मिलित्वा प्रवहन्तु अस्माकं नद्य:।।
नदीसंयोजनाय पञ्च दशांशं पञ्चाशत् लक्षं कोटीनाम् पद्धतिम् नरेन्द्रमोदिसर्वकार: प्राख्यापयत्। अतिवृष्टिम् अनावृष्टिम् च प्रतिरोद्धुम् राष्ट्रस्य महानदी: संयोजयितुमेव केन्द्रपद्धति:। प्रथमघट्टे षष्टिनदी: परस्परं संयोजयितुमेव सन्नद्ध: सर्वकार:। एतदर्थम् अनुमतिश्च दत्ता। केवलं वृष्टिमाश्रित्य कृषिरीतिम् निवारयितुम् अनेन साध्यम् च। सहस्राधिकवाट्मितां वैद्य़ुतिम् उत्पादयितुं पद्धति: सज्जीक्रियते।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, September 8, 2017
Thursday, September 7, 2017
गोरक्षकाणां नियन्त्रणमावश्यकम् -राज्यसर्वकारान् प्रति शीर्षन्यायालयस्य निर्देशः।
नवदिल्ली > गोरक्षकाणाम् आक्रमणानि स्थगयितुं राष्ट्रस्य सर्वेषु जनपदेषु उन्नतारक्षकाधिकारिणं रक्षाधिकारिरूपेण (Noddle officer) नियोक्तुं सर्वोच्चन्यायालयः राज्यसर्वकारान् निरदिशत्। गोसंरक्षकाणाम् अतिक्रमाणि स्थगयितुं स्वीकृतान् प्रक्रमान् स्पष्टीकृत्य सचिवमुख्यैः आवेदनपत्रं समर्पणीयमिति च न्यायालयेन निर्दिष्टम्।२०१७तमे संवत्सरे इतःपर्यन्तं २० आक्रमणानि प्रवृत्तानि। उत्तरप्रदेशः (१०), हरियाना (९), गुर्जरदेशः (६), कर्णाटका (६), मध्यप्रदेशः (४), दिल्ली (४), राजस्थान् (४)इत्येतानि राज्यानि आक्रमणे अग्रे वर्तन्ते।
क्रिक्कट् पर्यटनम् - सम्पूर्णविजयमाघुष्य भारतम्।
कोलम्बो > भारतक्रिक्कट्दलस्य श्रीलङ्कापर्यटने भारतस्य सम्पूर्णविजयः। क्रिक्कट् क्रीडायाः चरिते एकेनैव दलेन निकष-एकदिन-२०/२० स्पर्धानाम् अनवशिष्टविजयः प्रप्रथमः एव। पर्यटनस्य अन्तिमायां विंशति - प्रतिविंशति स्पर्धायामपि भारतं सप्तक्रीडकैः श्रीलङ्कां पराजयते स्म। निकषस्पर्धायां (३-०), एकदिनेषु (५-०)इति रीत्या परम्पराद्वयमपि हस्तगतप्राप्तं भारतं २०-२०स्पर्धामपि (१-०)इतिरीत्या आहत्य नवसु प्रतियोगितास्वपि विजयपताकां वीजयति स्म।
मुम्बैनगरे अग्निबाधा - मृताः षट्
मुम्बै> निर्माणप्रवर्तने आसीने अलये अग्नि बाध्या षट्जनाः मृताः। एकादशः व्रणिताः च। जुहु प्रदेशे अर्धरात्रौ एव अपघातः जातः। मृतदेहाः प्रत्यभिज्ञातुं न शाक्यन्ते इति आरक्षकैः उक्तम्। पाकवातककूप्याः विस्फोटनमेव अग्निबाधायाः कारणमिति प्राथमिकावेदनम्। स्थितिगतयः इदानीं नियन्त्रणाधीनम् इति आरक्षकैः विज्ञापितम्।
हतायाः माध्यमप्रवर्तिकायाः गौरी लंकेष् इत्यस्या: नेत्रे दानरूपेण प्रदत्ते।
बेंगलुरु > नालिकाशस्त्रेण हतायाः वरिष्ठमाध्यमप्रवर्तिकायाः गौरी लंकेष् इति नामधेयायाः नेत्रयोः दानं समभवदिति सोदरः इन्द्रजित् लङ्केशः असूचयत् । गौर्याः अभिलाषानुसारं विक्टोरिया- आतुरालये संपन्नया शस्त्रक्रियाद्वारा नेत्रयो: दानम् समभवदिति इंद्रेश: वार्तामध्यमानि अवदत् । बेंगलूरुस्थे चामराजश्मशाने एव गौरी लङ्केष् महोदयायाः मरणानन्तरक्रियाः सम्भवन्ति। सर्वेषां दर्शनं यथा शाक्यते तथैव मणानन्तरकर्मपद्धति: सज्जीकृता।
विद्यालयीयकलोत्सवेषु आपादचूडपरिवर्तनाय निर्देशः।
अनन्तपुरी > केरलस्य विद्यालयकलोत्सवस्य सारसंग्रहपरिष्करणाय एस् ई आर् टि समित्याः निर्देशः। कलोत्सवस्य मार्गनिर्देशानां समग्रं परिष्करणमेव निर्दिष्टम्। केचन निर्देशाः एवं - राज्यस्तरीयस्पर्धाभिः लभ्यमानाः अधिकाङ्काः एस् एस् एल् सि परीक्षामूल्यनिर्णयेन लभ्यमानैः अङ्कैः सह न योजयितव्याः। नृत्त-सङ्गीतस्पर्धासु वाचापरीक्षा आवश्यकी। निर्वाहकार्थेषु यत्र अमिताडम्बरं दृश्यते तादृशानां न्यूनाङ्कत्वम् आयोजयितव्यम्।
आगामिनि बुधवासरे आयोज्यमाने अध्यापकसंघटनासम्मेलने निर्देशानधिकृत्य चर्चा भविष्यतीति शैक्षिकविभागाधिकृतैः उक्तम्।
Wednesday, September 6, 2017
२.०९ लक्षं 'कम्पनी'नां पञ्चीकरणं केन्द्रसर्वकारेण निरुद्धम् ।
नवदिल्ली>भारतस्थ कम्पनीसंस्थायाः प्रञ्चीकरणेषु २.०९ लक्षसंख्याकानां कम्पनीनां पञ्चीकरणानि निरुद्धानि। प्रवर्तनमानदण्डानि पालयितुम् असमर्थानामेव पञ्चीकरणे पिधानं कृतम्। एवं २०९०३२ लक्षं कम्पनी संस्थाः पट्टिकायाम् अस्ति। एतेषां आर्थिक विनिमयानि नियन्त्रितुमपि केन्द्रसर्वकारेण क्रिया विधयः स्वीक्रियते।नामे एवप्रवर्तनं कृत्वा अनधिकृत धनविनिमयं कुर्वाणः केवलं पत्रेषु एव स्थीयमानान् संस्थायाः विरुद्ध्य अयं क्रियाविधयः इति आवेदनं क्रियते । अनियमेन मार्गोण धनविनिमये रताः इति सूचनायाः आधारेण सर्वेषां कारणं प्रदर्श्य पत्रं दातुं सन्दर्भः अदात् । किन्तु कर्यकारण बोधने एते असमर्था: इत्यनेन एतस्यानां निदेशकानां धनविनिमये प्रतिबन्धः भविष्यति। पुनःप्रवर्तनाय पुनरपि नूतनतया पञ्चीकरणं करणीयम्।
पञ्चीकरणनियमस्य २४८ (५) विभागस्य अनुशासनानुसारमासीत् केन्द्र सर्वकारेण क्रियाविधयः स्वीकृताः।
वरिष्ठा पत्रकारप्रवर्तका गौरी लङ्केष् भुषुण्डिप्रयोगेण हता।
बङ्गुलुरु > वरिष्ठा पत्रकारप्रवर्तका तथा लेखनकर्त्री गौरी लङ्केष् गोलिकाशस्त्रेण निहता। 'लङ्केष्' इति कन्नडादैनंदिनपत्रिकायाः सम्पादिका भवति।ह्यः रात्रौ उपाष्टवादने बङ्गुलुरु नगरे राजराजेश्वरी नगर् प्रदेशस्थे स्वकीयभवने आसीत् गौर्याः दारुणान्त्यम्। शिरसि उरसि च सप्तवारं गोलिकाप्रहारः कृत इति आरक्षकैः उक्तम्। प्रहारकः न प्रत्यभिज्ञातः। वर्गीयतां तीव्रहिन्दुत्वं च विरुध्य शक्तम् उपस्थापनं कृतवती आसीत् गौरी पूर्वम् कस्मिंश्चित् अपकीर्तिविषये दण्डं प्राप्तवती च।
Tuesday, September 5, 2017
आतङ्कवादं विरुध्य 'ब्रिक्स्' शिखरसम्मेलने
अध्यवसायः विजयीकृतः - भारतस्य नयतन्त्रविजयः।
सियामिन् > डोक्लामीयं सङ्घर्षमनुबन्ध्य ब्रिक्स् शिखरसम्मेलने अपि भारतस्य चीनाराष्ट्रं प्रति नयतन्त्रविजयः। पाकिस्थान् आस्थानभूतानाम् आतङ्कवादसंघटनानां नामानि परामर्श्य ब्रिक्स् राष्ट्रैः भीकरवादं विरुध्य निर्णीतविषयः विजयीकृतः। स्वकीयं मित्रराष्ट्रं पाकिस्थानं विरुध्य भीकरवादप्रवर्तनानि अधिकृत्य शिखरसम्मेलने उन्नीतुं चीनायाः विप्रतिपत्तिः आसीत्।किन्तु पाकिस्थान् केन्द्रीकृत्य प्रचाल्यमानानि तीव्रवादप्रवर्तनानि अधिकृत्य मौनं पालयतः चीनाराष्ट्रस्यापि सहयोगेन संयुक्तप्रस्तावं कर्तुंम् अशक्यत इति भारतस्य नयतन्त्रविजयः इति मन्यते।
पूर्वविज्ञापनं तृणवत्कृत्य मिसैल् परीक्षणैः सह उत्तरकोरिया अग्रे गच्छति।
सोल्> सेनाप्रतिक्रियाः भविष्यन्तीति अमेरिक्कायाः पूर्वसूचनां तृणवत्कृत्य उत्तरकोरिया। विश्वं चकितं कारितं आणवपरीक्षणात् परं भूखण्डान्तर बालिस्टिक मिसैलस्य परीक्षणे ते बद्धश्रद्धाः भवन्ति। तथा दक्षिणकोरिया अपि अणुवायुध परीक्षणानि करोति। एवं कोरिया सीमा पुनः संघर्षभरितं जातम्। द्वितीय विश्वयुद्धवेलायां अमेरिक्कया जप्पानस्य हिरोषिमायां पातितस्य लिट्टिल् बाई अणुवायुधस्य (१५ किलो टण्) अष्टगुण भारयुक्तस्य (१२० किलो टण्) हैड्रजन् अणुवायुधस्य परीक्षणं उत्तरकोरिया द्वारा कृतमिति विदग्धानां मतम्। विश्वस्य विभिन्न प्रान्तेषु स्थापितेषु भूकम्पमापिनीषु स्फोटनमिदं ६.३ तीव्रता रेखीकृता।
एवं दक्षिणकोरिया अपि दैर्घ्य भूतल मिसैलानां बालिस्टिक मिसैलानां च परीक्षणानि कृतानि। तथा अमेरिक्कायाः सहयोगेन तीव्रतरं प्रकटनं भविष्यतीति सूचना अपि दक्षिणकोरिया ददाति।
उत्तरकोरियायाः उपरोधान् अवगणय्य कृतं परीक्षणं ऐक्यराष्टसंघटनया अपलपितम्। राष्ट्रपतेः डोणाल्ट ट्रंपस्य अध्यक्षतायां योगं कृत्वा देशीय सुरक्षा सेनया अपि स्थितिविशकलनं कृतम्। अमेरिक्कां तथा सख्यराष्ट्रान् च प्रति उत्तरकोरिया भीषा कृता चेत् सेनाप्रतिक्रिया भविष्यतीति पेण्टगण् मेधाविना जयिंस् माट्टिस् पूर्वसूचना दत्तवान्।
Subscribe to:
Comments (Atom)
