OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, September 15, 2017

इराख् राष्ट्रे भीकराक्रमणम्। पञ्चदश मृत्युः।
  बाग्दाद्> इराख् राष्ट्रे इस्लामिक भीकरैः कृतयोः आक्रमणयोः पञ्चदश जनाः हताः। नसिरियायां एकस्मिन् भोजनालये आगतः अग्निगोलविक्षेपणी धारिणा कृते अग्निगोलविक्षेपणे तथा समीपे जाते कारयानस्फोटने च जनाः मृताः।
  इराख् सेनया सह आक्रमणं कृतस्य षिया संस्थायाः गणवेषं धृत्वा एव भीकरैः आक्रमणं कृतमिति प्रतिवेदनानि वदन्ति। अशीति जनाः क्षतबाधिताः। मरणसंख्या इतोपि वर्धयेदिति सूचना।
सर्वेषां भारतीयानां कृते धन्यवादं प्रकाश्य फा. टोम्। 
वत्तिक्कान् > स्वस्य मोचनाय प्रार्थनां कृतवतां सर्वेषां भारतीयानां कृते धन्यवादं समर्पयामीति फादर् टोम् उष़ुन्नालिल् । वत्तिक्कानतः विदेशकार्यमनत्रिण्या सुषमास्वराजवर्यया सह दूरवाणीद्वारा भाषमाणे सन्दर्भे आसीत् तस्य कृतज्ञताप्रकाशनम्।
     भीकराः आत्मानं कस्मिंश्त्समये अपि अभिद्रोहं न कृतवन्त इति टोमः वार्ताहरान् प्रति उक्तवान्। "सार्धैकसंवत्सरं यावत् इस्लामिकभीकरैः सह वासः यातनापूर्णः अतिक्राम्यमानश्चासीत्। एकमात्रवस्त्रधारी आसम्। शरीरभारे न्यूने जाते भीकराः प्रमेहस्यौषधं दत्तवन्तः। वासशिबिराणि त्रिवारं परिवर्तितम्। त्रिवारमपि नयने निबन्ध्य एव नीतः"- स्वस्य बन्धितजीवनमधिकृत्य फादर् टोमः विशदीकृतवान्।
   इदानीं वत्तिक्काने स्थित्वा आरोग्य परिरक्षां कृत्वा एव स्वदेशं प्रति यात्रामधिकृत्य विचिन्त्यते इति तेनोक्तम्।
फादर् टोमस्य मोचनाय द्रव्यं न दत्तम् - वि के सिंहः। 
अनन्तपुरी > येमन् राष्ट्रे भीकरैः निगृहीतस्य वैदिकस्य टोम् उष़ुन्नालस्य मोचनाय मोचनद्रव्यरूपेण किमपि न दत्तमिति विदेशकार्यसहमन्त्रिणा वि के सिंहेनोक्तम्। तादृशं प्रचारणम् अाधाररहितमस्ति। नयतन्त्ररूपेण व्यवहारेणैव तस्य मोचनं साधितमिति स अवदत्।

Thursday, September 14, 2017

द्वयोः प्रधानमन्त्रिणोः मार्गसञ्चरणं चरितमारचयत्। 
अहम्मदाबाद् > राष्ट्रस्य प्रथमं युनेस्को पैतृकनगरमिति विख्याते अहम्मदाबादे गतदिने द्वौ प्रधानमन्त्रिणौ अनावृतेन यानेन मार्गसञ्चरणं कृतवन्तौ। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी जाप्पानस्य प्रधानमन्त्री षिन्सो आबे च वीथीप्रदर्शनमकुरुताम्।
   सबर्मति गान्धी आश्रमपर्यन्तम् अष्ट कि मी दूरमासीत् सञ्चलनम्। भारतीयवेषं धृत्वा जाप्पान् प्रधानमन्त्री तस्य पत्नी अक्किया आबे च नरेन्द्रमोदिना सह विवृतं यानमारोहतः स्म। उभयोः पार्शयोः विविधवेदिकासु राष्ट्रस्य सांस्कृतिक पारम्पर्यप्रख्याप्यमानाः कलाकार्यक्रमाः अवतारिताः। राष्ट्रद्वयोः पताकाः स्वीकृत्य छात्राः प्रदेशवासिनश्च वीथीपार्शौ अलङ्कृत्य प्रेक्षकाः अभवन्।

Wednesday, September 13, 2017

बाह्याकाशयात्रिकानां कृते नूतनं सुरक्षावस्त्रम्
स्पेस् एक्स् इति संस्थायाः अधिपः एलन् मस्क्  इत्यनेन प्रकाशितम्  इन्स्टग्रां चित्रेण आदर्शरूपस्य शिरस्त्राणयुतं सम्पूणरूपमेव दृष्टुं शक्यते । नासा संस्थया परिकल्पितं  VEHICULAR MOBILITY UNIT (EMU) आदर्शरूपम् एव इदानीं नासा संस्थयाः बाह्याकाश यात्रिकैः उपयुज्यते। अधुना अधिकाः न्यूनताः EMU मध्ये सन्तीति आवेदितः इत्यतः न्यूतनमिदं परीक्षणम्। बाह्याकाश-यात्रा-वस्त्रस्य उपभागसहितं विंशति पौण्ड् (pound) भारमानम् एव नूतनस्य आदर्शवस्त्रस्य भवति। पूर्वतन वस्त्रस्य भारः त्रिंशत् pound आसीत्। यत्र अत्यधिकं मर्दः भवति तत्र  गम्यते तदा यात्रिकानां सुविधा प्रदानाय भवति  वस्त्रस्य भारन्यूनता करणम्।  स्पेस् संस्थायाः कर्मकाराः मार् वल्, जोस् फर्णाण्टस्, मस्क् प्रभृतयः भवति नूतन बाह्याकाश वस्त्रस्य आविष्कर्तारः।  बाह्याकाश यात्रिकाणां कृते नूतन बाह्याकाशवस्त्रं परिकल्पितं  नासा संस्थया पूर्वं वार्ता प्रकाशितम् आसीत्। आगामी जूण् मासाभ्यन्तरे बाह्याकाशयात्रिकैः नूतनं बाह्याकाशवस्त्रं धृत्वा साध्यते इति नासा संस्थायाः प्रतीक्षा। 
वातावरणेन पुष्टिः वयनाट् गिरिप्रदेशो

वयनाट् जनपदस्य पूर्वमण्डलं पूर्णतया वृष्टिच्छायाप्रदेशरूपेण परिवर्तते इति तत्समम्बन्धाध्ययनेन सूच्यते। गतसंवत्सरत्रये एषु प्रदेशेषु महता प्रमाणेन वृष्टिन्यूनता अनुभूयते। व्यापकरीत्या अनुवर्तमानं वननशीकरणमेव अस्य कारणमिति अनुमन्यते। 
सामान्यतः द्विसहस्रमिल्ली मीटर् परिमिता वृष्टिः वयनाट् प्रदेशे लभ्यते स्म। किन्तु गतेषु त्रिषु संवत्सरेषु पञ्चविंशत्यधिकप्रतिशतम् इति रीत्या वृष्टिन्यूनता जनपदे अङ्कनीकृता। वयनाट् – गमनमार्गे यत्र पर्वतमार्गः भवति तत्र  पश्चिमभागे लभ्यमाना   समृद्धा वृष्टिः पूर्वदिशं लक्ष्यीकृत्य प्रवहन्त्या कबनीनदीद्वारा वृष्टिच्छायाप्रदेशः इति विख्यातः मुल्लन् कोल्ली , पुल्प्पल्ली इत्यादिमण्डलं प्राप्य जलसमृद्धिं करोति स्म। तेन भारतस्य  अत्यधिकवृष्टिप्रदेशेषु अन्यतमे लक्किटि प्रदेशे अपि  वृष्टिन्यूनता अङ्कनीकृता इत्यतः कबनीनद्यां जललभ्यता न्यूनीजाता। अनेन एषु वृष्टिच्छायाप्रदेशेषु अनावृष्टिः रूक्षः भवेदिति पर्यावरणविदग्धैः पूर्वसूचना दीयते। 
कृष्णमरीचितादि सुगन्धद्रव्याणाम् उत्पादने  अयं विषयः प्रतिकूलतया बाधेत।
फा. टोम् उष़ुन्नालिल् मोचितः। 
 
    रोम् > २०१६ मार्च् मासे भीकरैः अपहृतः केरलीयः क्रिस्तीयवैदिकः   फादर्. टोम् उष़ुन्नालिल् मुक्तः अभवत्। वत्तिक्कान् राष्ट्रनायकस्य मार्पाप्पावर्यस्य माध्यस्थ्येन एव मोचनं साधितम्।  एककोटिडोलर् मोचनद्रव्यरूपेण दत्वा एव तस्य मोचनम् अभवदिति श्रूयते।   इदानीं सः रोम् प्राप्तः इति बङ्गुलुरुस्थैः सलेष्यन् सभावक्तृभिः निगदितम्।
वेङ्ङरा उपनिर्वाचनम् ओक्टोबर् ११।
           नवदिल्ली > केरले मलप्पुरं जनपदस्थे वेङ्ङरा विधानसभामण्डले ओक्टोबर् एकादशदिनाङ्के उपनिर्वाचनं भविष्यति। मतगणना १५ -  तमदिनाङ्के विधास्यति। 
   निर्वाचनस्य विज्ञापनं शुक्रवासरे उद्घोष्यते। नामनिर्देशपत्रिकासमर्पणस्य अन्तिमं दिनं सेप्तम्बर् २२ भवति।  मुस्लीं लीग् दलस्य नेता पि के कुञ्ञालिक्कुट्टिवर्यः स्थानत्यागं कृत्वा लोकसभां चितः इत्यतः एव उपनिर्वाचनं विहितम्।

Tuesday, September 12, 2017

'पोप्पुलर् फ्रन्ट्' संस्थां विरुध्य प्रक्रमाय केन्द्रसर्वकारः।
               नवदिल्ली > 'पोप्पुलर् फ्रन्ट् ओफ् इन्डिया' [पि एफ् ऐ] नामकं संघटनं विरुध्य पदक्षेपाय केन्द्र गृहमन्त्रालयस्य पर्यालोचना। भीकरप्रवर्तनैः सह संस्थायाः सम्बन्धः अस्तीति एन् ऐ ए संस्थया समर्पितस्यावेदनपत्रस्य आधारे निरोधसहिताय व्यवहारोपक्रमाय आलोच्यते इति वार्ताहरेण पि टि ऐ दलेन निगदितम्।  किन्तु उक्तानि आरोपणानि सर्वाणि पोप्पुलर् फ्रन्ट् नेतृभिः निरस्तानि।
महन्नाशं वितीर्य इर्मा-वातः पुरो गच्छति।

           फ्लोरिडा> यु. एस्. राष्ट्रस्य मियामिदेशे महन्नाशं विधायैव इर्मा-वातः वाति स्म। मृत्युं गतेषु चतुर्षु रक्षाकार्ये व्यापृतः कश्चित् आरक्षकः अपि अन्तर्भवति । मियामिप्रदेशे षट्‌पञ्चाशत् लक्षं जनाः इदानीमपि विद्युच्छक्तिं विना जीवन्ति।  विभिन्नप्रदेशाः अपि सांक्रमिकरोगभीत्याम् एव सन्ति। इर्मा चक्रवातस्य तीव्रता न्यूनीभूय प्रथमविभागे  लघीभूता। तदन्तरे दुरन्तं लाभान्वितं कृत्वा मोषणं, बलात् अपहरणं च अधिकतया आवेदितं वर्तते।  जलोपप्लवभीतेः कारणात् अभयार्थिशिबिरे एव वसन्तु इति अधिकारिणः जनान् निर्दिष्टवन्तः। चक्रवातप्रसृतप्रदेशेभ्यः एतावत्  पर्यन्तं द्रुतशासनव्यवस्था न प्रतिस्वीकृता। अपि च इर्मानाशितप्रदेशस्थाः भारतीया: सुरक्षिताः इति केन्द्रसर्वकारेण  ज्ञापितम्। यु. एस्. राष्ट्रस्थस्य सर्वेभ्योपि राजदूतकार्यालयेभ्यः नियमकार्यविलम्बं परिहार्य स्वदेशं प्रति पारपत्रं  यात्राचीटिका च दीयेते इति भारतराजदूतकार्यालयेन सूचितम्।