OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, April 1, 2026

 मनुजः पुनरपि चन्द्रमुपगच्छति।

आर्टिमिस् - २ विक्षेपणं श्वः। 

वाषिङ्टणः> १९७२ तमवर्षस्य अप्पोलो १७ दौत्यस्यानन्तरं मनुजं पुनरपि चन्द्रमण्डलं प्रापयितुं यत्नस्य अंशतया नासासंस्थायाः आर्टिमिस् - २ गुरुवासरे विक्षिप्यते। फ्लोरिडायां केन्नडी बहिराकाशकेन्द्रात् बुधवासरे सायं ६. २४ वादने [भारतसमयानुसारं गुरुवासरे प्रत्युषसि ३. २४] पेटकस्य विक्षेपणं विधास्यति। पेटके चत्वारः सञ्चारिणः च भविष्यन्ति। चान्द्रभ्रमणपथं प्रदक्षिणं कृत्वा एप्रिल् दशमे दिनाङ्के भूमिं प्रतिनिवर्तिष्यन्ते। २०२८ तमवर्षस्य 'आर्टमिस् - ३' परियोजनायां भवेत् मनुजस्य चन्द्रावतरणम्।