OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 27, 2017

पैङ्कुलं दामोदरचाक्याचाक्यार् वर्यः निर्यातः। 
कोच्ची > सुप्रसिद्धः चाक्यार् कूत् इति पुराणकथाप्रवचनस्य, कूटियाट्टं संस्कृतनाटकाभिनयस्य च रंगाभिनेता तथा संस्कृत-तर्कशास्त्रपण्डितः पैङ्कुलं दामोदरचाक्यारः (८५) दिवंगतः। बङ्गलुरुमध्ये पुत्रीभवने संवत्सरत्रयं यावत् विश्रान्तजीवनं कुर्वन्नासीत्।
     कूटियाट्टं नामकं कलारूपं भुवनप्रशस्तं कर्तुं मुख्यभागभागित्वम् ऊढवान् दामोदरचाक्यारः बहुषु विदेशराष्ट्रेषु इदं कलारूपम् रंगमञ्चे प्रदर्शितवान्। कूटियाट्टे तस्य कुलपतेः पैङ्कुलं रामच्चाक्यारस्य शिष्योत्तमः आसीत्। पूमुल्लि नीलकण्ठन् नम्पूतिरिप्पाट् वर्यात् संस्कृते न्यायशास्त्रे च पाण्डित्यम् अवाप।
      केन्द्र सङ्गीतनाटक अक्कादमी, केरल सङ्गीतनाटक अक्कादमी पुरस्कारसहिताः शताधिकाः पुरस्काराः अनेन प्राप्ताः। अस्य भौतिकशरीरसंस्कारः केरले चात्तक्कुटं जन्मग्रामे स्वकीयकुटुम्बे गुरुवासरे क्रियते।