OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, July 29, 2017

राममहोदयस्मारकसमित्या: पुरस्कार: अय्यम्पुषा हरिकुमाराय।
       कोच्ची>सर्वश्रेष्ठसंस्कृताध्यापकाय दीयमान: चोट्टानिक्करा राममहोदयस्मारकपुरस्कार: संस्कृताध्यापकाय तथा सम्प्रतिवार्ता अन्तर्जालवार्तापत्रिकाया:, अन्तर्जालशृङ्खलायाश्च मुख्यसम्पादकाय श्रीमते अय्यम्पुषा हरिकुमाराय। तेवरा सेन्ट् मेरीस् विद्यालयस्य अध्यापकोयम् संस्कृतभाषाप्रचारणाय 'सम्प्रतिवार्ता' नाम संस्कृतभाषा अन्तर्जालपत्रिकाम् आरब्धवान्। तत: विद्यालयीयछात्रान् संयोज्य अन्तर्जालवार्तावतरणं च प्रारब्धम्। सप्तदशोत्तरद्विसहस्रे राज्यस्तरीयोत्तमप्रवर्तनरूपेण सर्वशिक्षाभियानेन देशीयसङ्गोष्ठीम् प्रति चित: संरम्भ: अयम्। लोके इदंप्रथमतया एव छात्रा: (लघुबाला:) अन्तर्जालद्वारा वार्तां वाचयन्ति। संस्कृतभाषां नवमाध्यमै: अवतार्य भाषाप्रचारणे नूतनमार्ग: निर्मित: अनेन। एतादृशप्रवर्तनै: संस्कृतप्रचारणरङ्गे श्रद्धेयव्यक्ति: इति रूपेण पुरस्काराय एनं चितवन्त:। जुलै एकत्रिंशत्तमे सोमवासरे सायं त्रिवादने चोट्टानिक्करा सर्वकारीयोच्चविद्यालये प्रचाल्यमाने कार्यक्रमे अयम् पुरस्कृत: भविष्यति।

Friday, July 28, 2017

नितीष्कुमार: मुख्यमन्त्रिस्थानं त्‍यक्तवान्l बीहारराज्यस्थं महासख्यमिति दलं नष्टम्। 
पाटलीपुत्रम्-> अत्यन्तमुच्चैः घोषणेन रूपीकृतस्य महासख्यस्य नाशस्य पूर्णतां कृत्वा बीहारमुख्यमन्त्री नितीष्कुमारमहोदयः त्यागपत्रं  समार्पयत् । सख्यदलस्य लालुप्रसादयादवस्य R J D दलेन सह अभिप्रायभिन्नतायाः रूक्षत्वे एव त्यागपत्रं समर्पितम्।
     राजभवनमागत्य राज्यपालं केसरिनाथ्त्रिपाठिमहोदयं दृष्ट्वा नितीष्कुमारमहोदयः अप्रतीक्षमाणं त्यागपत्रं समर्पयति स्म। राजभवनप्रस्थानात्पूर्वम् J D U दलीयै: सह नितीष्महोदयः मिलितवानासीत्l देशीयराष्ट्रिये महच्चलनं कुर्वाणं भवति त्यागपत्रम् ।  मोदितरंगे अतिशक्तेपि तमतिक्रम्य एव रूपीकृतस्यास्य महासख्यस्य अधिकारः वर्षद्वयमपि सम्पूर्णतया न नीत: I रूक्षे अभिप्रायभिन्नत्वे सति' तत्परिहाराय महासख्यांगभूता कोण्ग्रस् दलाध्यक्षा सोणियागान्धी इत्यादयः प्रयत्नं कृतवन्तः । किन्तु सर्वः प्रयत्नः व्यर्थं गत:  इति अनेन त्यागपत्रेण ज्ञायते।
दोक्ला - डोवलः चीनस्य प्रतिनिधिना सह भाषणमकरोत्।
बैजिङ् > ब्रिक्स् मेलनाय बैजिङ्‌देशं आगतं चीनस्य स्टेट् कौण्सिलर् याङ् जियेषिना सह भारतस्य राष्ट्रिय उपदेष्टा अजित् डोवलः मिलितवान्। उभययोः राष्ट्रयोः प्रधानसमस्याः अधिकृत्य चर्चां कृतवन्तौ इति चीनस्य विदेशकार्य मन्त्रालयेन विज्ञापितम्l  मासान्तरेण सम्भूतान् सिक्किमस्य सीमायाम् जायमानान् संघर्षान् अनुवर्तमानायाम् अवस्थायाम् एतयोः मेलनं प्राधान्यमर्हतिI  ब्रिक्स् राष्ट्राणां उन्नतसुरक्षा उद्योगस्थैः सह डोवलः चीनस्य राष्ट्रपतिं चिङ् पिन् महोदयं मिलिष्यति।  मेलनं शुक्रवासरे भविष्यति।  ब्रिक्स् राष्ट्रदलस्य अध्यक्षः चीनः एव।
दोक्लतः भारत सैनिकानां निवर्तनं विना कापि चर्चा न भविष्यति इति चीनेन उक्तम् आसीत् तथापि नयतन्त्रतले चर्चां कर्तुं सन्दर्भः अस्ति।

Thursday, July 27, 2017

पैङ्कुलं दामोदरचाक्याचाक्यार् वर्यः निर्यातः। 
कोच्ची > सुप्रसिद्धः चाक्यार् कूत् इति पुराणकथाप्रवचनस्य, कूटियाट्टं संस्कृतनाटकाभिनयस्य च रंगाभिनेता तथा संस्कृत-तर्कशास्त्रपण्डितः पैङ्कुलं दामोदरचाक्यारः (८५) दिवंगतः। बङ्गलुरुमध्ये पुत्रीभवने संवत्सरत्रयं यावत् विश्रान्तजीवनं कुर्वन्नासीत्।
     कूटियाट्टं नामकं कलारूपं भुवनप्रशस्तं कर्तुं मुख्यभागभागित्वम् ऊढवान् दामोदरचाक्यारः बहुषु विदेशराष्ट्रेषु इदं कलारूपम् रंगमञ्चे प्रदर्शितवान्। कूटियाट्टे तस्य कुलपतेः पैङ्कुलं रामच्चाक्यारस्य शिष्योत्तमः आसीत्। पूमुल्लि नीलकण्ठन् नम्पूतिरिप्पाट् वर्यात् संस्कृते न्यायशास्त्रे च पाण्डित्यम् अवाप।
      केन्द्र सङ्गीतनाटक अक्कादमी, केरल सङ्गीतनाटक अक्कादमी पुरस्कारसहिताः शताधिकाः पुरस्काराः अनेन प्राप्ताः। अस्य भौतिकशरीरसंस्कारः केरले चात्तक्कुटं जन्मग्रामे स्वकीयकुटुम्बे गुरुवासरे क्रियते।
ब्रिटणे पेट्रोल्- डीसल् कार् यानानि निरुद्ध्यन्ते।
   लण्डन् >ब्रिटणे नूतननाम् पेट्रोल् - डीसल् कार् यानानां विक्रयणं निरुद्ध्यन्ते।  ब्रिटणे वर्धितम् पारिस्थितिकमलिनीकरणं निवारयितुमेव सर्वकारस्य दृढनियमः। चत्वारिंशदुत्तरद्विसहस्रे प्राप्ते राष्ट्रेस्मिन् नूतनानाम् पेट्रोल्- डीसल् कार् यानानां विक्रयणम् पूर्णतया निरोद्धुमेव सर्वकारेण लक्ष्यीक्रियते। विरलतया विद्युत्कोशै: धावन्ति हैब्रिड् कार् यानानि  जनवाहकानि अपि  निरुद्ध्यन्ते। अधुना क्रमातीतरीत्या वर्धितं वायुमलिनीकरणम् प्रतिवर्षंम् ब्रिटणे बहूनां जनानाम् प्राणानेवापहरन्तीति औद्योगिकगणना सूचयति। एतेन, समान्तरश्रेण्या  चत्वारिंशदुत्तरद्विसहस्रात्परं विद्युत् कार् यानानि एव ब्रिटणे नूतनतया विपण्याम् लब्धुमर्हन्ति। पद्धत्या: भागेन पारिस्थितिकमलिनीकरणनियन्त्रणाय पञ्चपञ्चाशदुत्तरद्विशतम् मिल्यण् पौण्ड् मितम् धनम् प्रादेशिकसमितिभ्य: दातुं निर्णय: स्वीकृत:इति पारिस्थितिकविभागस्य कार्यदर्शी न्यवेदयत्।

Wednesday, July 26, 2017

रामनाथकोविदः राष्ट्रपतिस्थानं स्वीचकार।
नवदेहली> भारतस्य चतुरदशतम राष्ट्रपतितया रामनाथकोविदः शपथं कृत्वा अधिकारं स्वीचकार।लोकसभायाः केन्द्रप्रकोष्ठे परमनीतिपीठ प्रधाननीतिज्ञः जे एस् कोहर् वर्य: शपथवाक्यम् उच्चार्य अदात्। के आर् नारायणानन्तरं राष्ट्रपतिपदवीं आगतः प्रथमः दलितः अस्ति रामनाथकोविदः। स्थानमेतत् अतीव विनयेन सहैव मया स्वीक्रियते, सर्वदा उत्तरदायित्वं वहामि, ऐ पी जे अब्दुलकलामस्य तथा प्रणाब मुखर्ज्याः च पन्था एव अनुचरामि इति तत्र सः अवदत्।
तमिळ् नाट् राज्ये 'वन्दे मातरं' निर्बन्धितम् अकरोत् ।
चेन्नै > तमिळ् नाट् राज्यस्य सार्वासु शिक्षासंस्थासु तथा निजीयसंस्थासु, वाणिज्य-व्यवसाय-संस्थासु च भारतस्य राष्ट्रियगीतं वन्देमातरम् आलपितुमदेशः मद्रास् उच्चन्यायालयेन प्रदत्तः।  अलपने वैक्लब्यमनुभूतेभ्यः निर्बन्धः नास्ति।  यूनाम् आधारेण एव राष्ट्रस्य भविष्यकालः इति न्यायालयेन उक्तम्।
संस्कृतभाषायाः आलपने  वैक्लब्यमनुभूतेभ्यः गानस्य तमिल्आङ्गलेयानुवादः सर्वकारस्य अन्तर्जालपुटेषु सर्वजनीनमाध्यमेषु च प्रकाशनीयः इति च न्यायालयेन सार्वजनिन-विज्ञप्तिनिदेशकः आदिष्टः।

Tuesday, July 25, 2017

बहुस्वरतां सहिष्णुतां  च स्मारयन् प्रणबस्य निवर्तनभाषणम्। 
नवदिल्ली > वाचिक-शारीरिकाक्रमणेभ्यः सामाजिकसंवादाः मुक्ताः भवितव्याः इति निवृत्तराष्ट्रपतिः प्रणब् कुमार् मुखर्जी। सहिष्णुता एव भारतस्य शक्तिस्रोतः। अतः राष्ट्रे बहुस्वरतायाः तथा सहिष्णुतायाः च सुस्थितिः आवश्यकीति दुरदर्शनद्वारा कृते तस्य कार्यनिवृत्तिभाषणे उक्तवान्।
अनर्हान् छात्रान् नैव विजयीक्रियते। केन्द्रमन्त्री प्रकाशजावेद्करः।
दिल्ली> समीचीनाध्ययनं विना उन्नतकक्ष्यां प्रति विजित्य गन्तुं न शक्यते|  पञ्चमकक्ष्यातः आरभ्य अष्टमकक्ष्या पर्यन्तं छात्रेभ्यः स्पष्टया रीत्या अध्ययनं अवश्यमेव। एतावत् कालं पठने कार्कश्यं नास्ति इत्यनेन छात्रेषु अनवधानताः अधिकतया सन्ति। प्रकाश् जावेदक्करेण नवीनं नियमं विधानसभायाम् अवतरितवान्। मार्च् मासे प्रचाल्यमाने परीक्षयाः पठनाधिगमस्य आधारः एव विजयस्य मानदण्डः। 'नीट्' परीक्षायां सर्वास्वपि भाषासु प्रश्नपत्राणि समान एव इत्यपि जावदेक्करेण उक्तम्l