OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 28, 2017

दोक्ला - डोवलः चीनस्य प्रतिनिधिना सह भाषणमकरोत्।
बैजिङ् > ब्रिक्स् मेलनाय बैजिङ्‌देशं आगतं चीनस्य स्टेट् कौण्सिलर् याङ् जियेषिना सह भारतस्य राष्ट्रिय उपदेष्टा अजित् डोवलः मिलितवान्। उभययोः राष्ट्रयोः प्रधानसमस्याः अधिकृत्य चर्चां कृतवन्तौ इति चीनस्य विदेशकार्य मन्त्रालयेन विज्ञापितम्l  मासान्तरेण सम्भूतान् सिक्किमस्य सीमायाम् जायमानान् संघर्षान् अनुवर्तमानायाम् अवस्थायाम् एतयोः मेलनं प्राधान्यमर्हतिI  ब्रिक्स् राष्ट्राणां उन्नतसुरक्षा उद्योगस्थैः सह डोवलः चीनस्य राष्ट्रपतिं चिङ् पिन् महोदयं मिलिष्यति।  मेलनं शुक्रवासरे भविष्यति।  ब्रिक्स् राष्ट्रदलस्य अध्यक्षः चीनः एव।
दोक्लतः भारत सैनिकानां निवर्तनं विना कापि चर्चा न भविष्यति इति चीनेन उक्तम् आसीत् तथापि नयतन्त्रतले चर्चां कर्तुं सन्दर्भः अस्ति।