OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, April 17, 2022

भारतसर्वकारपरियोजनाः अधिकृत्य महती प्रश्नोत्तरी।

नवदिल्ली> भारतसर्वकारपरियोजनाः अधिकृत्य जनान् प्रबोधयितुम् आयोजिता 'सब् का विकास्' नामिका महती प्रश्नोत्तरी समारब्धा। अम्बेद्कर् जयन्ती दिने एव प्रधानमन्त्रिणा कार्यक्रमोऽयम् उद्घोषितः। कार्यक्रमेण अनेन जनान् अपि संयोज्य प्रशासननिर्वहणम् आविष्कर्तुं सर्वकारः सङ्कल्पयति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम् ।

Saturday, April 16, 2022

प्रधानमन्त्रिसंग्रहालयः राष्ट्राय समर्पितः। 

नवदिल्ली> भारतस्य १४ भूतपूर्वप्रधानमन्त्रिणां जीवनचरितं प्रवर्तनानि च अवतार्यमाणः प्रधानमन्त्रिसंग्रहालयनामकः प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितः। दिल्ल्यां तीन्मूर्तिभवने नेह्रूस्मारककौतुकागारस्य ग्रन्थशालायाः च समीपे १०,००० चतुरश्रपादपरिमिते विस्तारे एव नूतनः भवनसमुच्चयः निर्मितः। 

   राष्ट्रप्रगतये स्वतन्त्रतानन्तरं प्रवर्तिताः सर्वे सर्वकाराः सविशेषाणि योगदानानि अकुर्वन्निति उद्घाटनभाषणे प्रधानमन्त्री उक्तवान्।

किवौ आक्रमणं प्रबलीकरिष्यति इति रष्यः।

मोस्को/कीव्> युक्रैनं विरुध्य आक्रमणं तीव्रं करिष्यति इति रष्येण पूर्वसूचना प्रदत्ता। कृष्णसमुद्रे स्थिता रष्यस्य युद्धनौका जले निमज्जिता इति युक्रैनेन अभिप्रैतमासीत्। तत्पश्चादेव घटनेयम्। युक्रैनस्थे महानौकावेधाग्निबाणानां तथा अग्निबाणप्रतिरोधविधानानां च निर्माणयन्त्रागारोपरि क्रूस् अग्निबाणाक्रमणं कृतमिति रष्येण प्रोक्तम्। युक्रैनस्य राजधानीं कीवं लक्ष्यीकृत्य क्रियमाणानां अग्निबाणाक्रमणानां संख्या तीव्रता च वर्धयिष्यति इति पूर्वसूचना एव रष्येण प्रदत्ता।

Friday, April 15, 2022

 काश्मीरेषु भीकराक्रमणम्। बारमुल्ला प्रदेशे ग्राममुख्यः हतः।

श्रीनगरम्> काश्मीरेषु भीकराक्रमणम्। बारमुल्ला प्रदेशे ग्राममुख्यः भीकराणां गोलिकाप्रहरेण हतः। पतानस्य गोषबुग प्रदेशस्य ग्राममुख्यः मनसूर अहम्मदः एव  हतः। प्रदेशः सेनया बन्धितः। भीकराः सेनया अन्विष्टाः सन्तः। विगते दिने काश्मीरस्य षोपियाने आपन्ने सङ्घर्षे चत्वारः लष्कर् तोइब भीकरा: सेनया हताः। समीपकाले पुल्वामा प्रदेशे षोपियाने च कृतेषु भीकरप्रवर्तनेषु व्यापृताः एव इदानीं सेनया हताः।

 राष्ट्रम् अम्बेद्करजन्मदिनं समाचरत्। 

नवदिल्ली> भारतस्य राजनीतिसंविधानशिल्पिनः डा भीमरावु अम्बेद्करवर्यस्य १३१तमं जन्मदिनं राष्ट्रेण सादरम् अनुष्ठितम्

  संसद्परिसरे वर्तमानायां अम्बेद्करप्रतिमायां नेतारः पुष्पाञ्जलिं कृतवन्तः। राष्ट्रपतिः रामनाथकोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी, उपराष्ट्रपतिः एम् वेङ्कय्यनायिडुः, लोकसभाध्यक्षः ओम् बिर्ला, कोण्ग्रसः अध्यक्षा सोणियागान्धी इत्यादयः भागमभजन्त। 

  आराष्ट्रम् अम्बेद्करजयन्त्युत्सवाः विविधानां संघटनानामाभिमुख्ये समायोजिताः।

 'सन्तोष् ट्रोफी' पादकन्दुकक्रीडा श्वः आरभते। 

मलप्पुरम्> भारतस्य राष्ट्रिय-  पादकन्दुकक्रीडा 'सन्तोष् ट्रोफी' नामिका केरलस्य मलप्पुरं जनपदे श्वः आरभते।  श्वस्तनस्य प्रथमप्रतिद्वन्द्वः प्रभाते ९.३० वादने पश्चिमवंग-पञ्चाबयोः प्रतियोगितया आरप्स्यते। अन्तिमक्रीडा मेय् द्वितीयदिनाङ्के सम्पत्स्यते।

 बाह्याकाशयानानि पुनरुपयोक्तुं भारतीय अन्तरिक्षानुसन्धान-संस्था सज्जते।

विक्षेपणानन्तरं पूर्णतया नाशमुपगतानां यानानां स्थाने  अन्येषां सज्जीकरणाय कृतः प्रयत्नः अन्तिमपादे। भारतीयान्तरिक्षानुसन्धान-संघटनेन नूतनपदन्यासः क्रियते। विक्षेपदौत्यपूर्तीकरणानन्तरं प्रत्यागत्य अपरदौत्याय सज्जीकृतानि यानानि विलम्बं विना परीक्ष्यन्ते। एतत् प्रवृत्तिपथं आगमिष्यति चेत् उपग्रहविक्षेपणाय तथा अनुसन्धानाय च आवश्यकं  अधिकधनव्ययं  न्यूनीकर्तुं शक्यते इति प्रतीक्षते ।

Wednesday, April 13, 2022

पाकिस्थाने षहबास् षरीफः नूतनः प्रधानमन्त्री।

इस्लामबादः> पाकिस्थाने अविश्वासप्रस्तावस्योपरि सम्पन्ने मतदाने इम्रान् खानः बहिष्कृतः। विपक्षदलीयानां नेता 'पाकिस्थान मुस्लिम लीग्' इत्यस्य अध्यक्षः षहबास् षरीफः प्रधानमन्त्रिरूपेण प्रतियोगितां विना चितः। अनन्तरं सः शपथवचनं कृत्वा अधिकारं प्राप्तवान्। 

  राष्ट्रपतिः आरिफ् आल्वी देहास्वास्थेन कार्यक्रमेषु भागं न कृतवानित्यतः सभाध्यक्षः सादिख् सञ्जरानी शपथं कारितवान्। 

  भारतेन सह सौहार्दं सम्बन्धमिच्छतीति नूतनप्रधानमन्त्रिणा षहबासेन उक्तम्। काश्मीरप्रकरणे शान्तिपूर्णं परिहारमावश्यकमिति तेन सूचितम्।

 वृष्टिरनुवर्तिष्यते।

अनन्तपुरी> पञ्चदिनानि यावत् केरले मेघगर्जनयुक्ता वृष्टिः अनुवर्तिष्यते इति केन्द्र ऋतुविज्ञानीयविभागेन निगदितम्। तमिल्नाट् तटस्योपरि वर्तमानः चक्रवातावर्तः अधुनापि प्रबलः वर्तते। 

  केरलं, कर्णाटकं, लक्षद्वीपः इत्येतेषां तीरप्रदेशेषु प्रतिहोरायां ४० - ६० किलोमीटर् वेगेन वातप्रवाहोSपि भविष्यति।

Monday, April 11, 2022

 कोविड् -पञ्चराज्जानि प्रति जागरणनिर्देशः। 

नवदिल्ली> कोविड्प्रकरणानां वर्धने आशङ्कायां सञ्जातायां केरलमभिव्याप्य पञ्चभिः  राज्यैः जाग्रता पालनीया इति स्वास्थ्यमन्त्रालयेन निर्दिष्टम्। केरलेन सह दिल्ली, हरियानं, महाराष्ट्रं, मिसोरम् इत्येतेषु  राज्येषु रोगव्यापननिरोधाय प्रक्रमाः स्वीकरणीयाः इति निर्दिष्टम्।

 गुजराते कोविडस्य 'एक्स् ई' प्रभेदः। 

अहम्मदाबाद्> वडोदरां प्राप्ते मुम्बई नागरिके कोविडस्य ओमिक्रोण् 'एक्स् ई' इति उपप्रभेदः दृढीकृतः। 

  ६६ वयस्कः नागरिकः रोगान्मुक्तः जातः अपि अस्य प्रभेदस्य तीव्रव्यापनशक्तिमत्वात् तस्य संसर्गपट्टिकां सम्पादयितुं  सर्वकारेण यत्नः आरब्धः।

Sunday, April 10, 2022

 विषुवत्कालपूजार्थं शबरिगिरिः उद्घाटितः।

शबरिमला> मेषमासपूजार्थं शबरिगिरिमन्दिरस्य कवाटः उद्घाटितः। अद्य सायङ्काले पञ्चवादने मन्दिरस्य तन्त्रमुख्यः कण्ठरर् महेष् मोहनरस्य मुख्यकार्मिकत्वे मन्दिरस्य प्रधानार्चकः एन् परमेश्वरन् नम्पूतिरिवर्यः मन्दिरकवाटम् उद्घाट्य दीपान् प्रज्वालयत्। अनन्तरम् उपदेवतामन्दिराणां कवाटान् अपि उद्घाट्य दीपाः प्रज्वालयत् ।

भारते १८वयोधिकानां कृते कोविड्प्रत्यौषधस्य शक्तीकरणमात्राप्रदानमारब्धम्। 

नवदिल्ली> आभारतं ये नागरिकाः १८ वयः पूर्तीकृताः तेषां कृते कोविड्वाक्सिनस्य शक्तीकरणमात्रां दातुम् आरब्धम्। द्वितीयमात्रां स्वीकृत्य ९ नवमासानन्तरमेव प्रबलीकरणमात्रां स्वीकर्तुं शक्यते। पूर्वं यन्नामकस्य औषधस्य सूचीवेधः स्वीकृतः आसीत्, तन्नामकं औषधं एव शाक्तीकरणाय अथवा प्रतिरोधवर्धनाय स्वीकर्तव्यम्। निजीयस्वास्थ्यकेन्द्रेभ्यः मूल्यसमर्पणेनैव वाक्सिनस्वीकारः शक्यते। 

  तथा च प्रमुखवाक्सिनद्वयस्य मूल्ये च आकुञ्चनं विधत्तम्। कोविषील्ड्, कोवाक्सिन् इत्यनयोः औषधयोः मूल्यं २२५ रूप्यकाणि भविष्यति। पूर्वमनयोः मूल्यं यथाक्रमं ६००, १२०० च आसीत्। 

   किन्तु पूर्वमेव प्रबलीकरणमात्रामनूदिताः ६० वयोधिकाः, स्वास्थ्यप्रवर्तकाः इत्यादिनां कृते निश्शुल्कतया एव तृतीयं वाक्सिनं लब्धुमर्हति।

Saturday, April 9, 2022

 गुजराते कोविडस्य 'एक्स् ई' प्रभेदः।

अहम्मदाबाद्> वडोदरां प्राप्ते मुम्बई नागरिके कोविडस्य ओमिक्रोण् 'एक्स् ई' इति उपप्रभेदः दृढीकृतः। 

  ६६ वयस्कः नागरिकः रोगान्मुक्तः जातः अपि अस्य प्रभेदस्य तीव्रव्यापनशक्तिमत्वात् तस्य संसर्गपट्टिकां सम्पादयितुं सर्वकारेण यत्नः आरब्धः।

केरले वृष्टिः १२ तमपर्यन्तमनुवर्तिष्यते। 

अनन्तपुरी> केरले एप्रिल् १२तमदिनाङ्कपर्यन्तं मेघगर्जनैः सह तीव्रवृष्टिः भविष्यतीति केन्द्र-पर्यावरणविभागेन निगदितम्। द्वित्राणि दिनानि यावत् राज्यस्य विविधस्थानेषु वृष्टिः अनुवर्तमाना वर्तते। 

  अद्य सप्तसु दक्षिणजनपदेषु पीतजाग्रता उद्घुष्टा। वंगान्तरालसमुद्रे जातस्य न्यूनमर्दस्य प्रभावेणैव केरले वृष्टिः जाता।

 पाकिस्थाने अद्य अविश्वासप्रस्तावोपरि मतदानप्रक्रिया। 

इस्लामबादः> पाकिस्थानस्य राष्ट्रियसंसदि प्रधानमन्त्रिणम् इम्रानखानं विरुध्य अवतारितस्य अविश्वासप्रस्तावस्योपरि मतदानप्रक्रिया भविष्यति। देशी राष्ट्रियसभां शिथिलयितुं राष्ट्रपतिना आरिफ् आर्विना कृतं प्रक्रमं सर्वोच्चन्यायालयेन निरस्तमासीत्। मतदानप्रक्रिया आवश्यकीति नीतिपीठेन निर्दिष्टमासीत्। 

  मार्च् ८ तमे दिनाङ्गात् आरब्धस्य राजनैतिकानिश्चितत्वस्य अद्य विरामो भविष्यतीति प्रतीक्षते।

 प्रमुखपादकन्दुकक्रीडकः चिबुसोर् दिवङ्गतः।

अब> (नैजीरिया) १९८० संवत्सरकाले कोल्कत्तायाः क्रीडाङ्कणेषु पादकन्दुकप्रेमिणां मनांसि हठात् आकर्षन् विराजमानः नैजीरियायाः पूर्वतन - पादकन्दुकक्रीडकः चिबुसोर् न्वकन्म(५७) दिवङ्गतः। हृदयस्तम्भनमेव मरणकारणम् । अबायां स्वगृहे एव देहवियोगः अभवत् । चिबुसोरस्य सहक्रीडकः एमेक्का एसयुगो इत्याख्येन मरणवर्ता प्रतिवेदिता।

Friday, April 8, 2022

दशदिवसात्मक-सम्भाषण-शिबिरस्य समापनसमारोहस्य पालनम् अभवत्।

-वार्ताहरः वत्स देशराज शर्मा


>संस्कृतभारती,उत्कलप्रान्तस्य बलाङ्गीरजनपदपक्षतः गतदिने सर्वकारीय-महिला-महाविद्यालये दशदिवसात्मक-सम्भाषण-शिबिरस्य समापनसमारोहस्य पालनम् अभवत्। तत्र मुख्यातिथिरूपेण राजेन्द्रविश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षः मा.अमरेश्वरनाएकः ,मुख्यवक्तारूपेण संस्कृतभारतीउत्कलप्रान्तस्य प्रान्तसभापतिः मा.आयुष्मन्तषडङ्गी, सारस्वतातिथिरूपेण विद्याभूषणसंस्कृतमहाविद्यालयस्य संस्कृतवि

 केरलेषु कोविड् नियन्त्रणानि प्रत्याहृतानि। मुखावरणधारणं अनुवर्तनीयम्।

तिरुवनन्तपुरम्> केरलराज्ये कोविडस्य अतिव्यापनसन्दर्भे दुरन्त-निवारणनियमानुसारं दापितानि कोविड्नियन्त्रणानि प्रत्याहृतानि। गतद्विसंवत्सराःयावत् दापितानि नियन्त्रणानि प्रत्याहृत्य राज्यसर्वकारेण विज्ञापनं प्रकाशितम्। दुरन्तनिवारण नियमानुसारम् इतःपर्यन्तं दापितानि नियन्त्रणानि प्रत्याहृतानि । किन्तु केन्द्रस्वास्थ्यमन्त्रालयेन दापितान् नियमान् अनुसृत्य मुखावरणधारणं शुचित्वपालनं च अनुवर्तनीयौ।

मूल्यातिवर्धनं - सभाद्वयेऽपि कोलाहलः, सभास्थगनम्। 

नवदिल्ली> इन्धन-उर्वरक-अवश्यवस्तूनां मूल्यातिवर्धनं प्रतिषिध्य संसद्द्वये अपि विपक्षदलानां कोलाहले सभा स्थगिता। मूल्यवर्धनमधिकृत्य चर्चा करणीया इति विपक्षदलीयानामपेक्षा सभाध्यक्षाभ्यां निरस्ता। अतःविपक्षसदस्याः सभाकार्यक्रमान् बहिष्कृतवन्तः।

Thursday, April 7, 2022

 ९९% जनाः मलिनीकृतं वायुं श्वसिति - विश्वस्वास्थ्यसङ्घटनम् । 


>>विश्वस्मिन् प्रतिशतं ९९ जनाः मलिनीकृतं वायुं श्वसिति इति विश्व-स्वास्थ्य-सङ्घटनेन (WHO) उच्चते। अनेन कारणेन सहस्रशः जनाः मृतिवशं गच्छन्ति। आविश्वं मलिनवायुना निभृतं वर्तते इति गणनाम् उद्घाट्य उच्यते। दरिद्रराष्ट्रेषु भवति अधिकं मलिनीकृतमानम् । संवत्सरे 7000000 जनाः मलिनीकरणेन हताः मलिनीकरणाधिक्येन संसूचितेषु ५० नगरेषु ३५ नगराणि भारते एव वर्तन्ते इति २०२० संवत्सरस्य प्रतिवेदने सं सूचितम् अस्ति।

ऐ ऐ टि काण्पूराय १०० कोटिरूप्यकाणि इन्डिगो सहस्थापकेन प्रदत्तानि।

नवदिल्ली> राष्ट्रे काण्पूर् इन्ड्यन् इन्स्टिट्यूट् ओफ् टेक्नोलजि इति विख्याताय प्रमुखशिक्षासंस्थायै १०० कोटि रूप्यकाणि दानं कृत्वा विस्मयपात्रम् अभवत् इन्डिगो वायुमार्गस्य सह स्थापकः राकेष् गाङ्वालः। ऐ ऐ टि काण्पूरस्य पूर्वविद्यार्थी आसीत् गाङ्वालः। ऐ ऐ टि काण्पूरस्य निदेशकेन अभय् करण्डिकरेण विषयमिदं ट्वीट् कृतम् । ऐ ऐ टि स्कूल् ओफ् मेडिक्कल् सयन्स् आन्ट् टेक्नोलजि संस्थायाः विकासाय प्रदान मिदम् उपयोत्स्यति।

 वंगान्तरालसमुद्रे तापः वर्धते। 

कोच्ची> वंगान्तरालसमुद्रे तापः अधिकतया संवर्धते इत्यतः एव चक्रवातावर्तस्य अतिवृष्टेः च कारणमिति गवेषणफलम्। कोच्चीस्थे 'कुसाट् रडार् गवेषणकेन्द्र'स्य  शास्त्रज्ञः डो एम् जि मनोजकुमारः अमुं वृत्तान्तं व्यजिज्ञपत्। 

    मासद्वयाभ्यन्तरे त्रयः चक्रवातावर्ताः जाताः। पर्यावरणव्यतियानेनैव समुद्रे इदमतितापनम्। वंगान्तस्समुद्रे कतिचित्स्थानेषु  २९ - ३० डिग्रीपरिमितमेव तापः। साधारणतापात् ०.५ आरभ्य १डिग्रीपर्यन्तमधिकः भवति। हरितगृहवातकानाम् अमितसान्निध्यमेव भूतलतापवर्धनस्य कारणम्। अस्य वर्धिततापस्य ९३% समुद्रः एव स्वीकरोति। तस्यानन्तरफलमेव चक्रवातावर्ताः मेघगर्जनेन  सह वृष्टिः।

Wednesday, April 6, 2022

 श्रीलङ्कायां सर्वदलीयप्रशासनरूपीकरणं विफलं जातम्; राष्ट्रं निर्वाचनमवाप्नोति। 

कोलम्बो> श्रीलङ्कायां विपक्षदलानां निस्सहकरणेन सर्वदलीयप्रशासनरूपीकरणं विफलं जातम्। संसदः ४२ सदस्याः त्यागपत्रं समर्पितवन्तः इत्यतः गोताबय राजपक्से इत्यस्य सर्वकारः दुर्बलोऽभवत्। सामान्यनिर्वाचनात्  ऋते न अन्यः पदक्षेपः अस्ति इत्यवस्थां प्राप्नोति देशः। 

  २२५ अङ्गयुक्ते श्रीलङ्कासंसदि गोताबयसर्वकाराय १५० सदस्यानां सहयोगमासीत्। किन्तु ४२ सदस्यानां त्यागपत्रसमर्पणेन अंगबलं १०८ इति न्यूनीभूतम्। केवलभूरिपक्षाय ११३ सदस्यानां सहयोगः आवश्यकः।

Tuesday, April 5, 2022

 श्रीलङ्कायां राजपक्सेप्रशासनेन त्यागपत्रं समर्पितम्। 

कोलम्बो> आर्थिकसंकटेन श्रीलङ्कादेशे जनकीयप्रक्षोभे तीव्रे जाते प्रधानमन्त्री महिन्द राजपक्से इतरे मन्त्रिणश्च त्यागपत्रं समार्पयन्। राजपक्से सर्वकारं विरुध्य जनाः आपत्कालीनव्यवस्थां कर्फ्यूनामकं निरोधं च तृणवत्कृत्य वीथिं सम्प्राप्य प्रतिषेधं प्रकटितवन्तः आसन्। 

   अल्पकालिकरूपेण सर्वदलीयप्रशासनरूपीकरणाय प्रयत्नः आरब्ध इति सूच्यते।