OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, September 10, 2017

बंगलादेशिनः अनधिकृतप्रवेश: - अन्वेषणम् आरब्धम्। 
           कोच्ची> केरलं प्रतिबंगलादेशिनः अनुमतिपत्रं विना अनधिकृतप्रवेशस्य विषये एन्‌ ऐ ए संस्थया अन्वेषणम् आरब्धम्। केन्द्र-गुप्तान्वेषण विभागेन विशदांशान् सञ्चिन्वन्ति। राष्ट्रस्य आभ्यन्तर-सुरक्षयै भीषा एव बंगलादेशिमः आगमनम्‌। गतदिने अनुमतिपत्रं विना पञ्च त्रिंशत् बंगलादेशिनः मलप्पुरं जनपदस्य एडवण्णप्पार देशतः आरक्षकैः ग्रहीताः। केरले आगतानां भीकरदलबन्धः अस्तीति अनुमन्यते। बंगलादेशिनाम् आआगमनम् अधिकृत्य वर्षत्रयात् पूर्वं गुप्तान्वेषण विभागेन आवेदितं चेदपि राज्यस्तरीयारक्षकैः तत् तिरस्कृतम्। यथावत् अन्वेषणाभावेन कति जनाः आगताः इति न ज्ञायते। 

            एतादृशानां केरलेषु आनयनाय व्याज प्रत्यभिज्ञानपत्र-निर्माणाय च विशेषतया माध्यस्थ-संस्थाः प्रवर्तननिरताः सन्ति।
               अन्यराज्यस्य कर्मकराणाम् आवासस्थानदातृभिः समीपस्थे आरक्षकालये ऐतेषां प्रत्यभिज्ञानपत्राणि दादव्यानि इत्यस्ति चेदपि तन्न क्रियते इत्यनेन एतदपि अन्वेषणस्य बाधा भवति। सर्वदा एकत्र वासं न कुर्वन्ति इत्येतदपि बाधारूपेण तिष्ठति।
इर्मा प्रचण्डवातः फ्लोरिडा भीत्याम्। 
अस्य शतकस्य अधिकतर विनाशाय साध्यता।
           वाषिड्डण्> करीबियन् द्वीपेषु नाशं संसृष्ट्य अमेरिकन् सीमां लक्ष्यीकृत्य इर्मा र्रचण्डवातभीत्यां फ्लोरिडा। अस्य शतकस्य बृहत्तरं नाशाय इर्मा हेतू भविष्यतीति मन्यते। फ्लोरिडायां बृहत्यै वृष्ट्यै इर्मा हेतू भविष्यति। इर्मातः रक्षां प्राप्तुं सहस्रशः जनाः फ्लोरिडातः पलायनं कुर्वन्ति। वातावरण निरीक्षणकेन्द्राणि अधिकृताः च इर्मायाः प्रहरशेषिं अधिकृत्य पूर्वसूचनां अयच्छन्। करीबियन् द्वीपेषु बृहत्तरं नाशं कृत्वा एव इरमा फ्लेरिडा सीमायां प्राप्ता।

Saturday, September 9, 2017

सन्निष्ठालङ्घकानां विमानयात्रिकाणां यात्रानिषेधः। 
नवदिल्ली > विमानयात्रामध्ये ये सदाचारान् उल्लङ्घन्ति, ते समाजे यत्किमपि स्थानम् अलङ्कुर्वन्तः सन्तः अपि तेषां यात्रानिषेधम् आयोजयितुं केन्द्रव्योमयान-मन्त्रालयेन व्यवस्थाः रूपवत्कृताः।  विमानस्य अन्तः जायमानानाम् अपराधानामेव व्यवस्थाः बाधकाः भवेयुः। अपराधस्य तीव्रतामनसृत्य मासत्रयादारभ्य जीवपर्यन्तं यावत् यात्रानिषेधः भवेत्। विश्वे प्रथमतया एव विमानयात्रानिषेधाय येनकेनापि राष्ट्रेण व्यवस्थाः रूपवत्कृताः इति व्योमयानमन्त्रिणा अशोक गजपति राजुना उक्तम्।
    यात्रानिरासस्य व्यवस्थाः एवं सन्ति -
   प्रथमविभागे वाचा आक्रमणं - मासत्रयं यावत् यात्रानिषेधः भविष्यति। कायिकाक्रमणं द्वितीयविभागे अन्तर्भवति। षण्मासपर्यन्तं यात्रानिषेधः। प्राणभीषणाय प्रयतमानः आचारः, लैङ्गिकपीडनमित्यादयः तृतीयविभागे अन्तर्भवन्ति। संवत्सरद्वयादारभ्य आजीवनान्तं  निषेधः भविष्यति।
नीट् -समराः सर्वोच्चन्यायालयेन निरुद्धा:। 
 नवदेहली> नीट्परीक्षाविरुद्धसमराः सर्वोच्चन्यायालयेन निरुद्धाः। समरे भागभाज: नेतृन् बध्नातुं न्यायालयेन आदिष्टम् I  तमिल्नाडुदेशे अनितानामिकाया: दलिद्विद्यार्थिन्याः मरणसम्बन्धान्वेणनिवेदने एव न्यायालयादेशः। अनितायाः आत्माहुतिकारणस्य  न्यायालयीयान्वेषणाय एव निवेदनं समर्पितमासीत् । नीट् -परीक्षायां पराजितत्वात् अस्मिन् मासे प्रथमदिनाङ्के आत्महत्यां कृतवती अनिता द्वादशकक्षायाः अष्टनवतिप्रतिशतमङ्कान् प्राप्य उत्तीर्णा आसीत् । किन्तु नीट् परीक्षायामेकादशप्रतिशतमेवाङ्कान्  प्राप्तवती । तमिल्नाडुग्रामीणविद्यार्थिनां शिक्षां नीट्- परीक्षाफलं नाशयति इति सूचयित्वा सर्वोच्चन्यायालये पञ्जीकृते नीट्‌ व्यवहारे  अनिता भागिनी आसीत् ।
विद्यालयच्छात्राः जनं टि वि माध्यमे संस्कृत-वार्तावतारकाः।
कोच्ची > सम्प्रतिवार्ता नामिकया अन्तर्जालवार्ता पत्रिकया छात्रेषु संस्कृताभिमुख्योत्पादनम् उद्दिश्य अन्तर्जालद्वारा वार्ता-सम्प्रेषणम् आरब्धम् I  अस्यां वाहिन्यां भागग्रहीताः वार्तावतारकाः सर्वे विद्यालयच्छात्राः इत्येव विशेषता।   इदानीम् एतैः षट् पञ्चाशत्-वार्तासोपानानि प्रविष्टानि। एतस्याः वार्तावतारकेषु  चतस्रः वार्तावतारिकाः इदानीं जनं टि वि संस्थया आमन्त्रिताः । श्रीकृष्णपरमात्मनः जयन्तीमनुबन्ध्य एताभिः वार्ताः अवतारयिष्यन्ते। जनं-वाहिन्याः वार्तासंस्कृतनामके प्रतिदिनवार्ताकार्यक्रमे एव छात्र-वार्तावतारिकाणम् अवतारणम्। सेप्तम्बर्-मासस्य नवमदिनाङ्कात् आरभ्य त्रयोदशदिनाङ्कपर्यन्तं छात्राणं वाचनं  भविष्यति। गतशैक्षिकसंवत्सरे (२०१७ ) सर्वशिक्षाभियानेन आयोजिते राष्ट्रिय-सङ्गोष्ठ्याम् अस्य छात्र-वार्तासम्प्रेषण-कार्यक्रमस्य उत्तमशैक्षिकप्रवर्तानम् इति ख्यातिः लाब्धा आसीत्। वार्तावतारिका-रूपेण मीनाक्षी एन् वी, श्रीलक्ष्मीः जी, फात्तिमा मुण्डेत्त्, तारा जी एताः चिताः। एताः करलराज्यस्य विद्यालयेषु पठन्ति।
सम्प्रेषणसमयः सायं ५ वादनम्
Live Streaming - www.youtube
करीबियन् द्वीपसमूहं नाशयित्वा 'इर्मा' अमेरिक्कां लक्ष्यीकृत्य चरति। 
मारिगावो > करीबियन् द्वीपसमूहेषु संहारताण्डवं कुर्वति इर्मा नामकेन चक्रवातेन दश जनाः मृताः। मरणसंख्या परं वर्धिष्येत।
    द्वीपेषु अन्यतमः बार्बुडा द्वीपः वासाय अयोग्य अभवत्, इतरः सेन्ट् मार्टिन् द्वीपः पूर्णतया नाशप्रायः जातः इति च अधिकृतैरुक्तम्।
   अत्लान्टिक् समुद्रे प्रभूतस्य इर्मा चक्रवातस्य वेगः होरायां २८५ कि मी परिमितं भवति। इदानीं अमेरिक्कायाः फ्लोरिडां लक्ष्यीकृत्य सञ्चरतीति फेमानामिका संस्था पूर्वसूचनामदात्। जोर्जिया, हैती, क्यूबा, बहामस् इत्यादीनि राष्ट्राणि इर्मायाः सञ्चारपथे अन्तर्भवन्तीति सूच्यते।
भूखण्डान्तराग्निसायकेन उत्तरकोरियराष्ट्रस्य जन्मदिनोत्सवः
सोल् > अद्य कोरियराष्ट्रस्य स्थापकदिनमेव। सन्दर्भेऽस्मिन्  कोरियराष्ट्रेण  पुनरपि भूखण्डान्तराग्नि-सायकस्य परीक्षणं करिष्यति इति विचिन्तयन्ति। अत्युग्रस्फोटकशक्तीयुतः हैड्रजन् विस्फोटकेन गत दिने लोकान् भयचकितान् कृतवतः। अद्यापि एतादृश प्रवर्तनाय सज्जीकृताः कोरियः इति अनुमीयते।
राष्ट्रस्थापनायाः संवत्सरीयाघोषस्य प्रौढिवर्धनाय अद्य अथवा राष्ट्रस्थापनादिने (अक्तोबर् १०) वा सायक स्यपरीक्षणं भविष्यति इति आवेद्यते| राष्ट्रियदिनानि सामान्येन सैनिकशक्ति-प्रदर्शनाय उपयुज्यते । अधुनापि ईदृशः सन्दर्भ: अस्ति इति उह्यते राष्ट्रिय निरीक्षकैः।

Friday, September 8, 2017

गौरी लङ्केशस्य हत्या - सविशेषसङ्घेन अन्वेषणमारब्धम्। 
बेङ्गलुरु > वरिष्ठपत्रिकाकारायाः गौरी लङ्केशस्य हत्याप्रकरणे सविशेषसंघं रूवपत्कृत्य अन्वेषणम् आरब्धम्। इन्टलिजन्स् ऐ जी बी के सिंहस्य नेतृत्वे आरक्षकसङ्घः राजराजेश्वरीनगरस्थे गौरी लङ्केशस्य गृहं प्राप्य प्रमाणानि समकलयत्। गृहस्थे सि सि टि वि दृश्यानि स्वीकृत्य तस्याः जङ्गमदूरवाणीमपि अन्वेषणङ्घः अध्यगच्छत्।
    साध्यताद्वयं आरक्षकैः परिशोधते। तीव्रहिन्दुसंघटनानां गौर्यां प्रति विरोधः, मावोवादिषु कस्यचन विभागस्य गौर्यां प्रति प्रतीकारचिन्ता आसीदिति सहोदरस्य उक्तिप्रकाशनं च।
बीहारे प्रादेशिकपत्रकारस्य गोलिकाप्रहरः। 
पाट्ना > बीहारराज्ये हिन्दीदैनंदिनपत्रिकायाः राष्ट्रियसहारायाः  प्रादेशिकलेखकः आर्वाल् स्वदेशीयः पङ्कज् मिश्रः भुषुण्डिप्रयोगेण व्रणितः। इदानीं पाट्ना वैद्यकलालयं प्रवेशितः अस्ति।
    द्वौ पुरुषौ  मिलित्वा एव आक्रमणमकुरुताम्। द्विचक्रिकायात्रावेलायां यानं स्थगयित्वा गोलिकाप्रहरः कृतः इति सूच्यते। अक्रमिद्वयोरेकः कुन्दन् कुमारनामकः आरक्षकैः प्रगृहीतः।
मुम्बई स्फोटनविषयः - द्वयोः मृत्युदण्डनम्। 
मुम्बई > १९९३ तमे संवत्सरे मुम्बई नगरे दुरापादिते विस्फोटनपरम्पराविषये द्वौ  अपराधिनौ  सविशेष'टाडा'न्यायालयेन  मृत्युदण्डनाय  विहितौ। फिरोस् अब्दुल् रषीद् खान्, ताहिर् मर्चन्ट् इत्येतयोः मृत्युदण्डः विहितः। अधोलोकनायकौ अबु सलिमः, करिमुल्ला खान् इत्येतयोः जीवनपर्यन्तं कारागारवासः विहितः। अन्यः अपराधी रियास् सिद्दिखी दशसंवत्सराणां कारागारवासः विहितः।
    १९९३ मार्च् द्वादशदिनाङ्के एव आराष्ट्रं भीतिजनकं विस्फोटनं प्रवृत्तम्। भारतस्य आर्थिकराजधान्यां मुम्बई नगर्यां १३ स्थानेषु कृतायां स्फोटनपरम्परायां २५७ जनाः हताः, ७१३ जनाः क्षताः च।
मिलित्वा प्रवहन्तु अस्माकं नद्य:।।
      नदीसंयोजनाय पञ्च दशांशं पञ्चाशत् लक्षं कोटीनाम् पद्धतिम् नरेन्द्रमोदिसर्वकार: प्राख्यापयत्। अतिवृष्टिम् अनावृष्टिम् च प्रतिरोद्धुम् राष्ट्रस्य महानदी: संयोजयितुमेव केन्द्रपद्धति:। प्रथमघट्टे षष्टिनदी: परस्परं संयोजयितुमेव सन्नद्ध: सर्वकार:। एतदर्थम् अनुमतिश्च दत्ता। केवलं वृष्टिमाश्रित्य कृषिरीतिम् निवारयितुम् अनेन साध्यम् च। सहस्राधिकवाट्मितां वैद्य़ुतिम् उत्पादयितुं पद्धति: सज्जीक्रियते।

Thursday, September 7, 2017

गोरक्षकाणां नियन्त्रणमावश्यकम् -राज्यसर्वकारान् प्रति शीर्षन्यायालयस्य निर्देशः। 
नवदिल्ली > गोरक्षकाणाम् आक्रमणानि स्थगयितुं राष्ट्रस्य सर्वेषु जनपदेषु उन्नतारक्षकाधिकारिणं रक्षाधिकारिरूपेण (Noddle officer) नियोक्तुं सर्वोच्चन्यायालयः राज्यसर्वकारान् निरदिशत्। गोसंरक्षकाणाम् अतिक्रमाणि स्थगयितुं स्वीकृतान् प्रक्रमान् स्पष्टीकृत्य सचिवमुख्यैः आवेदनपत्रं समर्पणीयमिति च न्यायालयेन निर्दिष्टम्।
    २०१७तमे संवत्सरे इतःपर्यन्तं २० आक्रमणानि प्रवृत्तानि। उत्तरप्रदेशः ‍(१०), हरियाना (९), गुर्जरदेशः (६), कर्णाटका (६), मध्यप्रदेशः (४), दिल्ली (४), राजस्थान् (४)इत्येतानि राज्यानि आक्रमणे अग्रे वर्तन्ते।
क्रिक्कट् पर्यटनम् - सम्पूर्णविजयमाघुष्य भारतम्।
कोलम्बो > भारतक्रिक्कट्दलस्य श्रीलङ्कापर्यटने भारतस्य सम्पूर्णविजयः। क्रिक्कट् क्रीडायाः चरिते एकेनैव दलेन निकष-एकदिन-२०/२० स्पर्धानाम् अनवशिष्टविजयः प्रप्रथमः एव। पर्यटनस्य अन्तिमायां विंशति - प्रतिविंशति स्पर्धायामपि भारतं सप्तक्रीडकैः श्रीलङ्कां पराजयते स्म।
    निकषस्पर्धायां (३-०), एकदिनेषु (५-०)इति रीत्या परम्पराद्वयमपि हस्तगतप्राप्तं भारतं २०-२०स्पर्धामपि (१-०)इतिरीत्या आहत्य नवसु प्रतियोगितास्वपि विजयपताकां वीजयति स्म।
मुम्बैनगरे अग्निबाधा - मृताः षट्
मुम्बै> निर्माणप्रवर्तने आसीने अलये अग्नि बाध्या षट्‌जनाः मृताः। एकादशः व्रणिताः च। जुहु प्रदेशे अर्धरात्रौ एव अपघातः जातः।  मृतदेहाः प्रत्यभिज्ञातुं न शाक्यन्ते इति आरक्षकैः उक्तम्। पाकवातककूप्याः विस्फोटनमेव अग्निबाधायाः कारणमिति प्राथमिकावेदनम्। स्थितिगतयः इदानीं नियन्त्रणाधीनम् इति आरक्षकैः विज्ञापितम्।
हतायाः माध्यमप्रवर्तिकायाः गौरी लंकेष् इत्यस्या: नेत्रे दानरूपेण प्रदत्ते।
बेंगलुरु > नालिकाशस्त्रेण हतायाः वरिष्ठमाध्यमप्रवर्तिकायाः गौरी लंकेष् इति नामधेयायाः नेत्रयोः दानं समभवदिति सोदरः इन्द्रजित् लङ्केशः असूचयत् । गौर्याः  अभिलाषानुसारं  विक्टोरिया- आतुरालये संपन्नया शस्त्रक्रियाद्वारा नेत्रयो: दानम् समभवदिति इंद्रेश: वार्तामध्यमानि अवदत् । बेंगलूरुस्थे चामराजश्मशाने एव गौरी लङ्‌केष् महोदयायाः मरणानन्तरक्रियाः सम्भवन्ति। सर्वेषां दर्शनं यथा शाक्यते तथैव मणानन्तरकर्मपद्धति: सज्जीकृता।
विद्यालयीयकलोत्सवेषु आपादचूडपरिवर्तनाय निर्देशः।
अनन्तपुरी > केरलस्य विद्यालयकलोत्सवस्य सारसंग्रहपरिष्करणाय एस् ई आर् टि समित्याः निर्देशः। कलोत्सवस्य मार्गनिर्देशानां समग्रं परिष्करणमेव निर्दिष्टम्।
    केचन निर्देशाः एवं - राज्यस्तरीयस्पर्धाभिः लभ्यमानाः अधिकाङ्काः एस् एस् एल् सि परीक्षामूल्यनिर्णयेन लभ्यमानैः अङ्कैः सह न योजयितव्याः। नृत्त-सङ्गीतस्पर्धासु वाचापरीक्षा आवश्यकी। निर्वाहकार्थेषु यत्र अमिताडम्बरं दृश्यते तादृशानां न्यूनाङ्कत्वम् आयोजयितव्यम्।
   आगामिनि बुधवासरे आयोज्यमाने अध्यापकसंघटनासम्मेलने निर्देशानधिकृत्य चर्चा भविष्यतीति शैक्षिकविभागाधिकृतैः उक्तम्।

Wednesday, September 6, 2017

२.०९ लक्षं 'कम्पनी'नां पञ्चीकरणं केन्द्रसर्वकारेण निरुद्धम् ।
नवदिल्ली>भारतस्थ कम्पनीसंस्थायाः प्रञ्चीकरणेषु २.०९ लक्षसंख्याकानां कम्पनीनां पञ्चीकरणानि निरुद्धानि। प्रवर्तनमानदण्डानि पालयितुम् असमर्थानामेव पञ्चीकरणे पिधानं कृतम्। एवं २०९०३२ लक्षं  कम्पनी संस्थाः पट्टिकायाम् अस्ति। एतेषां आर्थिक विनिमयानि नियन्त्रितुमपि केन्द्रसर्वकारेण क्रिया विधयः स्वीक्रियते।

नामे एवप्रवर्तनं कृत्वा अनधिकृत धनविनिमयं कुर्वाणः केवलं पत्रेषु एव स्थीयमानान्   संस्थायाः विरुद्ध्य अयं क्रियाविधयः इति आवेदनं क्रियते । अनियमेन मार्गोण धनविनिमये रताः इति सूचनायाः आधारेण सर्वेषां कारणं प्रदर्श्य पत्रं दातुं सन्दर्भः अदात् । किन्तु कर्यकारण बोधने एते असमर्था: इत्यनेन एतस्यानां निदेशकानां धनविनिमये प्रतिबन्धः भविष्यति। पुनःप्रवर्तनाय  पुनरपि नूतनतया पञ्चीकरणं करणीयम्।
पञ्चीकरणनियमस्य २४८ (५) विभागस्य अनुशासनानुसारमासीत् केन्द्र सर्वकारेण क्रियाविधयः स्वीकृताः।
वरिष्ठा पत्रकारप्रवर्तका गौरी लङ्केष् भुषुण्डिप्रयोगेण हता। 
बङ्गुलुरु > वरिष्ठा पत्रकारप्रवर्तका तथा लेखनकर्त्री गौरी लङ्केष् गोलिकाशस्त्रेण निहता। 'लङ्केष्' इति कन्नडादैनंदिनपत्रिकायाः सम्पादिका भवति।
     ह्यः रात्रौ उपाष्टवादने बङ्गुलुरु नगरे राजराजेश्वरी नगर् प्रदेशस्थे स्वकीयभवने आसीत् गौर्याः दारुणान्त्यम्। शिरसि उरसि च सप्तवारं गोलिकाप्रहारः कृत इति आरक्षकैः उक्तम्। प्रहारकः न प्रत्यभिज्ञातः। वर्गीयतां तीव्रहिन्दुत्वं च विरुध्य शक्तम् उपस्थापनं कृतवती आसीत् गौरी पूर्वम् कस्मिंश्चित् अपकीर्तिविषये दण्डं प्राप्तवती च।

Tuesday, September 5, 2017

आतङ्कवादं विरुध्य 'ब्रिक्स्' शिखरसम्मेलने
 अध्यवसायः विजयीकृतः - भारतस्य नयतन्त्रविजयः। 
सियामिन् > डोक्लामीयं सङ्घर्षमनुबन्ध्य ब्रिक्स् शिखरसम्मेलने अपि भारतस्य चीनाराष्ट्रं प्रति नयतन्त्रविजयः। पाकिस्थान् आस्थानभूतानाम् आतङ्कवादसंघटनानां नामानि परामर्श्य ब्रिक्स् राष्ट्रैः भीकरवादं विरुध्य निर्णीतविषयः विजयीकृतः। स्वकीयं मित्रराष्ट्रं पाकिस्थानं विरुध्य भीकरवादप्रवर्तनानि अधिकृत्य शिखरसम्मेलने उन्नीतुं चीनायाः विप्रतिपत्तिः आसीत्।
    किन्तु पाकिस्थान् केन्द्रीकृत्य प्रचाल्यमानानि तीव्रवादप्रवर्तनानि अधिकृत्य मौनं पालयतः चीनाराष्ट्रस्यापि सहयोगेन संयुक्तप्रस्तावं कर्तुंम् अशक्यत इति भारतस्य नयतन्त्रविजयः इति मन्यते।
पूर्वविज्ञापनं तृणवत्कृत्य मिसैल् परीक्षणैः सह उत्तरकोरिया अग्रे गच्छति।
सोल्> सेनाप्रतिक्रियाः भविष्यन्तीति अमेरिक्कायाः पूर्वसूचनां तृणवत्कृत्य उत्तरकोरिया। विश्वं चकितं कारितं आणवपरीक्षणात् परं भूखण्डान्तर बालिस्टिक मिसैलस्य परीक्षणे ते बद्धश्रद्धाः भवन्ति। तथा दक्षिणकोरिया अपि अणुवायुध परीक्षणानि करोति। एवं कोरिया सीमा पुनः संघर्षभरितं जातम्।
द्वितीय विश्वयुद्धवेलायां अमेरिक्कया जप्पानस्य हिरोषिमायां पातितस्य लिट्टिल् बाई अणुवायुधस्य (१५ किलो टण्) अष्टगुण भारयुक्तस्य (१२० किलो टण्) हैड्रजन् अणुवायुधस्य परीक्षणं उत्तरकोरिया द्वारा कृतमिति विदग्धानां मतम्। विश्वस्य विभिन्न प्रान्तेषु स्थापितेषु भूकम्पमापिनीषु स्फोटनमिदं ६.३ तीव्रता रेखीकृता।
एवं दक्षिणकोरिया अपि दैर्घ्य भूतल मिसैलानां बालिस्टिक मिसैलानां च परीक्षणानि कृतानि। तथा अमेरिक्कायाः सहयोगेन तीव्रतरं प्रकटनं भविष्यतीति सूचना अपि दक्षिणकोरिया ददाति।
     उत्तरकोरियायाः उपरोधान् अवगणय्य कृतं परीक्षणं ऐक्यराष्टसंघटनया अपलपितम्। राष्ट्रपतेः डोणाल्ट ट्रंपस्य अध्यक्षतायां योगं कृत्वा देशीय सुरक्षा सेनया अपि स्थितिविशकलनं कृतम्। अमेरिक्कां  तथा सख्यराष्ट्रान् च प्रति उत्तरकोरिया भीषा कृता चेत् सेनाप्रतिक्रिया भविष्यतीति पेण्टगण् मेधाविना जयिंस् माट्टिस् पूर्वसूचना दत्तवान्।
विद्याविश्वं नीतवन्तः।
        सप्तंबर पञ्च- आचार्यदिनम्। विज्ञानस्य अद्भुतविश्वं नीतान् विशिष्टाचार्यान् स्मर्तुं एकं दिनम्।
 विद्यायाः दीपं प्रज्वालितान् अस्माभिः न विस्मर्तव्यम्। विश्वे मूल्यतमं कार्यं विद्याविनिमयं मन्यते। पूर्वं आचार्याणां आयविषये चिन्ता एव नासीत्। ज्ञानिनां कृते सर्वं प्राप्तमासीत्।

 आचार्यदिनस्य आरंभः।
 डा. एस् राधाकृष्णस्य जन्मदिनं आचार्यदिनत्वेन आघुष्यते। १९६२ तमे वर्षे डा. राधाकृष्णस्य राष्ट्रपतित्वेन शासनवेलायां तस्य जन्मदिनस्य कतिपयदिनात् पूर्वं केचन छात्राः तस्य कार्यालयमागत्य अपृच्छन्। क्रीडाभिः गीतैः स्पर्धाभिः सह भवतः जन्मदिनाघोषं कुर्मः वा? भवानमपि अस्माभिः सह भवितव्यम् इति। हासेन क्रीडया केवलं वयं अघोषं कुर्मः इति न, एतत् दिनं मामिव अनेकानांआचार्याणां दिनत्वेन आघोषव्यमिति मम इच्छा। ततः प्रभृति अस्माकं राष्ट्रे आचार्यदिनं आघुष्यते।

 तत्वविचाराणां नृपः इति बर्णाट् रस्सल् डां राधाकृष्णं विशेषयति। भारतीयतत्वविचाराणां वैशिष्ट्यं सः लोकाय प्रदर्शयति स्म।
 १८८८ सप्तंबर पञ्च दिने तमिल्नाडुराज्यस्य तिरुत्तणी ग्रामे सः जन्म प्राप। छात्रान् गृहे पाठयित्वा सः जीवनं यापितवान् पठनं च कृतवान्। मद्रास् प्रसिटन्सी महाविद्यालये आचार्यत्वेन प्रारंभः। कोल्कत्ता महाविद्यालये ओक्स्फोर्ट् माञ्चस्टर महाविद्यालये च आचार्यः। आन्ध्रा विश्वविद्यालये बनारस् विश्वविद्यालये च कुलसचिवः,लीग् आफ् नेषन्स् प्रतिनिधिः, युनस्को निदेशकः एवं अनेकेषु स्थानेषु सः स्व प्रतिभां व्यक्तीकृतवान्। तेन १५० उपरि ग्रन्थाः रचिताः।
उत्तरकोरियेन युद्धं याच्यते। रक्षासमित्यां यू एस् राष्ट्रेण पूर्वसूचना दीयते।
न्यूयोर्क्> हैड्रजन् विस्फोटक परीक्षणेन विश्वस्य सुस्थितेः पुरतः भीषामुद्पाद्यमानं कोरियं विरुद्ध्य शक्तया रीत्या क्रियाविधयः स्वीकरणीयाः इति यू एन् राष्ट्रस्य निदेशः। न्यूयोर्क् स्थाने आयोजिते यू एन् रक्षा समितियोगे यू.एस् राष्ट्रस्य प्रतिनिधी निक्की हाले महाभागया एव कर्कश प्रतिक्रियायै अभ्यर्थिता ।
नयतन्त्रतलेषु उत्तराकोरियां स्वाधीनंकर्तुं श्रमं निरर्थकमिति निक्कि हाले महाभागया व्यक्तीकृतम्।  समस्या परिहारकालाः अतिक्रामिताः|  प्रतिक्षया स्थातुं कालः इदानीं नास्ति। अक्षमो भुत्वा तिष्टन् अस्ति इदानीम्। ते (उत्तरकोरिया) युद्धाय याच्यते। यूएस् युद्धं न वाञ्चति | किन्तु अस्माकं क्षमा सीमां उल्लङ्घ्य तिष्टति।  सर्वानपि सीमानुल्लंख्य युद्धाह्वानं कृत्वा तिष्टति कोरिया। विश्वशान्तये भीषायमानं कोरियां किम् जोङ् उन्नं विरुद्ध्य कर्काश प्रतिक्रिया झटित्येव कर णीया इति सा निरदिशत् ।

Monday, September 4, 2017

सर्वान् अनादृत्य उत्तरकोरियाराष्ट्रपतिः किम् जोङ् उन् - लोकराष्ट्राणि मिलितानि।
  नवदिल्ली> लोकराष्ट्राणाम् अवज्ञाम् ऐक्यराष्ट्रसभाया: उपरोधांश्च उल्लङ्घ्य उत्तरकोरियेन कृतम् हैड्रजन् स्फोटकपरीक्षणम् विमृश्य रूक्षविमर्शनेन सह यू एस् राष्ट्रपति: डोनाल्ड् ट्रम्प् आदय: लोकनेतार:। उत्तरकोरियेन एतावता कृतेषु आणवपरीक्षणेषु महत्तरम् भवति एतत्। रिक्टर् मापिकायाम् षट् दशांशं त्रीणि इति तीव्रतां मापितम् परीक्षणम् भूचलनस्यापि कारणमभवत्। पश्चात्तलेस्मिन् उत्तरकोरियां विरुद्ध्य रूक्षविमर्शनेन सह लोकराष्ट्राणि रङ्गं प्रविष्टानि। अमरीकाम् सम्बद्ध्य अतिशक्तभीषणं जनयन्ति उत्तरकोरियस्य वाच: प्रवृत्तयश्चेति, हैड्रजन् स्फोटकपरीक्षणमनुवर्त्य ट्रम्पेन ट्वीट् सन्देश: प्रेषित:। तेषां कृते आलम्बदायकम् अनन्यराष्ट्रं चैनाम् प्रत्यपि शक्ता भीषा लज्जावहश्चेति उत्तरकोरियस्य परिवर्तितेत्यपि ट्रम्प: असूचयत्। उत्तरकोरियाया: हैड्रजन् स्फोटकपरीक्षणम् भारतेनापि अतिशक्तभाषया अपलपितम्।
 दक्षिणकोरियस्य राष्ट्रिय सुरक्षासमित्या: सुप्रधानमेलने स्थिती: चर्चिता:। षष्ठवारमेव उत्तरकोरियेन आणवपरीक्षणं क्रियते। उत्तरकोरियस्य एकाधिपति: किम् जोङ् उन् नामकः हैड्रजन् स्फोटकेन सह तिष्ठन् चित्रं गतदिने बहिरागतम्। यू एस् राष्ट्रपति: डोणाल्ड् ट्रम्प् जप्पानस्य  राष्ट्रपतिना षिन्सो आबेन सह कृतां चर्चामनुवर्त्य एव उत्तरकोरियस्य प्रकोपनम्। गतदिने जाप्पानस्य उपरितल मिसैल् शस्त्रं प्रयुज्यापि उत्तरकोरियेन प्रकोपनम् सृष्टम्।  उत्तरकोरियायाम् अतीवप्राधान्ययुक्तघटना: यदा भवन्ति तदा केवलम् प्रत्यक्षीभूयमाना चतुस्सप्ततिवयस्का सरण्या: अवतारिका रि चुन् ही एव हैड्रजन् स्फोटकपरीक्षणवार्तां राष्ट्रम् व्यजिज्ञपत्।
मुखं प्रकाशयत् केन्द्रमन्त्रिमण्डलं - नवमुखानि नव। 
नवदिल्ली > केन्द्रमन्त्रिमण्डलस्य मुखं प्रशोभमानं प्रधानमन्त्री नरेन्द्रमोदी नवीनान् नवमन्त्रिणः संयोज्य मन्त्रिसभाम् व्यस्तारयत्। मोदी मन्त्रिमण्डलस्य तृतीयं पुनःसंघटनं भवत्येतत्।
      चत्वारः सहमन्त्रिणः शिष्टपदप्राप्ताः(केबिनट्) भूताः। निर्मला सीतारामः राष्ट्रस्य प्रथमा वनितारक्षामन्त्रिणी अभवत्। इतःपर्यन्तं वाणिज्य मन्त्रालयस्य सहमन्त्रिणी आसीत्। मोदीमन्त्रिमण्डले इदंप्रथमतया केरलाय प्रातिनिध्यमभवत्। अल्फोण्स् कण्णन्तानं विनोदसञ्चारमन्त्रालयस्य स्वतन्त्रपदप्रात्या  केरलस्य अद्वितीयः प्रतिनिधिः अभवत्।
उपभोक्तृ संरक्षणनियमः आपादचूडं परिष्क्रियते।
नवदेहली> राजीव् गान्धी सर्वकारेण १९८६ तमे आयोजिते उपभोक्तृसंरक्षणनियमः अधुना कालोचिततया परिष्क्रियते। परिष्करणपत्रं विना विलम्बम् अवतारयिष्यति मन्त्रिसभायाम्।
वर्षद्वथात् पूर्वं लोकसभायां समर्पिता आसीदियं नियमपत्रिका समूलं प्रतिगृह्य समग्रया रीत्या कालानुसृत-परिष्कारान् कृत्वा एव पुनरानयनम्। उपभोक्तृ-तर्कपरिहार-न्यायालयः, आयोगः च अनुवर्तिष्येते।

पूर्वकालीन-नियमस्य पञ्च परिष्काराणि निर्दिष्टानि। उपभोक्तृ मण्डले स्वाधीनतायै राष्ट्रस्तरे राज्यस्तरे च उपभोक्तृ-संरक्षणायोगाः, उत्पन्नबाध्यता, तर्क परिहार-माध्यस्थता, अप्रमाण विज्ञप्ति-प्रकाशनाय प्रतिक्रियाविधयः, ऑण् लैन् वाणिज्येषु नियमनिवेशनं च अनेन उद्दिश्यते।
सेवनदातृभिः उत्पन्नस्य निर्मातृभिः च गुणोत्कर्षविषये उत्तरदायित्वं स्वीकर्तव्यम्।