्गात् नियन्त्रणं विनश्य यानं उप ३०० पादमितं अधःस्तात् नवमतमं केशसूच्याकारवक्रं पतितमासीत्।

Saturday, April 18, 2026

 श्रीशङ्करजयन्ती एप्रिल् २१।

कालट्यां विपुुलाः कार्यक्रमाः समारब्धाः। 

 पूर्णानद्याम् आरब्धा आरत्याः दृश्यम्।

कालटी> जगद्गुरोः श्रीशङ्कराचार्यस्य जयन्तिमहोत्सवः जन्मग्रामे समारब्धः। 'काश्मीर पण्डितानां' कार्मिकत्वे पूर्णानद्यां गङ्गा आरत्याः समाना दिनचतुष्टयात्मिका पूर्णा आरती तथा स्नानक्रिया च 'नक्रघट्टे' [मुतलक्कटव् इति भाषायां] आरब्धा। श्रीशङ्करस्य संन्यासाय कारणीभूते नक्रघट्टे सन्ति कार्यक्रमाः। 

  आदिशङ्करजन्मभूमिमन्दिरे विश्वशान्त्यर्थं नवचण्डिकामहायागः सम्पन्नः। प्रतिदिनं सविशेषपूजाविधीन् अतिरिच्य सायं शास्त्रार्थविद्वत्सभाः विधास्यन्ति। 

 कालट्यां श्रीशङ्करस्य कुलदेवतामन्दिरत्वेन विराजमाने श्रीकृष्णमन्दिरे कनकधारायज्ञः समारब्धः।  यन्त्रविध्यनुसारं सज्जीकृतानि 'कनकधारा महालक्ष्मियन्त्राणि', महालक्ष्मी प्राणप्रतिष्ठां विधत्तान् स्फटिकयुक्तान् सुवर्ण-रजतामलकान् यज्ञमण्डपे संस्थाप्य दिनत्रयेण ३२ ब्राह्मणाः १०,००८ वारं  कनकधारास्तोत्रजपेन अर्चयिष्यन्ति। शङ्करजयन्तिदिने - एप्रिल् २१ - सायं षड्वादने सम्पत्स्यमाने 'मातृवन्दनं' कार्यक्रमे ६०+ वयस्काः ३२ मातृजनाः सवस्त्रं फलमूलादिकं दत्वा आदरिष्यन्ते। 

 कालटी श्रीरामकृष्ण अद्वैताश्रमे रविवासरे युवसंगमः आयोज्यते। 'काञ्चिस्तूपे' सायं ३. ३० वादने 'शङ्करं लोकशङ्करम्' इति नाम्ना शङ्करकृतीनां नृत्ताविष्कारश्च आयोज्यमानः अस्ति। तदतिरिच्य प्रदेशस्थानां विभिन्नसंघटनानां नेतृत्वे प्रभाषणानि, भजनं, सांस्कृतिकसम्मेलनं, पथसञ्चलनम् इत्यादीनि अपि आयोजितानि।

 २०२३ तमवर्षस्य महिला आरक्षणनियमः प्रवृत्तिपथमागतः।

नाटकीयप्रक्रमः। संसद् प्रति अनादरः इति विमर्शः। 

नवदिल्ली> केन्द्रप्रशासनस्य नूतनस्य महिला आरक्षणपरिष्करणविधेयकस्य चर्चायां संसदि पुरोगम्यमानायां २०२३तमवर्षस्य महिला आरक्षणनियमं प्रवृत्तिपथमानीय सर्वकारः गुरुवासरे रात्रौ विज्ञापनमकरोत्। परिष्करणविधेयकानि संसदि प्रस्तुतीकृत्य जवेन वर्षत्रयात्पूर्वम् अनुमोदितस्य नियमस्य विज्ञप्त्युद्घोषणस्य उद्देश्यशुद्धिः सन्देहास्पदमिति सूच्यते। केन्द्रप्रशासनस्य एषः प्रक्रमः संसदं प्रति अनादरः इति विपक्षनेतृभिः विमर्श्यते। 

  महिलानां कृते ३३% आरक्षणं  दीयमानं विधेयकं २०२३ सेप्टम्बरमासे संसदा ऐककण्येन अनुमोदितमासीत्। २०२७ तमवर्षस्य जनसंख्यागणनाप्रक्रमान् सम्पूर्तीकृत्य अनन्तरं मण्डलपुनर्निणयमपि कृत्वा तदाधारीकृत्य २०३४ तमे वर्षे सम्पद्यमाने लोकसभानिर्वाचने महिलाSSरक्षणं प्रबलीकर्तुमेव अनेन नियमेन निर्दिश्यते। किन्तु अस्य नियमस्य परिष्करणेन २०२९ तमात् वर्षात् आरभ्य सम्पद्यमानेषु निर्वाचनेषु प्रवृत्तिपथमागन्तव्यम् इति राजनैतिकलक्ष्येन आसीत् नूतनं महिला आरक्षणविधेयकं प्रस्तुतम्।

 हरिवंश नारायण सिंहः राज्यसभायाः उपाध्यक्षः।


नवदिल्ली> नामनिर्देिष्टः राज्यसभासदस्यः हरिवंश नारायण सिंहः राज्यसभायाः उपाध्यक्षरूपेण ऐककठ्येन चितः। तृतीयवारमेव अयं राज्यसभायाः उपाध्यक्षपदं वहति। 

  प्रधानमन्त्री नरेन्द्र मोदी, राज्यसभाविपक्षनेता मल्लिकार्जुन खार्गे इत्यादयः हरिवंशम् अभिनन्दितवन्तः।

 होर्मुस् समुद्रसङ्कोचः इरानेन उद्घाटितः।

वाषिङ्टणः> लबननं विरुद्ध्य दशदिनात्मकं युद्धविरामकालं यावत् होर्मुस् समुद्रसन्धिः पण्यमहानौकानां सुगमसञ्चाराय पूर्णतया उद्घाटयिष्यते इति शुक्रवासरे इरानेन निगदितम्। भारतसमयानुसारं शुक्रवासरे प्रत्युषसि त्रिवादने लबननराष्ट्रे इस्रयेल-हिस्बुल्लयोः युद्धविरामः संस्थापितः। 

 होर्मुस् समुद्रसङ्कोचे इरानस्य 'पोर्ट्स् आन्ड् मारिटैम् ओर्गनैसेषन्' [Ports and Mary time Organization] संस्थया निर्दिष्टेन मार्गेण एव महानौकाः गन्तव्याः इति इरानस्य विदेशमन्त्रिणा अब्बास् अराग्चिना निगदितम्।

Friday, April 17, 2026

 कान्डिडेट् चतुरङः 

वैशाली विजेत्री। 

किरीटप्राप्त्यनन्तरं वैशाली मात्रा नागलक्ष्म्या सह आह्लालयति। 

पुरुषविभागे सिन्द्रोवः 

पेजिया> सैप्रस् राष्ट्रे सम्पन्नायां कान्डिडेट् चतुरङस्पर्धायां महिलाविभागे भारतस्य क्रीडिका आर् वैशाली विजेत्री जाता। अन्त्यन्तम् आकाङ्क्षायुक्ते अन्तिमचक्रे रष्यायाः कातरीना लग्नो नामिकां पराजित्य आर् प्रग्नानन्दस्य सोदरी विजयीभूता। 

 ये स्पर्धितवत्यः तासु षट् महिलानामपि विजयसाध्यता आसीत्। अतः अन्त्यचक्राणि अत्यन्तमुत्साहभरितानि आसन्। १३ तमप्रतिद्वन्द्वे समाप्ते सार्धसप्ताङ्कैः वैशाली कसाखिस्थानस्य क्रीडिका नामतः असुबयेव बिबिसारा च प्रथमस्थाने आस्ताम्। चीनस्य सू जिनर् अर्धाङ्कन्यूनेन द्वितीया आसीत्। अतः विजयात् ऋते किरीटप्राप्तिः न लभते इत्यवबोधे आसीत् अन्तिमस्पर्धायां वैशाल्याः अक्षचालनम्। 

  पुरुषाणां स्पर्धासु उस्बकिस्थानस्य यहोवीर सिन्द्रोवः किरीटं प्राप्तवान्।  आरम्भतः एव एकपक्षीयविजयाः आसन् यहोवीरस्य इत्यतः तस्य किरीटप्राप्तौ सन्देहो नासीत्।

 युक्रैने रष्यायाः बृहदाक्रमणं - १७ जनाः मृताः। 

कीव्> युक्रैने  रष्यया अस्य वर्षस्य प्रसूतेः परं बृहदाक्रमणं विधत्तम्। कीव् इति राजनगरे, डिनिप्रो, ओडेसा इत्येतस्मिन् नगरद्वये च बुधवासरस्य रात्रौ कृते आक्रमणे १७ जनाः मृताः। तेषु एकः १२ वयस्कः बालः अस्ति। 

  एतदाभ्यन्तरे रष्यायाः 'टुवाप्से' नामके नौकाश्रये युक्रैनेन कृते आक्रमणे १४ वयस्कामभिव्याप्य द्वौ मृत्युमुपगतौ। सप्त जनाः व्रणिताः।

Thursday, April 16, 2026

 यू एस् - इरानयोः पुनरपि चर्चा इति ट्रम्पः। 

इस्लामबादः> पश्चिमेष्यासंघर्षस्य शाश्वतशान्त्यर्थम् अस्मिन् सप्ताहे पुनरपि यू एस् - इरानयोः चर्चा भविष्यतीति यू एसस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन प्रोक्तम्। गते शनिवासरे इस्लामबादे सम्पन्ने प्रथमा चर्चा फलप्राप्तिं न गता आसीत्।  

प्रथमचर्चा पराजये प्राप्ते अमेरिकया होर्मुस् जलसन्धौ उपरोधः विधत्तः आसीत्। किन्तु अपरेद्युः उपरोधे लाघवत्वं कृतम्।

 बिहारम्। 

सम्राट् चौधरिः नूतनमुख्यमन्त्री।

सम्राट्चौधरीराज्यपालस्य समक्षं  शपथवाचनं करोति।

पट्ना> बिहारराज्यस्य भाजपा नेता सम्राट् चौधरिः राज्यस्य नूतनमुख्यमन्त्रिरूपेण शपथवाचनं कृतवान्। लोकभवने सम्पन्ने कार्यक्रमे राज्यपालः सय्यिद् अदा हस्नैरः शपथं कारितवान्। बिहारस्य २१ तमः मुख्यमन्त्री  सम्राटः राज्ये भाजपादलस्य प्रथममुख्यमन्त्री अस्ति। 

 द्वौ उपमुख्यमन्त्रिणौ च शपथं कृतवन्तौ - जे डि यू दलस्य नेतारौ विजयेन्द्र प्रसादः, विजयकुमार चौधरी च। दशाब्दद्वयाधिककालं यावत् मुख्यमन्त्रिपदम् ऊढवान् जे डि यू नेता  नितीष्कुमारः राज्यसभासदस्यः अभवत् इत्यतः एव राज्ये शासनपरिवर्तनम् जातम्।

Wednesday, April 15, 2026

 छत्तीसगढः।

ऊर्जनिलये स्फोटनं - ११ जनाः मृताः।


रायपुरं> छत्तीसगढे शक्तिजनपदस्थे ऊर्जनिलये दुरापन्ने स्फोटने ११ कर्मकराः मृताः।  २२ श्रमिकाः आहताः।  उत्क्वथनस्थाल्याः (boiler) स्फोटनेन आसीत् दुर्घटना।स्फोटनस्य हेतुः न स्पष्टीकृतः। 

 आहतेषु बहूनामवस्था कठिनतरा वर्तते। अतः मृत्युसंख्या वर्धिष्यते। सोमवासरे अपराह्ने सिंगित राय् ग्रामे 'वेदान्ता लिमिटड् पवर् प्लान्ट्' नामके ऊर्जनिलये आसीदियं दुर्घटना।

Tuesday, April 14, 2026

 महिला आरक्षणम्। 

राष्ट्रं नूतनचरित्ररचनासमीपमिति प्रधानमन्त्री।


नवदिल्ली> भारतस्य महिलाआरक्षणनियमेषु नवीकरणेषु सत्सु संसद् नूतनचरित्रसंरचनस्य स्पर्शमात्रसमीपं प्राप इति प्रधानमन्त्री नरेन्द्र मोदी प्रस्तुतवान्। संसदः सविशेषोपवेशनात् पूर्वानुबन्धतया दिल्ल्यां नारीशक्तिवन्दनसम्मेलने भाषमाणः आसीत् प्रधानमन्त्री। प्राचीनकालदर्शनानां भविष्यकालीननिर्णयनां च याथातथ्यान्तर्भूतात्मकं भविष्यति नियमनिर्माणमिति तेन प्रोक्तम्। 

  सामाजिकनीतिः इति न केवलं मुद्रावाक्यम् अपि तु समत्वात्मकाय भारताय दृढनिश्चयः इति मोदिवर्येण प्रोक्तम्। २०२३ तमे वर्षे विधेयकस्य प्रस्तुतिः संसदि ऐककण्ठ्येनैव अनुमोदिता। प्रमुखविपक्षदलानभिव्याप्य सर्वैः २०२९ तमे वर्षे नियमः प्रबलीकर्तव्यः इति अभियाचितमासीत्। २१ तमशतकस्य सुप्रधाननिर्णयस्य समीपमेव राष्ट्रम्। स्त्रीत्वस्य शक्तेः बहुमान्यतायाश्च समर्प्यमाणः आदरः भवत्ययं नियमः इति प्रधानमन्त्री अवदत्।

 मथुरायां नौकादुर्घटना - मरणानि १५ अभवन्। 

मथुरा> उत्तरप्रदेशे वृन्दावनस्थायां यमुनानद्यां शुक्रवासरे दुरापन्नायां नौकादुर्घटनायां मृतानां संख्या १५ अभवत्। मृतयोः द्वयोः शरीरे अपि गतदिने अधिगते। 

  ४० यात्रिकान् वहन्ती नौका आसीत् दुर्घटनाधीना जाता। १७ जनाः रक्षिताः आसन्।

 इरानं विरुध्य नाविकोपरोधः।

होर्मुस् सामुद्रधुनिः यू एसेन पिहिता।

होर्मुस् सामुद्रिकधुनिः। 

टेहरानः> आणवायुधेच्छां त्यक्तुम् असन्नद्धस्य इरानस्य प्रत्युत्तरमिति प्रवादेन तन्त्रप्रमुखां पण्यपथां होर्मुस् सामुद्रिकधुनिम् अवलम्ब्य क्रियमाणाय महानौकागमनागमनाय यू एस् राष्ट्रेण उपरोधः विहितः। भारतसमयानुसारं सोमवासररात्रौ सार्धसप्तवादने उपरोधः प्रबलीकृतः। 

  इरानस्य नौकाश्रयान् तीरप्रदेशान् च प्रति गमनागमनं क्रियमाणाः महानौकाः राष्ट्रभेदं विना उपरोद्धव्याः इति यु एसस्य सेनासंस्थया [नामतः 'सेन्ट् कोम्'] निगदितम्। किन्तु अनिरानीयनौकाश्रयान् प्रति गम्यमाणाः महानौकाः होर्मुस् द्वारा गन्तुं शक्यन्ते इति तैरुक्तम्। 

  परन्तु होर्मुसः सम्पूर्णतया इरानस्य नियन्त्रणे अनुवर्तिष्यते, तेन पथा सैनिकेतरमहानौकानामेव प्रवेशः अनुमोदयेत् इति 'इस्लामिक रवलूषणरि गार्ड्' [Islamic Revaluationary Guard] इत्यनेन उद्घोषितम्। कापि युद्धनौका होर्मुसं प्रवेष्टुं यतते चेत् शक्तः प्रत्याघातः भवेदिति तेन निगदितम्। अपि च होर्मुसे यू एसस्य उपरोधः भविष्यति चेत् पेर्षीय-ओमानीयसमुद्रान्तरालेषु वर्तमानीनाः सर्वे नौकाश्रयाः आक्रमिष्यन्ते इति इरानेनापि भीषा प्रयुक्ता।

Monday, April 13, 2026

 गायिका आशा भोस्ले दिवंगता।


मुम्बई> नादमाधुर्येण संगीतलोकं विस्मयभरितं कृतवती सुप्रसिद्धा गायिका आशा भोस्ले (९२) यशश्शरीरा अभवत्। हृदयाघातेन शनिवासरे आतुरालयं प्रवेशिता सा रविवासरे मध्याह्ने दिवंगता। 

  १९३३ तमे वर्षे विख्यातसंगीतज्ञः दीननाथ मङ्केष्करः, तस्य पत्नी शेवन्ती इत्येतयोः पुत्रीत्वेन महाराष्ट्रस्य गोरी ग्रामे आसीत् आशायाः जननम्। दिवंगता गायिका लता मङ्केष्करः तस्याः ज्येष्ठसोदरी आसीत्। १९४३ तमे वर्षे 'मज्हा बाली' नामकमराठी चलच्चित्रेण चलच्चित्रगायिकारूपेण प्रारम्भं कृतवती। शास्त्रीयसंगीतं, ग्राम्यगानं, पोप्, रोक्, भजनं, गसल् इत्यादिषु विभिन्नगानक्षेत्रेषु   असामान्यपाटवं प्रदर्शितवती। विभिन्नभाषासु द्वादशसहस्राधिकानि गानानि तया आलपितानि। 

 श्रेष्ठगायिकायै दीयमानः राष्ट्रपुरस्कारः द्विवारं आशा भोस्ले वर्यया लब्धः। दादा साहिब फाल्के पुरस्कारः, पद्मविभूषणम् इत्यादिभिः सा सम्मानिता। तस्याः अन्त्येष्टिकर्माणि सोमवासरे सायं चतुर्वादने दादर् स्थानस्थे शिवाजी पाक्क्मध्ये सम्पत्स्यते।

 यू एस् - इरान् चर्चा पराजिता।

इस्लामबादः> लोकेन आकाङ्क्षया पर्यलोकिता यू एस् - इरानराष्ट्रयोः  शान्तिचर्चा अनिर्णयेन समाप्ता। इस्लामबादे शनिवासरे आरभ्य २१ होराः यावत् दीर्घिता चर्चा परस्परारोपणप्रत्यारोपणेन विफला जाता। कतिपयविषयेषु मतैक्यं जातमपि होर्मुस् सामुद्रधुनिः, इरानस्य आणवप्रकरणम् इत्यादिषु विषयेषु मतसमन्वयं नाभवदिति सूच्यते। 

  आणवप्रकरणं परित्यक्तुं न सन्नद्धमिति इरानस्य मर्कटमुष्टित्वं शान्तिसन्धेः प्रतिकूलाय अभवदिति यू एस् संघनेता उपराष्ट्रपतिः जे डी वान्सः अवदत्। इराने विश्वासमर्पयितुं यू एसेन न शक्तमिति इरानीयसंघस्य नेता मुहम्मद बगेर घालिबाफनामकः प्रोक्तवान्।

Sunday, April 12, 2026

ओरियोण पेटकं सुरक्षितं प्रत्यागतम्।

आर्टिमेस् दौत्यस्य शुभपरिसमाप्तिः।

  हूस्टण्> आर्टिमेस् - २ दौत्यं विजयकरेण परिसमाप्य तदंशतया विक्षिप्तम् ओरियोण् पेटकं सुरक्षितत्वेन पसफिकसमुद्रे अवतरितम्। चन्द्रस्य अपरपार्श्वमपि साक्षाद्दृष्ट्वा चत्वारः यात्रिकाः च सुरक्षिताः धरां प्राप्ताः। 

  भूमेः ४,०६,७७१.३५ कि मी दुरं चन्द्रमण्डले पेटकं सम्प्राप्तम्। आहत्य ११,१७,५१५ कि मी दूरं पेटकेन सञ्चरितम्। चन्द्रं प्रति ६४३७ कि मी समीपेन पथद्वारा मनुजान् ऊढ्वा ओरियोणः यात्रामकरोत्। एकस्मिन् स्तरे पेटकस्य वेगः ३९,६९२ कि मी प्रति होरा आसीत्।

 यू एस्-इरानयोः शान्तिचर्चा समारब्धा। 

यू एस् उपराष्ट्रपतिः जे डि वान्सः पाकिस्थानं प्राप।

इस्लामबादः> चत्वारिंशत् दिनान्यधिकानि यावत् पश्चिमेष्यायाम् अनुवर्तमानस्य संघर्षस्य शाश्वतम् अन्त्यं विधातुमुद्दिश्य यू एस्-इरानराष्ट्रयोः शान्तिचर्चा शनिवासरे पाकिस्थाने इस्लामबादे समारब्धा। 

 यू एस् उपराष्ट्रपतिः जे डि वान्सः इत्यस्य नेतृत्वे वर्तमानः संघः इरानस्य संसदध्यक्षः मुहम्मद बगेर् घालिबाफ् इत्यनेन नेतृत्वमावहन् संघश्च  चर्चायां भागं करोति। युगपदुपवेशनात् पूर्वं पक्षद्वयमपि पृथक् पृथक् पाकिस्थानस्य प्रधानमन्त्रिणा षहबास् षरीफेन सह अभिमुखमकरोत्।

Saturday, April 11, 2026

 मथुरायां नौका निपत्य १० विनोदयात्रिकाः मृताः। 

मथुरा [यू पी]> वृन्दावने यमुनानद्यां विनोदयात्रिकैः सह गतवती नौका निपत्य १० जनाः मृताः। १७ जनाः रक्षिताः। नौकायां ३० यात्रिकाः आसन्निति रक्षां प्राप्तैः उक्तम्। 

  शुक्रवासरे अपराह्ने आसीदियं दुर्घटना। पञ्चाबतः आगताः विनोदयात्रिकाः एव दुर्घटनाविधेयाः जाताः। मृतेषु ६ पुरुषाः ४ महिलाश्च अन्तर्भवन्ति।

 ४२ मावोवादिनः आत्मसमर्पणं कृतवन्तः।

हैदराबादः> कमान्डर् पदीयम् अभिवाप्य ४२ मावोवादिनः तेलङ्कानायाम् आयुधैः सह आत्मसमर्पणं कृतवन्तः। अनेन तेलङ्कानाराज्यं मावोवादविमुक्तमभवत् इति आरक्षणसेनायाः डि जि पी पदीयः शिवधर रेड्डी इत्यनेनोक्तम्। पञ्च ए के - ४७ यन्त्रभुषुण्डयः  आरक्षणसेनां प्रति हस्तान्तरीकृताः।

 वैशाल्यां भारतस्य प्रतीक्षा। 

पुरुषेषु सिन्द्रोवः एव।

पेजिया [सैप्रस्]> फिडे कान्डिडेट् चतुरङ्गवीरतास्पर्धायां चतुर्षु चक्रेषु अवशिष्टेषु पुरुषाणां प्रतिद्वन्द्वे उस्बकिस्थानीयः यावोहिर् सिन्द्रोवः अष्टाङ्कैः विजयपथमुपगच्छति। द्वितीयस्थानीयस्य डच् क्रीडकस्य अनीष् गिरेः षट् अङ्काः सन्ति। भारतस्य आर् प्रग्नानन्दः सप्तमस्थाने वर्तते।

  महिलानां स्पर्धायां भारतस्य आर् वैशाली या  तु  प्रग्नानन्दस्य सोदरी  षडङ्कैः अग्रे स्थित्वा भारताय प्रतीक्षां ददाति। वैशाल्या सह प्रथमस्थानांशं वहन्ती चीनदेशीया सू जिनर् नामिका इदानीं अर्धाङ्कं पृष्ठतः वर्तते। शनिवासरे रष्यायाः अलक्सान्द्रा गोराच्किना प्रतिद्वन्द्विनी भविष्यति।

Friday, April 10, 2026

 बालकमरणं

मणिप्पुरे निरोधनाज्ञामुल्लंघ्य बृहत्प्रतिषेथपथसञ्चलनम्।

इम्फालं> मणिप्पुरे बिष्णुपुरे जनपदे बोम्बस्फोटने द्वौ बालकौ हतौ इति घटनायां राज्ये सर्वत्र प्रतिषेधः व्याप्यते। अधित्यकायां विधत्तां 'कर्फ्यू' नामकं निरोधनाज्ञाम् उल्लङ्घ्य सहस्रशः जनाः वीथीं प्राप्य प्रतिषेधं प्रकटितवन्तः। 

  एप्रिल् सप्तमदिनाङ्के ट्रोङ्ग्लोबी नामके स्थाने किमपि गृहं विरुध्य विधत्ते बोम्बाक्रमणे पञ्चवयस्कः, तस्य षण्मासीया सोदरी च मृत्युंवशं गतौ। अस्यां घटनायां प्रकुपितेन जनसञ्चयेन गेल् मोल् इत्यत्र सी आर् पी एफ् संस्थायाः शिबिरं आक्रमितम्। ततः प्रवृत्ते संघर्षे आरक्षणसेनायाः भुषुण्डिप्रयोगे च त्रयः प्रतिषेधकाः हता‌ः ३० जना आहताश्च।

  तदनन्तरं आराज्यं प्रतिषेधः व्याप्नुवन्नस्ति। बालकघातकाः निगृहणीयाः इति आह्वयन्तः जनाः वीथ्युपरोधादीन् प्रतिषेधान् कुर्वन्ति। बहुत्र प्रतिषेधकराः आरक्षकाः च मिथः संघट्टयन्ति।

 नितीष् कुमारः अद्य राज्यसभासदस्यः भविष्यति। 

नितीष् कुमारः।

नवदिल्ली> बिहारस्य मुख्यमन्त्री तथा जे डि यू दलस्य नेता च नितीष् कुमारः शुक्रवासरे राज्यसभासदस्यरूपेण शपथवाचनं विधास्यति। जे डि यू दलस्य प्रतिनिधिः राज्यसभायाः उपाध्यक्षश्च हरिवंश नारायण सिंहः इत्यस्य कालपरिधिः गुरुवासरे पर्यवसितमासीत्। 

  यदा नितीष् कुमारः राज्यसभासदस्यः भविष्यति तदा बिहारे नूतनमुख्यमन्त्री आवश्यकः अस्ति। प्रायेण भाजपा सदस्यः नूतनमुख्यमन्त्री भवेत्। तदर्थं दलाध्यक्षस्य नितिन् नबीनस्य नेतृत्वे चर्चाः पुरोगम्यन्ते। 

  मुख्यमन्त्रिपदम् अत्यक्त्वा एव नितीष् कुमारस्य राज्यसभाप्राप्तिः। अस्य मासस्य मध्ये मुख्यमन्त्रिपदात् तस्य स्थानत्यागं भविष्यतीति मन्यते।

 त्रिषु राज्येषु गम्भीरं मतदानम्।

केरले ७८. २७%, असमे ८४. ४२%, पोण्टिच्चेर्यां ८९%। 

नवदिल्ली> केरलम्, असमराज्यद्वये, पोण्टिच्चेरी  केन्द्रप्रशासनप्रदेशे च ह्यः सम्पन्नं विधानसभानिर्वाचनं सामान्यतया शान्तियुक्तमभवत्। त्रिष्वपि क्षेत्रेषु सोत्साहस्पर्धापूर्वकं मतदानं सम्पन्नम। 

प्राथमिकगणनानुसारं  केरले आहत्य ७८. २७ % मतदानिनः स्वाधिकारं प्रयुक्तवन्तः। पालक्काट्, कोष़िक्कोट् जनपदयोः मतदानं अशीत्यधिकं प्रतिशतमभवत्। उपपञ्चाशत् विधानसभामण्डलेषु मतदानशतमानं अशीत्यधिकं जातम्। 

  असमराज्ये विधानसभानिर्वाचने इतःपूर्वाधिकतमं मतदानं विधत्तम्। ह्यः पञ्चवादनपर्यन्तं ८४. ४२% जनाः स्वाभिमतम् विनियुक्तवन्तः। २०२१ तमे वर्षे ८२. ०४ आसीत् मतदानप्रतिशतता। 

  पुतुच्चेरी  विधानसभानिर्वाचने ८९प्रतिशततः अधिकं मतदानम् अङ्कितम्। प्रथमतया एव एतावत् मतदानं सम्पन्नम्। २०२१ तमे वर्षे ८३ आसीत् मतदानप्रतिशतता। औसुडु नामके मण्डले ९३% मतदानं विधत्तमिति सूच्यते। 

  केरले १४० विधानसभामण्डलानि सन्ति। आहत्य २. ७२कोटि मतदानिनः विद्यन्ते। ८८३ स्थानाशिनश्च सन्ति। असमे १२६ मण्डलेषु  ७२२ स्थानाशिनः जनहितं कांक्षन्ते। पुतुच्चेर्यां ३० मण्डलानि ९. ४४ लक्षं मतदानिश्च सन्ति। त्रिष्वपि स्थानेषु एकेनैव चरणेन निर्वाचनं सम्पन्नम्।

Thursday, April 9, 2026

 कान्डिडेट् चतुरङ्गः। 

वैशाली अग्रे तिष्ठति।

आर् वैशाली।

पेजिया [सैप्रस्]> फिडे कान्डिडेट् चतुरङ्ग वीरतास्पर्धायां पुरुषविभागे उस्बकिस्थानस्य यावोहिर सिन्द्रोवे अग्रे गच्छति सति महिला विभागे भारतस्य आर् वैशाली अग्रे गच्छति। नवमे चक्रे सम्पन्ने प्रतिद्वन्द्वे विश्वचषकविजेत्रीं दिव्या देशमुखमहाभागाम् अभिभावयति स्म। अनेन वैशाली सार्धपञ्चाङ्केन चीनस्य सु जिनर् इत्यनया साकम् प्रथमस्थाने तिष्ठति।

 लबनने इस्रयेलस्य आक्रमणम्।

बेय्रूट्> इरानेन सह सप्ताहद्वयस्य युद्धविरामाय सहयोगे निगदिते परं लबननं तथा हिस्बुल्लां विरुध्य आक्रमणानि अनुवर्तिष्यन्ति इत्युद्घोषयन् इस्रयेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहुः। बुधवासरे अपि  लबननस्य प्रमुखनगराणि लक्ष्यीकृत्य इस्रयेलेन तीव्रं बोम्बाक्रमणं विधत्तम्। 

  आक्रमणेषु ८९ जनाः मृताः; ७२२ जनाः व्रणिताः इति लबननेन निगदितम्।

Wednesday, April 8, 2026

श्री चतुर्वेदविद्यागणपतिवेदशास्त्रमहाविद्यास्थाने सप्तमः संस्कृतोत्सवः सम्पन्नः।

     तमिल्नाडु,> चेङ्गल्पट्टु श्री चतुर्वेद-विद्यागणपति-वेदशास्त्र-महाविद्यास्थानस्य  सप्तमः संस्कृतोत्सवः महता वैभवेन समायोजितः आसीत्। तस्मिन्  संस्कृतोत्सवे वेदाश्रमस्य प्राचार्याणां ब्रह्मश्रीकुमारगुरुघनपाठिनां तथा मुख्यातिथीनां करकमलैः प्रदीपं प्रज्वाल्य  कार्यक्रमः समारब्धः। कार्यक्रमेऽस्मिन् भगव‌द्गीता धात्वष्टाध्यायी  सुभाषितानि च कण्ठपाठरूपेण प्राचलत्। एवं सामान्यभाषणस्पर्धा, शास्त्रीयभाषणस्पर्धा, वादविवादस्पर्धा, संस्कृतस्फूर्तिस्पर्धा च समायोजिताः आसन्। तासु स्पर्धासु परिसरीयविद्यार्थिनः अग्रेसरीभावेन भागम् ऊढ्वा पुरस्कारभाज: आसन्। 

     दिनत्रयव्याप्ते संस्कृ‌तोत्सवे पण्डि‌तमण्डितपादाः अध्यक्षाः १. स्वामिनः सुप्रज्ञानन्दमहाराज् श्रीरामकृष्णमठः मद्रपुरी 'उपदेशपञ्चके वेदान्तप्रबोधः' इति शीर्षके, २.शिवश्री.उमासुतमहाभागाः संशोधकाः फ्रांसीय -अनुसन्धान-संस्थानम् 'समासरहस्यम्'

 विश्वपादकन्दुकचषकः।

मेस्सी, क्रिस्ट्यानो सज्जौ। 

नैमरस्य विषये आशङ्का। 

> ब्रसील्, अर्जेन्टीना, पोर्चुगल् इत्येतानि राष्ट्राणि अस्मिन् वर्षे सम्पद्यमानायै विश्वचषकपादकन्दुकक्रीडायै क्षमतां प्रापुः। अर्जन्टीनायै लयणल् मेस्सी, पोर्चुगलाय क्रिस्टियानो रोनाल्डो इत्येतौ क्रीडिष्यतः इति निश्चितमस्ति। किन्तु  'त्रिमूर्तिषु' अन्यतमः नैमरः ब्रसील् दलाय क्रीडिष्यति वा इति विषये आशङ्का वर्तते। नैमरं संघे अन्तर्भावयितुं परिशीलकः कार्लो आञ्चलोट्टी इत्यस्मात् किमपि दृढसमाधानं न लब्धम्। मुहुर्मुहुः जायमानाः क्षताः अन्ये क्षमताविषयाः च परिशीलकं पुनर्विचिन्तनाय प्रेरयन्ति।

 केरलनिर्वाचम्। 

उत्सवोत्साहेन सघोषप्रचारणं समाप्तम्।

त्रयाणां सख्यानां सघोषप्रचारणं कोल्लं नगरे संगच्छति। 

लोकतन्त्रविधिः श्वः। 

८८३ स्थानाशिनः;३०,४९५ मतदानकेन्द्राणि; २,७१,९६,९३६ मतदानिनः। 

अनन्तपुरी>  केरले विधानसभानिर्वाचनाय सघोषप्रचारणं अत्यन्तोत्साहेन उत्सववातावरणं सृष्ट्वा परिसमाप्तम्। वर्तमानीनप्रशासनपक्षः सि पि ऐ (एम्) राजनैतिकदलेन नेतृत्वमावहत् LDF नामकं वामपक्षीयजनाधिपत्यसख्यं , विपक्षत्वेन वर्तमानं कोण्ग्रस् दलेन नेतृत्वं कुर्वत् ,UDF इति ऐक्यजनाधिपत्यसख्यं, राज्ये पुनरपि विधानसभाप्रवेशं कांक्षत् भाजपा दलस्य नेतृत्वे वर्तमानं NDA सख्यं च समेषु मण्डलेषु तेषां प्रभावं शक्तिं च प्रकाशयितुं सर्वथा प्रयतन्त। 

  २४ वर्षाणामनन्तरं SIR प्रक्रिया संपूर्णतां प्राप्ते केरले २,७१,९६,९३६ मतदानिनः लोकतन्त्रप्रक्रियायां मतदानविधिमालिखन्ति। तेषु ४,६६,४०८ प्रारम्भमतदायकाः सन्ति। प्रभाते सप्तवादनतः सायं षट्वादनपर्यन्तं मतदानं कर्तुं शक्यते। १. ४६ लक्षं अधिकारिणः निर्वाचनिर्वाहकरूपेण  नियुक्ताः सन्ति।

Tuesday, April 7, 2026

 ​"यु.एस्-देशस्य युद्धविरामप्रस्तावः इरान्-देशेन तिरस्कृतः"; युद्धविरामाय न सज्जा इति इरान्-देशस्य प्रत्युत्तरम्।​ 

  तात्कालिक-युद्धविरामाय अमेरिकया (यु.एस्) प्रस्तावितं सन्धिम् इरान्-देशः तिरस्कृतवान्। अमेरिकया उपस्थापितं तात्कालिक-युद्धविराम-प्रस्तावं तिरस्कृत्य इरान्-देशः स्वकीयम् आधिकारिकं प्रत्युत्तरं पाकिस्थान-देशाय हस्तान्तरितवान्। "सम्पूर्ण-युद्धविरामः आवश्यकः" इति स्वस्य मते इरान्-देशः दृढतया तिष्ठति। युद्धे नष्टानां वस्तूनां पुनर्निर्माणम्, उचितं क्षतिपूर्तिं (Compensation) च इरान्-देशः अपेक्षते।

​पाकिस्थान-देशं माध्यस्थं कृत्वा प्रेषिते अस्मिन् प्रत्युत्तरे मुख्यतया १० आवश्यकानि (Conditions) इरान्-देशेन उक्तानि सन्ति। 'होर्मुज्'-जलान्तरालस्योपरि सार्वभौमत्वम् (Sovereignty) सहितं दश-अंशानां सूचयः अस्मिन् सन्ति। सम्पूर्ण-क्षेत्रे आक्रमणानि स्थगनीयानि, होर्मुज्-जलान्तराल-मार्गेण सुरक्षित-प्रयाणाय नियमावलिः (Protocol) आनेतव्या, आर्थिक-प्रतिबन्धाः निष्कासनीयाः इत्यादयः इरान्-देशस्य प्रमुखाः प्राप्येप्सिताःभवन्ति।

​ट्रम्पेण  इरान्-देशाय स्वाङ्गीकृतः अन्तिमसमयः मङ्गलवासरे समाप्तः भविष्यति इति डोनाल्ड-ट्रम्पः पुनरपि स्मारितवान्। "सद्भावनया इरान्-देशेन सह चर्चा प्रवर्तते। यदि इरान्-देशः करणीयं कार्यं करोति, तर्हि युद्धं शीघ्रमेव समाप्तं भविष्यति। यदि ते शरणं न स्वीकुर्युः (Surrender), तर्हि तेषां सेतवः (Bridges), विद्युत्-उत्पादन-केन्द्राणि (Power stations) च अवशिष्टानि न भविष्यन्ति," इति ट्रम्पः अववत्।

 ओरियोण् पेटकं चान्द्रगुरुत्वाकर्षणवलये। 

ओरियोण् पेटकस्य जालकद्वारा संगृहीतं चन्द्रस्य चित्रम्। 

हूस्टण्> चतुर्भिः यात्रिकैः सह आर्टिमेस् - २ दौत्यस्य ओरियोण् पेटकं सोमवासरे प्रभाते १०. ०७ वादने [भारतीयसमयः] चन्द्रस्य गुरुत्वाकर्षणपथं प्रविवेश। तस्मिन् समये पेटकं चन्द्रात् ६२,८०० कि मी दूरे, भूमेः ३,७३,४०० कि मी दूरे चासीत्। १९७२ तम वर्षस्य 'अप्पोलो-१७' दौत्यात् परं प्रथमतः एव चन्द्रस्य एतावत्समीपं मानवप्राप्तिः। 

  कुजवासरे रात्रौ १२ वादने पेटकं चन्द्रमुपगम्य सञ्चारमारप्स्यते। तदा पेटकं सम्पूर्णतया अन्धकारावृतं भविष्यति, धरया सह आशयविमयः किञ्चित्समयं यावत् स्थगयिष्यते इति च नासासंस्थया निगदितम्। चन्द्रं परितः षट् होराः यावत् पेटकस्य यात्रा भविष्यति।  तदनन्तरं पेटकस्य धरां प्रति प्रतिनिवर्तनमारप्स्यते। एप्रिल् दशमदिनाङ्के शान्तसमुद्रे अवतरिष्यति।

 युद्धविरामाभियोजना इरानेन निरस्ता। 

एकयैव निशया इरानस्य अन्त्यमिति ट्रम्पस्य भीषा।

दुबाय्> युद्धपरिसमाप्तये मध्यस्थराष्ट्रैः सूचिता ४५ प्रकरणात्मिका युद्धविरामाभियोजना इरानेन निरस्ता। न केवलं ह्रस्वकालीनसमाप्तिः, शाश्वतपरिसमाप्तिरेव अभिलषणीया इति ईजिप्तराष्ट्रस्य इरानीय स्थानपतिना प्रस्तुतम्। इरानं विरुध्य परम् आक्रमणरहितः सन्धिरेव अङ्गीकर्तव्यः इति तेनोक्तम्। 

  प्रत्युत, होर्मुस् सामुद्रिक धुनीम् उद्घाटयितुम् आत्मना दत्तः समयपरिधिः अद्य समाप्यते इत्यतः एकयैव निशया इरानं समापयिष्यामीति डोनाल्ड ट्रम्पेन प्रस्तुतम्। सा निशा कुजवासरस्य निशा भवेदिति भीषास्वरेण ट्रम्पः उक्तवान्।

 विधानसभानिर्वाचनम्। 

त्रिषु स्थानेषु सघोषप्रचरणम्  अद्य समाप्यते।

केरलम्, असमः, पोण्टिच्चेरी - मतदानं परश्वः।

कोच्ची> असम-केरलराज्यद्वये, पोण्टिच्चेरी केन्द्रप्रशासनप्रदेशे च विधानसभानिर्वाचनार्थं सघोषप्रचरणं कुजवासरे षट्वादने समाप्यते। आगामी ४८ होराः निश्शब्दप्रचरणस्य कालः अस्ति। 

  त्रिषु स्थानेष्वपि एकेनैव चरणेन मतदानप्रक्रिया एप्रिल् नवमदिनाङ्के सम्पत्स्यते। मतगणना मेय् चतुर्थे दिनाङ्के विधास्यति। ततः पूर्वं तमिलनाट्, पश्चिमवंगराज्ययोः च विधानसभानिर्वाचनं चरणात्मकतया सम्पूर्णं प्राप्स्यति।

Monday, April 6, 2026

 इरानेन भुषुण्डीभग्नस्य यू एस् युद्धविमानस्य 

वैमानिकः यू एसेन रक्षां प्राप्तः। 

टेहरानः> गतदिने इरानस्य सीमान्तर्भागे प्रविष्टं यू एस् राष्ट्रस्य युद्धविमानं  - एफ् १५ ई स्ट्रैक् ईगिल् - इरानेन विनाशितम्। विमाने स्थितयोः वैमानिकयोः एकः तद्दिने एव रक्षितः। इतरः वैमानिकः ३६ होराणां क्लेशपूर्णनिलीनवासस्य अनन्तरं यू एस् सेनया एव रक्षितः। 

  इराने भग्नस्य यू एस् यूद्धविमानस्य वैमानिकः प्राणैः सह निगृहीतः सन् इरानाय समर्प्यते चेत् ६६,१०० डोलर् पारितोषिकं प्रख्यापितमासीत्। दक्षिण इरानस्य कस्मिंश्चित् प्रदेशे ७००० पादमितम् उच्चस्थायां पर्वतधुन्यां निलीयमानं वैमानिकम् अतिसाहसिकेन रक्षामकरोदिति डोनाल्ड ट्रम्पेन निगदितम्।

 पश्चिमवंगनिर्वाचनम्। 

प्रथमचरणाय पत्रिकासमर्पणम् अद्य समाप्यते। 

मतदायकावल्याम् अनिश्चितत्वं वर्तते। 

  कोल्कोत्ता> पश्चिमवंगे विधानसभानिर्वाचनस्य प्रथमचरणस्य नामाङ्कनपत्रसमर्पणस्य कालपरिधिः सोमवासरे समाप्यते। अनेन १५२ विधानसभामण्डलेषु मतदानिनां आवल्याः अन्तिमरूपं भविष्यति। किन्तु समग्र मतदायकावलीनवीकरणेन [एस् ऐ आर् प्रक्रिया] येषां नामानि आवल्यां न सन्ति ते नीतिपीठं शरणं प्रापु‌ः। तेभ्यः मतदानाय अवसरः  लभते वा न वेति आशङ्का वर्तते।  

  शनिवासरे प्रकाशितां दशमानुबन्धावलीम् अनुसृत्य ५७ लक्षं याचिकासु निर्णयः विहितः। सोमवासराभ्यन्तरे अवशिष्टासु त्रिलक्षं याचिकासु निर्णयः भवितव्यः। तदेव अनिश्चितत्वस्य हेतुः।

 आन्ध्रप्रदेशः।

अमरावती स्थिरराजधानी। 

नवदिल्ली> आन्ध्रप्रदेशस्य शाश्वतराजधानिरूपेण 'अमरावती'नगरं राज्यसभया अपि अङ्गीकृतम्। गतदिने लोकसभया च एतदधिकृत्य आन्ध्रप्रदेशस्य पुनःसंघटनात्मकं  विधेयकं २०२६ [Andhrapradesh Reorganization (abutment) bill 2026] अङ्गीकृतमासीत्। परं राष्ट्रपतेः हस्ताक्षरीकरणेन नियमः भविष्यति। 

   अमरावत्याः  नूतनराजधानित्वे स्थिररूपेण प्राप्ते राज्यस्याभिवृद्धिः त्वरितगत्या भविष्यति, 'विकसितभारतं - २०४७' इत्यस्य प्राप्तये महद्योगदानं लप्स्यते इति च विधेयकस्य चर्चायाः प्रत्युत्तररूपेण गृहसहमन्त्री नित्यानन्द रायः आत्मनः सुदृढविश्वासं प्रकाशितवान्। 

  किन्तु राजधानेः साक्षात्काराय ३४,००० एकर् मितं भूमिं दत्तवतां २९,००० कृषकाणां समस्याः एतावत्पर्यन्तं न परिहृताः इति वै एस् आर् सि पि दलीयः सदस्यः येराम् वेङ्कट सुब्ब रेड्डिः आरोपितवान्। अमरावतीं आन्ध्रप्रदेशस्य राजधानिरूपेण अङ्गीकर्तुं सर्वकारेण १२ वर्षाणि स्वीकृतानीति कोण्ग्रस् सदस्या रेणुका चौधरी प्रोक्तवती।

Sunday, April 5, 2026

 सि बी एस् ई मध्ये पाठ्यांशनवीकरणम्। 

त्रिभाषाध्ययनम् अनिवार्यम्। 


नवदिल्ली>  राष्ट्रियशैक्षिकनयस्य अंशतया त्रिभाषाध्ययनम् अनिवार्यं कुर्वन्ती सी बी एस् ईसंस्था पाठ्यांशनवीकरणमकरोत्। गणित-शास्त्रविषययोः स्तरद्वयपरीक्षा विधास्यति। कृत्रिमबुद्धेः [A I] अध्ययनं च नूतनीकृतपाठ्यांशे अन्तर्भूतम्। २०२६-२७ अध्ययनवर्षादारभ्य क्रमेण नवीकरणं विधास्यति। 

  अस्मिन् वर्षे षष्ठीकक्ष्यायाः  आरभ्य त्रिभाषाध्ययनम् अनिवार्यं करिष्यति। समागमिष्यमाणेषु  वर्षेषु अनुबन्धकक्ष्यासु अपि तृतीयभाषां पाठयिष्यति। पठितव्येषु तिसृषु  भाषासु द्वे भारतीयभाषे भवितव्ये इति व्यवस्था कृता अस्ति। विदेशविद्यालयेषु पठित्वा अनुवर्तिताध्ययनाय आगच्छद्भ्यः छात्रेभ्यः सविशेषावस्थामनुसृत्य भाषाध्ययने आनुकूल्यं दास्यति।

 यू एस् सेनायां कलहः। 

स्थलसेनाधिकारी बहिर्नीतः। 

वाषिङ्टणः> इरानेन सह युद्धे मासमतीते यू एसस्य सेनायामपि कलहः जात इति सूच्यते। स्थलसेनायाः अधिकारी जनरल् रान्डी जोर्जः रक्षामन्त्री पीट् हेग् सेत् इत्यनेन बहिर्नीतः। सेवानिवृत्तये वर्षमेकम् अवशिष्टमासीत्। अनेन सह सेनायाः परिशीलकनेतृत्वे वर्तमानः जनरल् विल्यं ग्रीन् जूनियर्, गृहसुरक्षामन्त्री क्रिस्टी नोम्, अटोर्णी जनरल् पदीयः पां बोण्टी इत्येते च बहिर्नीताः।

Saturday, April 4, 2026

  रविवर्मराजस्य 'यशोदा कृष्णश्च' चित्रं १६७. २ कोटि रूप्यकेभ्यः विक्रीतम्। 

भारते कस्मैश्चित् चित्राय लब्धम् उच्चतममूल्यम्। 

राजा रविवर्मा, तेन विरचितं चित्रं च।

मुम्बई> विश्वचित्रकारेषु विख्यातः केरलीयः राजा रविवर्मा इत्यनेन आलिखितं  'यशोदा कृष्णश्च' इति कृतनामधेयं तैलिकछायाचित्रं [Oil painting] भारतीय घोषणपूर्वकद्रव्यविक्रयविपण्याम् अभिलेख्यमूल्यं प्रलब्धम्। तस्मै १६७. २ कोटि रूप्यकाणि दत्वा 'सिरम् इन्स्टिट्यूट ओफ् इन्डिया' संस्थायाः अध्यक्षः सैरस् पूनावाला चित्रं क्रीणाति स्म। मुम्बई नगरम् आस्थानत्वेन वर्तमाने 'सफ्रोण् आर्ट्' [Saffron Art] नामके घोषणपूर्वकद्रव्यविक्रयकेन्द्रे आसीत् विक्रयव्यवहारः जातः। भारते कस्मैश्चित् चित्राय घोषणपूर्वकद्रव्यविक्रयेण लब्धम् उच्चतममूल्यमस्ति १६७. २ कोटि इत्येतत्।

  केरले किलिमानूर् राजभवने १८४८ तमे वर्षे लब्धजन्मा रविवर्मा १८९० तमवर्षेषु इदं वर्णचित्रं विरचितवान् इति सूच्यते। पुराणेतिहासकथाः आसन् तस्य चित्राणामितिवृत्तम्।


 

 कान्डिडेट् चतुरङ्गः। 

यावोहिर् सिन्द्रोवः अग्रगामी वर्तते।

प्रग्नानन्दः चतुर्थस्थाने। 

पेजिया (सैप्रस्)>  सैप्रस् राष्ट्रे अनुवर्तमाने फिडे कान्डिडेट् चतुरङ्गप्रतिद्वन्द्वे उस्बस्किस्थानस्य यावोहिर् सिन्द्रोवः इतरानपेक्ष्य प्रभावशाली वर्तते। स्पर्धापरम्परायाः चक्रचतुष्के सम्पूर्णे  विजयत्रयेण एकया समस्थित्या च सार्थत्रयाङ्कैः स्वप्रभावं प्रकाशयन् अग्रे चरति। 

  विश्वचषकजेतृरूपेण कान्डिडेट् चतुरङ्गस्पर्धायां योग्यतां प्राप्तवान् सिन्द्रोवः तृतीये चरणे भारतस्य प्रग्नानन्दं चतुर्थचरणे  विश्वतृतीयस्थाने तिष्ठन्तम् अमेरिकायाः फाबियो करुवानं च पराजित्य स्वशक्तिं प्रमाणीकृतवान्। 

  प्रथमचरणे विजयेन आरब्धवान् प्रग्नानन्दः परं स्वप्राभवं संस्थापयितुं न शक्तः। क्रीडाचतुष्कात् अङ्कद्वयेन सः चतुर्थस्थाने वर्तते। १४ चरणयुक्तायां अस्यां परम्परायां यः विजयी भविष्यति सः अन्तिमप्रतिद्वन्द्वे भारतस्य डि गुकेशेन सह क्रीडिष्यति।

  महिलानां परम्परायां युक्रेनस्य अन्न मुष्चुकाभिधेया सार्धद्वयेन अङ्केन अग्रे तिष्ठति। भारतस्य आर् वैशाली तृतीयस्थाने विश्वचषकं प्राप्तवती दिव्या देशमुखः अष्टमस्थाने च वर्तेते।

Friday, April 3, 2026

 आर्टिमेस् - २ विक्षेपणं विजयकरम्। 

आर्टिमेस् २ विक्षेपणस्थानात् उद्गच्छति। 

केप् कनावरल्> अर्धशताब्द्यनन्तरं मनुजान् वहत् अमेरिकायाः चान्द्रदौत्यं चन्द्रसमीपम् अगच्छत्। नासायाः आर्टिमेस् - २ दौत्याय ओरियोण्  नामकं पेटकं केन्नडि बहिराकाशकेन्द्रात् विक्षिप्तम्। चत्वारः मानवाः दौत्यस्य अंशतया पेटके सन्ति। 

  रैड् वैस्मान्, विक्टर् ग्लोवर्, क्रिस्टीना कोच् इत्येते अमेरिकीयाः जरैमि हान्सन् नामकः कनेडियः च पेटके यात्रिकाः सन्ति। १९७२ तमवर्षात् परं मनुष्यस्य प्रथमा चान्द्रयात्रा भवत्येषा। चन्द्रावतरणमकृत्वा परिभ्रमणानन्तरं दशमे दिने दौत्यं शान्तसमुद्रं प्रत्यागमिष्यति।

 तैलदानं कृतवते भारताय श्रीलङ्कायाः कृतज्ञता। 

कोलम्बो> पश्चिमेष्या युद्धस्य आधारेण तैलेन्धनक्लेशम् अनुभूतवते श्रीलङ्काराष्ट्राय तैलदानेन साह्यं कृतवते भारताय श्रीलङ्कायाः राष्ट्रपतिः अनुर कुमार दिसनायकः कृतज्ञतां व्याहरत्। 

  २०,००० टण् मितं डीसल्, १८,००० टण् मितं पेट्रोलतैलम् अभिव्याप्य ३८,००० टणानाम् इन्धनं भारतात् शनिवासरे कोलम्बो स्वीचकार।

Thursday, April 2, 2026

 इट्टलीरहितविश्वचषकपादकन्दुकम्। 

क्षमताचक्रे बोस्नियादलेन पराजितम्। 

मिलान्> विश्वचषकक्षमताचक्रे पुनरपि इट्टलीदलस्य सन्तापाश्रू! 'यूरोप्यन् प्ले ओफ् फैनल्' (European play off final) Itinerary बोस्निया हेर्सेगोविना इति अस्तित्वमात्रराष्ट्रं प्रति त्वरितलक्ष्यवेधप्रकरणे [Penalty shoot out] इट्टल्याः क्रीडासंघः पराजितः सन् विश्वचषकक्षमताचक्रात् बहिर्गतः। 

  यूरोपभूखण्डात् बोस्नियामतिरिच्य चेक् रिपब्लिक्, स्वीडनं,तुर्की इत्येते दलाः अपि योग्यतां प्रापुः।

Wednesday, April 1, 2026

 मनुजः पुनरपि चन्द्रमुपगच्छति।

आर्टिमिस् - २ विक्षेपणं श्वः। 

वाषिङ्टणः> १९७२ तमवर्षस्य अप्पोलो १७ दौत्यस्यानन्तरं मनुजं पुनरपि चन्द्रमण्डलं प्रापयितुं कृतस्य यत्नस्य अंशतया नासासंस्थायाः आर्टिमिस् - २ गुरुवासरे विक्षिप्यते। फ्लोरिडायां केन्नडी बहिराकाशकेन्द्रात् बुधवासरे सायं ६. २४ वादने [भारतसमयानुसारं गुरुवासरे प्रत्युषसि ३. २४] पेटकस्य विक्षेपणं विधास्यति। पेटके चत्वारः सञ्चारिणः च भविष्यन्ति। चान्द्रभ्रमणपथेन प्रदक्षिणं कृत्वा एप्रिल् दशमे दिनाङ्के भूमिं प्रतिनिवर्तिष्यन्ते। २०२८ तमवर्षस्य 'आर्टमिस् - ३' परियोजनायां भवेत् मनुजस्य चन्द्रावतरणम्।

 एष्याचषकपादकन्दुकक्षमताचक्रं

अन्त्यस्पर्धायां भारतस्य आश्वासविजयः। 

विजयानन्तरं रयान् विल्यंसः (वामे)आकाश मिश्रेण सह आह्लादति। 

कोच्चि> एष्याचषकपादकन्दुकात् बहिर्गतमपि क्षमताचक्रस्य अन्तिमे प्रतिद्वन्द्वे होङकोङं विरुध्य भारतस्य आश्वासविजयः। स विजयः भारतीयपादकन्दुकवहायसि नूतनस्वप्नान् सफलीकर्तुं पक्षमदात् च। एकं विरुध्य लक्ष्यकन्दुकद्वयेनैव भारतस्य विजयः। 

  राष्ट्रियसंघाय प्रथमतया क्रीडितवान् भारतवंशजः आस्त्रेलियीयः रयान् विल्यंसः, आकाश मिश्रः इत्येतौ भारताय लक्ष्यकन्दुकं सम्पादितवन्तौ। एवर्टण् कमार्गो नामकः होङ्कोङ्गाय आश्वासलक्ष्यं प्राप्तवान्।