OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, August 6, 2025

 संस्कृत-सप्ताहस्य शुभारम्भः

  संस्कृत-भरती उज्जयिनी द्वारा अद्य संस्कृतसप्ताहस्य अवसरे दत्त अखाड़ा क्षेत्रे संस्कृत-सप्ताहस्य आरम्भःजातः। सर्वप्रथमं संस्कृति-वैदिक गुरुकुलं,श्री गर्गाचार्य-वैदिक-विद्यापीठस्य छात्राः वेदाचार्याः कार्यकर्तारः शोभायात्रायां संस्कृत-उद्घोषं कृत्वा रामघट्ट-क्षेत्रे-रामानुज-कोट-आश्रमे सम्मिलिताः अभवन्। 

    संस्कृतभारती उज्जयिनी विभागसंयोजकः धर्मदासःवैरागी,विभागसहसंयोजकः अपूर्वपौराणिकः, जिलाध्यक्षः रमेशनागरः महानगरमन्त्री सुभाषकुमावतः महाविद्यालयीनप्रमुखः राघवेन्द्र, विशालः गोस्वामी सामाजिक जनाः च उपस्थिताः आसन्।

Latest News

 डो एम् एस् स्वामिनाथजन्मशताब्दसम्मेलनं श्वः आरभ्यते। 


नवदिल्ली> भारतीयहरितान्दोलनस्य पितेति प्रख्यातस्य २०२३ तमे वर्षे दिवंगतस्य  कृषिशास्त्रज्ञस्य डो एम् एस् स्वामिनाथस्य जन्मशताब्दिमनुबन्ध्य आयोज्यमानम् अन्ताराष्ट्रियसम्मेलनं गुरुवासरे प्रधानमन्त्री नरेन्द्रमोदी नाषणल् अग्रिकल्चरल् आन्ड् सयन्सस् कोम्प्लक्स् [National Agricultural & Science Complex] इत्यत्र उद्घाटयिष्यति। 

  'नित्यहरितान्दोलनं -  जैवसन्तोषाय मार्गः' इत्यस्मिन् विषयमालम्ब्य सम्मेलनं आगस्ट् नवमदिनाङ्कपर्यन्तं भविष्यति।

 पुनरपि ट्रम्पस्य भीषा।

भारतस्य करं वर्धापयिष्यति।

न्यूयोर्क्> रूसदेशतः तैलेन्धनानयने भारतस्य निश्चये दृढे जाते २४ होराणामाभ्यन्तरे भारतस्य उपरि आयातकरं लम्बतया वर्धापयिष्यतीति यू एस् राष्ट्रपतिः  डोनाल्ड ट्रम्पः गतदिने पुनरपि भीषां प्राख्यापयत्।

 काश्मीराय राज्यपदवीं दातुं केन्द्रप्रशासनम्। 

नवदिल्ली> शासनसंविधानस्य ३७० तममनुच्छेदं निरस्य राज्यपदात् विमुच्य केन्द्रशासनप्रदेशरूपेण परिवर्तितस्य काश्मीरस्य राज्यपदवीं पुनस्स्थापयितुं केन्द्रप्रशासनेन प्रयत्नः  आरब्ध इति सूच्यते। तदर्थं विधेयकं संसदः प्रवर्तमाने सम्मेलने प्रस्तुतीकर्तुंमुद्दिश्यते। अतः आगामिमन्त्रिमण्डले विधेयकं समर्प्य अङ्गीकाराय यतते। अतीते रविवासरे सम्पन्नं प्रधानमन्त्रि-गृहमन्त्रिणोः राष्ट्रपतिना सह सन्दर्शनं काश्मीरप्रकरणमधिकृत्य आसीदिति वार्ता अस्ति। 

  २०१९ आगस्ट् पञ्चमे दिने आसीत् जम्मु काश्मीरस्य राज्यपदविनष्टः केन्द्रशासनप्रदेशरीत्या विभजनं च। २०२३ डिसम्बरमासे सर्वोच्चन्यायालयेन अङ्गीकृतमपि राज्यपदं यथाकालं पुनःस्थातव्यमिति निर्दिष्टमासीत्।  शुक्रवासरे सर्वोच्चन्यायालयः  प्रकरणमिदं परिगणयति च। अतः एषः वृत्तान्तः प्राधान्यमर्हति।

 भूतपूर्वः जम्मु-काशमीर राज्यपालः सत्यपाल मालिकः दिवंगतः। 


नवदिल्ली>  जम्मु-काशमीरस्य भूतपूर्वः राज्यपालः सत्यपाल मालिकः (७९) दिवंगतः। लोकसभायां राज्यसभायां च सदस्यः आसीत्। वृक्कसम्बन्धरोगेण दिल्ल्यां राममनोहर लोह्या आतुरालये परिचर्यायामासीत्। 

  यू पि प्रान्तीयः सत्यपालः बिहारं,गोवा, मेघालयः, ओडीशा इत्येषु राज्येष्वपि राज्यपालनपदमलङ्करोति स्म। यदा सः जम्मु-काशमीरे राज्यपालः तदा राष्ट्रसंविधानस्य ३७० तमविभागः निरस्तः काश्मीरस्य सविशेषाधिकारः  उपेक्षितः राज्यं द्वौ केन्द्रप्रशासनप्रान्तरूपेण  विभक्तं च। भा ज पा दलस्य तथा नरेन्द्रमोदिनः च आराधकः आसीत्। सोSयं ततः परं मोदिनः शक्तः विमर्शकः अभवत्।

 विश्वसंस्कृतप्रतिष्ठानस्य आभिमुख्ये

 संस्कृतसप्ताहाचरणम्। 

कोच्ची> संस्कृतभारत्याः केरलप्रान्तीयविभागस्य - विश्वसंस्कृतप्रतिष्ठानस्य - आभिमुख्ये संस्कृतदिनस्य अंशतया संस्कृतसप्ताहाचरणम् आयोज्यते। आगस्ट् षष्ठदिनाङ्कतः द्वादशदिनाङ्कपर्यन्तं प्रतिदिनं रात्रौ ८. ४५ वादनात् ९. ४५ वादनपर्यन्तं 'यू ट्यूब्' प्रणालीद्वारा विभिन्नविषयेषु संस्कृतविचारसभाः सम्पत्स्यन्ते। 

  प्रथमे दिने - आग. ६ - संस्कृतसप्ताहः किं, किमर्थम् इत्यस्मिन् विषये सभा प्रचाल्यते। आग. ७ गुरुवासरे 'संस्कृतं भारतीय विज्ञानपरम्परा च' इत्यस्मिन् विषये, आग. ८ शुक्रवासरे भारतीयन्यायसंहिता संस्कृतं च,  ततः यथाक्रमं 'स्वतन्त्रतासंग्रामः संस्कृतं च,   'कला, साहित्यं, संस्कृतं च, कैरली संस्कृतसाहित्यं च, 'संस्कृतम् एकतायाः सन्देशः' इत्येवं विषयेषु सभापरम्परा विधास्यते। 

  https://youtube.com/playlist?list=PLdooEMjTuMXbpaHMl8cXUfvq0Msq25Ifj&si=-YjcR_LJjFKKOKyy 

  इति प्रणालीद्वारा संस्कृतसप्ताहे भागं कर्तुं शक्यते।

Tuesday, August 5, 2025

 उत्तरकाश्यां मेघविस्फोटनं; आकस्मिकप्रलयः।

धारालिग्रामः उन्मूलितः, उपशतं जनाः तिरोभूताः, चत्वारः विनष्टप्राणाः।

उत्तरकाशी> उत्तराखण्डे उत्तरकाश्याम् अद्य मध्याह्ने महन्मेघविस्फोटनं जातम्। ततः परं दुरापन्ने भूस्खलने  आकस्मिकप्रलये च धाराली नामकः ग्रामः नामावशिष्टोSभवत्। असंख्यं जनाः प्रलये तिरोभूता‌। अनेकानि गृहाणि वाससमुच्चयाश्च भग्नानि। 

  घीर्गङ्गानद्यां जलोपप्लवः जातः। भीतिदा अवस्था एव तत्र वर्तते। दुरन्तनिवारणसेनया रक्षाप्रवर्तनानि आरब्धानि। चत्वारि मृतशरीराणि अधिगतानीति सूच्यते।

 इस्रयेलस्य भूतपूर्वाणां सुरक्षाधिकारिणां निर्देशः। 

गासायुद्धसमाप्त्यर्थं ट्रम्पस्य व्यवहारः आवश्यकः।

जरुसलेमः> इस्रयेलस्य गुप्तान्वेषणविभागस्य  भूतपूर्वान् अध्यक्षान् अभिव्याप्य ५५० अधिकारिणः यू एस् राष्ट्रपतिं डोनाल्ड ट्रम्पम् अपिहितपत्रेण निवेदितवन्तः यत् गासायुद्धं समापयितुं ट्रम्पस्य व्यवहारः आवश्यकः। 

 "हमासः भविष्ये इस्रयेलस्य सुस्थितेः  भीषा न भविष्यति। हमासस्य सेनाशक्तिः इस्रयेलेन उन्मूलीकृता। प्रशासनव्यवस्था भञ्जिता च। बन्धितानां पुनरानयनं सन्धिमार्गेणैव करणीयम्" - निवेदने एवमवलोकितम्।

 भारतेङ्गलण्टनिकषस्पर्धा

अन्तिमनिकषे भारतस्य अत्युज्वलविजयः। 

विजयीभूतं भारतदलम्। 

परम्परा समस्थितौ (२-२)। 

केन्निङ्टणः> पराजयसम्भावनोपेता पञ्चमः अन्तिमश्च प्रतिद्वन्द्वः भारतक्रीडकाणां निश्चयदार्ढ्यस्य महत्वेन विजयीभूत‌ः। ओवल् क्रीडाङ्कणे अत्युज्वलस्य अत्युत्साहोपेतस्य प्रतिद्वन्द्वस्य अन्ते इङ्गलण्टदलं भारतेन षट् धावनाङ्कैः पराभूतम्। 

  ३७४ धावनाङ्कानां विजयलक्ष्येन क्रीडितवन्तं इङ्गलण्टं ३६७ धावनाङ्कैः भारतं  बहिरनयत्। अन्तिमदिने चतुर्षु ताडकेषु करभूतेषु ३६ धावनाङ्काः इङ्गलण्टाय आवश्यकाः आसन्। किन्तु २८ धावनाङ्कानां सम्पादनेन अवशिष्टाः चत्वारः अपि बहिर्गताः। 

  अन्तिमस्पर्धायां भारतस्य महम्मद सिराजः पञ्च द्वारकाणि सम्पादितवान्। प्रसिद्ध कृष्णेन चत्वारि द्वारकाणि सम्पादितानि। 

  अनेन पञ्च स्पर्धानां परम्परा समस्थितिमभजत। आन्डेर्सण् - टेण्टुकर् ट्रफी द्वाभ्यामपि दलाभ्यां समभागं  क्रियते।

 झार्खण्डस्य भूतपूर्वमुख्यमन्त्री 

षिबु सोरनः दिवंगतः।


नवदिल्ली> झार्खण्डराज्यस्य भूतपूर्वः मुख्यमन्त्री तथा च भूतपूर्वः केन्द्रमन्त्री षिबु सोरनः [८१] दिवंगतः। झार्खण्ड मुक्ति मोर्चा इति राजनैतिकदलस्य स्थापकनेता अस्ति। २००० तमे वर्षे झार्खण्डराज्यस्य रूपीकरणे तस्य दलस्य व्यवहारः निर्णायक आसीत्।  

  अष्टवारं लोकसभासदस्यः आसीत्  षिबु सोरनः।