OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 13, 2017

वातावरणेन पुष्टिः वयनाट् गिरिप्रदेशो

वयनाट् जनपदस्य पूर्वमण्डलं पूर्णतया वृष्टिच्छायाप्रदेशरूपेण परिवर्तते इति तत्समम्बन्धाध्ययनेन सूच्यते। गतसंवत्सरत्रये एषु प्रदेशेषु महता प्रमाणेन वृष्टिन्यूनता अनुभूयते। व्यापकरीत्या अनुवर्तमानं वननशीकरणमेव अस्य कारणमिति अनुमन्यते। 
सामान्यतः द्विसहस्रमिल्ली मीटर् परिमिता वृष्टिः वयनाट् प्रदेशे लभ्यते स्म। किन्तु गतेषु त्रिषु संवत्सरेषु पञ्चविंशत्यधिकप्रतिशतम् इति रीत्या वृष्टिन्यूनता जनपदे अङ्कनीकृता। वयनाट् – गमनमार्गे यत्र पर्वतमार्गः भवति तत्र  पश्चिमभागे लभ्यमाना   समृद्धा वृष्टिः पूर्वदिशं लक्ष्यीकृत्य प्रवहन्त्या कबनीनदीद्वारा वृष्टिच्छायाप्रदेशः इति विख्यातः मुल्लन् कोल्ली , पुल्प्पल्ली इत्यादिमण्डलं प्राप्य जलसमृद्धिं करोति स्म। तेन भारतस्य  अत्यधिकवृष्टिप्रदेशेषु अन्यतमे लक्किटि प्रदेशे अपि  वृष्टिन्यूनता अङ्कनीकृता इत्यतः कबनीनद्यां जललभ्यता न्यूनीजाता। अनेन एषु वृष्टिच्छायाप्रदेशेषु अनावृष्टिः रूक्षः भवेदिति पर्यावरणविदग्धैः पूर्वसूचना दीयते। 
कृष्णमरीचितादि सुगन्धद्रव्याणाम् उत्पादने  अयं विषयः प्रतिकूलतया बाधेत।