OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 17, 2017

धनपत्रनिरोधनं जि. एस्. टि. इत्येतच्च प्रशंसयन् राष्ट्रपतिः।
नवदेहली>राष्ट्रपतित्वेन स्वस्य प्रथमस्वातन्त्र्यदिनप्रभाषणे रामनाथकोविन्द: धनपत्रनिरोधनं जि. एस् . टि इत्येतच्च प्रशंसितवान् । सप्ततितमे स्वतन्त्रतादिने सः राष्ट्रम् अभिसंबोध्य स्वच्छभारतपद्धतिं च श्लाघित्वा अभाषत। असहिष्णुताम् आक्रमणं च विरुद्ध्य गतवर्षे स्वतन्त्रतादिने भूतपूर्वराष्ट्रपतेः प्रणब् मुखर्जिमहाशयस्य भाषणं वार्तैवासीत् ।

सप्ततितमस्वतन्त्रतादिनाच रणवेलायां राष्ट्रस्य दरिद्राणां ग्रामाणां च विकासः इति लक्ष्यमेव स्वतन्त्रभारतम् इत्याशयप्रेरकम् अभवत्I राष्ट्रस्वतन्त्रतायै स्वजीवदातृ़न् प्रति वयं सदा ऋणीभूता: स्म:I सर्वकारेण स्वच्छभारतम् इति पद्धतिराविष्कृतापि परिसरशुचीकरणम्  अस्माकं प्रत्येकं जनानामुत्तरदायित्वमेव၊ सर्वकार: केवलं नियमनिर्माणं प्रबलीकरणं चैव साधयति। तन्नियमपालनं प्रत्येकं पौरस्यैव। सङ्कीर्णकरसंविधानपरिष्करणेनैव सर्वकार: जि. एस्. टि. इति प्रायोगीकृतवान्၊ जि. एस्. टि. अस्माकंदैनन्दिनजीवनस्य अंशीकरणं सर्वेषामस्माकम् उत्तरदायित्वमेव၊ नियतरूपेण  करनिक्षेपेण राष्ट्रनिर्माणे भागभाक्वं सर्वैः साध्यते၊

भ्रष्टाचारम्  अविहितधनं च विरुद्ध्य समरे सर्वेषां सहकार: अनिवार्यः एव। सत्ययुक्तस्य एकस्य समाजस्य सृजनस्य यत्नान् प्रबलीकर्तुम् धनपत्रनिरोध: उपकारकः अभवत्၊ अद्य भारतस्य लोकाङ्गीकारे धनपत्रनिरोधः एकं कारणमेव၊ सर्वकारपद्धतिगुणफलानि समाजे सर्वैः प्राप्तानीति निश्चेतुं सर्वे वयम् उत्तरदायिनः एवI २०२० तमे भविष्यमाणे टोक्यो ओलिंपिक्स् मध्ये लोकानां पुरतः अस्माकं शक्ति प्रकटनाय अन्यः अवसरः भवति। नूतनभारतस्य निर्माणम् अस्माकं सर्वेर्षां लक्ष्यमेव၊ तत्र दारिद्रयमिति एका अवस्था न स्यादित्यपि सः स्वभाषणे बोधयामास၊