OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, September 10, 2017

बंगलादेशिनः अनधिकृतप्रवेश: - अन्वेषणम् आरब्धम्। 
           कोच्ची> केरलं प्रतिबंगलादेशिनः अनुमतिपत्रं विना अनधिकृतप्रवेशस्य विषये एन्‌ ऐ ए संस्थया अन्वेषणम् आरब्धम्। केन्द्र-गुप्तान्वेषण विभागेन विशदांशान् सञ्चिन्वन्ति। राष्ट्रस्य आभ्यन्तर-सुरक्षयै भीषा एव बंगलादेशिमः आगमनम्‌। गतदिने अनुमतिपत्रं विना पञ्च त्रिंशत् बंगलादेशिनः मलप्पुरं जनपदस्य एडवण्णप्पार देशतः आरक्षकैः ग्रहीताः। केरले आगतानां भीकरदलबन्धः अस्तीति अनुमन्यते। बंगलादेशिनाम् आआगमनम् अधिकृत्य वर्षत्रयात् पूर्वं गुप्तान्वेषण विभागेन आवेदितं चेदपि राज्यस्तरीयारक्षकैः तत् तिरस्कृतम्। यथावत् अन्वेषणाभावेन कति जनाः आगताः इति न ज्ञायते। 

            एतादृशानां केरलेषु आनयनाय व्याज प्रत्यभिज्ञानपत्र-निर्माणाय च विशेषतया माध्यस्थ-संस्थाः प्रवर्तननिरताः सन्ति।
               अन्यराज्यस्य कर्मकराणाम् आवासस्थानदातृभिः समीपस्थे आरक्षकालये ऐतेषां प्रत्यभिज्ञानपत्राणि दादव्यानि इत्यस्ति चेदपि तन्न क्रियते इत्यनेन एतदपि अन्वेषणस्य बाधा भवति। सर्वदा एकत्र वासं न कुर्वन्ति इत्येतदपि बाधारूपेण तिष्ठति।
इर्मा प्रचण्डवातः फ्लोरिडा भीत्याम्। 
अस्य शतकस्य अधिकतर विनाशाय साध्यता।
           वाषिड्डण्> करीबियन् द्वीपेषु नाशं संसृष्ट्य अमेरिकन् सीमां लक्ष्यीकृत्य इर्मा र्रचण्डवातभीत्यां फ्लोरिडा। अस्य शतकस्य बृहत्तरं नाशाय इर्मा हेतू भविष्यतीति मन्यते। फ्लोरिडायां बृहत्यै वृष्ट्यै इर्मा हेतू भविष्यति। इर्मातः रक्षां प्राप्तुं सहस्रशः जनाः फ्लोरिडातः पलायनं कुर्वन्ति। वातावरण निरीक्षणकेन्द्राणि अधिकृताः च इर्मायाः प्रहरशेषिं अधिकृत्य पूर्वसूचनां अयच्छन्। करीबियन् द्वीपेषु बृहत्तरं नाशं कृत्वा एव इरमा फ्लेरिडा सीमायां प्राप्ता।

Saturday, September 9, 2017

सन्निष्ठालङ्घकानां विमानयात्रिकाणां यात्रानिषेधः। 
नवदिल्ली > विमानयात्रामध्ये ये सदाचारान् उल्लङ्घन्ति, ते समाजे यत्किमपि स्थानम् अलङ्कुर्वन्तः सन्तः अपि तेषां यात्रानिषेधम् आयोजयितुं केन्द्रव्योमयान-मन्त्रालयेन व्यवस्थाः रूपवत्कृताः।  विमानस्य अन्तः जायमानानाम् अपराधानामेव व्यवस्थाः बाधकाः भवेयुः। अपराधस्य तीव्रतामनसृत्य मासत्रयादारभ्य जीवपर्यन्तं यावत् यात्रानिषेधः भवेत्। विश्वे प्रथमतया एव विमानयात्रानिषेधाय येनकेनापि राष्ट्रेण व्यवस्थाः रूपवत्कृताः इति व्योमयानमन्त्रिणा अशोक गजपति राजुना उक्तम्।
    यात्रानिरासस्य व्यवस्थाः एवं सन्ति -
   प्रथमविभागे वाचा आक्रमणं - मासत्रयं यावत् यात्रानिषेधः भविष्यति। कायिकाक्रमणं द्वितीयविभागे अन्तर्भवति। षण्मासपर्यन्तं यात्रानिषेधः। प्राणभीषणाय प्रयतमानः आचारः, लैङ्गिकपीडनमित्यादयः तृतीयविभागे अन्तर्भवन्ति। संवत्सरद्वयादारभ्य आजीवनान्तं  निषेधः भविष्यति।
नीट् -समराः सर्वोच्चन्यायालयेन निरुद्धा:। 
 नवदेहली> नीट्परीक्षाविरुद्धसमराः सर्वोच्चन्यायालयेन निरुद्धाः। समरे भागभाज: नेतृन् बध्नातुं न्यायालयेन आदिष्टम् I  तमिल्नाडुदेशे अनितानामिकाया: दलिद्विद्यार्थिन्याः मरणसम्बन्धान्वेणनिवेदने एव न्यायालयादेशः। अनितायाः आत्माहुतिकारणस्य  न्यायालयीयान्वेषणाय एव निवेदनं समर्पितमासीत् । नीट् -परीक्षायां पराजितत्वात् अस्मिन् मासे प्रथमदिनाङ्के आत्महत्यां कृतवती अनिता द्वादशकक्षायाः अष्टनवतिप्रतिशतमङ्कान् प्राप्य उत्तीर्णा आसीत् । किन्तु नीट् परीक्षायामेकादशप्रतिशतमेवाङ्कान्  प्राप्तवती । तमिल्नाडुग्रामीणविद्यार्थिनां शिक्षां नीट्- परीक्षाफलं नाशयति इति सूचयित्वा सर्वोच्चन्यायालये पञ्जीकृते नीट्‌ व्यवहारे  अनिता भागिनी आसीत् ।
विद्यालयच्छात्राः जनं टि वि माध्यमे संस्कृत-वार्तावतारकाः।
कोच्ची > सम्प्रतिवार्ता नामिकया अन्तर्जालवार्ता पत्रिकया छात्रेषु संस्कृताभिमुख्योत्पादनम् उद्दिश्य अन्तर्जालद्वारा वार्ता-सम्प्रेषणम् आरब्धम् I  अस्यां वाहिन्यां भागग्रहीताः वार्तावतारकाः सर्वे विद्यालयच्छात्राः इत्येव विशेषता।   इदानीम् एतैः षट् पञ्चाशत्-वार्तासोपानानि प्रविष्टानि। एतस्याः वार्तावतारकेषु  चतस्रः वार्तावतारिकाः इदानीं जनं टि वि संस्थया आमन्त्रिताः । श्रीकृष्णपरमात्मनः जयन्तीमनुबन्ध्य एताभिः वार्ताः अवतारयिष्यन्ते। जनं-वाहिन्याः वार्तासंस्कृतनामके प्रतिदिनवार्ताकार्यक्रमे एव छात्र-वार्तावतारिकाणम् अवतारणम्। सेप्तम्बर्-मासस्य नवमदिनाङ्कात् आरभ्य त्रयोदशदिनाङ्कपर्यन्तं छात्राणं वाचनं  भविष्यति। गतशैक्षिकसंवत्सरे (२०१७ ) सर्वशिक्षाभियानेन आयोजिते राष्ट्रिय-सङ्गोष्ठ्याम् अस्य छात्र-वार्तासम्प्रेषण-कार्यक्रमस्य उत्तमशैक्षिकप्रवर्तानम् इति ख्यातिः लाब्धा आसीत्। वार्तावतारिका-रूपेण मीनाक्षी एन् वी, श्रीलक्ष्मीः जी, फात्तिमा मुण्डेत्त्, तारा जी एताः चिताः। एताः करलराज्यस्य विद्यालयेषु पठन्ति।
सम्प्रेषणसमयः सायं ५ वादनम्
Live Streaming - www.youtube
करीबियन् द्वीपसमूहं नाशयित्वा 'इर्मा' अमेरिक्कां लक्ष्यीकृत्य चरति। 
मारिगावो > करीबियन् द्वीपसमूहेषु संहारताण्डवं कुर्वति इर्मा नामकेन चक्रवातेन दश जनाः मृताः। मरणसंख्या परं वर्धिष्येत।
    द्वीपेषु अन्यतमः बार्बुडा द्वीपः वासाय अयोग्य अभवत्, इतरः सेन्ट् मार्टिन् द्वीपः पूर्णतया नाशप्रायः जातः इति च अधिकृतैरुक्तम्।
   अत्लान्टिक् समुद्रे प्रभूतस्य इर्मा चक्रवातस्य वेगः होरायां २८५ कि मी परिमितं भवति। इदानीं अमेरिक्कायाः फ्लोरिडां लक्ष्यीकृत्य सञ्चरतीति फेमानामिका संस्था पूर्वसूचनामदात्। जोर्जिया, हैती, क्यूबा, बहामस् इत्यादीनि राष्ट्राणि इर्मायाः सञ्चारपथे अन्तर्भवन्तीति सूच्यते।
भूखण्डान्तराग्निसायकेन उत्तरकोरियराष्ट्रस्य जन्मदिनोत्सवः
सोल् > अद्य कोरियराष्ट्रस्य स्थापकदिनमेव। सन्दर्भेऽस्मिन्  कोरियराष्ट्रेण  पुनरपि भूखण्डान्तराग्नि-सायकस्य परीक्षणं करिष्यति इति विचिन्तयन्ति। अत्युग्रस्फोटकशक्तीयुतः हैड्रजन् विस्फोटकेन गत दिने लोकान् भयचकितान् कृतवतः। अद्यापि एतादृश प्रवर्तनाय सज्जीकृताः कोरियः इति अनुमीयते।
राष्ट्रस्थापनायाः संवत्सरीयाघोषस्य प्रौढिवर्धनाय अद्य अथवा राष्ट्रस्थापनादिने (अक्तोबर् १०) वा सायक स्यपरीक्षणं भविष्यति इति आवेद्यते| राष्ट्रियदिनानि सामान्येन सैनिकशक्ति-प्रदर्शनाय उपयुज्यते । अधुनापि ईदृशः सन्दर्भ: अस्ति इति उह्यते राष्ट्रिय निरीक्षकैः।

Friday, September 8, 2017

गौरी लङ्केशस्य हत्या - सविशेषसङ्घेन अन्वेषणमारब्धम्। 
बेङ्गलुरु > वरिष्ठपत्रिकाकारायाः गौरी लङ्केशस्य हत्याप्रकरणे सविशेषसंघं रूवपत्कृत्य अन्वेषणम् आरब्धम्। इन्टलिजन्स् ऐ जी बी के सिंहस्य नेतृत्वे आरक्षकसङ्घः राजराजेश्वरीनगरस्थे गौरी लङ्केशस्य गृहं प्राप्य प्रमाणानि समकलयत्। गृहस्थे सि सि टि वि दृश्यानि स्वीकृत्य तस्याः जङ्गमदूरवाणीमपि अन्वेषणङ्घः अध्यगच्छत्।
    साध्यताद्वयं आरक्षकैः परिशोधते। तीव्रहिन्दुसंघटनानां गौर्यां प्रति विरोधः, मावोवादिषु कस्यचन विभागस्य गौर्यां प्रति प्रतीकारचिन्ता आसीदिति सहोदरस्य उक्तिप्रकाशनं च।
बीहारे प्रादेशिकपत्रकारस्य गोलिकाप्रहरः। 
पाट्ना > बीहारराज्ये हिन्दीदैनंदिनपत्रिकायाः राष्ट्रियसहारायाः  प्रादेशिकलेखकः आर्वाल् स्वदेशीयः पङ्कज् मिश्रः भुषुण्डिप्रयोगेण व्रणितः। इदानीं पाट्ना वैद्यकलालयं प्रवेशितः अस्ति।
    द्वौ पुरुषौ  मिलित्वा एव आक्रमणमकुरुताम्। द्विचक्रिकायात्रावेलायां यानं स्थगयित्वा गोलिकाप्रहरः कृतः इति सूच्यते। अक्रमिद्वयोरेकः कुन्दन् कुमारनामकः आरक्षकैः प्रगृहीतः।
मुम्बई स्फोटनविषयः - द्वयोः मृत्युदण्डनम्। 
मुम्बई > १९९३ तमे संवत्सरे मुम्बई नगरे दुरापादिते विस्फोटनपरम्पराविषये द्वौ  अपराधिनौ  सविशेष'टाडा'न्यायालयेन  मृत्युदण्डनाय  विहितौ। फिरोस् अब्दुल् रषीद् खान्, ताहिर् मर्चन्ट् इत्येतयोः मृत्युदण्डः विहितः। अधोलोकनायकौ अबु सलिमः, करिमुल्ला खान् इत्येतयोः जीवनपर्यन्तं कारागारवासः विहितः। अन्यः अपराधी रियास् सिद्दिखी दशसंवत्सराणां कारागारवासः विहितः।
    १९९३ मार्च् द्वादशदिनाङ्के एव आराष्ट्रं भीतिजनकं विस्फोटनं प्रवृत्तम्। भारतस्य आर्थिकराजधान्यां मुम्बई नगर्यां १३ स्थानेषु कृतायां स्फोटनपरम्परायां २५७ जनाः हताः, ७१३ जनाः क्षताः च।