येन्चेङ्नामक लवणतडागस्य वर्णपरिवर्तनं सञ्जातम्।
बीजिङ् - चीनदेशस्थस्य प्रसिद्धस्य येन्चेङ्नामक लवणतडागस्य वर्णपरिवर्तनं सञ्जातम्। तडागैकभागस्य इदानीं पाटलवर्ण: (श्वेतरक्तवर्ण:),अपरभाग स्य हरितवर्णश्च । चीनदेशस्य मरणसागर: इति येन्चेङ्लवणतडाग: प्रसिद्ध: । 'डुनालिल्ल सलैन' इति आल्गायाः सन्निधिरेव येन्चेङ्तडागास्य पाटलवर्णस्य कारणम्। बहवः सन्दर्शकाः तडागस्य वर्णपरिवर्तनं द्रष्टुम् आगच्छन्ति। लोके सोडियंसल्फेट् इत्यस्य सान्निध्ययुक्तेषु त्रिषु अन्यतमःतडागः एषः ।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Saturday, September 23, 2017
Friday, September 22, 2017
बेङ्गलूरु-नगरे ‘द्वि-दिवसीय-संस्कृत-कार्यशाला’ सुसम्पन्ना
बेङ्गलूरु> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः ‘द्वि-दिवसीय-संस्कृत-कार्यशाला (स्तरः – I)’ हैदराबाद् नगरस्य प्रसिद्धेन भाषावैज्ञानिकेन डॉ. वाई.एन्. राव्-महोदयेन 2017-वर्षस्य सेप्टेम्बर्-मासस्य नवम-दशम-दिनाङ्कयोः बेङ्गलूरु-नगरे (कर्नाटक-राज्ये, भारते) ‘सायि विश्राम् होटल्’-परिसरे सुसम्पन्ना।
कार्यशालायां बेङ्गलूरु-हुविनहदगलि-टूटिकोरिन्-हैदराबाद्-नगरेभ्यः विंशति-प्रतिभागिनः (पुरुषाः महिलाः बालाश्च) भागं गृहीतवन्तः।
एतस्याः कार्यशालायाः दिनद्वयस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः अभ्यासः इत्यादीनि वैज्ञानिकदृष्टिकोण-द्वारा पाठितानि। केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि संस्कृतेन विशेषरूपेण पाठितम्। श्रीमान् शक्तिवर्यः सम्भाषणसंस्कृत-वर्गाणां सञ्चालने सक्रिय-समर्थनं दत्तवान्।
अस्याः संस्कृत-कार्यशालायाः आरम्भः 2017-सेप्टेम्बर्-मासस्य नवम-दिनाङ्के प्रातः दशवादने त्रिवारम् ‘ॐ’ इति मन्त्रोच्चारणेन अभवत्। अन्ते निमेषं यावत् मौनमपि अनुष्ठितम्।
भारत ओसीस् राष्ट्रयोः मध्ये द्वितीयं एकदिनस्पर्धा - कुल्दीपस्य 'हाट्रिक्' विजयः
कोल्कत्ता > कुल् दीपं इव शक्तया रीत्या कन्दुकं प्रेषयितुं समर्थम् कन्दुकप्रेषकं आनीय तस्य शिक्षणे अध्ययनं कृते सत्यपि प्रयत्नः विफलः अभवत् । ओस्ट्रेलियाराष्ट्रं पुनरपि अत्भुतेन स्तब्धम्। कोल्कत्तायाम् आयोजिते भारत ओस्ट्रियराष्ट्रयोः द्वितीये एकदिनस्पर्धायाम् एव कुल्दीपस्य हाट्रिक् विजयः।Thursday, September 21, 2017
शबरिगिरि तीर्थाटनम्; निर्माणप्रवर्तनानि ओक्टोबर् मासे एव पूरणीयानि- केरलस्य मुख्यमन्त्री।
तिरुवनन्तपुरम् > शबरिगिरेः मण्डल मकरदीपमहोत्सवसम्बन्धिन्यः सर्वा: प्रवृत्तयः ओक्टोबर् मासे एव पूरणीयानीति मुख्यमन्त्री पिणराई विजय: निरदिशत्। शबरिगिरि उत्सवस्य पूर्वसज्जता: निरीक्षितुम् अनन्तपुर्याम् आयोजिते मेलने अध्यक्षपदम् अलङ्करोति स्म स:। विविधविभागानां संस्थानां च कृते अनिवार्यसाम्पत्तिकसुविधा ओक्टोबर् पञ्चदशाभ्यन्तरे दीयते। सप्तत्रिंशत् विश्रमकेन्द्राणि विकासयितुं निश्चितानि तानि एकमासाभ्यन्तरे पूर्णतया करणीयानि भवेयु: इति देवस्वं मन्त्री कटकंपल्लि सुरेन्द्र: अवदत्।
केरळेषु नवरात्रिकालीनस्य सङ्गीतोत्सवस्य अद्य सन्ध्यायाम् शुभारम्भः
![]() |
| ट्रिच्ची कश्यप् महेशस्य सङ्गीतार्चना - नेटुम्पाशेरी समीपे पोय्काट्टुशेरी श्रीकुरुम्बा देवालये। |
यू एन् स्थिराङ्गत्वम्; ट्रम्पं अनुभाव्य प्रतीक्षया भारतम्।
न्यूयोर्क्> ऐक्यराष्ट्रसङ्घटनम् परिष्कर्तुं यू एस् राष्ट्रपते: डोणाल्ड् ट्रम्पस्य निर्णयम् अनुभाव्य भारतम्, यू एन् रक्षासमित्यां स्थिराङ्गत्वमिति लक्ष्यं सार्थकम् भूयादिति प्रतीक्षायाम्। अधिकानि स्थिराङ्गानि संयोज्य यू एन् रक्षासमिति: परिष्करणीयेति भारतस्य चिरकालावश्यं, यू एस् इदानीन्तनविचाराश्च समानदिशि इति प्रतीक्षाया: कारणम्। यू एन् जनकीयसभासम्मेलने भागं वोढुम् आगता विदेशकार्यमन्त्री सुषमा स्वराज:, ह्य: यू एस् राष्ट्रपतिना ट्रम्पस्य आध्यक्ष्ये प्रवृत्ते उन्नततलयोगेपि भागं स्व्यकरोत्। यू एन् कार्यदर्शीप्रमुख: अन्टोणियो गुट्टेरसेन उन्नीयमानं यू एन् नवीकरणपद्धतिम् यू एसेन स्वागतीक्रियते इति श्वेतगृहवक्ता न्यवेदयत्। उभयकक्षिसहकरणम्, व्यापारसन्धीश्च दृढीकर्तुं पञ्चविदेशराष्ट्रप्रतिनिधिभिस्सह सुषमास्वराज: ह्य: मिलितवती। तुनीसिया, बहरैन्, लात्विया, यू ए ई, डेन्मार्क् एतेषां राष्ट्राणां विदेशकार्यमन्त्रिभिस्सहासीत् मेलनम्। बङ्गलादेशप्रधानमन्त्रिणा षेख् हसीनया सहापि सुषमा अमिलत्। किन्तु रोहिङ्ग्या अभयार्थिविषय: नैव चर्चित:। तन्मध्ये, ईजिप्त् राष्ट्रपति: अब्दल् फत्ता अल् सिसि इस्रायेल् प्रधानमन्त्री बेन्यामिन् नेतन्याहुना सह प्रथममेलनायापि यू एन् वेदिका अभवत्। मेखलाया: समाधानश्रमाणाम् भागत्वेन आसीदिदम् मेलनमिति पश्चात् विशदीकृतम्। पाकिस्थानप्रधानमन्त्री षाहिद् घाखान् अब्बासिश्च ह्य: न्यूयोर्कं प्राप्तवान्। कश्मीरविषय एव अधुनापि पाकिस्थानेन सभायाम् उन्नीयमानप्रधानप्रश्न: इति सर्वेषाम् मति:।
शारदीयनवरात्रपर्व अद्य प्रारभते
अद्य शारदीयनवरात्रपर्वणः प्राथमो दिवसः वर्तते, सर्वत्र भगवत्याः नवदुर्गास्वरूपस्यार्चनं विधीयते, श्राद्धलवः आबालवृद्धाः भूरिसंख्यायां देवालयेषु दर्शनाय भगवत्याः शैलीपुत्रिरूपस्य दर्शनाय समागताः सन्ति | कुत्रचित् देवालयानां पुरतः स्वच्छातायाः समुचितव्यवस्था नैव विहितास्ति | अधिशासी अधिकारीभिः नगराणां स्वच्छतायाः स्थितिः समीक्षिता |Wednesday, September 20, 2017
"आर्थिकमान्द्यं यथातथं" - सम्पद्व्यवस्था सुरक्षिता इति वादं निरस्य एस् बि ऐ।
मुम्बई > भारतस्य आर्थिकव्यवस्था सुरक्षितेति केन्द्रसर्वकारस्य अभिमतं निरस्य राष्ट्रस्य वरिष्ठतमः सार्वजनीनवित्तकोशः एस् बि ऐ। 'राष्ट्रे आर्थिकमान्द्यं सुस्थीयते। एतत्तु न क्षणिकं न तात्कािलिकम्।' वित्तकोशस्य गवेषणविभागेन कृते आवेदनपत्रे स्पष्टीकृतम्।मुद्रानिरोधः , पण्यसेवनकरसम्प्रदायस्य आयोजनं च राष्ट्रस्याभिवृद्धिं पश्चादगमयत् इत्यभिमतान् निरन्तरं प्रतिरुद्धमाने सन्दर्भे एव ईदृशं वृत्तान्तं बहिरागतम्। राष्ट्रस्य समग्राभ्यन्तरोत्पादनवृद्धिमानं [जि डि पि] ५.७% इति अधोगतमासीत्! किन्तु मान्द्यं केवलं साङ्केतिकमिति भाजपा दलाध्यक्षेण गतदिने प्रोक्तमासीत्।
किन्तु मान्द्यं न केवलं साङ्केतिकं किन्तु याथार्थ्यमिति एस् बि ऐ संस्थायाः आवेदनपत्रे सूचितम्।
मेक्सिको राष्ट्रे बृहत् भूचलनम्। ११९ हताः।
मेक्सिको सिट्टी- मेक्सिको राष्ट्रे ह्यः सञ्जाते अतिशक्तभूचलने ११९ जनाः हताः। रिक्टर सूचिकायां ७.१ रेखीकृते भूचलने मन्दिराणि छिन्नानि जातानि। केषुचित् मन्दिरेषु अग्निबाधा जाताः। तेषु जनाः वर्तन्ते इति अधिकृतैः उक्तम्। सहस्रशः जनाः गृहाणि कार्यालयान् च त्यक्त्वा वीथ्यां धावितवन्तः। मेक्सिको सिट्टीतः शत कि.मी दूरे प्यू एब्ला राज्यमस्ति भूकम्पस्य प्रभवस्थानम्। निरन्तरेण भूकम्पानि जाते अस्मिन् देशे अस्य मासस्य आदौ जाते भूकम्पे ६१ जनाः हताः अभवन्। सहस्राणां हननेन कुख्यातस्य १९८५ तमस्य भूकम्पस्य वार्षिकमासीत् ह्यः।
बाध्यता न स्वीक्रियते, साङ्केतिकविद्याविनिमयोपि नास्ति, सूचनया सह यू एस् संस्था:।।
नवदिल्ली>भारताय प्रतिप्रहररूपं निर्णयं स्वीकृत्य यू एस् प्रतिरोधसंस्था:। "भारते निर्माणम्" इति पद्धते: भागतया भारते निर्मीयमानयुद्धविमानानां साङ्केतिकविद्याविनिमयो न साध्य इति संस्था: व्यजिज्ञपन्। न केवलं तत्, निर्माणावसरे तत: परं वा जायमानानां दोषाणां दायित्वं च न स्वीक्रियन्ते इति संस्था: व्यक्तीकुर्वन्ति स्म। यू एस् आयुधनिर्माणसंस्था: यू एस् - भारत व्यापारविनिमयसमितीद्वारा प्रतिरोधमन्त्रालयम् प्रति प्रेषिते पत्रे एव एतत्सर्वं सूचितम्। प्रधानमन्त्रिण: अभिमानपद्धतिरेव "भारते निर्माणम् "इत्येतत्। कायिकक्षमतया सह राष्ट्रे विद्यमानविभवानां कार्यक्षमोपयोगश्च पद्धत्यां विभावितम्। किन्तु यू एस् संस्थानां विज्ञापनम् पद्धते: कृते प्रतिप्रहर: एव।
Subscribe to:
Comments (Atom)

